युधिष्ठिर उवाच ॥
प्रपादानस्य महात्म्यं वद देवदिनं दन । कथं देया कदादेय दानं तस्याश्व किं फलम् ॥१॥
श्रीकृष्ण उवाच ॥
अतीते फाल्गुने मासि प्राप्ते चैत्रे महित्सवे । पुण्येऽह्री विप्रकाथिते ग्रहचंद्रबलान्विते ॥२॥
मंडपं कारयेद्विद्वान्घनच्छायं मनोरमम् । पुरस्य मध्ये पथि वा कांतारे तोयवर्जिते ॥३॥
देवतायतेन वापि चैत्यवृक्षतलेऽपि वा । सुशीतलं च रम्यं च विचित्रासनसंय़ुतम् ॥४॥
कारयेन्मंडपं भव्यं शीतवातसहं दृढ्म् । तन्मध्ये स्थापयेद्भक्त्या मणीन्कुंभांश्व शोभनान् ॥५॥
अकालमूलान्करकान्बस्त्रैरावेष्टितानथ । ब्राह्मणः शीलसंपन्नो वृत्तिं दत्त्वा यथोचिताम् ॥६॥
प्रपापालः प्रकर्तव्यो बहुपुत्रपरिच्छदः । पानीयपानमश्रांतं यः कारयति माः वान् ॥७॥
एवं विधां प्रपाकृत्वा शुभेऽह्रि विधिपूर्वकम् । यथाशक्त्या नरश्रेष्ठ प्रारंभे भोजयेदिद्वजान् ॥८॥
ततश्वोत्सर्जयोद्विप्रान्मंत्रेणानेन मानवः । प्रपेयं सर्वसामान्यां भूतेभ्यः प्रतिपादिता ॥९॥
अस्याः प्रदानात्पितरतृप्यंतु च पितामहाः । अनिवार्य ततो देयं जलं मासचतुष्टयम् ॥१०॥
त्रिपंक्ष वा महाराज जीवानां जीवनं परम् । गंधाढ्यंसुरसंशीतंशोभनेभाजनोस्थितम् ॥११॥
प्रदद्यादप्रतिहतं मुखं चानवलोकयन् । प्रत्यहं कास्येत्तस्यां भोजनं शक्तितो द्विजान् ॥१२॥
अनेन विधिना यस्तु ग्रीष्मोष्मशोषनाशनम् । वानीयमुत्तमं दद्यात्तस्य पुण्यफलं श्रृणु ॥१३॥
सर्वतीर्थ्षु यत्पुण्यं सर्वदानेषु यत्फलम् । तत्पुण्यफलमाप्नोति सर्वदेवैः सुपूजितः ॥१४॥
पूर्णचंद्रप्रतीकाशं विमानं सोधिरुह्य च । याति देवेन्द्रनगरे पूज्य मानोऽप्सरोगणैः ॥१५॥
विंशत्कोट्यो हि वर्षाणां यक्षंगन्धसेवितः । पुण्यक्षयादिहागत्य चतुर्वेदोद्विजो भवेत् ॥१६॥
ततः परं पदं याति पुनरावृत्तिदुर्लभम् । मपादानासमर्थेन विशेषाद्धर्ममीप्सता ॥१७॥
प्रत्यहं धर्मघटकः कर्पटावेष्टिताननः । ब्राह्मणस्य गृहे नेयः शीतामलजलः शुचिः ॥१८॥
तस्यैवोद्यापनं कार्य मासि मासि नरोत्तम । मंडकावेष्टिकाभिश्व पक्कान्नैः सार्वकामिकैः ॥१९॥
उद्दिश्य शंकरं विष्णुं ब्रह्माणं कुरुनंदन । सलिलं प्रोक्षयित्वा तु मंत्रेणानेन मानवः ॥२०॥
एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदनात्सकला मम संतु मनोरथाः ॥२१॥
इति धर्मघटदानमेवः ॥ अनेन विधिना यस्तु धर्मकुंभं प्रयच्छति । प्रसादानफलं सोऽपि प्राप्नोतीह न संशयः ॥२२॥
धर्मकुंभप्रदानेऽपि यद्यशक्तः पुमान्भवेत् । तेनाश्वत्थतरोर्मूलं सेच्यं नित्यं जितात्मना ॥२३॥
अश्वत्थरुपी भगवान्प्रीयतां मे जनार्दनः । इत्युच्चार्य नमस्कृत्य प्रत्यहं पापनाशनम् ॥२४॥
यः करोति तरोर्मूले सेकं मासचतुष्टयम् । सोपि तत्फलमाप्नोति श्रुतिरेषा सनातनी ॥२५॥
सुस्वादुशीतसलिलाक्लमनाशनी च प्रांतेपुरस्ययथिपांथसमाजभूमौ । यस्य प्रपा भवति सर्वजनोपभोग्या धर्मोत्तरः सखलु जीवति जीवलोके ॥२६॥ [ ७४७२ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरस्रंवादे प्रपादानविधिवर्णनं नाम द्विसप्तत्युत्तरशततमोध्यायः ॥१७२॥