युधिष्ठिर उवाच ॥
रुद्रस्नानविधानं मे कथयस्व जनार्दन । सर्वदुष्टोपशमनं सर्वशांतिप्रदं नृणाम् ॥१॥
श्रीकृष्ण उवाच ॥ देवसेनापतिं स्कन्दं रुद्रपुत्रं दुरासदम् । अगस्तिर्मुनिशार्दूलः - सुखासीनमुवाचह ॥२॥
सर्वज्ञोऽसि कुमार त्वं प्रसादाच्छङ्करस्य वै । स्नानं रुद्रविधानेन ब्रूहि कस्य कथं भवेत् ॥३॥
स्कन्द उवाच ॥ मृतप्रजा तु या नारी दुर्भगा सुतवर्जिता । या सुते दुहितां वंध्या स्त्रानमासां विधीयते ॥४॥
अष्टम्यां वा चतुर्दश्यामुपवासपरायणा । ऋतौ शुद्धे चतुर्थे ह्रि प्राप्ते सूर्यदिनेऽथवा ॥५॥
नद्योस्तु सङ्गमे कुर्यान्महानद्योर्विशेषतः । शिवालयेऽथवा गोष्ठे विविक्ते वा गृहाङ्गणे ॥६॥
आहिताग्निं द्विजं शातं धर्मज्ञं सत्यशीलिनम् । स्त्रानार्थ प्रार्थयेद्देवं निपुणं रुद्रकर्मणि ॥७॥
ततसु मंडपं कुर्याच्चतुरस्त्रमुदग्गतम् । बद्धचन्दनमालं तु गोमयेनोपलोपितम ॥८॥
तन्मध्ये श्वेतरजसा संपूर्ण पद्ममालिखेत् । मध्ये तस्य महादेवं स्थापयेत्कर्णिकोपरि ॥९॥
दद्याद्दलेषु शक्त्यादींश्वतुर्थविधिपूर्वकम् । इन्द्रादिलोकपालांश्व दलेष्वन्येषु विन्यसेत् ॥१०॥
देवीं विनायकं चैव स्थापयेत्तस्यपार्श्वतः । दत्वार्घ गन्धपुरुष च धूपदीपं गुडादैनम् ॥११॥
भक्ष्यान्नानाविधान्दद्यात्फलानि विविधानि च । चतुष्कोणेषु भृंगारमश्वत्थदलभूषितम ॥१२॥
एकैकं विन्यसेद्ब्रह्मन्सर्वौषधिसमन्वितम् । चतुर्दिशं मंडपस्य दद्याद्भूतबलिं ततः ॥१३॥
आग्नेय्यां दिशि कर्तव्यं मंडपस्य समीपतः अग्निकार्य शुभेकुंडे पुष्पपत्रैरलंकृते ॥१४॥
लवणं सर्षपैर्युक्तं घृतेन मधुना सह ॥ मानस्तोकेन जुहुयात्कृतहोमे नवग्रहे ॥१५॥
द्वितीयमग्निकार्यस्य कर्तारं ब्राह्मणं कुरु । रुद्रजापकमाचार्य सितचन्दनचर्चितम् ॥१६॥
सितवस्त्रपरीधानं सितमालाधरं शुभम् । शोभितं कंकणैः कंठयैः कर्णवेष्टांगुलीयकैः ॥१७॥
मंडलस्य समीपस्थ्यो जपेदुद्रान्विमत्सरः । यावदेकादशगताः पुनरेव जपेत्तु तान् ॥१८॥
देवमंडलवत्कार्य द्वितीयं मंडलं शुभम् । तस्य मध्ये तु सा नारी श्वेतपुष्पैरलंकृता ॥१९॥
श्वेतवस्त्रैश्व संछन्ना श्वेतगंधानुलेपिता । सुखासनोपविष्टा यामाचार्यो रुद्रचितकः ॥२०॥
अभिर्षिचेत्ततश्वैन मर्कपत्रपुटांबुना । चतुःषष्टिविधेनैव रुद्रेणैकादशेन तु ॥२१॥
शतानि सप्तपर्णानां चतुर्भिराधिकानि तु । अच्छिद्राणां मनूनां च स्नानार्थ विनियोजयेत् ॥२२॥
अश्वस्थानाद्गजस्थानद्वल्मीकात्संगमाद्ध्रदात् । वेश्यांगणाद्राजगृहा द्गोष्टादानीय वै मृदः ॥२३॥
सर्वोषधिं रोचनां च नदीतीर्थोदकानि च । एतान्सक्षिप्य कलशे शिवसंज्ञे सुपूजिते ॥२४॥
आपादतलकेशं च कुक्षी चैव विशेषतः । सर्वागं लेपयेन्नार्याः सुशीला काचिदङ्गना ॥२५॥
रुद्राभिजप्तेन ततः स्नापयेत्कलशेन ताम् । तोयपूर्णाष्टकलशैरश्वत्थदलपूरितैः ॥२६॥
सर्वतो दिक्स्थितैः पश्वात्स्नापयेत्सफलाक्षतैः । एवं स्नाता स्नापकय दद्याद्गां कांचनं तथा ॥२७॥
हेतुरप्यत्र निर्दिष्टा दक्षिणा गौः पयस्विनी । ब्राह्मणानामथान्येषां स्वशक्त्या पांडुनंदन ॥२८॥
गोवत्सकाञ्चनादीनि दत्त्वा सर्व क्षमापयेत् । कृतेनानेन राजेन्द्र रुद्रस्नानेन भागिनी ॥२९॥
सुभगा सुखसंयुक्ता बहुपुत्रा च जायते । सर्वेष्वपि हि मासेषु ब्राह्मणाभिमते शुभम् ॥३०॥
तस्मादवश्यं कर्तव्यं पुत्रश्रीसुखमिच्छता ॥३१॥
या स्नानमाचरति रुद्रमिति प्रसिद्धं श्रद्धान्विताद्विजवरानुमताऽऽनताङ्गी । दोषन्निहत्य स्कलान्स्वशरीरभागद्भर्तुः प्रिया भवति भारत जीववत्सा ॥३२॥ [ ५३७१ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रुद्रस्नानविधिवर्णनं नाम चतुर्विशत्युत्तरशततमोऽध्यायः ॥१२४॥