श्रीकृष्ण उवाच ॥
अतः परं प्रवक्ष्यामि दानमत्यद्धुत तव । येन दतेन राजेन्द्र सर्वदानप्रदो भवेत् ॥१॥
सर्वपाप प्रशमनं सर्वसौख्यप्रदायकम् । प्रयुक्तं हलपंक्त्या च सर्वदानफलप्रदम् ॥२॥
पंक्तिर्दसहला प्रोक्ता हलं स्यात्तु चतुर्गवम् । सारदारुमयान्याहुर्हलानि दश पंडिताः ॥३॥
सौवर्णपट्टसंनद्धरत्नवंति शुभानि च । यूनश्व दलिनो भव्यान्व्यनहीनारस्वलकृतान् ॥४॥
वस्त्रकांचनपुष्पैश्व चंदनैर्दिग्धमस्तकान् । अभग्रान्योजयत्तेषु लांगलेषु वृषाञ्छुभान् ॥५॥
योक्त्राणि युजलग्नानि सवृषाणि च कारयेत् । प्रतोदकीलकाबंधसर्वोकरणान्विताम् ॥६॥
एवं विधहलैः कुर्यात्संयुक्तां हलपंक्तिकाम् । कर्कटं खेटकं चापि ग्रामं वा सत्यमालिनम् ॥७॥
निवर्तनशतं वापि तदर्द्ध वा प्रकल्पयेत् । एवं विधां पर्वकाले दद्यात्प्रयतमानसः ॥८॥
कार्तिक्यां चाथ वैशाख्यामुत्तरे वायने तथा । जन्मर्क्षे ग्रहणेवापि विषुवेवा प्रदापयेत् ॥९॥
ब्राह्मणन्वेदसंपन्नान्व्यंगहीनानलंकृतान् । भ्रात्रियांश्व विनीतांश्व हलसंख्यायान्निमंत्रयेत् ॥१०॥
दशहस्तप्रमाणेन मंडपं कारयेद्बुवाः । पूर्व द्विकुंडमेकं वा हस्तमात्रं सुशोभनम् ॥११॥
तत्र व्याहृतिभिर्होमं कुर्युस्ते द्विजसत्तमाः । पर्जन्यादित्यरुद्रेभ्यः पायसेन यजेद्बुधः ॥१२॥
पालाशयः समिधस्तत्र ह्याज्यं कृष्णास्तिलास्तथा । अधिवास्य च तां पंक्ति धान्यमध्यगतां शुभाम् ॥१३॥
ततः सर्वसमीपे तु स्त्रातः शुल्कांबरः शुचिः । हलपंक्तियोजयित्वा यजमानः समाहितः ॥१४॥
तूर्यशंखनिनादैश्व ब्रह्मघोषैः सुपुष्कलैः। इममुच्चरयेन्मंत्र गृहीतकुसुमांजलिः ॥१५॥
यस्माद्देवगणाः सर्वे हले तिष्ठंति सर्वदा । वृषस्कंधे संन्निहितास्तस्माद्धक्तिः शिवेस्तु मे ॥१६॥
यस्माच्च भूमिदानस्य कलां नार्हति षोडशीम् । दानान्यन्यामि मे भक्तिधर्मे चास्तु दृढा सदा ॥१७॥
एवमुक्ते ततः पंक्ति प्रेरयेयुर्द्विजोत्तमाः । बीजानि सर्वरत्नानि सवर्ण रजतं तथा ॥१८॥
स्वयं पश्वाद्धले लग्नो विप्रहस्तेषु निर्वपते । यायान्निवर्तनं यावत्ततस्तु विरमेद्बुधः ॥१९॥
प्रदक्षिणं ततः कृत्वा विप्राणां प्रति पाद्य च । सदक्षिणां विधानेन प्रणिपत्य विसर्जयेत् ॥२०॥
अनेन विधिना यस्तु दानमेतत्प्रयच्छति । तत्प्रयच्छति । एकविंशत्कुलोपेतः स्वर्गलोके महीयते ॥२१॥
सप्तजन्मसु दारिघ्रं दौर्भाग्यं व्याधयस्तथा । न पश्यति च भूमेस्तु तथैवाधिपतिर्भवेत् ॥२२॥
दृष्ट्वा तं दीयमानं तु दानमेतद्युधिष्ठिर । आजन्मनः कृतात्पापान्मुच्यते नात्र संशयः ॥२३॥
दानमेतत्प्रदत्तं हि दिलीपेन ययातिना । शिबिना निमिना चैव भरतेन च धीमता ॥२४॥
तेऽद्यापि दिवि मोदंते दानस्यास्य प्रभावतः । तस्मात्सर्वप्रयत्नेन दानमेतन्नृपोत्तम ॥२५॥
दातव्यं भक्तियुक्तेन स्त्रिया वा पुरुषेण वा । यदि पंक्तिर्न विद्येत प्च वाचतुरोऽथवा ॥२६॥
एकमप्युक्तविधिनाहलं देयं विचक्षणैः ॥२७॥
ये संति लांगलमुखोत्थरजोविकारा यावंति तद्नतधुरंधररोमकाणि । तावंति शंकरपुरे त्रियुगानि तिष्ठेत्पंक्तिप्रदानमिह यत्कुरुते मनुष्यः ॥२८॥
युक्तां वृषैरतिबलैर्हलपंक्तिमेतां पुण्याह्रि भक्तिसहितां द्विजपुंगवानाम् । यच्छंति ये सुकृतिनो वसुधासमेतां ते भूभुजो भुवमुपेत्य भवंति भव्याः ॥२९॥ [ ७२३३ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हलपंक्तिदानविधिवर्णनं नाम षट्षष्टयुत्तरंशततमोऽध्यायः ॥१६६॥