त्रेतायुगसन्तानः - अध्यायः २९३
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शिवेश्वरो महान् भक्तो महिमानं विदन् हरेः ।
राधिके धन्यभाग्यं स्वं मेने गृणन्निदं तदा ॥१॥
अद्य मे सफलं जन्म त्वद्य मे सफलाः क्रियाः ।
अद्य मे सफलं सर्वं यद्गृहे पुरुषोत्तमः ॥२॥
अद्य मे जीवनं जातं सर्वं सुप्रजीवितम् ।
यज्जातं जन्मकोटीनां कर्ममूललयान्वितम् ॥३॥
यत्पादपद्मं मुनयो ध्यायन्ति सततं हृदि ।
सर्वफलप्रदाता श्रीहरिर्मे प्रांगणेऽद्य वै ॥४॥
सृष्टित्रयं च मे त्वद्य प्रांगणे तीर्थकृत्तमम् ।
अहो कल्पान्तपर्यन्तं तीर्थीभूतं ममांगणम् ॥५॥
अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।
अदृश्यश्चक्षुषामद्य दृश्यो मे प्रांगणे हरिः ॥६॥
कर्मणां फलदं तं त्वां ज्योतीरूपं सनातनम् ।
अन्तःस्थितं परात्मानं मदात्मानं नमाम्यहम् ॥७॥
एवं स्तुत्वा राधिके च शिवस्तुतं स्मरन् हरिम्
पाद्यं पद्मार्चिते पादपद्मे तत्र मुदा ददौ ॥८॥
अर्घ्यं च प्रददौ तत्र दूर्वापुष्पफलान्वितम् ।
मधुपर्कं मनाक् चापि ददौ भाले सुचन्द्रकम् ॥९॥
कुंकुमाक्षतकस्तूरीकृतं च् तिलकं ददौ ।
चान्दनं च सुगन्धं च गन्धसारं ददौ तनौ ॥१०॥
पारिजातस्य मालां च स्वप्रियां तद् गले ददौ ।
रत्नहारं गले चापि प्रकोष्ठे मणिभूषणम् ॥११॥
वह्निशुद्धांशुकेदिव्ये मुकुटं भास्वरं ददौ ।
कुण्डले कटके चापि शृंगला चोर्मिकादिकम् ॥१२॥
रत्नचामरयुगलं छत्रं सौवर्णमित्यपि ।
स्वहीरकहाराँश्च कौस्तुभस्रग्विभूषणम् ॥१३॥
कोटिकोटिसुवर्णानि न्यधाद् कृष्णस्य पादयोः ।
धूपं रत्नप्रदीपं च तथा नीराजनं ददौ ॥१४॥
स्वर्णसिंहासनं रम्यं ददौ दाने हरेस्तु वै ।
सप्ततीर्थोदकं चापि मधुपर्कं पुनस्तथा ॥१५॥
आचमनं च ताम्बूलं जलपानं सुगन्धि च ।
शय्यां श्रेष्ठतमां चापि भूषणानि ददौ तदा ॥१६॥
पुष्पांजलिं ददौ चापि ननाम पादयोस्तथा ।
गिरिजा चापि तं पुत्र्याः कान्तं पुपूज चादरात् ॥१७॥
पादप्रक्षालनं चक्रे लाजाभिः समवर्धयत् ।
चन्दनाद्यैः पुपूजापि स्वर्णमुद्रादिकं ददौ ॥१८॥
गृहोपकरणान्येवोत्तारयामास मस्तकात् ।
कोशस्य कुञ्चिकां चापि लेखिनीं तरवारिकाम् ॥१९॥
मूशलं तर्कटीं चापि मार्जनीं वेल्लणं तथा ।
दर्वीं च शृंखलां चापि कीलकं यष्टिकां तथा ॥२०॥
त्रिशूलं चापि शंखं च चक्रं गदां च चर्म च ।
रज्जूं कंगतिकां चापि दर्पणं कलशं तथा ॥२१॥
स्थालीं सौभाग्यवटिकां दूर्वां काण्डं च वंशिकाम्।
फलं चान्नं जलं शाकं भूषणं समिधं तथा ॥२२॥
एवमादीनि सर्वाण्युत्तारयामास मस्तकात् ।
कृष्णस्यैव ततो नीराजनं कृत्वा च मस्तकात् ॥२३॥
अञ्जलिना दुःखहानिं चिन्तयामास पञ्चषः ।
ततः प्रवेशयामास द्वारं तत्र च भूतले ॥२४॥
ब्रह्माण्डसम्पूटकं च कपालद्वयनिर्मितम् ।
मायातन्तुप्रबद्धं च स्थापितं वीक्ष्य माधवः ॥२५॥
न्यस्योपरि स्वपादं तद् बभञ्ज च ततो हरिः ।
विध्ननाशं परं कृत्वा स्वर्णसिंहासनं वरम् ॥२६॥
कुण्डस्य सन्निधौ न्यस्तं जगृहे त्वासनं हि तत् ।
उपाविवेश तत्रैव ननाम यूपमित्यपि ॥२७॥
कलशं मातृकाश्चापि गणेशं देवतास्तथा ।
मण्डपं च तथा कुण्डं गुरुं ननाम सर्वतः ॥२८॥
शिवेश्वरो द्विजाश्चैनं वर्धयामासुरक्षतैः ।
एवं वै वरणं प्राप्तः शुशुभे भगवान् हरिः ॥२९॥
एतस्मिन्नन्तरे लक्ष्मीसुखदा शिवपुत्रिका ।
आजगाम सखीभिश्च मण्डपे वेदिकाऽन्तिकम् ॥३०॥
अवाद्यन्त सुवाद्यानि चाऽगीयन्त च गीतिकाः ।
वेदमन्त्रध्वनयश्चाऽजायन्त वेदवेदिनाम् ॥३१॥
लक्ष्मीस्तत्राऽऽगता रम्या मात्रा सखीभिरन्विता ।
भक्त्या पद्भ्यां चागता सद्रत्नालंकारभूषिता ॥३२॥
वह्निशुद्धांशुकाधाना कबरीभारभूषिता ।
सन्दृश्य दर्पणं साध्वी चन्दनादिसुगन्धिता ॥३३॥
कस्तूरीबिन्दुभिर्युक्ता भाले सिन्दूरबिन्दुना ।
तप्तकांचनवर्णाभा तेजःपरिधिशोभना ॥३४॥
यावद्भूषाधारिणी च पूजामालादिकान्विता ।
भ्रात्रादिभिः समायुक्ता त्वाययौ वरसन्निधौ ॥३१॥
ददृशुस्तां चन्द्रतुल्यां महीमानास्तु कोटिशः ।
राधा वै सर्वसृष्टीनां नारीषु चोज्ज्वलोत्तमा ॥३६॥
ततोऽपि चोज्ज्वलां वीक्ष्य प्रशशंसुः पुनः पुनः ।
पतिव्रता तु सा लक्ष्मीः प्रणम्य मण्डपं तथा ॥३७॥
प्रणम्य स्वपतिं देवान् सप्तप्रदक्षिणा व्यधात् ।
सिषेच शीततोयेन स्निग्धचन्दनपल्लवैः ॥३८॥
सिषेच तां बालकृष्णः कान्तां लक्ष्मीं सुसस्मिताम् ।
ददर्श कान्तः कान्तां तां कान्ता कान्तं च सत्क्षणे ॥३९॥
तदाऽऽश्चर्यं परं जातं राधिके! शृणु सर्वथा ।
लक्ष्मीं सिषेच भगवान् यदा तदाऽभिषेचनम् ॥४०॥
प्रोद्वाह्यानां कन्यकानां सर्वासां मस्तकोपरि ।
सर्वतश्चापतत् सर्वा हर्षिता वै तदाऽभवन् ॥४१॥
ततो लक्ष्मीर्निषसादाऽऽसने कृष्णं प्रणम्य च ।
वामे स्थित्वा देवपूजां चकार स्वामिनाऽन्विता ॥४२॥
बृहस्पतिर्लोमशश्च कारयामासतुश्च तौ ।
देशकालौ प्रसंकीर्त्य कन्यादानस्य सिद्धये ॥४३॥
चतुर्थ्यां मार्गशीर्षस्य शुक्ले गणेशपूजनम् ।
कारयामासतुश्चापि श्रीविष्णोः पूजनं तथा ॥४४॥
रुद्रस्य पूजनं चापि मातृकापूजनं तथा ।
मण्डपस्य च देवानां योगिनीनां च पूजनम् ॥४५॥
ग्रहाणां दिक्प्रपालानां वसूनां चाश्विनोस्तथा ।
आदित्यानां पूजनं चर्षीणां पितृदिवौकसाम् ॥४६॥
पूजनं ब्रह्मणश्चापीश्वराणां पूजनं तथा ।
सर्वेश्वराणां पूजां च विघ्नानां पूजनं तथा ॥४७॥
कन्यारक्षाकराणां च रक्षसां पूजनं तथा ।
वह्नीनां कुण्डदेवानां शाखातोरणवासिनाम् ॥४८॥
द्वाःस्थानां मण्डपस्थानां माणिक्यस्तंभवासिनाम् ।
कारयामासतुश्चापि लक्ष्म्याश्च पूजनं तथा ॥४९॥
पार्वत्याः पूजनं चापि हनूमतश्च पूजनम् ।
दुर्गायाः पूजनं श्राद्धं कारयामासतुस्तथा ॥५०॥
यथा यथा कृता पूजा तां प्रपश्यन्ति कन्यका ।
तथा तथा प्रकुर्वन्ति सर्वा वै कृष्णकन्यकाः ॥५१॥
इत्येवं पूजनं कृत्वा वह्निं कुण्डगतं तदा ।
आहवनीयं सम्पूज्य कन्या चोत्थाय पुष्पजाम् ॥५२॥
कण्ठमालां स्वकान्तस्य गले न्यधात् सुविस्तृताम् ।
पादयोः प्रणनामाऽपि ललाटे कुंकुमाऽक्षतैः ॥५३॥
तिलकं चन्द्रकं चापि चकार कुसुमांजलिम् ।
तवाऽस्मीति समुवाच निषसाद निजासने ॥५४॥
कृष्णश्चास्यै गले मालां ददौ साक्षतकुंकुमम् ।
आर्द्रं धृत्वा च भालेऽस्याश्चन्द्रकं प्रचकार ह ॥५५॥
कबर्यां च ददावस्याः सिन्दूरकं च मंगलम् ।
पुष्पांजलिं ददौ चापि गुलालमुष्टिकां ददौ ॥५६॥
साऽपि गुलालप्रसृतिं ददौ कृष्णाय मंगलाम् ।
ततः पुरोहितौ दानमन्त्रान् जगदतुर्मुदा ॥५७॥
सर्वा प्रदानकन्याश्च तथैवाऽनुप्रचक्रिरे ।
कामफले द्वयोर्हस्तप्रकोष्ठयोस्तदा गुरू ॥५८॥
बबन्धतुस्तथा वस्त्रप्रान्तग्रन्थिं बबन्धतुः ।
कण्ठमालां द्वयोः कण्ठे त्वेकां दीर्घां प्रचक्रतुः ॥५९॥
राधिके च तदा सर्वाः कन्याः कोट्यर्बुदानि तु ।
विना कान्तं निजाग्रे च चिन्तामापुः क्षणं यदा ॥६०॥
तदा श्रीबालकृष्णोऽसौ चमत्कारमदर्शयत् ।
कोटिरूपधरो जातः कोटिकोट्यधिमालिकः ॥६१॥
यावत्यः कन्यकाः पूर्वमुपार्जिताश्च ताः प्रति ।
प्रतिकन्यं प्रतिकान्तो बभूवऽब्जस्वरूपवान् ॥६२॥
या या यत्र स्थिताश्चासन् तत्र तत्र विधानतः ।
यथा लक्ष्म्या दक्षपार्श्वे सर्वासां पार्श्वकेऽभवत् ॥६३॥
कण्ठमालां स जग्राह ददौ सिन्दूरकादिकम् ।
प्रकोष्ठे बन्धनं चापि कामफलस्य चन्द्रकम् ॥६४॥
सर्वं वै लब्धवाँस्तत्र पश्यतां सर्वदेहिनाम् ।
आश्चर्यं चाऽपरं तत्र जातं शृण्वत्र राधिके ॥६५॥
बृहस्पतिर्लोमशश्च तत्राऽब्जरूपिणौ तदा ।
अभवतां बालकृष्णेच्छया मण्डपकुण्डकाः ॥६६॥
अब्जादिरूपा अभवन् देवताश्चकितास्तदा ।
कन्यानां पितरश्चापि महाश्चर्यमगुस्तथा ॥६७॥
शिवेशः पार्वती वीक्ष्य श्रीकृष्णस्य परेशताम् ।
महीमानास्तथा वीक्ष्यैश्वर्यं श्रीपरमात्मनः ॥६८॥
तुष्टाः प्रसन्नाः सञ्जाता ववन्दिरे मुहुर्मुहुः ।
मुग्धाश्च ददृशुः सर्वं कन्यादानविधिं तदा ॥६९॥
कन्यानां पितरस्तत्र तिष्ठन्ति दानहेतवे ।
यासां तु पितरो नैव सन्ति ये मरणं गताः ॥७०॥
बालकृष्णस्मृतास्तत्राऽऽयातास्तूर्णं सुमूर्तिकाः ।
अदृश्यन्त दानकाले सर्वे मुदान्विताः शुभाः ॥७१॥
लोमशोऽपि महाश्चर्यं प्राप्तः प्राप्तो बृहस्पतिः ।
नैतादृशश्चमत्कारो भूतो वा च भविष्यति ॥७२॥
प्रकाशं पश्यतां सर्वलोकानामिदमास ह ।
अथैवं कन्यकानां वै कान्तपार्श्वसमागमे ॥७३॥
पितृभिर्दानविधिना दीयन्ते कन्यका निजाः ।
लज्जया नम्रवदना भासुरास्तेजसा शुभाः ॥७४॥
स्वस्वकन्या ददुः सर्वे परिपूर्णतमाय ह ।
बालकृष्णस्य वै हस्ते दक्षे कन्याकरांस्तदा ॥७५॥
ददुः सर्वे जनकाश्च शिवेशं प्रददावपि ।
प्रददुः सम्प्रदानेन वेदमन्त्रेण राधिके ॥७६॥
अनादिश्रीकृष्णनारायणाय परमात्मने ।
बालकृष्णाय ऋषये दीयते कन्यका मया ॥७७॥
इत्येवं ते समुच्चार्य धृत्वा हस्ते जलं तदा ।
मुमुचुश्चाग्निसाक्ष्ये वै भूमौ गणेशसन्निधौ ॥७८॥
बालकृष्णस्तदा पित्राज्ञया स्वस्तीत्युवाच ह ।
जग्राह लक्ष्मीं श्रीकृष्णनारायणो हि कन्यकाः ॥७९॥
अर्बुदाब्जास्तदा त्वेकक्षणे तावत्स्वरूपधृक् ।
दृष्ट्वैवं सुमहैश्वर्यं तुष्टाव शिवसत्तमः ॥८०॥
शिवभावं समासाद्य दिव्यरूपं विधाय च ।
धृत्वा स्वडमरूं हस्ते निनाद च ननर्त च ॥८१॥
यो हि सर्वजगत्साक्षी सृष्टिचक्रप्रवर्तकः ।
परमेशोऽक्षरे धाम्नि राजमानस्त्वमेव सः ॥८२॥
मम गृहे समायातः कोटिकन्यासुसिद्धये ।
धन्यं चाऽद्य गृहं मेऽत्र यज्ञो मे शाश्वतस्तथा ॥८३॥
यद्गृहेऽर्बुदकोट्यश्च कन्यकाः परमेशिने ।
अर्प्यन्ते दिव्यग्रन्थ्या वै धन्योऽयं शिवसत्तमः ॥८४॥
त्वामेकमीशेश्वरपालपालं परेश्वराख्यं पुरुषं पुराणम् ।
नमामि कान्तं मम कन्यकायाः कान्तं तथा चाऽर्बुदकन्यकानाम् ॥८५॥
अणोरणीयान्महतो महीयान् हिरण्यवर्णो जगदन्तरात्मा ।
समस्तकान्ताहृदि सन्निविष्टश्चानन्तरूपं प्रणमामि तं त्वाम् ॥८६॥
ओंकारनामाऽक्षरमुक्तिबीजं स्वयंप्रभस्त्वं पुरुषोत्तमोऽसि ।
समस्तनाथोऽयुतमस्तकस्त्वं सनातनस्त्वं पुरुषोत्तमोऽसि ॥८७॥
त्वामेव वेद्म्यद्य पुरातनं तमादित्यवर्ण तमसः परस्तात् ।
मन्मोक्षणार्थं समुपागतोऽसि तवैव कान्ता हि पुरातनीयम् ॥८८॥
भक्तोऽहमेवाऽस्मि पुरातनस्त्वं संगृह्य सर्वे ननु तारिता वै ।
अनन्तरूपं वररूपजन्मप्रदं सुपूज्यं शरणं प्रपद्ये ॥८९॥
इत्युक्त्वा राधिके श्रीमद्बालकृष्णाय शंकरः ।
यौतकं प्रददौ सर्वे राजानः प्रददुस्तदा ॥९०॥
सुवर्णानां कोटिकं च विमानं सूर्यभास्वरम् ।
कल्पलतां शिरश्छत्रं चामरे रत्नदण्डके ॥९१॥
ताम्बूलार्थं स्वर्णपात्रं तथा चाऽक्षयपात्रकम् ।
कल्पघटं तथा स्वर्णपादुके मणिरत्नकम् ॥९२॥
कामदुघानां धेनूनां सहस्रकं सवत्सिकम् ।
वारणानां सहस्रं च तुरगाणां च लक्षकम् ॥९३॥
गृहोपकरणानां च शय्यादीनां समस्तकम् ।
हरये प्रददौ शंभुर्बालकृष्णाय हस्तगम् ॥९४॥
राजानोऽपि ददुस्तत्र शय्या रतिप्रदाः शुभाः ।
कोशाँश्च विविधांश्चापि स्वर्णहीरकमौक्तिकम् ॥९५॥
हरेःपक्षास्तदा चाऽपि ददुः कृष्णाय सर्वथा ।
हस्तग्रहं धनं स्वर्णं रूप्यं सिंहासनादिकम् ॥९६॥
वासुदेवो ददौ दिव्यं मुकुटं च गजासनम् ।
महाविष्णुर्ददौ तत्र व्योमयानं विमानकम् ॥९७॥
वैराजः प्रददौ स्वर्णकुण्डले स्वर्णछत्रकम् ।
ब्रह्मा ददौ कल्पघटं विष्णुश्चक्रं ददौ तदा ॥९८॥
पितरः प्रददौ स्वर्णपात्राणि विविधानि च ।
सुरा ददुश्चामृतानां कोशान् दिव्याम्बराणि च ॥९९॥
दिक्पाला दिव्यसौवर्णनाणकानि ददुस्तदा ।
मुक्ताहारान् सागराश्च मौक्तिकानां स्रजस्तथा ॥१००॥
वृक्षा रसान् ददुस्तत्र राजानो मणिरत्नकम् ।
गोवाजिगजवृषभाऽऽनन्त्यं ददुस्तदा मुदा ॥१०१॥
दासीनां चापि दासानां कोटिकं च तदा ददुः ।
सृष्टित्रयेऽपि यच्छ्रेष्ठं यस्य यस्याऽभवत्तदा ॥१०२॥
ददुर्हस्तग्रहं सर्वे वरद्रव्यं हि दानकम् ।
कन्यापक्षगताश्चापि ददुस्तदा च यौतकम् ॥१०३॥
श्रीकृष्णः प्रददौ गोपीसहस्रं मणिशोभितम् ।
हीरहारान् रत्नमणिस्रजो भूषा ददौ तथा ॥१०४॥
मुकुटं च सतीयोग्यं ददौ संकर्षणस्तथा ।
रत्नहारान् ददौ सदाशिवः कालोऽम्बरं ददौ ॥१०५॥
दिव्यां शाटीं जराहीनां कंचुकीं नवयौवनाम् ।
शाश्वतीं प्रददौ चापि रुद्रा ददुः स्रजस्तथा ॥१०६॥
कानकीर्दिव्यमालाश्च शृंगाराभूषणानि च ।
असंख्यानि ददू रुद्राः शंकरश्छत्रिकां ददौ ॥१०७॥
सिंहासनं ददौ देवी कुबेरः कोटिकानकम् ।
द्रव्यं ददौ तदा लक्ष्म्यै लोकपाला धनं ददुः ॥१०८॥
स्वर्गीयाश्च तलवासाः शेषाद्याश्च मणीन् ददुः ।
भूतप्रेतगणाः सर्वेऽम्बरभूषास्तदा ददुः ॥१०९॥
नरा नार्यो लोकरीत्या देवरीत्या यथायथम् ।
कन्याभ्यश्च स्वामिनेऽपि ददुर्दानानि भूरिशः ॥११०॥
परब्रह्म स्वयं योऽस्ति सर्वं यस्याऽस्ति रूपवत् ।
तेनाऽद्य स्वीकृतं दानं मण्डपे न ममौ हि तत् ॥१११॥
एवं दानोत्तरं कन्यापितरश्च तदा करे ।
जलमादाय वै प्रोचुर्गोत्रनामादि वै तदा ॥११२॥
परब्रह्मप्रगोत्राय बालकृष्णाय शार्ङ्गिणे ।
कृष्णाऽक्षरनरायणप्रवराय महात्मने ॥११३॥
सामवेदिप्रविप्राय पत्नीव्रतीयशाखिने ।
श्रीमद्गोपालबालाय वह्नेः साक्ष्ये स्वयं शिवः ॥११४॥
श्रीकृष्णगोत्रकश्चाऽहं सदाशिवप्रशाखकः ।
रुद्रकालयमाख्यत्रिप्रवरः ऋक्प्रवेदवान् ॥११५॥
दत्तवान् मम कन्यां श्रीं लक्ष्मीं लक्ष्मीस्वरूपिणीम् ।
तेन दानेन भगवान् प्रीयतां पुरुषोत्तमः ॥११६॥
इत्युक्त्वा च जलं भूमौ मुमोच पुनरेव च ।
गृहीतवानहं चेत्युवाच तत्र हरिः पुनः ॥११७॥
एवं सर्वे जनकाश्च तथोचुर्मुमुचुर्जलम् ।
ततः पुरोहितौ वस्त्रदिव्यग्रन्थिं बबन्धतुः ॥११८॥
वह्नेः प्रदक्षिणं चतुर्वारं वै प्रभुकन्ययोः ।
कारयामासतुस्तत्र मालिकागलयोर्गुरू ॥११९॥
वह्निं नत्वा युगलानि निषेदुः स्वासनेषु वै ।
वह्नौ तत्र शुभे गार्हपत्ये च हवनं व्यधुः ॥१२०॥
घृतेन च तिलैश्चापि शर्करया च सत्फलैः ।
व्रीहिभिर्हव्यद्रव्यैश्च विविधैर्हवनं व्यधुः१२१॥
ततः प्रासादिकं परस्परं च मधुपर्ककम् ।
कृष्णकान्तेर्जगृहतुः कवलं च मुखार्पितम् ॥१२२॥
परस्परं ततो हस्ताञ्जलिं स्पृष्ट्वा च नेमतुः ।
प्रकोष्ठस्वेदभावोऽभूद् श्रियास्तत्र तदा द्रुतम् ॥१२३॥
रोम्णां पुलकभावश्च कृष्णस्यापि तदाऽभवत् ।
सर्वाः कन्या कण्ठमालायुताः वह्निप्रदक्षिणम् ॥१२४॥
चक्रुश्च जगृहुर्मुखकवलं हरयोऽपि च ।
हवनादि तथैव ताः समकालं व्यधुश्च ते ॥१२५॥
राधिके! राधिका लक्ष्मीः श्रीः रमा माणिकी तथा ।
पद्मावतीति षट्सत्यः कन्यकाश्च प्रदक्षिणम् ॥१२६॥
सहैव वह्नेश्चक्रुस्ता कृष्णेन सह मण्डपे ।
हेमन्तेन प्रदत्तेऽत्र रमा पद्मावती ह्युभे ॥१२७॥
नारायणेन संदत्ताश्चान्याश्च हरयेऽपि ताः ।
सहैव वह्नेश्चक्रुस्ताः स्वामिनाऽग्निप्रदक्षिणाम् ॥१२८॥
अन्याः समस्ताः कान्ताश्च चक्रुर्वह्निप्रदक्षिणाम् ।
कान्तेन साकं मुमुदुर्विधिं वीक्ष्यातिमोददम् ॥१२९॥
चत्वारिंशच्चाधिशतं कन्यका धामवासिकाः ।
सह प्रदक्षिणाश्चक्रुः कवलं हरये ददुः ॥१३०॥
तथा सर्वा ब्रह्मकन्याश्चेशकन्यास्तथाऽपराः ।
राजकन्या लोककन्याः प्रकीर्णकाः प्रदक्षिणाः ॥१३१॥
प्रचक्रिरे च कवलं मिथो ददुर्वरं निजाम् ।
वरस्य च वधूटीनां कवलग्रासतस्त्वनु ॥१३२॥
अंगुलीयकरमणं रंगपात्रजलेऽभवत्।
तत्र राधे! कृष्णपत्नीर्लग्निताः शृणु मत् त्विह ॥१३३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने शिवेश्वरकृतं कृष्णपूजनं, पार्वतीदेवीकृतं गृहोपकरणोत्तारणे, कृष्णस्य मण्डपासने निषीदनं, कन्यायाः कन्यकानां
चागमः कृष्णपूजा देवपूजा, कामफलबन्धनं, कन्यादानम्, हस्तग्रहे दानानि, कोट्यर्बुदाब्जकन्याकृते कृष्णस्य तावद्रूपधारित्वं, सर्वकन्याकरग्रहः, सर्वकण्ठमालाधृतिः, सर्ववह्निप्रदक्षिणम्, गोत्रादिविधिनाऽर्पणं चेत्यादिनिरूपणनामा त्रिनवत्यधिकद्विशततमोऽध्यायः ॥२९३॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP