त्रेतायुगसन्तानः - अध्यायः १
लक्ष्मीनारायणसंहिता
श्रीराधिका उवाच-
ओं नमः श्रीपरब्रह्मपरेशपरमात्मने ।
अनादिश्रीकृष्णनारायणायाऽक्षरशासिने ॥१॥
त्रेतासन्तानसत्पित्रे राधाकान्ताय योगिने ।
लक्ष्मीनारायणाय श्रीमाणिक्यावाहिने नमः ॥२॥
स्वप्रभास्वामिने मञ्जुलालकायात्मवासिने ।
ईशापारवतीशाय नमः सगुणमूर्तये ॥३॥
हंसज्योतिस्वरूपाय शक्त्यैश्वर्यादिसंभृते ।
कुंकुमवापिकाक्षेत्रप्रकटाय नमो नमः ॥४॥
सर्वधामाऽधिपेशाय नमोऽन्तर्यामिणे मुहुः ।
स्वर्गमोक्षादिदात्रे ते नमः श्रीहरये नमः ॥५॥
निरवधिसमैश्वर्यगुणवैभवशालिने ।
असंख्यमुक्तसेव्यायाऽक्षराधिपतये नमः ॥६॥
एकोऽपि बहुधा दृष्टः कृष्णनारायणादिमान् ।
ईशेशान्यादिरूपश्च तस्मै श्रीस्वामिने नमः ॥७॥
परविद्याधिदेवाय ब्रह्मप्रियाऽधिशायिने ।
गीतोपनिषत्पतये जयन्तीपतये नमः ॥८॥
एकादशीप्रियायाऽऽराधनाकान्ताय शार्ङ्गिणे ।
महालक्ष्मीश्वरायापि भक्तीशाय नमो नमः ॥९॥
मुक्तेशाय रमेशाय गंगेशाय नमो नमः ।
पतिव्रताधिपतये रुक्मिणीशाय ते नमः ॥१०॥
कामदुघाधिनाथस्त्वं पृथ्वीशस्त्वं रतीश्वरः ।
विभूतीशोऽसि संज्ञेशः शं करोतु प्रसेविनाम् ॥११॥
कमलाकान्त देवीश मोहिनीधव सिद्धिप ।
उर्वशीश्वर बुद्धीश पार्वतीश विधेहि शम् ॥१२॥
दीक्षाधीश च लीलेश नारायणीपते प्रभो ।
विरजाकान्त भगवन् वृन्दानाथ विधेहि शम् ॥१३॥
सरस्वतीप्रिय स्वर्णरेखाप्रिय सितापते ।
देविकेश्वर तुलसीविहार प्रविधेहि शम् ॥१४॥
विभावर्यधिनाथस्त्वं मूर्तीश्वरो जयेश्वरः ।
गोमतीशो मौक्तिकेशो भवान् भवतु रुक्मदः ॥१५॥
प्रेमसखीपते गोदावरीश कपिलेश्वर ।
धात्रीपते स्वर्णगौरीपते सर्वप्रदो भव ॥१६॥
ललितेश्वर रंभेश कुमुद्वतीपते प्रभो ।
शीतलाधिपते उमाकान्त विधेहि शं सदा ॥१७॥
हेमन्तेश्वर नन्देश शान्तिस्वामिन् कलापते ।
नन्दिनीनाथ दुर्गेश विजयेश विधेहि शम् ॥१८॥
सन्ध्याधिनाथ कस्तूरीप्रिय धन्याऽधिनायक ।
सावित्रीवर दोलाधिरोह पुष्पासुगन्धभाक् ॥१९॥
सविताधिपते चित्रलेखेश्वर नमोऽस्तु ते ।
पूर्णिमाधिपते ब्रह्मन् शारदाकान्त माधव ॥२०॥
मञ्जरीश्वर योगिनीचक्रकान्त विधेहि शम् ।
प्रेयसीश श्रेयसीश विकुण्ठेशाऽरुणापते ॥२१॥
जोष्ट्रीश्वर शबरीश पम्पेश गालवीपते ।
याज्ञसेनीपते वसुमतीश विजयोऽस्तु ते ॥२२॥
सुदुघानाथ च पद्मावतीपालक केशव ।
भार्गवीपाणिसंग्राह पद्मिनीवर चाऽच्युत ॥२३॥
श्रीमतीश जरत्कार्वीपते लीलावतीश्वर ।
कलावतीप्राणनाथ कदलीश जयोऽस्तु ते ॥२४॥
कान्तिमतीपते कालिन्दीश रेवापते प्रभो ।
वर्धिनीश सुमित्रेश पुण्यनैधेयिकापते ॥२५॥
बन्दुलेश सुशीलेश मानसेश जनार्दन ।
शर्मवतीश्वर कृष्ण माधवीश नमोऽस्तु ते ॥२६॥
कर्णोत्पलेश दीर्घिकापतेऽक्षमालिकापते ।
उदुम्बरीपते ऋतम्भराधीश जयोऽस्तु ते ॥२७॥
बदरीश च कुब्जेश हैमीश मंगलापते ।
महावेदीपते कृष्णापते त्वां चिन्तये हृदि ॥२८॥
श्रीकृष्ण उवाच-
यश्चाऽस्ति दिव्येऽक्षरधाम्नि दिव्यो
ह्यनन्तमुक्ताऽभिसुसेव्यमानः ।
परेऽक्षराद्धाम्नि विराजमानः
सोऽयं पृथिव्यां समवाततार ॥२९॥
श्रीकृष्णनारायणनामधेयो
ह्यनादिकृष्णः परमेश्वरश्च ।
गोलोकवैकुण्ठनिवासिभिश्च
प्रगेऽर्चने वै हृदि चिन्त्यमानः ॥३०॥
सोऽयं कृपाभिः पृथिवीतले
कुंकुमाख्यवाप्यां हि सुराष्ट्रदेशे ।
श्रीकम्भरालक्ष्मिसतीगृहेऽत्र
गोपालकृष्णात्मजतामवाप ॥३१॥
यस्मादहं पूर्णतमोऽपि कृष्णो
राधापतिश्चाप्यभवं पुराणः ।
लक्ष्मीपतिश्चाप्यभवद् यतो वै
वैकुण्ठधामाधिपतिर्महात्मा ॥३२॥
कैलासवासोऽपि यतोऽभवच्चा-
मृताधिवासोऽपि यतोऽभवच्च ।
अव्याकृतेशोऽपि यतोऽभवच्चा
हिरण्यगर्भोऽपि यतोऽभवच्च ॥३३॥
श्रीबद्रिकेशोऽपि यतोऽभिजातः
क्षीरोदवासी च यतोऽस्ति जातः ।
श्वेताख्यधामेश नरायणोऽपि
यतोऽस्ति जातः कमलापतिर्वै ॥३४॥
असंख्यधामाधिपरेश्वराश्च
यतो भवन्त्येव हरेस्तु राधे ।
तस्याऽऽत्मदेवस्य गुणानुकीर्तिं
वदामि राधे परमेश्वरस्य ॥३६॥
त्वया स्तुतः श्रीपुरुषोत्तमो यः
परात्परः कारणकारणं च ।
सर्वावताराधिपतिः पुराणः
स्मरामि तं श्रीपुरुषोत्तमेशम् ॥३६॥
द्विषट्कयुक्तं कथितं च यत् शतं
त्वया परेशस्य तु मुख्ययोषिताम् ।
दिव्यांगनानां चरणान्यहं सदा
नमामि तासां पतये नमो नमः ॥३७॥
अहं पुरोद्भाव्य विलोकितस्त्वया
साकं परेशेन निवासनाय वै ।
गोलोकसंज्ञं मम धाम चार्पितं
राधे विहारार्थमनेन ते नमः ॥३८॥
ततः परं येन नरायणः कृतो
लक्ष्म्या सुयुक्तश्च विलोकितश्च सः ।
वैकुण्ठसंज्ञं प्रददौ च धाम यत्।
तस्मै प्रदात्रे परमात्मने नमः ॥३९॥
अथापि रूपं च विधाय शांभवं
सत्या समं यत्प्रविलोकितं पुनः ।
कैलाससंज्ञं प्रददौ च धाम यत्
निवासदात्रे गुणधारिणे नमः ॥४०॥
श्रीराधिकोवाच-
कृष्ण कान्त दयासिन्धो परमेश्वर शाश्वत ।
परमेश्वरसंज्ञो यः परमात्मा परात्परः ॥४१॥
गुणैश्वर्यविभूत्यादिकान्तापार्षदभूषणैः ।
सेवितो यत्र मह्यां वै ह्यवाततार धर्मधृक् ॥४२॥
तन्मूर्तिं तद्गुणाँस्तस्य रूपमैश्वर्यमित्यपि ।
लीला मोक्षप्रदाः सर्वा वद लोकहितप्रदाः ॥४३॥
अहं गोलोकसंस्थैव श्रोतुमिच्छामि तं प्रभुम् ।
यत्राऽऽवयोश्च जननं भविष्यति भुवस्तले ॥४४॥
तद् ब्रह्माण्डं च तल्लोकं तत्स्थलं पावनं परम् ।
सर्वाभिः स्वसृभिः सार्धं श्रोतुमिच्छामि तद्वद ॥४५॥
श्रीहरेस्तस्य पत्नीनां तन्मूर्तीनां प्रसेविनाम् ।
आविर्भावस्वरूपाणां कथा मोक्षाय देहिनाम् ॥४६॥
स्वं रूपं यो विजानाति मूलं जानाति नैव च ।
न स किञ्चिद् विजानाति तस्मात्तं वद कान्त मे ॥४७॥
अहं मायास्वरूपाऽस्मि तव देहाऽर्धधारिणी ।
त्वय्यधिशायिनं कृष्ण वद् मे पुरुषोत्तमम् ॥४८॥
तव मूर्तौ सदा प्रातस्तं पश्यामि परेश्वरम् ।
हृद्ये ते निवसन्तं हसन्तं तेऽतिशायिनम् ॥४९॥
मानसं मे विकर्षन्तं रूपसौन्दर्यवारिधिम् ।
त्वयि कृष्णे श्वेतवर्णं वद मे पुरुषोत्तमम् ॥५०॥
श्रीकृष्ण उवाच-
शृणु राधे! प्रवक्ष्यामि श्रीहरिं पुरुषोत्तमम् ।
कोटिकृष्णा मादृशा यत्स्वरूपेऽन्तर्भवन्ति हि ॥५१॥
कोटिनारायणा यस्य मूर्तौ लीना भवन्ति च ।
तादृशः श्रीमहाराजाधिराजपरमेश्वरः ॥५२॥
अब्जराधारमाद्याश्च यद्रोमात् प्रभवन्ति हि ।
असंख्या अवताराश्च यन्मूर्तेः संभवन्ति च ॥५३॥
अनन्ता व्यूहसंज्ञाश्च लीनास्तिष्ठन्ति यद्धरौ ।
भूमानश्चाप्यनन्ताश्च यदैश्वर्ये वसन्ति च ॥५४॥
यस्य तेजसि धामानि गोलोकादीनि राधिके ।
वसन्ति च समानाभिहार कृतानि सर्वदा ॥५५॥
यस्यैककिरणात्सर्वे प्राविर्भावा भवन्ति च ।
तद्रूपं किमहं राधे वर्णयेऽक्षिप्रसाक्षिकम् ॥५६॥
यस्यैकमुक्तोऽपि च मे धाम्नि चायाद् यदृच्छया ।
मया साकं च गोलोकं सर्वं तेजोहतं भवेत् ॥५७॥
तस्यैका ललिता पत्नी जया वा मुक्तमाणिकी ।
प्रभा लक्ष्मीः पार्वती वा समायात्तव सन्निधौ ॥५८॥
तस्यास्तेजसि मे पत्न्यो यूयं स्युस्तेजसा हताः ।
तादृशं रूपरूपाणां रूपातिरूपरूपिणम् ॥५९॥
किं वर्णये राधिकेऽत्र चक्षुश्चरं न वाक्चरम् ।
मणिर्यस्य मुकुटस्य स्वेनैवोद्भावितस्तनोः ॥६०॥
एक एव समर्थोऽस्ति तेजो दातुं हि धामिनाम् ।
तमहं चिन्तये नित्यमनादिकृष्णमच्युतम् ॥६१॥
अन्ये धामनिवासाश्च चिन्तयन्ति हि तं प्रभुम् ।
अनादिश्रीकृष्णनारायणस्वामिपुमुत्तमम् ॥६२॥
राधेऽहं तं चिन्तयामि महानन्दपयोदधिम् ।
पितरं कारणं सर्वावताराणां परात्परम् ॥६३॥
यस्यैकनेत्रकोणे तु कटाक्षे वौष्ठमध्यमे ।
सर्वे रसाः सर्वकामाः सर्वानन्दा वसन्ति च ॥६४॥
यस्य कुक्षौ तु धामानि परमेशा महेश्वराः ।
व्यूहा विभवा आवेशा निवसन्ति सुखाश्रयाः ॥६५॥
गुणा निरवधयश्च निरतिशयशायिनः ।
समूर्ता यस्य वै मूर्तौ वर्तन्ते हृदयादिषु ॥६६॥
सृष्टिस्तु पन्नखे यस्य महामाया नखान्तरे ।
ईश्वराः करगा यस्य चिन्तयामि हरिं च तम् ॥६७॥
चिन्तय त्वं सदा राधे कान्ताधिकान्तमेव तम् ।
मम कान्तस्तव कान्तः स एव भगवान् पतिः ॥६८॥
ध्यात्वाऽनादिकृष्णनारायणं सौभाग्यदा भव ।
संसेव्य तं परेशं चाऽखण्डसौभाग्यधा भव ॥६९॥
प्रपूज्य तं च संसेव्य निजरूपबुधा भव ।
त्वं तस्याऽस्यक्षरंधाम परधामात्मकोऽस्म्यहम् ॥७०॥
मयि वासः सदा तस्य तेन दृष्टस्त्वया मयि ।
स एव हृद्ये मेऽस्ति ते हृदि निवसाम्यहम् ॥७१॥
त्वं चेच्छा शाश्वती राधे सर्वेषां हृदयेष्वसि ।
तस्मात्सर्वमयी त्वं वै प्रोच्यसे त्वन्मयोऽप्यहम् ॥७२॥
मन्मयः श्रीकृष्णनारायणोऽनादिश्च वर्ण्यते ।
एकं तत्त्वं परब्रह्म द्वैधा चैवं प्रतिष्ठितम् ॥७३॥
त्रेधा चापि चतुर्धा वाऽनन्तधाऽपि प्रतिष्ठितम् ।
तन्तुना तेन देवेन ग्रथितं नातिरिच्यते ॥७४॥
नास्ति तस्य पृथग्भावश्चान्तरात्मा यतो हि सः ।
व्यतिरेके परे धाम्नि पृथग्भावस्तु सर्वराट् ॥७५॥
एवं ज्ञात्वा भजेद् ध्यायेत् प्राप्नुयात्तं परेश्वरम् ।
भगवतां भगवन्तं देवानां चापि दैवतम् ॥७६॥
ईश्वराणां महैश्वर्यमवताराऽवतारिणम् ।
भुक्तिमुक्तिप्रदं रक्षाकरमात्मानमात्मनाम् ॥७७॥
स्रष्टॄणां सर्गिणं रक्षकाणां परमरक्षकम् ।
संहर्तॄणां हारकं च ध्यातॄणां ध्येयमेव तम् ॥७८॥
प्राप्याणां परमं प्राप्यं सर्वज्ञानां च संविदम् ।
प्रभूणां प्रभवं नाथं दयालूनां कृपाऽऽलयम् ॥७९॥
प्रसन्नानां प्रसन्नं च निर्मलानां च निर्मलम् ।
विशदानां च विशदं दिव्यानां दिव्यमीश्वरम् ॥८०॥
तीर्थानां परमं तीर्थं धर्माणां धर्ममुत्तमम् ।
शान्तानां परमं शान्तं मोदानां च प्रमोदनम् ॥८१॥
उत्सवानामुत्सवाग्र्यं प्रियाणां परमं प्रियम् ।
कान्तानां परमं कान्तं प्रेमाढ्यानां शुभास्पदम् ॥८२॥
धार्याणां परमं धार्यं साधूनां साधुसत्तमम् ।
विभूषाणां भूषणाग्र्यं सिद्धीनां सिद्धमुत्तमम् ॥८२॥
शीलानां परमं शीलं व्रतिनां व्रतमुत्तमम् ।
अर्थानां परमार्थं च समिष्टानां परेष्टकम् ॥८४॥
सत्यानां परमं सत्यं सतां सन्तं विचिन्तयेत् ।
अक्षयाणामक्षयाग्र्यं सतीनां सत्त्वमग्रगम् ॥८६॥
वेदानां परमान्नं च जपानां जपमुत्तमम् ।
दानानां परमं पात्रं होमानां हवनं परम् ॥८६॥
तपः श्रेष्ठं तपतां च यज्ञानां यागमुत्तमम् ।
पितॄणां प्रप्रपितरमृषीणामार्षमुज्ज्वलम् ॥८७॥
स्वच्छानामच्छतत्त्वं श्रीपुरुषोत्तममर्चयेत् ।
राधानां परमं राधं स्मृद्धानां सम्पदं पराम्॥८८॥
धनानां चाऽव्ययं द्रव्यं गृहाणां शाश्वतालयम् ।
स्तंभानां शाश्वताधारं बीजबीजं तमर्चयेत् ॥८९॥
नावामक्षय्यनावं तं खनीनामक्षयां खनिम् ।
बलानां बलमुग्रं च नेत्राणां चक्षुरुत्तमम् ॥९०॥
भावनानां परं भावं व्यापकानां समापकम् ।
सर्वज्ञं स्वामिनं ब्रह्मचारिणं संस्मरेत् सदा॥९१॥
वीर्याणां परमं वीर्यं प्रभावाणां च भावनम् ।
आकर्षणानां सर्वेषामाकर्षणं परेश्वरम् ॥९२॥
शरण्यानां शरणदं क्षन्तारं च क्षमावताम् ।
धैर्य शौर्यं चाप्रधृष्यं धीरशूराऽधृषां तथा॥९३॥
मात्राणां परमं मात्रं जननीं जन्मदायिनाम् ।
मातरं पोषकाणां च श्रीहरिं प्रभजेत् सदा ॥९४॥
प्रलयानां प्रलयं तं कोशानां कोशमुत्तमम् ।
संयमिनां संयमं च भजेऽहं राधिके सदा॥९५॥
यस्माज्जातो महाकालः परिच्छेदविधायकः ।
प्रकृतिपूरुषो यस्मात्समुत्पन्नो हि लीलया ॥९६॥
महापूरुषनामाऽपि पुरा यस्मात्प्रवर्तते ।
वासुदेवः स वसनाद् यतः समुपजायते ॥९७॥
अनिरुद्धो जनयिता प्रद्युम्नः पुष्टिदो यतः ।
संकर्षणः कर्षयिता यतस्तं नौमि मत्पतिम् ॥९८॥
पादोऽस्य विश्वा भूतानि संकर्षणवशानि वै ।
सर्वसृष्टिः करे यस्य संकर्षणस्य पुष्पवत्॥९९॥
सृष्ट्यधिकं देहमानं यस्याऽऽस्ते यत्कृपावशात् ।
गदाग्रकोशवत् सृष्टिः सर्वा यस्य विभाति हि ॥१००॥
तादृग्गदाधरो यस्य दासदासप्रदासकः ।
तं परेशं च सर्वेशं भजामि राधिके पतिम् ॥१०१॥
पठनाच्छ्रवणाच्चाऽस्य स्मरणात्कथनादपि ।
परधामनिवासी स्यात्तं सदा भज राधिके! ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीपुरुषोत्तमनारायणस्वामिनः सार्वभौममहिमवर्णननामा प्रथमोऽध्यायः ॥१॥
N/A
References : N/A
Last Updated : April 02, 2021
TOP