युधिष्ठिर उवाच ॥
अल्यायासेन भगवन्धनेनाल्पेन वा विभो । पांप प्रशममायाति येन तद्वक्तमर्हसि ॥१॥
श्रीकृष्ण उवाच ॥ शुणु पार्थं पंरा पुण्यां द्वादशीं पापनाशिनीम् । यामुपोष्य परं पुण्यमान्पुयाज्छ्रद्धयान्वितः ॥२॥
माघमामासे च संप्राप्ते आषाढर्क्षं भवेद्यदि । मूलं वा कृष्णपक्षस्य द्वादश्यां नियतव्रतः ॥३॥
गृह्लीयात्पुण्यफलदं विघानं तस्य मे शृणु । देवदेवं समभ्यर्च्य सुन्मातः प्रयतः शूचिः ॥४॥
कृष्णनान्मा च संपूज्य एकादश्यां महामते । उपोषितो द्वितीयेऽह्रि पुनः संपूज्य केशवम् ॥५॥
संस्तूय नाम्ना तेनैव कृष्णाख्येन पुनः पुनः । दद्यात्तिलांश्व विप्राय कृष्णो मे प्रीयतमिति ॥६॥
ततश्व प्राशयेच्छस्तांस्तथा कृष्णतिलान्नृप । विष्पुप्रीणनमन्व्रोक्ते समाप्ते वर्षपारणे ॥७॥
कृष्णकुभांस्तिलैः सार्द्धं पक्वान्नेन च संयुतान् । छव्रोपानद्युगैर्वस्त्रैः सहितानन्नगभिंणः ॥८॥
ब्राह्मणानां प्रदेयास्ते यथावन्माससंख्यया । तिलप्ररोहाज्यायन्ते यावत्संख्यास्तिला नृप ॥९॥
तावतूर्षसहस्त्राणि स्वर्गलोके महीयते । आरोगो जायते नित्यं नरो जन्मनि जन्मनि ॥१०॥
अन्धो न बधिरश्वैव नकुष्ठी न च कुत्सितः । भवत्येतामुषित्वा तु तिलाख्यांद्वादशींनरः ॥११॥
अनेन पार्थ विधिना तिलदाता न संशयः । सुच्यते पातकैः सवैंरनायासेन मानवः ॥१२॥
दानं विधिस्तथा श्राद्धं सर्वपातकशान्तये । नार्थः प्रभूतो नायासः शरीरे नृपसत्तम ॥१३॥
सर्वोपभोगनिरतोऽह्रि परे दशम्यां स्त्रानं तिलैस्तिलनिवेदनकृत्तिलाशी । दत्त्वा तिलान्द्विजवराय विराजकेतुं संपूज्य विष्णुपदवीं समुपिति मर्त्यः ॥१४॥ [ ३३१६ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे तिलदादशीव्रतवर्णनं नामैकाशीतितमोध्यायः ॥८१॥