युधिष्ठिर उवाच ॥
मगवञ्छ्रोतुमिच्छामि दानमांहात्म्यमुत्तमम् । यदक्षयं परे लोके देवर्षिगणपूजितम् ॥१॥
श्रीकृष्ण उवाच ॥ रुद्रोण यत्पुरा प्रोक्तं नारादाय महात्मने । मत्स्येन मनवे तद्वत्तच्छृणुष्वकुरुद्वह ॥२॥
मेरोः प्रदानं वक्ष्यामि दशधा पुनरेव ते । यत्प्रदातोत्तराँलोकान्प्रोप्नोति सरपूजितान् ॥३॥
पुराणेषु च वेदेषु यज्ञेष्वध्ययनेषु च । न तत्फलमधीतेषु कृतेष्विह यदश्नुते ॥४॥
तस्माद्विधानं वक्ष्यामिपर्वतानामनुक्रमात् । प्रथमो धान्यशैलः स्याद्दिवतीयो लवणाचलः ॥५॥
गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः । पंचमस्तिलशैलःस्यात्षष्ठः कार्पासपर्वतः ॥६॥
सप्तमोघृतशैलश्व रसशैलस्तथावुमः । राजतो नवमस्तद्वद्दशमः शर्कराचलः ॥७॥
वक्ष्ये विधानमेतेषां यथावदनुपूवशः । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥८॥
शुल्कपक्षे तृतीयामुपरागे शशिक्षये । विवाहोत्सवयज्ञे वा द्वादश्यामथवा पुनः ॥९॥
शुल्कायां पंचदश्यां वापुण्यर्क्षेवाग्रधानतः । धान्यशैलादयो देया यथाशास्त्रं विजानता ॥१०॥
तीर्थे वायतने वापि गोष्ठे वा संगमेऽपि वा । मंडपं कारयेद्धक्त्या चतुरस्त्रमुदड्मुखम् ॥११॥
प्रागुदक्प्रवणं तत्र प्राङ्मुखं वा विधानतः । गोमयेनानुलिप्तायां भूमावास्तेर्य वा कुशान् ॥१२॥
तन्मध्ये पर्वतं कुर्याद्विष्कंभपर्वतान्वितम् । धान्यद्रोणसहस्त्रेण भवेद्विरिरिहोत्तमः ॥१३॥
मध्यमः पंचशतिकः कनिष्ठः स्यात्रिभिः शतैः ॥१४॥
मेरुर्महाव्रीहिमयस्तु मध्य सुवर्णवृक्षत्रसंयुतः स्यात् । पूर्वेणमुक्ताफलवर्जयुक्तो याम्येनगोमेदेकपुष्परागैः ॥१५॥
पश्वाच्चगारुत्मतनीलत्नैः सौम्येन वैडूर्यसरोजरागैः । श्रीखंडखंडैरभितः प्रवाललतान्वितः शुक्तिशिलातलःस्यात् ॥१६॥
ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात् । तथेक्षुवंशावृतकंदरस्तु घृतोदकप्रस्त्रवणाश्व दिक्षु ॥१७॥
शुल्कांबराण्यम्बुधरावली स्यात्पूर्वेण कृष्णानि च दक्षिणेन । वासंसि पश्वादथ कर्बुराणि रक्तानि चैवोत्तरतो घनाली ॥१८॥
रौप्या महेंद्रप्रमुखास्तथाष्टौ संस्थापयेल्लोकपतीन्क्रमेण । नानाफलाली च समंततः स्यान्मनोरमं माल्यविलेपनं च ॥१९॥
वितानकं चोपरि पंचवर्णमम्लानपुष्पाभरणं सितंवा । इत्थं निवेद्यामरशैलमगर्यं तं कांचनेनातिविराजमानस् ॥२०॥
ततस्तु विष्कंभगिरीन्क्रमेण तुरीयभागेन चतुर्दिशं च । संस्थापयेत्पुष्पविलेपनाढ्यन्मनोरमास्त्रगणावृतांश्व ॥ पूर्वेण मंदरमनेकफलोपयुक्तं यत्रोल्लसत्कनकदंवचिह्रम् ॥२१॥
कामेन कांचनमयेन विराजमानमाकारयेत्कुसुमवस्त्राविलेपनाढ्यम् । क्षीरारुणोदसरसाथ तथा वणेन रौप्येण शुक्तिघटितेन विराजमानस् ॥२२॥
याम्येन गंधमदनोत्र निवेशनीयो गोधूमसंचयमयः कलधौतजो वा । हैमेन यक्षपतिना घृतमानसेन वस्त्रैश्व राजतवनेन च संयुतः स्यात् ॥२३॥
पश्वतिलाचलमेनकसुगंधष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम् । आकारयेद्रजतुपुष्पवनेन तद्वद्वस्त्रान्वितंदधिशतोदसरस्तथाग्रे ॥२४॥
संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपर्श्वप्रपि माषमयं सुवप्रम । पुष्पैश्व हेमवटपादपशेखरंतस्माकारयेत्कनकधेनुविराजमानम् ॥२५॥
साक्षीकभद्रसुरसावसनेनतद्वद्रौप्येण भास्वरसैश्व युतं विधाय । होमश्वतुर्भिरथ वेदपुराणविद्धिर्मान्यैनिन्द्यचरित्राकृतिभिर्द्विजेंद्रैः ॥२६॥
पूर्वेण हस्तिमुखवच्चविधाय कुंडं कार्यस्तिलैरथ घृतेन समित्कुशैश्व । रात्रौ च जागरमनुद्धतगीततूर्यैरावाहनं च कथयामि शिलोच्चयानाम् ॥२७॥
त्वं सर्वदेवगणधामनिधे च विघ्नमस्मद्गृहेष्वमरपर्वत नाशायाशु । क्षेमं विघत्स्व कुरूशांतिमनुत्तमां नं सम्पूजितः परममत्किमतः प्रदेहि ॥२८॥
त्वमेव भगवानीशो ब्रह्माविष्णुर्दिवाकरः । मूर्तमूर्त्तपरं बीजमतः पाहि सनातन ॥२९॥
यस्मात्त्व लोकपालानां विश्वमूर्तेश्व मंदिरम् । केशवार्कवसूनां च तस्माच्छांति प्रयच्छ मे ॥३०॥
यस्मादशून्यममरैर्गधर्वैश्व शिरस्तव । तस्मान्मामुद्धराशेषदुःखसंसारसागरात् ॥३१॥
एवमभ्यर्च्य तं मेरुं मंदरं चापि पूजयेत् । यस्माच्चैरथेनाथ भद्राश्वरिषेण च ॥३२॥
शोभसे मंदर क्षिप्रमत्तस्तुष्टिकरो भव । यस्माच्चूडामणिर्जबूद्धेपे त्वं गंधमादनः ॥३३॥
गंधर्वैरप्सरोभिश्व गीयमानं यशोऽस्तु मे । यस्मात्त्वं केतुमालेन वैभ्राजनं वनेन च ॥३४॥
हिरण्य । यपाषा स्तल्माच्छांति प्रयच्छ मे । उत्तरैः कुरुभिर्यस्मात्सावित्रेण बनेन च ॥३५॥
सुपार्स्व्ह राजसे नित्यमतः श्रीरक्षयास्तु मे । एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः ॥३६॥
स्त्रात्वा तु गुरवे दद्यान्मध्यमं वर्वतोत्तमम । शेषाश्वं पर्वतान्दद्याट्टस्विग्भ्यः क्रमशो नृप ॥३७॥
गावो देयाश्वतुस्त्रिंशदथवा दश भारत । शक्तितः सप्त बाष्टौ वा एवं दद्यादशक्तिमान् ॥३८॥
एकापि गुरवे देया कपिला सुपयस्विनी । पर्वतानामशेषाणामेष एव विधि स्मृतः ॥३९॥
त एव पूजने मंत्रास्त पत्रोपस्कराः स्मृताः । ग्रहाणां लोकपालानां ब्रह्मदीनां च सर्वदा ॥४०॥
स्वमंत्रेणव सर्वेषु होमः शैलेषु शस्यते । उपवासी भवेन्नित्यमशक्तौ नक्तभिष्यते ॥४१॥
विधानं सर्वशैलानां क्रमशः शृणु भारत । दानकालेषु ये मंत्राः पर्वतेषु च यत्फलम् ॥४२॥
अन्नं ब्रह्य यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिता । अन्नाद्धवति भूतानि जगदन्नेन वर्द्धते ॥४३॥
अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः । धान्यपर्वतरुपेण पाहि तस्मान्नगोत्तम ॥४४॥
अनेन विधिना यस्तु दद्याद्धान्यभयं गिरिम् । मन्वंतर शतं साग्रंदेवलोके महीयते ॥४५॥
अप्सरोगणगंधर्वैरकीर्णेन विराजता । विमानेन दिवः पृष्ठे स याति ऋषिसेवितः ॥४६॥
पुण्यक्षयं राजराज्यमाप्नोतीह न संशयः ॥४७॥
धान्यावलं कनकवृक्षविराजमानं विष्कंभर्पवतयुतं सुरसिद्धजुष्टम् । यच्छंति ये सुमतयः प्रणिपत्यः विप्रांरते प्राप्नुवंति परमेष्ठिपदाब्जयुगमम् [ ७७५५ ]
श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे धान्यपर्वतदानविधिवर्णनं नाम पंचवत्त्युत्तरशततमोऽध्यायः ॥१९५॥