युधिष्ठिर उवाच ॥
भगवन्क्षत्रियैः शूरैः स्ववीर्योपात्तसंचयैः । कानि दानानि देयानि पविशणि शुभाणिच ॥१॥
अन्यैर्वा पुरुषैः कृष्ण अधर्मभयभीरुभिः । त्रहपीडात्भिसंतप्रैर्दुःस्वप्नाद्युपताषितैः ॥२॥
इह लोके परे चैव विहितं सर्वकामदम् । विशेषावहितं दानं कथयस्व महामते ॥३॥
श्रीकृष्ण उवाच ॥
श्रृणु भूपाल भद्रं ते दानधर्ममनुत्तमम् । विशेषेण महीपानां हिताय च नसंशयः ॥४॥
दानानि बहुरुपाणि नानाशास्त्रोदितानि च । गोदानादीनि राजेंद्र प्रधानानि न संशयः ॥५॥
किंतु प्रधानमेकंते दानं वक्ष्यामि भारत । वैरोचनाय यत्पूर्व शक्रः प्रोवाच भारत ॥६॥
शुक्र उवाच ॥
श्रूणु दैत्यपते दानं सर्वपापप्रणाशनम् । अ धयो व्याधयश्वैव ग्रहपीडाः सुदारुणः ॥७॥
येन दत्तेन नश्यंति पुण्यमाप्नोति चोत्तमम् । कार्तिक्यामयने चैव ग्रहणे शशिसूर्ययोः ॥८॥
दानेमेतत्प्रदातव्यं विषुंव सूर्यसंक्रसे । पुण्यं दिनमथासाद्य जितक्रोधो जितेंद्रियः ॥९॥
संस्थाप्य दारुजं दिव्यं हेमपट्टैरलंकृतम् । रथं सुचक्राक्षधरं युगयोक्त्रसमन्वितम् ॥१०॥
सुवर्णध्वजसंयुक्त सितासितपताकिनम् । पुष्पप्रकरणसंकार्णै प्रागुदक्प्रवेण शुभे ॥११॥
नद्यास्तीरेऽस्थवा गोष्टे विचित्रे वा गृहांगणे । रथस्य पूर्वभागे तु कृत्वा वेदिमनुत्तमास् ॥१२॥
पुराणवेदविद्यावान्विनयाचारसंयुतः । तस्यां संस्थापयेद्देवान्ब्रह्यादीन्कथयामि ते ॥१३॥
मध्ये ब्रह्मा प्रतिष्ठाप्यः पूजयेत्प्रणवेन तम् । विष्णुरुत्तरतः स्थाप्यः पौरुषेण तर्मर्चयेत् ॥१४॥
सूक्तेन रुद्रं रौद्रेण दक्षिणस्यांसमर्चयेत् । ग्रहान्सूर्यमुखांशश्वैव विधिवत्पूजयेत्तथा । पुष्पैर्गधैः फलैर्भक्ष्येर्दीमालाभिरेव च ॥१५॥
पूजयेर्द्बधकुमुमैः श्वेतवस्त्रेः सचंदनैः । शंखभेरीमृदंगानां शब्दैः सर्वत्रगाभिभिः ॥१६॥
ब्रह्मवोषविमिश्वैव कारयीते महोत्सवम । कुंडं कृत्वा विधानेन हस्तमात्रप्रमाणतः ॥१७॥
आग्नेय्यां दिशि राजेंद्र ब्राह्मणांस्तत्र पूजयेत् । चतुश्वारणिकान्विप्रान्पूजितान्ब्रह्मभूषणैः ॥१८॥
चतुरोष्टौ महाराज गुरुरोकोऽथवा भवेत् । होमोपकरणं सर्व मेलयित्वा तिलान्घृतम् ॥१९॥
अग्निकार्य ततः कुर्याद्यथावद्विधिपूर्वकम् । आघारावाज्यभागौ तु हुत्वा प्राग्वच्च तौ ततः ॥२०॥
विष्णवे शितिकंठाय मत्रैः पूर्वोदितैः शुभैः । ग्रहयज्ञोदितैश्वैव ग्रहाणां होम इष्यते ॥२१॥
एवं यज्ञविधिं कृत्वा यजमानो द्विजैः सह । योजयीत रथे दांतौ गजौ लक्षणसंयुतौ ॥२२॥
विचित्रतनुसंवीतौ शुभकक्षौ सुघंटिकौ । हिमपट्टैः सुतिलकैः शोभितौ शंखचामरैः ॥२३॥
दिव्यमुक्तापरिच्छन्नौ दिव्यांकुशसमन्वितौ । महामात्रान्वितौ चैव सर्वाभरणभूषितौ ॥२४॥
एवं विधं ततः कृत्वा रथं तं सगजं नरः । आरोपयेत्ततस्तास्मिन्ब्राह्मणं शंसितव्रतम् ॥२५॥
भूषितं कंठकटकैः कर्णवेष्टांगुलीयकैः । आगुप्तचोलकच्छत्रवस्त्रयुधसमन्वितम् ॥२६॥
बद्धतूर्णि धनुष्पाणिं बहुचर्मविभूषितम् । खङ्गधेनुकयानद्धं हारालंकृतविग्रहम् ॥२७॥
यजमानस्ततः प्राज्ञः शुल्कांबरधरः शुचिः । रथं प्रदक्षिणीकृत्य गृहीत्तकुसुमांजलिः ॥२८॥
इअममुत्त्वारयेन्मन्त्रं सर्वपापप्रणाशनम् । कुमुदैरावणौपद्मःपुष्पदंतोऽथवामनः ॥१९॥
सुप्रतीर्कोजनः सार्वभौमोऽश्तौ देवयोनयः । तेषां वंशप्रसूतौ तु बलरुपसमन्वितौ ॥३०॥
तद्युक्तरथदानेन मम स्यातां वरप्रदौ । रथोऽयं यज्ञपुरुषो ब्राह्मणोत्र शिवःस्वयम् ॥३१॥
ममेभरथदानेन प्रीयेतां शिवकेशवौ । इत्युच्चार्य महाभाग पूजनयित्वा पुनः पुनः ॥३२॥
आरोपयेत्ततस्मिन्ब्राह्मणं शंसितव्रतम् । स्वदारनिरतं शांतं ॥ वेदवे दांगपारगम् ॥३३॥
पंचाग्रयभिमतंचैवाव्यंगंव्याधिवर्जितम् । पुनः प्रदक्षिणी कृत्य रथस्थं द्विजसत्तमम् ॥३४॥
आद्वारमनुगच्छेच्च प्रणिपत्य गृहं विशेत् । ततोयज्ञावसानं तु दीनांधादीञ्जडान्कुशान् ॥३५॥
पूजयेद्विविधैर्दानैर्वस्त्रगोदानभोजनैः । अनेनैव विधानेन संकल्प्य रथमुत्तमम् ॥३६॥
कुंडमंडपसभारभूषणाच्छादनादिकम् । तदेव होमद्रव्यं च होममंत्रास्त एवं हि ॥३७॥
विशेषोऽश्वरथे राजन्मथ्यसाना निबोध्यताम् । हयौ लक्षणसंयुक्तौ खलीनालंकृताननौ ॥३८॥
विचित्रवस्तुसंवीतौ कठाभरणभूपितौ । सुप्रग्रहयुतौ योज्यौ दाता तस्मित्रथोत्तमे ॥३९॥
तं प्रदक्षिणमावृत्य मंत्रमेतमुदीरयेत् ॥४०॥
नमोऽस्तुतेवेदतुरंगमाय त्रयीमयाय त्रिगुणात्मकाय । सुदुर्गमार्गे सुखपानपात्रे नमोऽस्तु ते वाजिधराय नित्यम् ॥४१॥
रथोऽथं सविताः साक्षाद्वेदाश्वामी तुरंगमाः । अरुणो ब्राह्मणश्वायं प्रयच्छंतु सुखं मम् ॥४२॥
इत्युच्चार्य ततस्तस्मिन्त्रथे ब्राह्मणसत्तमम् । आरोपयेद्गृहाद्द्वारं यावदेतममुब्रजेत् ॥४३॥
अनेन विधिना यस्तु दद्याद्वाजिरथं बुधः । हस्तीरथं वा पुरुषतस्य पुण्यफलं शृणु ॥४४॥
सर्वपॉपविनिर्मुक्तः सवीमयविवर्जितः । मन्वंतरशतं यावत्सर्वभोगसमन्वितः ॥४५॥
अप्सरोगेणसं कीर्णे विनानेसूर्यवर्चसे । दिव्यभोगान्वितः श्रीमान्कामचारे वसेद्दिवि ॥४६॥
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । पुत्रपौत्रान्वितश्वैव चिरंजीवी प्रियातिथिः ॥४७॥
गजेनैकेन निर्दिष्टः कश्विद्नजरथोनृप । एकेनाश्वेनाश्वरथः कथ्यते वेदवादीभिः ॥४८॥
दानमंत्रास्त एवोक्ताः फलं तच्च निगद्यते ॥४९॥
यच्छंति ये रथवरंण सुधुराक्षचक्रं विक्रांतवारणयुतं तुरगान्वितं वा । सोपस्करंकनक पट्टविचित्रितांग ते स्यंदनेन सुरराजपुरं प्रयांति ॥५०॥ [ ७८३८ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णपुधिष्ठिरसंवादे गजरथाश्वथदानविधिवर्णनंनामाशीत्युत्तरशततमोध्यायः ॥१८०॥