युधिष्ठिर उवाच ॥
श्रोतुभिच्छामि भगवन्मदनद्वादशीव्रतम् । सुतानेकोनपञ्चाशद्येन लेभेदितिः पुरा ॥१॥
श्रीकृष्ण उवाच ॥ तद्वसिष्ठादभिः प्रोक्तमित्येका तिथिरुत्तमा । बिस्तरेण तदेवेदं मत्सकाशान्निबोधता ॥२॥
चैव्रे मासेसिते पक्षे द्वादश्यां नियतव्रतः । स्थापयेदव्रणं कुम्भं सिततण्ङुलपूरितम् ॥३॥
नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् । सितवस्त्रयुगच्छन्नं त्तितचन्दनचर्चितम् ॥४॥
नानाभक्ष्यसमोपेतं सहिरण्यं च शक्तितः । ताम्रपाव्रं गुडोपेते तस्योपरि निवेदयेत् ॥५॥
तस्योपरि तथा कामं कदलीदलसंस्थितम् । कुर्याच्छर्करयोपेतमिति तस्य समीपतः ॥६॥
गन्धं पुष्णं तथा तद्याद्नीतं वाद्यं च कारयेत् । तदलाभे कथां कुर्यात्कामकेशवयोर्भरः ॥७॥
कामं नाम्ना हरेरर्चां रनापयेद्नन्धवारिणा । शुक्लपुष्णाक्षततिलैरर्चयेन्मधुसूदनम् ॥८॥
कामाय पादौ संपूज्य जङ्घे सौभाग्यदाय च । मन्मथाय तथा मेद्रं माधवाय कटिं नमः ॥९॥
शान्तोदरायेत्युदरमनङ्गायेत्युरो हरेः । मुखं पद्ममुखायेति बाहुं पञ्चशराय वै ॥१०॥
नमः सर्वात्मने मौलिमर्चयेदिति केशवम् । ततः प्रभाते कुम्भं च ब्राह्मणाय निवेदयेत् ॥११॥
बाह्मणान्भोजयेद्धक्त्या स्वयं च लवणाद्दते । भक्त्याथ दक्षिणां दद्यादिमं मंव्रमुदीरयेत् ॥१२॥
प्रीयतामव्र भगवान्कामरूपी जनार्दनः । ह्रदये सर्वभूतानां यथाऽभिषीयते ॥१३॥
अनेन विधिना सर्वं मासा मासि समाचरेत् । फलमामलकं प्राश्य द्वादश्यां भूतले स्वपेत् ॥१४॥
ततस्त्रयोदशे मासि घृतधेबुसमन्विताम् । शय्यां दद्यातद्विजेन्ब्राय सर्वोपरकरसंयुताम् ॥१५॥
काञ्चनं कामदेवं च शुक्ला गां च पयस्विनीम् वासोभिर्द्विजदांपत्य पूज्य शक्त्या विभूषणै ॥१६॥
होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत् । गव्येन सपिंषा तव्र पायसेन च धर्मवित् ॥१७॥
विप्रेभ्यो भोजनं कृत्वा वित्ताशाठन्यं विवर्जयेत् । इक्षुदण्डान्नरो दद्यात्पुष्पमालांच शक्तितः ॥१८॥
यः कुर्य़द्विधिनानेन मदनद्वादशी मिमाम् । सर्वपापविनिर्मुक्तः प्रान्पोति परमं पदम् ॥१९॥
इहलोकेबरान्पुव्रान्सौभाग्यं सुखमश्रुते । कश्यपो व्रतमाहात्म्यादागत्य परयामुदा ॥२०॥
चकाराकर्कशां भूयोरूपलावण्यसंपुताम् । बरेण च्छ्न्दयामास या च वव्रे वरं वरम् । पुव्रं शव्रुवधार्थाय समर्थममितोजसम् ॥२१॥
प्रार्थयाति महाभाग्यं सर्वामरनिषूदनम् । कश्यपः प्राह तां भद्रे एवमस्तु सुशोभने ॥२२॥
संवत्सरशतं त्व्रेकं गर्भो धार्यः सुखेप्सया । संध्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ॥२३॥
न स्थातव्यं न गंतव्यं वृक्षमृलेषु सर्वदा । नोपस्करे भुवि विशेत्मुशलोलूखलादिषु ॥२४॥
जलं न चावगाहेत शून्यागारं विवर्जयेत् । वर्जयेत्कलहं गेहे गाव्रभंगं तथैव च ॥२५॥
मुक्तकेशी न तिष्ठेत नाशुचिः स्यात्कथंचन । न शयीतोन्नतशिरा न चाप्यार्व्रशिराः । क्वचित् ॥२६॥
न वस्तुहीना नोद्विग्ना नार्द्रपादा न भूतले । नामंगल्यां बदेद्वाचं न च हास्य परा भवेत् ॥२७॥
कुर्याच्च गुरुशुश्रूषां नित्यं मंगलतत्परा । सवौंषधीभिः कोष्णेन वारिणा स्त्रानमाचरेत् ॥२८॥
कुस्त्रियो नाभिभाषेत वस्त्रवातं विवर्जयेत् । मृतवत्सादिसंसर्गं परगेहं च सुंदरि ॥२९॥
न शीघ्रं मार्गमाक्रामेल्लंघयेन्न महानदीम् । न च भीभत्सकं किंचिन्न च वीक्षेद्भयानकम् ॥३०॥
गुरुवातलमाहारमजीर्णं न समाचरेत् । संपूर्णगर्भिण्यायामं व्यायमं च विवर्जयेत् ॥३१॥
गर्भी रक्ष्यःसदौषध्या ह्रदि धार्यो न मत्सरः । अनेनविधिना साध्वि शोभनं पुव्रमान्पुयात् ॥३२॥
अन्यथागर्भपतनं स्तंभनं वा प्रवर्तते । तस्मात्त्वमनया वृत्त्या गर्भेस्मिंश्व समाचरेः ॥३३॥
भविष्यति शुभः पुव्रः सर्वावयवसुंदरः । स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया च सः ॥३४॥
पश्यतां सर्वभूतानां तव्रैवांतरधीयत । ततः साकश्यपोक्तेन विधिना समतिष्ठत ॥३५॥
अथाप पुव्रान्पंचाशदेकोनान्पांडुनंदन । एवमन्यापि या नारी मदनद्वादशीमिमाम् ॥३६॥
करोति पुव्रानान्पोति सह भर्व्रा सुखी भवेत् ॥३७॥
एकोनमर्द्धशतमाप दितिः सुतानां येन व्रतेन बलवीर्यसमन्वितानाम् । मर्त्यः समाचरति पुव्रधनाभिलाषी तत्सर्वमव्र सफलं भवतीह पुंसाम् ॥३८॥ [ ३६९९ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मदनद्वादशीव्रतवर्णनं नामषडशीतितमोऽध्यायः ॥८६॥