श्रीकृष्ण उवाच ॥
बहुनाव्र किमुक्तेन किं बह्रक्षरमालया । वैशाखस्य सितामेकां नृतीयां शृणु पाण्डव ॥१॥
स्त्रानं दानं जपो होमः स्वाध्यायः पिनृतर्पनम् । यदस्यां क्रियते किञ्चत्सर्वं स्यात्तदिहाक्षयम् ॥२॥
आदौ कृतयुगस्येयं युगादिस्तेन कथ्यते । सर्वपापप्रशमनी सर्वसौख्यप्रदायिनी ॥३॥
शाकले नगरे कश्विद्धर्मनामाभवद्वणिक । प्रियंवदः सत्सरतो देवब्राह्मणपूजकः ॥४॥
तेन थुतं वाच्यमानं नृतीयारोहिणी पुरा। यदा स्वाद्बुधसंयुक्ता तदा सा च मताफला ॥५॥
तस्यां यद्दीयते किञ्चित्तत्सर्वं चाक्षयं भवेत् । इति श्रुत्वा स गङ्गयां संतर्प्य पितृदेवताः ॥६॥
गृहमागत्य करकान्सान्नानुदकसंयुतान् । अम्बुपूर्णान्गृहे कुम्भान्क्रमान्निःशेषतस्तदा ॥७॥
यवगोघूमचणकसक्तुदध्यौदनं तथा । इक्षुक्षीरविकारांश्व सहिरण्यांश्व शक्तितः ॥८॥
शुचिः शुद्वेन मनसा ब्राह्मणेम्यो ददौ वणिक । भार्यया वायमाणोपि कुटुम्बासक्तचित्तया ॥९॥
तावत्स च स्थितः सत्त्व मत्वा सर्वं विनश्वरम् । धर्मार्थकामसक्तस्तु कालेन बहुना ततः ॥१०॥
जगाम पञ्चत्वमसी वासुदेवं स्मरन्मुहुः । ततः स क्षव्रियो जातः कुशावत्यां नरेश्वरः ॥११॥
बभूव चाक्षयात्तस्य समृद्धिर्धर्मनिर्जिता । इयाज स महापज्ञैः समाप्तवरदक्षिणैः ॥१२॥
ददौ गोभूहिरण्यादीन्दानान्यस्यामहर्निशम् । बुभुजे कामतो भोगान्दीनार्तांस्तर्पयञ्ननान् ॥१३॥
तथाप्यक्षयमेवस्य क्षय याति न तद्धनम् । श्रद्धापूर्वं तृतीयायां यद्दत्तं विभवं विना ॥१४॥
एतद्रव्रतं मया ख्यातं श्रूयतामव्र यो विधिः । उदकुम्भान्सकरकान्स्त्रानसर्वरतैर्युतान् ॥१५॥
ग्रैष्मिक सर्वमेवाव्र सस्यदान प्रशस्यते । छव्रोपानत्प्रदानं च गोभूकाञ्चनवाससाम् ॥१६॥
यद्यदिष्टतमं चान्यत्तद्देयमविशङ्कया। एतत्ते सर्वमाख्यातं किमन्यच्छ्रोतुभिच्छसि ॥१७॥
अनाख्येयं न मे किञ्चिदस्ति स्वस्त्यस्तु तेऽनघ ॥१८॥
अस्यां तिथौ क्षयमुपैति हुतं न दत्तं तेनाक्षया च मुनिभिः कथिया । यद्दिश्य यत्सुरपितृन्क्रियते मनुष्यैस्तच्चाक्षयं भवति भारत सर्वमेव ॥१९॥ [ १५०३ ]
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽक्षय्यतृतीयाव्रतवर्णनं नाम व्रिंशत्तमोऽध्यायः ॥३०॥