त्रेतायुगसन्तानः - अध्यायः २२७
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच--
राधिके श्रीहरिकृष्णो ब्रह्मव्रतमुपादिशत् ।
शृणु सर्वव्रतेभ्यस्तच्छ्रेष्ठं ब्रह्मपदं शुभम् ॥१॥
ब्रह्मचर्यमिति ख्यातं सर्वमूर्धन्यमेव यत् ।
भक्तश्चाऽप्यध्यवस्येद्वै ब्रह्मचर्यमकल्मषम् ॥२॥
ब्रह्मव्रतिर्ब्रह्मचारी ब्रह्मसेवी च शीलवान् ।
कालं मायां च कर्माणि जित्वा मद्धाम चाप्नुयात् ॥३॥
सुकरं योगिना तद्धि सिद्धानां च सतां तथा ।
सतीनां सुकरं चापि दुष्करं विषयैषिणाम् ॥४॥
सम्प्रदीप्तं बलिष्ठं चेन्द्रियग्रामं विशेषतः ।
निगृह्णीयात् सावधानः स वै जयति मृत्युदम् ॥५॥
कामस्य न स्वरूपं वै चिन्तयेद् विषयान्न च ।
कामचिह्नानि पश्येन्न रजोभागान् विवर्जयेत् ॥६॥
रजःपुष्टिकरान् भागान् वर्जयेद् देहवानिह ।
धातुपुष्टिकरान् भोगाँस्तथैव परिवर्जयेत् ॥७॥
ज्ञानयुक्तेन मनसा विरागसहितेन च ।
रागभावं विनाश्यैव वर्तयेदात्मभाववान् ॥८॥
कुणपाऽमेध्यसंयुक्तं शरीरं कामनाश्रयम् ।
भविष्यन्निरयक्षेपकारकं विश्वसेन्न वै ॥९॥
वातपित्तकफागारं रक्तत्वङ्मांसकुण्डकम् ।
मज्जास्नाय्वस्थिनाड्याढ्यं मलमूत्रादिसंभृतम् ॥१०॥
कामाश्रयं च निकृष्टं ज्ञात्वा रागं विवर्जयेत् ।
धमन्यो मलवाहिन्यः प्रतायन्ते समन्ततः ॥११॥
आपगा इव चाब्धिं वै देहं पुष्णन्ति बाह्यकैः ।
तासु चैका तु धमनी मनोवाहाभिधा हृदि ॥१२॥
कामधात्वाश्रया चास्ते शुक्रं मुञ्चति कल्पजम् ।
शुक्रं बहुविधं प्रोक्तं तैजसं नेत्रयोर्गतम् ॥१३॥
कर्णयोर्द्रवरूपं च शब्दग्राहकमेव तत्॥
एवमन्येन्द्रियाणां मन्दिरे प्राप्तं प्रशक्तिदम् ॥१४॥
जले चास्ते तथा दुग्धे स्नेहो घृतं च वर्ष्मणि ।
तदेव शुक्ररूपं निर्मथ्यतेऽति तु मन्थनैः ॥१५॥
स्वप्नेऽप्येवं मनोजन्यं संकल्पजं रजोंऽशकम् ।
शुक्रं तूत्पद्य वेगेन बलहीनं विशत्यपि ॥१६॥
त्रीणि बीजानि शुक्रस्य ह्यन्नं रसो मनोवहा ।
एतत्त्रयं विदित्वैव शिथीलयेत् त्रिकं मुहुः ॥१७॥
ततश्च शुक्रानुत्पादाद् ब्रह्मव्रतं प्रपुष्यति ।
मनो भक्ष्यस्याऽणुतमो भागः पुष्टतमं ततः ॥१८॥
निर्वासनं विधायैव विरागेण जयेद्धि तत् ।
ज्योतिष्मद्विरजः स्वात्मरूपतामेति मानसम् ॥१९॥
रजोमयं परावृत्त्य सत्त्वमयं प्रजायते ।
सत्त्वभावभावितं च सच्चिदानन्दतामियात् ॥२०॥
तरुणाधिगतं तद्वै राजसं भाति यावता ।
तावता तल्लयार्थं वै ध्यानयोगं समाचरेत् ॥२१॥
एकाग्राऽभ्यसनं कार्यं तारुण्यं तेन लीयते ।
पक्वभावं गतं तच्च बलहीनं प्रजायते ॥२२॥
तदात्मानं समाश्रित्य जीवदात्मबलान्वितम् ।
ततश्चात्मानमुत्सृज्य न याति विषयं क्वचित् ॥२३॥
न चेन्द्रियाण्यभियाति नेश्वरादिचमत्कृतिम् ।
न सिद्धीर्न च वेगाद्यं न मायां न च तद्गुणान् ॥२४॥
एवंविधं वेगहीनं यदा स्याद्वै स्वमानसम् ।
तदा सुदुर्गं पन्थानं गुणराज्यानुयायिनम् ॥२५॥
अतीत्य परमं मार्गं चात्मराष्ट्रीयमृच्छति ।
आसीममार्गं चोल्लंध्याऽक्षरेऽमृतं समश्नुते ॥२६॥
इत्येवं वर्तमानस्य ब्रह्मलोकः करस्थितः ।
ब्रह्मचर्यरतस्याऽत्र ब्रह्मलोको हि वर्तते ॥२७॥
दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति देहिनः ।
असक्ता ये ब्रह्मशीलास्ते यान्ति धाम मे परम् ॥२८॥
दृष्ट्वा सृष्टिं सन्ततां च जन्ममृत्युजरादिभिः ।
आधिव्याधिक्लेशदुःखैर्व्याप्ता यतेत मुक्तये ॥२९॥
शरीरेन्द्रियसंघातानन्तःकरणकान्यपि ।
संयुज्य श्रीपतौ भक्तो निरपेक्षश्चरेत् सुखम् ॥३०॥
मनःसंगं कृपयाऽपि नैव कुर्यान्मुमुक्षुकः ।
संगे ह्युपेक्षां कुर्वीत ज्ञात्वा संगफलं जगत् ॥३१॥
संगफलं विहायैव वर्तयन् कर्मठोऽपि सन् ।
नैव बध्नाति मुक्तात्मा पद्मपत्रमिवांभसा ॥३२॥
क्षमाऽऽर्जवं तथा द्रोहो यस्य स्यात् स सुखी भवेत् ।
दुःखान्निःसरणं ज्ञात्वा निःसरेत् स सुखी भवेत् ॥३३॥
नाऽपध्यायेन्न स्पृहयेन्नाऽयोग्यं चिन्तयेदसत् ।
चिन्तयेद्वै परंब्रह्म शृणुयान्मे कथामृतम् ॥३४॥
कल्कापेतां वदेद् वाचं धर्मं कार्ष्णमनुव्रजेत् ।
व्याहरेच्छ्रीहरेर्नाम चिन्तयेदर्थमुत्तमम् ॥३५॥
अनर्थं निरयाणां सम्प्रसञ्जकं विवर्जयेत् ।
प्रतिलोमां दिशं बुध्वा सांसारिकीं विवर्जयेत् ॥३६॥
अनीहश्च तथा मुक्तः सर्वैः परिग्रहैर्मुहुः ।
विविक्तचारी नियमी ज्ञानप्रदग्धकिल्बिषः ॥३७॥
आत्मावान् धृतिमान् भूत्वा हृत्प्रकाशं प्रमार्गयेत् ।
यत्र देवाः प्रकाशन्ते ततो ब्रह्म प्रकाशते ॥३८॥
एवं स्थितिं समापन्नो ब्रह्मभूयाय जायते ।
यद्वा योगमहावृत्तिं समाचरेच्छनैः शनैः ॥३९॥
आहारनियमं कृत्वा चिन्तानियममित्यपि ।
ध्यानवृद्धिं समासाद्य स्वात्मप्रकाशमर्जयेत् ॥४०॥
ज्ञानप्रकाशसंयुक्तश्चात्मप्रकाश एधितः ।
भक्तिप्रकाशसन्मिश्रः सूर्यवत्सम्प्रकाशते ॥४१॥
देवप्रकाशवान् पूर्वं पश्चादात्मप्रकाशकः ।
ततः स्वयंप्रकाशः स्यात् स स्याद्वै कृष्णवल्लभः ॥४२॥
एवं प्रकाशमार्गेण परान् स्वर्गान् विक्रम्य च ।
चित्प्रकाशो भवेत् शश्वद् ब्रह्मप्रकाशवान् हि सः ॥४३॥
सगुणो मञ्जुलो हंसः पारवान् स्वप्रभो यदा ।
वीतरागोऽपवर्गज्ञो भवेन्मामेति वै प्रभुम् ॥४४॥
गुणातीतो जरामृत्यू जित्वा मायामयं पुरम् ।
अक्षरामृतमाप्नोति यत्तद्बह्म सनातनम् ॥४५॥
एतत्सर्वं ब्रह्मचर्यलभ्यं भवति शाश्वतम् ।
निद्रा व्रतहा संत्याज्या ब्रह्मचर्यं समिच्छता ॥४६॥
मनो निद्रायुऽतं व्यग्रं रजसा त्वभिभूयते ।
रजोभावस्य नैर्बल्ये व्यग्रता क्षीणतां व्रजेत्। ॥४७॥
शान्तिर्भवेत् सत्त्ववृत्तिप्राधान्यं गुरुतालयः ।
तेन निद्रालयः स्याच्च ज्ञानवृत्त्या स्वपित्यपि ॥४८॥
संसारवृत्तिविलये स्वप्नं दूरतरं भवेत् ।
तेन ब्रह्मपरो भूत्वा ब्रह्मश्रेष्ठमवाप्नुयात् ॥४९॥
प्रसन्नमनसा यद्यत् संकल्पयति मानसम् ।
तत्तत्संस्कारमापन्नं स्मर्यते च मुहुर्मुहुः ॥५०॥
.सात्त्विकेष्वपि देवेशं परेशं मां विचिन्तयेत् ।
सर्वभूतात्मभूतस्थं तेन मां चोत्तरे लभेत् ॥५१॥
लिप्सेत्तु मनसा भक्तो मम योगं सुखावहम् ।
आत्मप्रसादं सौम्यं च देवानां दर्शनं हृदि ॥५२॥
नित्यमेवं समभ्यासात् तत्संस्कारः सुरांस्ततः ।
हृदयं संस्थितान् पश्येत्ततो ब्रह्म प्रकाशते ॥५३॥
ब्रह्मचर्यं तदेवाहुर्यत्तद् ब्रह्मणि वर्तनम् ।
ब्रह्मसंसृष्टदेवेषु सत्सु यद्वर्तनं च तत् ॥५४॥
ब्रह्म तत्परमं ज्ञानं चामृताऽक्षरवेदनम् ।
एवं विदित्वा स्वात्मानं प्रयान्ति परमां गतिम् ॥५५॥
मायां त्यक्तुं प्रविद्याच्चाऽक्षरं विद्याद्विमुक्तये ।
प्रवृत्तिं सम्परित्यज्याऽक्षरो भूत्वाऽक्षरं व्रजेत् ॥५६॥
प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ।
निवृत्तिलक्षणो धर्मो ब्रह्मदः शाश्वतप्रमुत् ॥५७॥
श्रियं दिव्यामभिप्रेप्सुः श्रीपतिं मां हृदि स्मरेत् ।
सर्वभावेन मत्प्राप्त्यै कुर्यान् मद्योगकृत्तपः ॥५८॥
ब्रह्मचर्यमहिंसा च शारीरं तप तन्मतम् ।
मत्स्मृतिर्मनसो रोधो मानसं तप एव तत् ॥५९॥
मत्प्रसादादनं श्रेष्ठं तपो वै पापनाशनम् ।
वासनाया विमर्दोऽपि बुद्धेस्तपः परं मतम् ॥६०॥
आत्मनिष्ठा चेतनस्य तपः परममुच्यते ।
मद्योगार्थं प्रयत्नश्च सततं तप उत्तमम् ॥६१॥
अव्याहता मतिर्यस्य मदन्यैर्जडचेतनैः ।
संस्थितिं ब्रह्मसाम्यां वै गतो यास्यति मामनु ॥६२॥
मायासर्गे याऽऽयतिः सा परसर्गे न विद्यते ।
आत्मज्ञानगुणाद्यैश्च दिव्यभावैः प्रमोदते ॥६३॥
आयुषोऽन्तेऽत्र मनुजाः सतः केचिदुपासते ।
केचिदक्षरभावं चाऽऽत्मानं केचिदुपासते ॥६४॥
परे देवं परं मां वै प्रस्थाने समुपासते ।
सर्व एते परभावाः प्रयान्ति परमां गतिम् ॥६५॥
ब्राह्मीं तनुं लभन्ते ते विमुक्तामपरिग्रहाम् ।
मम विज्ञानसम्पन्ना मदाराधनतत्पराः ॥६६॥
ममाश्रयं परं लब्ध्वा प्रयान्ति परमां गतिम् ।
विद्यां लब्ध्वा परां ब्रह्मभूता यान्ति परां गतिम् ॥६७॥
यथाभावमुपासन्तः सर्वे यान्ति परां गतिम् ।
कषायवर्जिताः शान्ता मदाश्रयपरायणाः ॥६८॥
विमुच्यन्ते गुणक्लेशैः प्रयान्ति परमां गतिम् ।
भगवन्तमजं विष्णुं दिव्यं नारायणं प्रभुम् ॥६९॥
ज्ञात्वाऽऽत्मस्थं हरिं मां च शुद्धस्नेहसमन्विताः ।
भावतृप्ता हि मां यान्ति निवर्तन्ते न तेऽक्षराः ॥७०॥
मां वा मे साधुपुरुषान् मदंशान् संश्रयन्ति ये ।
प्राप्य ते परमं धाम मोदन्तेऽक्षरमव्ययम् ॥७१॥
तृष्णाबद्धं जगत् सर्वं चक्रवत् परिवर्तते ।
तृष्णातन्तुर्येन दग्धस्तस्य मद्धाममार्गणम् ॥७२॥
सूच्या सूत्रं यथावस्त्रे संसारयति वायकः ।
तद्वत् संसारसूत्रं हि तृष्णासूच्या प्रसार्यते ॥७३॥
तस्माद् विमुक्तः पुरुषो मे भक्त्या याति मामपि ।
तं स्नेहेन विमानेन नयामि धाम मामकम् ॥७४॥
इत्युपादिश्य भगवान् विरराम क्षणं ततः ।
राधिके प्रददौ मन्त्रं नूत्नेभ्यः श्रीहरिः स्वयम् ॥७५॥
सभासमाप्तिमकरोत् सन्ध्यावन्दनमाचरत् ।
रात्रौ च भोजनं चक्रुः सर्वेऽध्वरे समागताः ॥७६॥
महीमानेषु सर्वत्र रञ्जनान्यभवन्निशि ।
श्रीहरिः शयनं प्राप ब्रह्मप्रियादिसेवितः ॥७७॥
मखार्थिमहीमानानां शिविरेषु नटादयः ।
चक्रू रात्रौ नाट्यमग्र्यं पूर्वावतारबोधकम् ॥७८॥
मल्लाश्चक्रुर्मल्लयुद्धं बहुयुक्तिसमन्वितम् ।
गायकानां गायनानि गान्धर्वमण्डपेऽभवन् ॥७९॥
कुत्रचित्तु विदुषां वै कथाऽऽख्यानानि चाऽऽभवन् ।
सूतमागधबन्दीनां चारणानां च शास्त्रिणाम् ॥८०॥
काव्यानि चैतिहासानि मण्डपे त्वभवन्निशि ।
कुत्रचिद् वारनारीणां नृत्यानि गीतिमन्ति च ॥८१॥
राजन्यवर्गसंसत्सु भवन्ति स्म तदा निशि ।
कुत्रचिद् देवतानां च देवीनां देवयोषिताम् ॥८२॥
ब्रह्मसरसामप्सरसां गीतिनृत्यानि चाभवन् ।
कुत्रचिदीशसृष्टीनां महोत्सवा भवन्ति हि ॥८३॥
क्वचिद् दानवदैत्यानां मनोरञ्जनकानि च ।
भवन्ति विविधास्तत्र क्रीडा उत्सवबोधिकाः ॥८४॥
प्रदर्शनानि लोकानां पशूनां पक्षिणां तथा ।
योषितां च नराणां च देहिनामभवँस्तथा ॥८५॥
कुत्रचिद् वनवल्लीनां द्रुमाणां तृणपत्रिणाम् ।
फलानां शिबिकानां च प्रदर्शनानि चाभवन् ॥८६॥
कुत्रचिच्छिल्पकार्याणां काष्ठोपलमृदां तथा ।
कार्पासहीरकौशेयत्वगूर्णानां तदाऽभवन् ॥८७॥
एवं गजानामश्वानां गवां केसरिणां तथा ।
शरभाणां गरुडानामुष्ट्राणां दर्शनानि च ॥८८॥
रेण्डीयानां च हंसानां शुकानां दर्शनानि च ।
सैन्यानां च महिषीणां मृगाणां दर्शनानि च ॥८९॥
एवंविधानि नूत्नानि बहुदेशोद्भवानि च ।
बहुलोकसमुत्थानि वस्तूनि यानि यानि च ॥९०॥
कलात्मकानि सर्वाणि हेतुमुख्यानि यानि च ।
यन्त्रात्मकानि चान्यानि तत्राऽभवँस्तदा शुभे ॥९१॥
गोयाजनभूमौ वै प्रदर्शितानि पालकैः ।
एवं षष्ठीनिशा सर्वा महोत्साहसमन्विता ॥९२॥
व्यतीताऽर्धा ततो लोका निद्रायां संगताः सुखाः ।
सप्तम्यां प्रातरेवाऽथाऽवाद्यन्त तूर्यजातयः ॥९३॥
मंगलानि कीर्तनानि गीतयश्चाऽभवँस्तथा ।
स्तावकानां स्तवनानि निनादा यन्त्रसंभवाः ॥९४॥
वेदघोषाश्च विप्राणां सतां सद्भजनानि च ।
योषितां श्रीबालकृष्णयशोयुक्ताश्च गीतयः ॥९५॥
देवीनां देवतादिव्यकथाख्यानप्रगीतयः ।
ईश्वरीणां शेषवार्तागीतिकाश्च तदाऽभवन् ॥९६॥
निद्राशून्या अपि रात्रौ भूरीतिं परिगृह्य च ।
मौनं शान्तिं च निवृत्तिं प्राप्ताश्चासन्निशाह्वये ॥९७॥
प्रातश्चैवं तु विविधैर्मांगलिकश्रवादिभिः ।
स्वस्था भूत्वा कृतस्नाना कृताह्निकास्तदाऽभवन् ॥९८॥
राधिके श्रीहरिः स्नातः कृताह्निकः कृतार्चनः ।
पितरौ च निजौ कृष्णो ववन्दे पादयोः पतन् ॥९९॥
राजाद्याश्च कृतकार्या हरिं पूजयितुं तदा ।
समाययुर्महासौधे श्रीनिवासालये शुभे ॥१००॥
पुपूजुः श्रीहरिं प्रीत्या पादोदकानि वै पपुः ।
आरार्त्रिकं प्रचक्रुश्च राजन्याः संगता गृहे ॥१०१॥
पुष्पांजलिं प्रदत्वैव नत्वा चाशीर्वचोऽन्विताः ।
कृतभाग्यास्तथा राज्ञ्यः पूजयित्वा तथैव तम् ॥१०२॥
आययुर्वै मण्डपं च यज्ञस्य भगवानपि ।
ऋषयश्चाययुस्तत्र कर्मठा देवतास्तथा ॥१०३॥
राधिके सर्वहव्यानि समिधा मन्त्रदेवताः ।
वह्नयः सर्व एवापि मण्डपे तत्र चाययुः ॥१०४॥
अथ प्रावर्तत कार्यं यज्ञीयं चादितः खलु ।
यथापूर्वं क्रमलाभं सावधानतया मखे ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यज्ञभूमौ षष्ठ्यां सायं चोपदेशादि भोजनं शयनं सप्तम्यां प्रातर्यज्ञमण्डपागमनं चेत्यादिनिरूपणनामा सप्तविंश-
त्यधिकद्विशततमोऽध्यायः ॥२२७॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP