श्रीकृष्ण उवाच ॥
पुण्या महानवम्यस्ति तिथीनां प्रवरा तिथिः । सानुष्टेया सुरैः सर्वैः प्रजापालैर्विशेषतः ॥१॥
भवानुत्थापयेत्पार्थ संवत्सरसुखाय वै । भूतप्रेतपिशाचानांप्रीत्यर्थ चोत्सवाय वा ॥२॥
युधिष्ठिर उवाच ॥
कस्मात्कालात्प्रवृत्तेयंनवमीमहशब्दयुक्त् । किमादाबुपपन्नोऽस्ति भगवन्नवमाविपिः ॥३॥
यशोदागर्भसंभूतेरुत पात्राप्रवर्तते । उताहो पूर्वमेदासीत्कृतत्रेतायुगादिषु ॥४॥
यदस्यां प्राणिनः केचिन्मन्यंते जातवंति च । हतानां प्राणिनां तेषां का गतिः पारलौकिकी ॥५॥
स्वयघ्नतां घातयतामनुमोदयतां तथा । एतन्मे संशयं पूर्व वक्तुनहंसि केशव ॥६॥
श्रीकृष्ण उवाच ॥
पार्थ या परमा शक्तिरनंता लोकविश्रुता । आद्या सर्व गताशुद्धानावगम्युमनोहरा ॥७॥
आद्याष्टमी कलाकालीद्वितीयासर्वमंतला । माया कात्यायनी दुर्गा चामुंडा शंकरप्रिया ॥८॥
ध्यायंति यां योग रतां सा देवी परमेश्वरी । रुपभेदैर्नामभेदैर्भवानी पूज्यते शिवा ॥९॥
अष्टम्यां तु नवम्यां तु देवदानवराक्षसैः । गंधर्वैरुगैर्यज्ञेः पूज्यते किन्नरैकरैः ॥१०॥
युगेष्वादौः सृष्टेः पूर्व प्रदर्शिता । पूजितेयं पुरा देवी तेथ्यः पूर्वतरैः शुभैः ॥११॥
आश्वयुक्चृक्लपक्षे च याष्टामी मूलसंयुता । सा महानवमी नामत्रलोक्येऽपि सुदुर्ल्लभा ॥१२॥
कन्यागते सवितरि शुल्कपक्षेऽष्टमी तु या । मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता ॥१३॥
अष्टम्यां च नवम्यां च जग मातरमम्बिकाम् । पूजयित्वाऽऽश्विने मासिविशोको जयति द्विषः ॥१४॥
संतर्जयंते हुंकारैः खड्दिभिरहर्निशम् । नवम्यां पूजिता देवि ददाति नवमं कलम् ॥१५॥
सा पुण्या सा पवित्रा च साधर्नसुग्बदाथिनी । तस्मात्सदा पूजनीया चामुंडा मुरंमालिनी ॥१६॥
तस्यां यद्युयुज्यंते प्राणिनो वहिपादयः । सर्वे ते स्वर्णतिं यांति घ्नतां पापं न विद्यते ॥१७॥
न तथा घलिदामेन पुष्पधूपविलेपनैः । यथा संतुष्यते लोके महिषैर्विध्यवासिनी ॥१८॥
उद्दिश्य दुर्गा हन्यंते प्राप्ता येषां याता युधिष्ठिर । तेषां स्वर्गे ध्रुवं वासो वरास्तेऽप्सरसां प्रियाः ॥२०॥
मन्वन्तरेषु सर्वेषु कल्पेषु कुरुमंदन । तेषु सर्वेशु चैवासीन्नघमीयं पुरार्चिता ॥२१॥
प्रसिद्धानादिनिधना वर्षे वर्षेयुधिष्ठिर । यूपो भूयोऽवतारैथ भवानी पूज्यते करैः ॥२२॥
अवतीर्णा भुवि सदा नित्यं दैत्यनिबर्हिणी । स्वर्गपातालगर्त्येषु करोति स्थितिपालनम् ॥२३॥
पुनश्वैषा महादेवी यशोदागर्भसंभवा । कंसासुरस्योत्तमाङ्गे पादं दत्त्वा गतायुषः ॥२४॥
ततः प्रभृतिलोकेषु यशोदानंददायिनीम् । विंव्याचले स्थापयित्वा पुनः पूजा प्रवर्तिता ॥२५॥
पूर्वप्रवृद्धोऽपि पुनर्भ गिन्या महिमा कृतः । भुवि सर्वोपकाराय सर्वोपद्रवशांतये ॥२६॥
एवं विंध्योपवासिन्यानवरात्रोपवासिनः । एकरात्रेण नक्तेन स्वक्त्याऽयाचितेन वा ॥२७॥
यतनैर्याजनैर्देवाः स्थाने स्थाने पुरे पुरे । गृहे गृहे भक्तिपरैर्ग्रामे ग्रामे वने वने ॥२८॥
स्त्रातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः । वैश्यैः शूद्रैर्भाक्तिचित्रैर्म्लैच्छैश्व मानवैः ॥२९॥
स्त्रीभिश्व कुरुशार्दूले तद्विधानमिदं श्रृणु । जयाभिलाषी नृपतिः प्रतिपत्प्रभृति क्रमात् ॥३०॥
लोहाभिहारिकं कर्म कारयेद्यावदष्टमी । प्रागुदक्प्रवणे देशे पताकाभिरलंकृतम् ॥३१॥
मण्डपं कारयेद्दिव्यं नवसप्तकरं बरम् । आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् ॥३२॥
मेखलात्रयसंयुक्तं योन्यश्वत्थदलाभया । राजचिह्रानि सर्वाणि शस्त्राण्यस्त्राणि यानि च ॥३३॥
आनीय मंडपे तानि सर्वाण्येवाधिवासयेत् । ततस्तु ब्राह्मणः स्त्रातः शुल्काम्बरधरः शुचिः ॥३४॥
ॐकारपूर्वकैमंत्रैस्तल्लिंगैर्जुहुयाद्घृतम् । लोहनामा भवत्पूर्व दानवस्तु महाबलः ॥३५॥
स देवैः समरे कुद्धैर्बहुधा । शकलीकृतः । तदङ्गसंभवं लोहं यत्सर्व दृश्यते क्षितौ ॥३६॥
शस्त्रास्त्रमंत्रैर्होतव्यं पायसं घृतसंयुतम् । हुतशेषं तुरंगाणां गजानामुपहारयेत् ॥३७॥
लोहाभिहारकं कर्मतेनैतदृषिभिः स्मृतम् । बद्धप्रतिशख्यं च गजाश्वसमलंकृतम् ॥३८॥
भ्रामयेन्नगरे नित्यं नंदिघोषपुरस्मरम् । स्त्रात्वा संपूज्य पितृदेवताः ॥३९॥
पूजयेद्राजचिह्रानि फलमाल्यानुलेपनैः । हुतशंषंप्रदातव्यमौपनायनिके द्विजे ॥४०॥
तस्याभिहरणाद्राज्ञो विजयं समुदाहृतम् । पूजामंत्रान्प्रवक्ष्यामि पुराणोक्तानहं तव ॥४१॥
यैः पूजिताः प्रयच्छन्ति कीर्तिमायुर्युशो बलम् । यथांबुदश्छादयति शिवायेमां वसुंधराम् ॥४२॥
तथाच्छादय राजानं विजयारोग्यवृद्धये । इति छत्रमंत्रः ॥ गंधर्वकुलजातस्त्वं मा भूयाः कुलदूषकः ॥४३॥
ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च । प्रभावाच्च हुताशस्य वर्द्धस्व त्वं तुरंगम ॥४४॥
तेजसा चैव सूर्यस्य मुनीनां तपसा यथा । रुद्रस्य वह्यचर्येण पवनस्य बलेन च ॥४५॥
स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर । यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ॥४६॥
भूम्यर्थेनृतवादी च क्षत्रियश्व पराङ्गमुखः । सूर्याचन्द्रमसौ वायुः पावकश्व न यत्रवै ॥४७॥
व्रजेच्चतां गतिं क्षिप्रं तच्च पापं भवेत्किल । विकृतिं यदि गच्छेस्त्वं युद्धे जनितुरंगस ॥४८॥
रिपून्विजित्य समरे सह भर्त्रा सुखी भव । अश्वमंत्रः । शक्रकेतो नहावीर्य सुपर्णस्त्वय्युपस्थितः ॥४९॥
पतत्रिराङैवनतेयस्त्थानारायणध्वजः । काश्यपेयोऽमृतोद्धर्तानागारिर्विष्णुवाहनः ॥५०॥
अप्रमेयो दुराधर्षो देवशत्रुनिषूदनः । गुरुत्मान्मारुतगतिस्वयि सन्निहितः स्थितः ॥५१॥
शस्त्रवर्मा युधान्योन्रक्षास्मांश्वरिपून्दह । ध्वजमंत्रः ॥ कुमुदैरावणौपद्मः पुष्पदंतोऽथवामनः ॥५२॥
सुप्रतीकोऽञ्जनो नील एतेऽष्टौ देवयोनयः । एतेषां पुत्रपौत्राश्व बलान्याजौ समाश्रिताः ॥५३॥
मद्रौ मन्दो मृगश्वैव गजः संकीर्ण एव च । वने वने प्रसूतास्ते करियोनिं महागजाः ॥५४॥
पांतु त्वा वसवो रुद्रा आदित्याः समरुद्धणाः । भर्तारं रक्ष नागेन्द्र समयं प्रतिपालयन् ॥५५॥
अवापुर्हि जयं युद्धे गमने स्वस्थिनो भ्रज । श्रीस्ते सोमाद्वलं विष्णोस्तेजः सूर्याज्जवोऽनिलात् ॥५६॥
स्थैर्य मेरोर्जयं रुद्रावशो देवात्पुरंदराम् । युद्धे रक्षांतु गानास्त्वां दिशश्व सह दैवतैः ॥५७॥
अश्विनौ सह गंधर्वैः पांतु त्वां सर्वतः सदा । हस्तिमन्त्रः । हृतभ्ग्धसवो रुद्रा वायुः सोमो महर्षयः ॥५८॥
नागफिन्नरगन्धर्वयक्षभूतगण्याग्रहाः । पमथाश्व सहादिन्यैर्भूतेशो मातृभिः सह ॥५९॥
शुक्रसेनापतिः रकन्दो वरुणश्वा । श्रितास्त्यपि । प्रदैइंतु रिपून्सर्वान्राजा विजयमृच्छजु ॥६०॥
यामि प्रयुक्तान्धरिभिर्दूषणानि समंततः । तानि वैः परशत्रूणां हतानि तजतेजसा ॥६१॥
कालनेसिवधे युद्धे युद्धे त्रिपुरघातने । हिरण्यकशिपोर्युद्धे देधाष्ठरे तथा ॥६२॥
शोभितासि तथैवाद्य शोभमानास्तु भूपतेः । नीलां श्वेतासिगां दृष्टवा नश्यंत्वव नृपारघः ॥६३॥
व्याधिभिर्भिधिर्घौरेः शस्त्रैश्व युधि निर्जिताः । सयः स्वस्था भवंति स्मविद्वातेवापमार्जिताः ॥६४॥
पूतमा रेवती नाम्रा कालरात्रीति या स्मृता । दहत्वाशु रिषोन्सर्वान्पताके त्वामुषागताः ॥६५॥
पताकामन्त्रः ॥
असिश्वरिपुहा खड्गस्तीक्ष्णकर्मा दुरासदः । श्रीगर्भौ विजयश्वैव धर्मधारस्ताघैव च ॥६६॥
दत्स्थष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्रं कृत्तिकां तुभ्यं गुरुर्देवो महेश्वरः ॥६७॥
हिरण्यं च शरीरं ते धाता देवो जनार्दनः । पिता पितामहो देवस्त्वं मां पालय सर्वदा ॥६८॥
खङ्गमन्त्रः ॥
शर्मप्रदस्त्वं समरे वर्म सर्वायसोह्यसि । रक्षं मा रक्षणीयाऽहं तव वर्म नमोऽस्तु ते ॥६९॥
वर्ममंत्रः ।
दुंदुभे त्वं सपत्नानां घोषाद्धृदयकंपनः । भव भूमिपसैन्यानां तथा विजयवर्द्धनः ॥७०॥
यथा जीमूतघोषेण हव्यंति वरवारणाः । तथास्तु तव शब्देन हर्षोऽस्माकं युदाबहः ॥७१॥
यथा जीमूतशब्देन स्त्रीणां त्रासोऽमिजायते । तथा च तव शब्देन त्रस्यंत्वस्मन्द्दिषोरजे ॥७२॥
दुंदुभिमंत्रः ॥
सर्वायुधमहामात्र सर्वदेवारिसूदन । चाप मां सर्वदा रक्ष साकं सायकसत्तमैः ॥७३॥
चापमन्त्र॥
पुण्यस्त्णं शङ्खपुष्पाणां मङ्गुलामां च मङ्गलम् । विष्णुना विधृतो नित्यं मनःशांतिप्रदो भव ॥७४॥
शङ्गमन्त्रः ॥
शशांककरतंकाशहिसडिंढीरपांडुर । प्रोत्सारयाशुं दुरितं चासरामवल्लभ ॥७५॥
चामरमंत्रः॥
सर्वायुधानां प्रथमा विर्मिताऽसि पिनाकिना । शूलायुधाद्विनिष्कृष्य कृत्वा मुष्ठिपरिजदम् ॥७६॥
चंडिकायाः प्रदत्तासि सर्वदुष्टनिवर्विणि । तथा विस्तारिना चासि देवानां प्रतिपादिता ॥७७॥
संवसत्वामभूतासि सर्वाशुभनिवारिणि । च्युरिके रक्ष मां नित्यं शान्तिं यच्छ नमोऽस्तु ते ॥७८॥
छुरिकामंत्रः ॥
प्रोत्सारणाय दुष्टानां साधुसंग्रहणाच च । ब्रह्मणा निर्मितश्वासि व्यवहारप्रसिद्धये ॥७९॥
यशो देहि नयदो भव भूपतेः । ताडयाशु रियू सर्वान्हेमदंडनमोस्तु ते ॥८०॥
कनकदण्डमन्त्रः ॥
विजयो जयदो जेता रिपुवावी प्रियंकरः । दुःखहा धर्मदः शांतः सर्वारिष्टविनाशनः ॥८१॥
पलेऽष्टौ सन्निधौ यस्मात्तव सिंहा महाबलाः । तेन सिंहासनेति त्वं विप्रैर्वेदेषु प्रीयसे ॥८२॥
त्वयि स्थितः शिवः साक्षात्वयि शक्रः सुरेश्वरः । त्वयि स्थितो हरिर्देनस्त्वदर्थे तघ्यते तपः ॥८३॥
नमस्ते सर्वतोभद्र भद्रदो भव भूपते । त्रैलोक्यजयसर्वस्वसिंहासन नमोऽस्तु ते ॥८४॥
सिंहासनमंत्रः ॥
लोहाभिहारिकं कर्म कृत्वेदं मंत्रपूर्वकम् । फलनैवेद्यकुसुमैर्धूपदीपविलेपनैः ॥८५॥
अष्टम्यां धावनं कृत्वा पूर्वाह्रस्त्रानमाचरेत् ॥८६॥
गद्यम् ॥
दुर्गा कांचनमूर्ति रौप्यां वा पित्तलीं वार्क्षीं चैत्रीं तांम्रीं वा विभवतः कृत्वा दारुविचिविचित्रतोरणविन्यस्तां शोभने स्थाने पुरतो विन्यस्तदृष्टां विचित्रगृहमध्यगां स्त्रातां कुंकुअमचंदनगंधैश्वतुःसमैश्वीरपट्टैश्वर्चितगात्रां देवीं कुसुमैरभ्यर्च्य तां बहुभिः पुष्यमाणकीर्तिस्तैर्द्विजजनैर्जनितपरितोषैर्दिवान्वितो नरेंद्रः स्वयं प्रयच्छेत्पुरोहितैः सार्घ विल्वपत्रेणार्चनेन मंत्रेणानेन भगवत्यै ।
गद्यं संपूर्णम् ॥ जयंती मंगला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते ॥८७॥
अमृतोद्भवः श्रीवृक्षो महादेवीप्रियः सदा । बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरि ॥८८॥
दुर्गा संपूजनीयाचतद्दिनाद्रणपुष्पयाः । सा चाभीष्टा सुरेशान्यास्तथा रुढव्रणायुतः ॥८९॥
ततः खड्गं नमस्कृत्य शत्रूणां मानमर्द्दम् । इच्छेत विजयं राज्यं सुभिक्षं चात्मनो नृप ॥९०॥
पुनः पुनः प्रणम्याथ ध्यायेच्च हृदये शिवाम् । महिषघ्नीं बहुभुजां कुमारीं सिंहवाहिनीम् ॥९१॥
दानवांस्तर्जयंती च खड्गोद्भातकरां शुभम् । घंटाक्षस्त्रग्धरांदुर्गा रणारंभे व्यवस्थिताम् ॥९२॥
ततो जयजयाकारैः स्तवं कुर्यादिमं ततः । सर्वमङ्गमाङ्गुल्ये शिवेसर्वार्थसाधिके ॥९३॥
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते । कुंकुमेन समालब्धे चन्दनेन विलेपिते ॥९४॥
बिल्बपत्रकृतामाले दुर्गेऽहं शरं गतः । कृत्वैवमर्च्चा कौरव्य अष्टम्यां जागरं निशि ॥९५॥
नटनर्तनगीतैश्व कारयेत्तु महोत्सवम् । एवं हृष्टेनिंशां नीत्वा प्रभाते चारुणोदये ॥९६॥
पातयेन्महिषान्नेषानग्रतो नतकन्धरान् । शतं चाषि शतार्ध वा तदर्द्ध वा यथेच्छया ॥९७॥
सुरासर्वभृतैः कुंभैस्तर्पयेत्परमेश्वरीम् कापालिकेब्यस्तद्देयं दासीदासजनैस्तथा ॥९८॥
विभज्य सर्व कौन्तेय सुहृत्संबंधिबंधुषु । ततोऽपराह्रसमये नवम्यां स्यंदने स्थिताम् ॥९९॥
भवानीं भ्रामयेद्राष्ट्रे स्वयं राजा स्वसैन्यवान् । सहस्त्रैः पुरुषैर्वापि रथयुक्तैः सुषिक्षितैः ॥१००॥
शनैः शनैरधिकया दीप्त्या प्रज्वलदीपकैः । आकृष्ठखड्गैर्वीरैश्व धातुरक्तैर्गजैस्तथा ॥१०१॥
नदद्भिः शङ्खपटहैनृत्यद्भिर्वारयौवतैः । अलंकृता भिर्नारीभिर्बालकैः सुविभूषितैः ॥१०२॥
भूतेभ्यस्तु बलिं दद्यान्मंत्रणानेन सामिषम् । सरक्तं सजलं सान्नं गन्धपुष्पाक्षतैर्युतम् ॥१०३॥
त्रींस्त्रिवारांस्त्रिशूलेन दिग्विदिक्षु क्षिपेद्वलिम् । बलिं गृह्यन्वितमं देवा आदित्या वसवस्तथा ॥१०४॥
मरुतोऽथाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः । असुरा यातुधान्याश्व मातरश्व पिशाचकाः ॥१०५॥
शाकिन्यो यक्ष वेताला योगिन्यः पूतनाः शिवाः । जृंभकाः सिद्धन्धर्वा बाल्या विद्याधराधराः ॥१०६॥
दिक्पाला लोकपालाश्व ये च विघ्नविनायकाः । जगतां शांति कर्तारो ब्रह्माद्याश्व महर्षयः सविघ्नं मम पापं ते शाम्यंतु परिपन्थिनः । सौम्या भवंतु तृप्ताश्व भूताः प्रेताः सुखावहाः ॥१०८॥
इत्येवं भ्रामयेद्राष्ट्रे दुर्गा देवी रथे स्थिताम् । नरयानेन वा पार्थततोऽविघ्नं समापयेत् ॥१०९॥
अथोत्पन्नेषु विघ्नेषु भूतशांतिं समाचरेत् । येन विघ्ना न जायन्ते संपूर्णतां व्रजेत् ॥११०॥
एवंये कुर्वते यात्रां राजानोऽन्येपि मानवाः । महानवम्यां नंदायां पुत्रका हृष्टमानसाः ॥१११॥
ते सर्वे पापनिर्मुक्ता यांति भागवतीं पुराम् । न तेषां शावको नाग्निर्न चौरा च विनायकाः ॥११२॥
विघ्नं कुर्वन्ति राजेंद्र येषां तुष्टा महेश्वरी । इत्येष ते समाख्यातो दुर्गादेव्या महोत्सवः ॥११४॥
पठतां शृण्वतां चैव सर्वाशुभविनाशनः ॥११५॥
शूलाग्रभिन्नमहिषासुरपृष्ठविष्टामुत्खातखङ्गरुचिरांगदबाहुदण्डाम् । अभ्यर्च्यपंचवदनानुगतांनवम्यांदुर्गासुदुर्गगहनानितरंतिमर्त्याः ॥११६॥ [ ६०८२ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे महानवमीव्रतवर्णनं नामाष्टत्रिंशदुत्तरशततमोऽध्यायः ॥१३८॥