श्रीकृष्ण उवाच ॥
पुनरेव प्रवक्ष्यामि दानमत्त्यद्धतं तव । विश्वचक्रमिति ख्यातं सर्वपापविनाशनम् ॥१॥
तपनीयस्य शुद्धस्य विशुद्धामाथ कारयेत् कारयेत् । श्रेष्ठं पलसहस्त्रेण तदर्द्धेन तु मध्यमम् ॥२॥
तस्याप्यर्द्ध कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् । तथात्रिंश पलादूर्ध्वमशक्तोऽपि निवेदयेत् ॥३॥
शोडशारं च तच्चक्रं भ्रमन्नेम्यष्टकावृतम् । नाभिपद्मे स्थितं विष्णु योगारुढंचतुर्भुजम् ॥४॥
शंखचक्रेऽस्य पार्श्वस्थ देव्यष्टकसमावृतम् । द्वितीयावरणे तद्वत्पूर्वतो जलशायिनम ॥५॥
आत्रर्भृगुर्वसिष्ठश्व ब्रह्मा कश्यप एव च । मत्स्यः कूर्मो वराह व नारसिंहोऽथवामनः ॥६॥
रामो रामश्व कृष्णश्व बुद्धः कल्की च ते दश । तृतीयवरणे गौरी मनुभिर्वसुभिर्युता ॥७॥
चतुर्थे द्वादशादित्या वेदाश्वत्वार एव च । पंचमे पंचभूतानि रुद्राश्वैकादशैव तु ॥८॥
लोकपालाष्टकं षष्ठे दिङ्मातंगास्तथैवच । सप्तमेऽस्त्राणि सर्वाणि मंगलानि च कारयेत् ॥९॥
अंतरांतरतो देवान्विन्यसेदष्टमे पुनः । दशहस्तः ततः कृत्वा पताकातोरणान्वितम ॥१०॥
मंडपं कडमेकं च कारयेद्योनिसंयुतम् । चतुर्हस्ता भवेद्वेदी मध्ये तयास्ततो न्यसेत् ॥११॥
कृष्णाजिनोपरिगतं विश्वचक्रं विधानत । तथाष्टादश धान्यानि रसाश्व लवणादयः ॥१२॥
पूर्णकुंभाष्टकं तद्वद्वस्त्रमाल्यविभूषितम् । फलानि दापयेत्पार्श्वे पंचवणीवितानकम् ॥१३॥
आधिवास्य ततश्वक्रं पश्वाद्धोमं समाचरेत् । चातुश्वरणिकास्तत्र ब्राह्मणश्वतुरोऽथवा ॥१४॥
होमं कुर्यार्जितात्मानो वस्त्राभरणभूषिताः । होमद्रव्यसमोपेताः स्त्रुवस्त्रवैस्ताम्रभाजनैः ॥१५॥
चक्रप्रतिष्ठितानां तु सुराणां होम इष्यते । तल्लिंगैर्जुहुयान्मंत्रैः सर्वोपद्रवशान्तये ॥१६॥
ततो मंगलशब्देन स्त्रातः शुल्कांबरे गृही । होमधिवासनांते तु गृहीतकुसुमांजलिः ॥१७॥
इममुच्चारयन्मंत्रं कृत्वा तं त्रिःप्रदक्षिणम् । नमो विश्वंभर योते विश्वचक्रत्मने नमः ॥१८॥
परमानंदरुपी त्वं पाहि नः पापकर्दमा । तेजोमयमिदं यस्मात्सद पश्यंति सुरयः ॥१९॥
हृदि तत्र गुणातीतं विश्वचक्रं नमाम्यहम् । वासुदेवे स्थितं चक्रं तस्य मध्ये तु माध ॥२०॥
अन्योत्याधाररुपेण प्रणमानि स्थिताविह । विश्वचक्र यस्मात्सर्वपापहरं हरेः ॥२१॥
आयुधं चाधिवासश्व माच्छन्तिं ददातु मे । इत्यमंत्र्य च यो दद्याद्विश्वचक्रं विमत्सरः ॥२२॥
विमुक्तः सर्वपापेभ्यो विष्णुलोके महीयते । वैकुंठलोकमासाद्य चतुर्बाहुनरावृतन ॥२३॥
सेव्यतेऽप्सरसां संघैस्तिष्ठेत्कल्पशतत्रयम् । प्रणमेद्धाथ यः कृत्वा विश्वचक्रं दिने दिने ॥२४॥
तस्यायुर्वर्द्धते दीर्घलक्ष्मीस्तु विपुला भवेत् । तस्माच्चक्रं सदा कार्य धार्य च स्वगृहे नरैः ॥२५॥
कांचनं वाथ रौप्यं वा तदभावेऽथ ताम्रजम् ॥२६॥
इति सकलजगत्सुराधवासं वितरति यस्तपनीवषोडशारम । हरिभुवनगतः ससिद्धांसंघैश्विरमधिगम्य नमस्यतेऽप्सरोभिः ॥२७॥
अथ सुदशनतां प्रयाति शत्रोर्मदनसुदर्शननां च कामिनीभ्यः । ससुदर्शनकेशवानुरुपः कनकसुदर्शनदानदग्धपापः ॥२८॥
कृतगुरुदुरितोऽपि षोडशारप्रवितरणात्प्रवराकृतिर्मुररिः अभिभवति भवोद्भवानि भित्त्वा भवमभितो भवने भवानिभर्तुः ॥२९॥ [ ७५३२ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विश्वचक्रदानविधिवर्णनं नाम नवत्त्युत्तरशततमोऽध्यायः ॥१९०॥