श्रीकृष्ण उवाच ॥
पूर्वं कृतयुगस्यादौ भृगोर्भार्या महासती । दिव्या रामाश्रमे रम्या गृहकार्यैकतत्परा ॥१॥
बभूव सा भृगोनित्यं ह्रदयेप्सितकारिणी । तस्यां मुनिर्महातेजा अग्निहाव्रं निधाय च ॥२॥
विष्णोस्त्रासाद्दानवानां कुलव्राणसमाकुलं । मुक्त्वा युद्धस्थितं पार्श्वे समर्प्य मुनिपुङ्गवः ॥३॥
दत्त्वा निक्षेपकं सर्वं दिव्यायां सुमहातपाः । जगाम हिमवत्पार्श्वे हरं तोषयितुं स हि ॥४॥
भांजीवनी कृतो नित्यं कणैर्धूममधोमुखः । पपौ दानवराजस्य विजयाय पुरोहितः ॥५॥
आजगामगते तस्मिन्गरुडेनाश्रितो हरिः । अभ्येत्य जल्षनं चके चकेणोत्कृत्तकन्धग्म् ॥६॥
गलद्रुधिरसंपन्नं लोहितार्णवसन्निभम् । द्दष्ट्वासुरबलं स्पर्वं निहतं विष्णुना तदा ॥७॥
दिव्या संशप्तुकामाभूद्विष्णु सास्त्रा विलेक्षणा । यावन्नोच्चरते वाचं चकण कृत्तकन्धरम् ॥८॥
तावन्निपातयामास शिरस्तस्याः सकुण्डलम् । प्राप्य संजीवनीं विद्यां यावदायात्यतौ मुनिः ॥९॥
तावत्सा दैत्यान्नापश्यत्पश्यति स्म निपातितम् । रोषाच्छशाप च हरिं भ्रुकुटीकुटिलाननः ॥१०॥
अवश्यभावभावित्वाद्विश्वस्य हितकारणात् । यस्मात्त्वया हता दैत्या ब्रह्मणो मत्परिग्रहा ॥११॥
तस्मात्त्वं मानुषे लोक दशवारान्गभिष्यसि । अतोऽर्थं मानुष लोके रक्षार्थं च महीक्षिताम् ॥१२॥
अवतारं चकाराहं भूयो भूयः पृथग्बिधम् । पूर्वोक्तेः कारणैः पार्थ अवतीर्णं महीतले ॥१३॥
मां नरा येऽर्चयिष्यन्ति तषां वासस्त्रिविष्टपे । युधिष्ठिर उवाच ॥ व्रतं दशावताराख्यं कृष्ण ब्रूहि सविस्तरम् ॥१४॥
समन्व्रं सरहस्यं च सर्वपापप्रणाशनम् । श्रीकृष्ण उवाच ॥ प्रोष्ठपदे सिते पक्षे दशम्यां नियतः शुचिः ॥१५॥
स्त्रात्वा जलाशये स्वच्छे पितृदेवादितर्पणम् । कृत्वा कुरुकुलश्रेष्ठ गृहमागत्य मानवः ॥१६॥
गृह्रीयाद्धान्यचूर्णस्य द्विहस्तप्रमृतीव्रयम् । क्रमेण पावयेत्तत्तु सर्वं वै घृतसंसृतम् ॥१७॥
वर्षे वर्षे दिने तस्मिन्यावद्वर्षाणि वै दश । प्रथमे पूरिकान्वर्षे द्वितीये घृतपूरकान् ॥१८॥
तृतीये शुक्लवटकांचतुथें मोदकाञ्छभान् । सोहालकान्पञ्चमेऽब्दे पष्ठेऽब्दे खण्डवेष्टकान् ॥१९॥
सप्तमेऽब्द कोकरसानपूपांश्व तथाष्टमे । नवमे कणवेष्टांस्तु दशमे खण्डकाञ्छुभान ॥२०॥
दशधेनोर्दशहरे दश विप्राय दापयेत् । क्रमेण भक्षयित्वा च यथोक्त भरतर्षभ ॥२१॥
अर्द्धार्द्धं पिष्पयेदेवमर्द्धार्द्धं वा द्विजातय । स्वत एवार्धमश्रीयाद्नत्वा रम्ये जलाशये ॥२२॥
दशावतारानभ्यर्च्य पुष्पधूपविलेपनैः । मन्व्रणानेन मेधावी हरिमभ्युक्ष्य वारिणा ॥२३॥
मत्स्यं कूर्वे वराहं च नरसिंह व्रिविक्र्मम । श्रीराम रामकृष्ण च बुद्धं चैव सकल्किनम् ॥२४॥
गतोऽस्नि शरणं देवं हरिं नारायणं प्रभम् । प्रणतोऽस्मि जगन्नाथं स मे विष्णुः प्रसीदतु ॥२५॥
छिनत्तु वैष्णवीं मायां भक्त्या जातो जनार्दनः । श्वेतद्वीपं नयत्वस्मात्समात्पनि निवेदयेत् ॥२६॥
एवं यः कुरुते पार्थ विधिनानेन सुव्रत । दशावतारनामाख्यं तस्य पुण्यफलं श्रृणु ॥२७॥
श्रूयते यास्त्विमा लोके पुरुषाणां दशा दश । ताश्छिनत्ति न संदेहः शक्रप्रहरणैर्हरिः ॥२८॥
संसारसागरे घोरे मज्जन्त तव्र मां हरिः । श्वेतद्वापं नयत्याशु व्रतेनानेन तोषितः ॥२९॥
किं तस्य न भवेल्लोके यस्य तृष्टो जनार्दनः । सोऽहं जनार्दना गजन्कालरूपी धरासुतः ॥३०॥
मर्त्यलोके स्वयं पार्थ भूभारोत्तारकारणम् । या स्त्री व्रतमिदं पार्थ चरिष्यति मयोदितम् ॥३१॥
सा लक्ष्म्याऽचलया युक्ता भर्तृपुव्रसमन्विता । मर्त्यलोके चिर स्थित्वा विष्णुलोके महीयते । विष्णुलाकाद्रुद्रलोकं ततो याति परं पदम् ॥३२॥
ये पूजयन्ति पुरुषाः परुषात्तमस्य मत्स्यादिकांस्तु दशमीषु दशावतारान् । मर्त्या दशस्वपि दशासु सुखं विह्रत्य ते यान्ति यानमधिरुह्य सुरेशलोकान् ॥३३॥ [ २५५० ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दशावतारचरिखव्रत नाम व्रिषष्टितमोऽध्यायः ॥६३॥