नारद उवाच ॥
दीर्घायुरारोग्यकुलादिवृद्धियुक्तः पुमान्येनगुणान्वितःस्यात । मुहुर्महुर्जन्मनि येन सम्यग्व्रतं मम ब्रूहि तदिंदुमौलेः ॥१॥
श्रीभगवानुवाच ॥ त्वया पृष्टमिदं सम्यगमुत्राक्षयकारकम् । रहस्यं ते प्रवक्ष्यामि यत्पुराणविदो विदुः ॥२॥
रोहिणीचंद्रशयनं नामव्रतमिहोत्तमम् । तस्मिन्नारायणस्यार्च्चामर्च्चयेर्दिदुनामाभिः ॥३॥
यदा सोमादियुक्ता भवेत्पंचदशी क्कचित् । अथवाब्रह्मनक्षत्रं पौर्णमा स्यांप्रजायते ॥४॥
तदस्त्रानंनरःकुर्यात्पंचगव्यनसर्षपैः । आप्यायस्वेति च जपेद्विद्वानष्टशत पुनः ॥५॥
शूद्रोऽपि परयाभक्त्या पाखंडालापवर्जितः । सोमाय वरदायाथ विष्णेव च नमो नमः ॥६॥
कृतजप्यः स्वभवन्मागत्य मधुसूदनम् । पूजयेत्फलपुष्पैश्व सोमनामानि कीर्तयेत् ॥७॥
सोमाय शांताय नमोऽस्तु पादावनंतनाम्रे ह्यनुसूदनम् । ऊरुद्वयं चापि वृकोदराय संपूजयेन्मेढ्रेमनंगबाहवे ॥८॥
नमो नमः कामसुखप्रदाय कटिः शशांकस्य समर्चनीया । तथोदरं चाप्यमृतोदराय नाभिः सुपूज्या विधिलोचनाय ॥९॥
नमोस्तु चंद्राय मुखं प्रपूज्य हनुर्द्विजानामधिपाय पूज्या । आस्यं नमश्वंद्रमसेभिपूज्यमोष्ठौ कुमुत्खंडवनप्रियाय ॥१०॥
नासा च नाथाय वनौषधीनां ह्यानंदैनायाथ पुनर्भ्रुवोश्व । नेत्रद्वयं नीलकुमुत्प्रियाय चेंदीविरश्यामकराय चोरः ॥११॥
नमः समस्ताध्वरवंदिताय कर्णद्वयं दैत्यनिषूदनाय । ललाटमिंदोधिप्रियाय केशाः सुषुम्राधिपतेः प्रपूज्य भूमौ पुनरुत्थितेन स्त्रात्वा च विप्राय हविष्ययुक्तः ॥१४॥
देयः प्रभाते सहिरण्यवारिकुंभो मनः पापविनाशनाय । संप्राश्य गोमूत्रममांससमन्नमक्षारमष्टावथ विंशतिं च ॥१५॥
ग्रासान्पयः सर्पियुतानुपोष्य भुक्त्वेतिहास श्रृणुयान्मुहूर्तम् । कदंबनीलोत्पलकेतकानि जातीसरोजं शतपत्रिकाच ॥१६॥
अम्लानकुम्भानथ सिंदुवारपुष्पं पुनर्ना रद मल्लिकायाः । मुक्तं च विष्णोः करवीरपुष्पं श्रीचंपकं चंद्रमसश्वदेयम ॥१७॥
श्रावणादिषु मासेषु क्रमादेतानि सर्वदा । यस्मिन्मासे व्रतादिः स्यात्पुष्पैरभ्यर्चयेद्धरिम् ॥१८॥
एकसंवत्सरं यावदुपोष्य विधिवन्नरः । व्रतांते शयनं दद्याद्दपर्णोपस्करान्वितम् ॥१९॥
रोहिणीचंद्रमिथुनं कारयित्वा तु कांचनम् । चंद्रः षडंगुलः कार्यो रोहिणी चतुमंगुला ॥२०॥
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम् । क्षीरकुंभोपरि पुनः कांस्यपात्राक्षतान्वितम् ॥२१॥
दद्यान्मंत्रेण पूर्वाह्रे शालीक्षुफलसंयुतम् । श्वेतामथसुवर्णास्यां रौप्यखुरसमन्विताम् ॥२२॥
सवस्त्रभाजनां धेनुं तहा शंखं च शोभनम् । भूषणैर्द्विजदांपत्यमलंकृत्य गुणान्वितम् ॥२३॥
चंद्रोऽयं द्विजरुपेण सभार्य इति कल्पयेत् । यथा न रोहिणीं कृष्ण शयनं त्यज्य गच्छाति ॥२४॥
सोमरुपस्य ते तद्वन्ममाभेदोऽस्तु मृर्तिभिः । यथा त्वमेव सवेषां परमानंदमुक्तिदः ॥२५॥
भुक्तिर्मुक्तिस्तथा भक्ति स्त्वयि यज्ञेऽस्तु मे द्ट्टढा । इति संसारभीतस्य मुक्तिकाम य चानघ ॥२६॥
रुपारोग्यायुषामेताद्विधायकमनुत्तमम् । इदमेव पितृणां च सर्वदा वल्लभं मते ॥२७॥
त्रैलावपाधिषतिर्भूत्वा शतकल्पशतत्रयम् । द्रंलोकमवाप्नोति पुनरावृत्तिदुलर्भम ॥२८॥
नारी वारोहिणचंद्रशयनं वा समाचरेत् । साऽपि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम् ॥२९॥
इति पठति शृणोति वा य इत्थ मधुमथनार्चनमिंदकीतनेन । मतिमपि च ददाति सोऽपि शौरेर्भवनगतः परिपूज्यतेऽमरौघेः ॥३०॥ [ ८११५ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे नारदमहेश्वर संवादोकरण हणचन्द्रशयनव्रतवर्णन नाम षडधिकद्विशततमोऽध्यायः ॥२०६॥