संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २१४

त्रेतायुगसन्तानः - अध्यायः २१४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके त्रयोदश्यां प्रातः कृताह्निकः ।
हरिस्त्वासनमासाद्य पूजायां संस्थितोऽभवत् ॥१॥
तावत्तत्र समायातो रायनवार्कभूपतिः ।
निजराष्ट्रं समानेतुं भगवन्तं समार्थयत् ॥२॥
हरिस्तथाऽस्त्विति प्राह सर्वान् सज्जान् समाकरोत् ।
रायकिन्नरसम्राजं त्वाहूय प्राह तद्विधिम् ॥३॥
राजा सम्पूज्य कृष्णं तं विदायं प्रददौ ततः ।
हरिस्तूर्णं विमानं स्वं चाऽवरुह्याऽम्बरेऽभवत् ॥४॥
तदा वाद्यान्यवाद्यन्त विदाये पारमेश्वरे ।
रोकीश्वरो रणजिच्च मारीशो वायुकक्षकः ॥५॥
बालेश्वरश्च लम्बारस्त एते भूभतस्तदा ।
विदायं यौतकं चापि सुताभ्यो हरये ददुः ॥६॥
सैन्यैः सम्मानितो वाद्यैर्गीतिकाभिः सभाजितः ।
विमानेन ययौ तूर्णं सर्वसार्थसमन्वितः ॥७॥
रायनवार्कभूपस्य राष्ट्रं मिश्रसुराभिधम् ।
मिश्रसुरासरिद्योगे सुपारीयसरोऽन्तिके ॥८॥
चिञ्चागोपुरिकापुर्या उद्याने चोपकण्ठगे ।
वायुशृंगतनुर्नामा ऋषिः कृष्णेन वै सह ॥९॥
विमाने चागमत् तत्र राजा पूर्वं ययौ तथा ।
स्वागतार्थं हरेः सम्यक् सैन्यमसज्जयद् द्रुतम् ॥१०॥
तदा वाद्यान्यवाद्यन्त प्रजानादाश्च हर्षजाः ।
वादित्राणां निनादाश्चाऽभवन् दिगन्तचारिणः ॥११॥
कन्यकाः प्रमदाश्चाप्यगायन् सुगीतिकाः शुभाः ।
मांगल्यद्रवयुक्ताश्चाययुः कृष्णसमीपगाः ॥१२॥
विमानं नृपबोध्येन मार्गेणाऽवातरद् भुवि ।
तदाऽक्षतानां लाजानां पुष्पाणां वर्षणं ह्यभूत् ॥१३॥
जयशब्दा जीवशब्दाः सर्वाननेभ्य आभवन् ।
स्थिराद्विमानकात् कृष्णो बहिश्चाग्रे ह्युपस्थितः ॥१४॥
तदा लोकै राजभिश्च वर्धितः कन्यकादिभिः ।
प्रक्षाल्य चरणौ राजा पपौ वारि च के न्यधात् ॥१५॥
ततो दुग्धं ददौ पानार्थं च सर्वेभ्य एव च ।
सैन्येन सहितं कृष्णं पुर्यामभ्रामयन्मुदा ॥१६॥
प्रजाः पुपूजुः प्रेम्णैव प्रधानाः श्रेष्ठिनस्तथा ।
नरा नार्यो ह्यमर्यश्च मिश्रसुर्यश्च योषितः ॥१७॥
द्रव्यैः पुष्पैरम्बरैश्च फलै रत्नैश्च हीरकैः ।
विविधैर्मुकुटैश्चापि भूषाभिः समपूजयन् ॥१८॥
अवर्धयन्नञ्जलिभिर्हृदयार्पणभावनैः ।
नमनैश्च यथाशक्तिदानैश्चापि समर्हणैः ॥१९॥
भ्रमित्वैवं नगर्यां स्वं दत्वा दर्शनमुत्तमम् ।
आययौ राजसौधं श्रीबालकृष्णोऽनुगान्वितः ॥२०॥
राजा पुपूज रत्नाद्यैः सौवर्णैर्हारकैस्तथा ।
दिव्याम्बरैर्धनैः श्रेष्ठैर्दिव्योपदाभिरादरात् ॥२१॥
आरार्त्रिकं चकारापि चन्दनाद्यैरपूजयत् ।
पपात पादयोश्चापि कृतार्थोऽस्मीति संवदन् ॥२२॥
राज्ञ्यस्तस्य चतस्रश्च पुपूजुः परमेश्वरम् ।
कन्यकाः सप्त भूपस्य तदा चन्द्रनिभाननाः ॥२३॥
मुमुहुः श्रीपतौ कान्ते जगृहुर्मनसा पतिम् ।
वरमाला ददुस्ताश्च कृष्णकण्ठे सुहर्षिताः ॥२४॥
कृतकृत्याश्च ता जाता राजा राज्ञ्योऽपि वै तथा ।
कृतकृत्या अभवँश्च भाग्यं श्रेष्ठं हि मेनिरे ।
राजोत्सवं चकारापि मध्याह्ने हर्षसंभृतम् ॥२५॥
ततः सर्वान् सुमिष्टान्नं भोजयामास भूपतिः ।
ताम्बूलकादिकं दत्वा यौतकं चोपदां ददौ ॥२६॥
हरिर्जग्राह सर्वं तत् तन्वर्तुऋषये ददौ ।
यथायोग्यं निजयोग्यं विमानेऽस्थापयत् त्वपि ॥२७॥
विशश्राम क्षणं पश्चाद् राजा स्वर्लतिकापुरीम् ।
निजां गन्तुं हरिं प्राह हरिः सज्जोऽभवत् क्षणात् ॥२८॥
राजा पूर्वं ययौ तत्र पुर्यां सम्मानमाचरत् ।
वाद्यघोषैः प्रजाहर्षनादैः पुष्पादिपूजनैः ॥२९॥
महोद्याने चावतीर्य विमानाद् भगवाँस्ततः ।
राजोक्तरीत्या नगरे चाभ्रमद् दर्शनप्रदः ॥३०॥
पूजितो वन्दितो लोकैः वस्तुभिश्च समार्पितः ।
दृष्टश्चावधृतो नैजे हृदये परमेश्वरः ॥३१॥
वर्धितो बहुधा लोकैः प्रसन्नोऽभूत्परेश्वरः ।
पूजायामागतं वायुशृंगतन्वर्षये ददौ ॥३२॥
विशश्राम महासौधे राज्ञो दिव्ये सुवर्णजे ।
तत्रायातो रायहाण्डेश्वरो माक्षिकराष्ट्रपः ॥३३॥
प्रार्थयितुं हरिं नैजं राज्यं तथाऽऽर्थयत्तदा ।
हरिः सज्जोऽभवच्छीघ्रं सायं सार्थसमन्वितः ॥३४॥
रायनवार्कभूपश्च विदायं यौतकं ददौ ।
विमानेन हरिस्तूर्णं व्योम्ना माक्षिकराष्ट्रकम् ॥३५॥
निशामुखे समायाच्च माक्षिकानगरीं प्रति ।
विद्युत्प्रकाशैः परितः शोभमानां महापुरीम् ॥३६॥
रायहण्डेशभूपश्च प्राग्गत्वा स्वागतं व्यधात् ।
सैन्येन वाद्यघोषैश्च ध्वजापताकिकादिभिः ॥३७॥
पुष्पहारैर्जयशब्दैर्गीतिकाभिश्च मंगलैः ।
चन्दनाद्यैः स्वागतं श्रीहरेः राजाऽकरोत्तदा ॥३८॥
विमानं चागतं पृथ्व्यां हरिर्बहिः समाययौ ।
अनन्तशाखविद्युद्भिः काशिते च दिवानिभे ॥३९॥
विमानाग्रे हि भगवान् शुशुभे दिवि चन्द्रवत् ।
तं विलोक्य परंब्रह्म योषितश्च प्रजाजनाः ॥४०॥
वर्धयामासुरत्यर्थं हरिं चन्दनपुष्पकैः ।
अक्षतैश्चापि लाजाभिर्गन्धसारैर्मनोहरैः ॥४१॥
रात्रौ राजा नगर्यां वै भ्रामयामास माधवम् ।
सैन्येन सहितं कृष्णं प्रजाः पुपूजुरुत्सुकाः ॥४२॥
गोपुरे चांगणे मध्ये चत्वरे राजमार्गके ।
हट्टाग्रेषु च सौधेषु वर्धयामासुरुत्सुकाः ॥४३॥
द्रव्यैः सुवर्णमुद्राभिः फलैः कुंकुमचन्दनैः ।
अम्बरैर्नारिकेलाद्यैर्गन्धसारैः सुगन्धिभिः ॥४४॥
पुष्पहारै रत्नहारैरमूल्योपसुवस्तुभिः ।
एवं नगर्यां भगवान् परिभ्रम्य नृपालयम् ॥४५॥
आययौ च सभां चक्रे रात्रावुपादिदेश ह ।
सर्वेषां स्ववृत्तितयेष्यमाणं वै प्रयोजनम् ॥४६॥
सुखं च दुःखाभावश्चेत्युभयं वै प्रयोजनम् ।
सुखार्थं चेष्यते धर्मो धर्मात् सुखं हि जायते ॥४७॥
अनागतस्य दुःखस्याऽनागमाय यतेत वै ।
अधर्मो दुःखदः प्रोक्तोऽधर्मो ह्यपुण्यनामधृक् ॥४८॥
हिंसनं परपीडादि द्रोहः पापं ह्यधर्मकः ।
स्तेयं चानृतकरणं च प्रतारणं हि पापकम् ॥४९॥
अन्यायवर्तनं चापि परनाशकरी क्रिया ।
परवृत्तिविनाशश्च परवस्तुविनाशनम् ॥५०॥
स्वस्य मोक्षस्य हान्यादिर्ज्ञानेन वर्जनं तथा ।
मौर्ख्यं च निजपित्रोश्चाऽसेवनं पातकानि वै ॥५१॥
अन्यद्रव्याद्याहरणं चाश्रिताऽरक्षणं तथा ।
विस्मृतिर्देवदेवस्य पूज्यानां चावमाननम् ॥५२॥
नारीणां पीडनं चापि बालानां पीडनं वृथा ।
वृक्षवल्ल्यादिनाशश्च वह्निदानं महावने ॥५३॥
यत्र जीवाः प्रदह्येयुस्तत्सर्वं पातकं महत् ।
मनुष्येण न कर्तव्यं स्वात्मनः पीडनं तथा ॥५४॥
सुखं देहसमुत्थं वेन्द्रियजं चात्मजं च वा ।
सर्वं प्रयोजनं स्वस्य साधयत्येव मानवः ॥५५॥
अनित्यं तु सुखं नाशं प्राप्स्यत्येव न संशयः ।
विचार्येत्थं च तन्नाऽर्ज्यं चाऽर्ज्यं वै शाश्वतं सुखम् ॥५६॥
यज्ञो दानं दया देवाः सत्यं च सेवनं तपः ।
सुचारित्र्यं सुखदानि योगिधर्मा इमे मताः ॥५७॥
अष्टैतानि पवित्राणि श्रेयः प्रसाददानि वै ।
पुण्यतीर्थाभिगमनं सुखदं शाश्वते हितम् ॥५८॥
पुण्यदेशाभिगमनं पवित्रं श्रेयसांप्रदम् ।
मर्त्योऽन्नधनवस्त्राद्यैश्चेत् समृद्धश्च जीवति ॥५९॥
तदा यज्ञादिकं कृत्वा शाश्वतं सुखमर्जयेत् ।
पुण्यतीर्थानि सन्त्येव साधवो जगतां हिताः ॥६०॥
पुण्यदेशाश्च सन्त्येव मन्दिरे प्रतिमा हरेः ।
तत्र गतिर्मोक्षगतिस्तया सुखं हि शाश्वतम् ॥६१॥
प्रायश्चित्तोद्वेजनेन जायते पापनाशनम् ।
पुनर्नैव प्रकुर्याच्चेद् भाविपापात् प्रमुच्यते ॥६२॥
सतां संगं प्रकुर्याच्चेत् कुसंगात् परिमुच्यते ।
साधुतीर्थे परिस्नातो यमक्लेशात्प्रमुच्यते ॥६३॥
साधुतीर्थी भवेत् साधुर्हरितीर्थी हरो भवत् ।
सुगन्धसेवी सुगन्धी स्यात् कृष्णगन्धी भवेत्ततः ॥६४॥
कर्मकृत्वाऽभिमन्येत नाहमस्मीति चेतनः ।
कर्मणा लिप्यते नैव पद्मपत्रमिवाऽम्भसा ॥६१॥
छिद्राणि विवृतान्येव साधूनां चावृणोति यः ।
पापातिपापकृच्चापि स कल्याणं प्रपद्यते ॥६६॥
यथा सूर्यस्तमोनाशी तथा कल्याणकृज्जनः ।
सर्वपापाभिहर्ताऽपि सर्वपापविनाशकः ॥६७॥
सेवापरो जनो नित्यमाशीर्वादान् प्रविन्दति ।
आयुरन्नं धनं सौख्यं विन्दति सेवया ततः ॥६८॥
साधूनां सेवया सौख्यं शाश्वतं कृष्णयोगतः ।
साधुतीर्थी भवेत्तस्मान्मानवो दीर्घदृष्टियुक् ॥६९॥
शाश्वते सुखकोशे ते नित्यं तिष्ठन्ति केशवे ।
तदाश्रयिणां कोशः स शाश्वतः स्यादुपस्थितः ॥७०॥
अहं कोशः शाश्वतोऽस्मि महानन्दपरिप्लुतः ।
सन्तो मदानन्दयुक्ताः कुर्वन्त्यान्दिनोऽपरान् ॥७१॥
मुख्यं प्रयोजनं मुक्तिः शाश्वतं सुखमेषु वै ।
साधुष्वेवोपलभ्येत सेव्याः सन्तस्ततोऽनिशम् ॥७२॥
इत्युक्त्वा विररामाऽसौ भगवान् राधिके ततः ।
सभान्ते नृपतिः पूजां चकार द्रव्यकोटिभिः ॥७३॥
सुवर्णरूप्यकपात्रैरम्बरैश्च विभूषणैः ।
मुकुटं धारयामास बालकृष्णस्य मस्तके ॥७४॥
कण्ठे हारान् रत्नयुक्तान् सौवर्णान् श्रीहरेर्ददौ ।
और्णान् कोमलवेषाँश्चार्पयामास सुवर्णिनः ॥७५॥
सुछत्रं चामरे श्रेष्ठे स्वर्णदण्डं च वेत्रकम् ।
हीरकैमौक्तिकैर्युक्ता माला ददौ च शोभनाः ॥७६॥
ऊर्मिकाः करकान्याच्छादनानि विविधानि च ।
ददौ सुगन्धसारैश्च पुष्पाऽक्षतैरपूजयत् ॥७७॥
राज्ञी हीरवती कृष्णपूजामारार्त्रिकं व्यधात् ।
तिलकं कौंकुमं भाले साक्षतं चन्द्रकं व्यधात् ॥७८॥
मस्तकेऽक्षतपुष्पाद्यैरर्हणां चोत्तमां व्यधात् ।
ददौ मिष्टान्नकवलं मुखे कृष्णस्य सा ततः ॥७९॥
स्वस्याः पार्श्वे स्थिताः कन्या नव प्राह जनेश्वरी ।
कन्याकाः! श्रीपतिश्चायं राधास्वामी हि राजते ॥८०॥
बहुजन्मकृतैः पुण्यैर्लभ्यते द्रष्टुमित्यपि ।
एष साक्षान्मिलितोऽस्ति कृपया स्वगृहेऽधुना ॥८१॥
हृदये तं वासयन्तु मा त्यजन्तु कदाचन ।
पूजयन्तु हरिं प्रेम्णा सेवयन्तु जनार्दनम् ॥८२॥
सदा भक्तिं प्रकुर्वन्तु श्रीरमाकमला इव ।
श्रुत्वैवं कन्यकाः कृष्णे बालकृष्णेऽतिमोहिताः ॥८३॥
मातृवाक्येन पुष्टिं च प्राप्तास्तं कान्तमच्युतम् ।
वव्रिरे फुल्लवदना हृष्टा मालाप्रदानकैः ॥८४॥
वरमालाः कृष्णकण्ठे न्यधुर्नव ताः कन्यकाः ।
तासां करग्रहं चक्रे भगवान् विधिना ततः ॥८५॥
उत्सवं कृतकृत्यश्च राजा चकार वै निशि ।
भोजनानि ततः सर्वसार्थेभ्य प्रददौ नृपः ॥८६॥
प्रजा अपि हरेः पूजां चक्रुस्तत्रातिभावतः ।
राधाद्या भोजनं चक्रूस्ततः कृष्णो निशान्तरे ॥८७॥
कन्यकासेवितो निद्रां जग्राह क्षणमेव तु ।
मंगलैर्वाद्यघोषैश्च प्रबुबोध प्रगे द्रुतम् ॥८८॥
त्रयोदश्यां कृतस्नानपूजनश्च पयः पपौ ।
पपुश्चान्येऽपि दुग्धादि हुण्डेशनृपतेर्गृहे ॥८९॥
प्रातः ऋषिश्च वीराकजनर्षि श्रीहरिं प्रभुम् ।
पूजयामास विविधैर्वस्तुभिर्वेदमन्त्रकैः ॥९०॥
महापूजां प्रकृत्वैव मोक्षं वव्रे च शाश्वतम् ।
हरिः प्राह समाधौ त्वं तिष्ठर्षे मोक्षमाव्रज ॥९१॥
इत्युक्तः स ऋषिस्तूर्णं ध्याने स्थिरोऽभवत् क्षणात् ।
तावन्मूर्ति हरेर्दिव्यामपश्यत् हृदये शुभाम् ॥९२॥
दिव्यतेजोमयीं दिव्यमुक्ताद्यैः सेवितां ततः ।
विमानं त्वक्षरसंज्ञमपश्यत्तेजसावृतम् ॥९३॥
भगवाँस्तं राधिके वै हस्ते धृत्वा विमानके ।
नीत्वा धामाऽक्षरं नैजं प्रापयामास तत्क्षणम् ॥९४॥
राजाद्यास्तु ऋषेर्देहं चिक्षिपुर्गर्तमध्यके ।
देहे जातश्चमत्कारस्तं राधे कथयामि ते ॥९५॥
देहात् तत्र समुत्पन्ना वीरा हेतिसमन्विताः ।
महादेहा बलिष्ठाश्च हरिं नत्वाऽग्रतः स्थिताः ॥९६॥
वीराकजनपुत्रास्ते निवासं चार्थयन् प्रभोः ।
हरिस्तेभ्यो ददौ वासं शंभोर्गणेषु सर्वदा ॥९७॥
वीरास्ते च जनास्ते च न त्वेशानं सतीं ततः ।
लब्धाज्ञाः प्रययुः सर्वे कैलासं शाश्वतं स्थलम् ॥९८॥
शंभोर्लब्धमनवस्ते तामसा वैष्णवाः सदा ।
वीरजनख्यातिमन्तोऽभवन् भक्ता हरस्य वै ॥९९॥
अथ श्रीमद्बालकृष्णं काम्भरेयं महाप्रभुम् ।
राजा चक्रे दण्डवच्च चक्रे वै पादवाहनम् ॥१००॥
सेवां कृत्वा ततो नीराजनं व्यधात् स भूपतिः ।
पादधौतजलं दिव्यं पपौ तस्थौ समीपतः ॥१०१॥
तावत् तत्र समायातो रायकूपेशभूपतिः ।
हरिं नेतुं स्वनगरीं हवानाख्यां सुशालिनीम् ॥१०२॥
हरिः प्राह तथास्त्वेवं शीघ्रं सज्जो बभूव च ।
हुण्डेशो यौतकं प्रादाद् ययाचे च क्षमां हरेः ॥१०३॥
हरिश्चाभयदानं च दत्वा विमानमारुहत् ।
सार्थाश्चापि विमानस्था अभवन् केशवाज्ञया ॥१०४॥
रायकूपेशभूपश्च सम्मानार्थं जगाम ह ।
पूर्वं गत्वा निजं सैन्यं नीत्वोद्याने स्थिरोऽभवत् ॥१०५॥
रायहुण्डेशभूपश्च विदायं माननं तथा ।
जयशब्दैर्वाद्यशब्दैर्गीतिभिश्च ददौ तदा ॥१०६॥
हरेर्यानं समायाच्च हवानापुरिकान्तिकम् ।
तदा वाद्यान्यवाद्यन्त जयनादाः प्रजाकृताः ॥१०७॥
मन्त्रवादास्त्वभवँश्च महोद्याने तु राधिके ।
प्रजाद्या हर्षहृदया द्रष्टुं कृष्णं तदाऽभवन् ॥१०८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने त्रयोदश्यां प्रातः रायनवार्कनृपराष्ट्रगमनं चिञ्चागोपुरिकापुर्यां भ्रमणं पूजनं ततः स्वर्लतिकापुरीं प्रतिगमनं भ्रमणं पूजनं ततः सायं रायहण्डेश्वरनृपराष्द्रगमनं माक्षिकानगर्यां भ्रमणं पूजनं ह्युपदेशनं रात्रौ विश्रमणं भाद्रशुक्लचतुर्दश्यां वीराकजनर्षिप्रमोक्षणं रायकूपेशनृपराष्ट्रगमनं चेत्यादिनिरूपणनामा चतुर्दशा- धिकद्विशततमोऽध्यायः ॥२१४॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP