श्रीकृष्ण उवाच ॥
अशोकपूर्णिमां चान्यां शृणुष्व गदतो मम । वामुपोष्य नराः शोकं नान्पुबंति कदाचन ॥१॥
फाल्गुनामलपक्षस्यपूर्णमास्यांनरोत्तम । मृज्जलेन नरः स्त्रात्वा दत्त्वा शिरसि वै मृदम् ॥२॥
मृत्प्राशनं ततः कृत्वा च स्थंडिलं मृदा । पुष्णैः पव्रैस्तथाभ्यर्च्य़ भूधरं नाम नामतः ॥३॥
धरणीं च तथा देवीमशोकेत्यभिकीर्तयेत् । यथा विशोकां धरणीं कृतवांस्तु जनार्दनः ॥४॥
तथा मां सर्वशोकेभ्यो मोचयाशेषधारिणी । यथा समस्तभूतानामाधारत्वे व्यवस्थिता ॥५॥
तथा विशोकं कुरु मां सकलेच्छाविभूतिभिः । ध्यानमाव्रे यथा विष्णोः स्वास्थ्यं जानासि मेदिनी ॥६॥
तथा मनः स्वस्थतां मे कुरु त्वं भूतधारिणि । एवं स्तुत्वा तथाभ्यर्च्य चन्द्रायार्घ्यं निवेद्य च ॥७॥
उपोषितव्यं नक्तं वा भोक्तव्यं तैलवर्जितम् । अनेनैव प्रकारेण चत्वारः फाल्गुनादयः ॥८॥
उपोष्या नृपते मासाः प्रथमं पारणं स्मृतम् । आषाढादिषु मासेषु तद्वत्स्नानं मृदंबुना ॥९॥
तथैव प्राशनं पूजा तद्वदिंदोस्तथार्हणम् । चतुर्ष्वन्येषु चैवोक्तं कार्तिकादिषु पारणम् ॥१०॥
पारणव्रितयं चैव चातुर्मासिकमुच्यते । विशेषपूजादानं च तथा जागरणं निशि ॥११॥
विशेषेणैव कर्तव्यं पारणे पारणे गते । पथमे धरणी नाम वाद्यं मासचतुष्टयम् ॥१२॥
द्वितीये मेदिनी वाच्या तृतीयेच वसुंधरा । पारणे पारणे पार्थ युग्मानेवार्च्ययेदद्विजान् ॥१३॥
धरर्णी देवदेवंच केशवं चापि पूजयेत् । वस्त्राभावे च सूव्रेण पूजयेद्धरर्णी तथा ॥१४॥
घृताभावे तथाक्षीरंशस्तं वा सलिलं हरेः। एवं संवत्सरस्यांते गौःसवत्सा द्विजायते ॥१५॥
प्रदेया धरणीदेवी वस्त्रालंकारसंयुता । पातालसंस्थया देव्या चीर्णमेतन्महाव्रतम् ॥१६॥
धरण्या केशवप्रीत्वै ततः प्राप्तासमुन्नतिम् । देवेन चोक्ता धरणी वराहवपुषा पुरा ॥१७॥
उपवासब्रतपरा समुद्धृत्य रसातलात् । ब्रतेनानेन कल्याणि त्वयाहं परितोषितः ॥१८॥
तस्मात्प्रसादमतुलं करोमि तव सुव्रते । यथैव कुरुषे भक्त्या पूजां मम सुशोभनाम् ॥१९॥
तथैव तव कल्याणि प्रणतो यः करिष्यति । व्रतमेतदुपाश्रित्य पारणं च यथाविधि ॥२०॥
सर्वबाधाविनिर्मुक्तो जन्मजन्मांतराण्यपि । विशोकः सर्वकल्याणभाजनं स्यान्न संशयः ॥२१॥
यथा त्वमेव वसुधे संप्राप्ता निर्वृतेःपदम् । तथा स परलोके वै सुखं प्राप्स्यति मानवः ॥२२॥
एवमेतन्प्रहापुण्यं सर्वपापप्रशांतिदम् । विशोकाख्यं व्रतवरं तत्कुरुष्वमहाव्रतम् ॥२३॥
सम्यग्विशोककरणी नृप पूर्णिमा ते ख्याता मया मनुमहेन्द्रसमानकीर्ते । एवं करोति कुरुपुङ्गव यः प्रयत्नाच्छोको न तस्य भवतीह कुलेपि पुंसः ॥२४॥ [ ४४६८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विशोकपूर्णिमाव्रतं नाम पंचाधिकशततमोऽध्यायः ॥१०५॥