त्रेतायुगसन्तानः - अध्यायः २७३
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच--
राधिके कुंकुमवाप्यां चित्प्रकाशस्य दीक्षया ।
प्रेरिताः ऋषयश्चान्ये पञ्चशतं हरिश्रिताः ॥१॥
लोमशं सद्गुरुं नत्वा दीक्षार्थं जगदुर्द्रुतम् ।
लोमशोऽपि ददौ दीक्षां वैष्णवीं तत्स्थले शुभाम् ॥२॥
सर्वमन्त्रयुतां काषायाम्बरीं साधुसम्मताम् ।
कृतोपवासाः सर्वे ते कृतदेहप्रशुद्धयः ॥३॥
कृतहोमा जगृहुश्च मन्त्रान् काषायधारिणः ।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ॥४॥
इत्येनं शरणं मन्त्रं जगृहुर्दृढमानसाः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥५॥
समर्पणाख्यं मन्त्रं तं जगृहुश्च ततः परम् ।
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥६॥
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।
इत्येनं रक्षणमन्त्रं जगृहुश्च ततः परम् ॥७॥
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥८॥
ब्रह्मभावाभिधं मन्त्रमेनं जगृहुरन्ततः ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥९॥
पिता बन्धुः सुहृन् मित्रं रक्षकः पालकोऽस्तु सः' ।
इत्येनं चात्मनिवेदं मन्त्रं च जगृहुस्ततः ॥१०॥
अथ ते मुनयो राधे! नत्वा श्रीलोमशं मुनिम् ।
पप्रच्छुः पाल्यधर्मांश्च लोमशः प्राह वै ततः ॥११॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
सर्वान् साधुसमर्हांश्च धर्मान् स्वयं प्रवक्ष्यति ॥१२॥
अथ राज्ञी राजपत्नी साध्वीदीक्षां ततः परम् ।
जग्राह तत्र सरस्तटे वै राधिके शुभाम् ॥१२॥
बह्वयस्ततः प्रजगृहुः साध्वीदीक्षां हि योषितः ।
दीक्षातीर्थं साधुतीर्थं साध्वीतीर्थं ह्यभूद्धि तत् ॥१४॥
ततः साधुपञ्चशतं साध्वीपञ्चशतं तथा ।
लोमशेन समं श्रीमद्बालकृष्णालयं शुभम् ॥१५॥
गत्वा सर्वे च सर्वाश्च साधुधर्मान् हरेर्मुखात् ।
प्रपूज्य च निषद्यैव शुश्रुवुः प्रश्नितस्य वै ॥१६॥
स्थूलदेहे सूक्ष्मदेहः सूक्ष्मदेहे तु वासना ।
वासनायां जीवनं च जीवने साक्षिभावना ॥१७॥
साक्षिभावे च नैर्गुण्यं नैर्गुण्ये लेपवर्जनम् ।
अलेपे ब्रह्मनिष्ठा च ब्रह्मभावे प्रमुक्तता ॥१८॥
प्रमुक्तौ परमानन्दः परब्रह्मकृतो भवेत् ।
एवं दशविधा वेदीं चारुह्याऽऽनन्दमश्नुते ॥१९॥
दशांगं च समाधानं कर्तव्यं साधुभिः सदा ।
देहस्य वशता कार्या तपसा निग्रहेण च ॥२०॥
तितिक्षया च क्षमया शीलेन सेवयाऽनिशम् ।
सूक्ष्मेन्द्रियाणां वशता कर्तव्या धैर्यभावनैः ॥२१॥
अप्रवृत्त्या विषयाणामदानेन धिया तथा ।
विवेकेन विचारेण शान्तवृत्त्या निरन्तरम् ॥२२॥
वासनायास्ततो नाशः कर्तव्योऽनिच्छया सदा ।
अस्मृत्या चरमस्मृत्या दैर्घ्येण च चिरेण च ॥२३॥
जीवनं प्राणसञ्चारः कर्मफलाऽविनोद्भवः ।
फलार्पणेन वै कृष्णे प्राणसंयमनेन च ॥२४॥
यात्रामात्रग्रहणेन कुभकाद्यैः पुनः पुनः ।
प्राणसंयमनं कुर्यात् प्राणदोषान् परित्यजेत् ॥२५॥
साक्षिभावं सुखे दुःखे स्वाभिमानं निजस्य यत् ।
त्यजेन्निर्ममतायुक्तो निरहंकार इत्यपि ॥२६॥
स्वार्थभावे हि साक्षित्वं पारार्थ्ये साक्षिता कुतः ।
एवं जयेत् साक्षिभावं ममाऽहंत्यजनाद् यतिः ॥२७॥
ततोऽस्य गुणसंस्पर्शाः सुखदुःखविमोहिनः ।
प्रकाशप्रवृत्तिनियमाः शीतोष्णमध्यमास्तथा ॥२८॥
न जायन्ते यतोऽस्यैव नैर्गुण्यं समपद्यत ।
गुणानामर्पणं कृष्णे नैर्गुण्यं चान्तरेऽपि च ॥२९॥
मनसा मननं यत्तत् कृष्णेऽर्पितं न लेपकृत् ।
चित्तेन चिन्तनं कृष्णेऽर्पितं नैव हि लेपकृत् ॥३०॥
बुद्ध्या च बोधनं कृष्णेऽर्पितं नापि च लेपकृत् ।
अहन्तयाऽभिमननं कृष्णेऽर्पितं न लेपकृत् ॥३१॥
तन्मात्राऽऽलोचनं तेन सुतरां लेपकृन्न वै ।
भावना वासना वापि संस्कारश्च हरौ धृतः ॥३२॥
सुतरां दिव्यतां प्राप्तो लेपकृन्नैव निर्गुणः ।
एवं सर्वार्पणे सर्वं निर्गुणं हरियोगतः ॥३३॥
कर्तव्यं साधुभिश्चापि साध्वीभिः सर्वथा त्विह ।
मायागुणैरलोपे च जाते फलाद्ययोगिनि ॥३४॥
ब्रह्मता ब्रह्मनिष्ठा वै ब्रह्मवद् वर्तनं स्थितिः ।
जायते सर्वथा साधोः सर्वदाऽक्षरसाम्यता ॥३५॥
यथाऽक्षरे सृष्टयो वै जायन्तेऽन्तःप्रयन्ति च ।
ब्रह्मणि सृष्टिस्पर्शो न मायास्पर्शोऽपि नैव च ॥३६॥
ततोऽस्य बन्धनं नैव मायास्पर्शो हि बन्धनम् ।
अमायिकस्य साधोश्च द्वन्द्वाभावो निरन्तरम् ॥३७॥
साक्षात्कारोऽपरोक्षश्च चिदात्मन्येव जायते ।
अपरोक्षानुभूत्या च मिथ्या सर्वं विलीयते ॥३८॥
तेन दोषविनाशश्च प्रवृत्तेश्च विनाशनम् ।
फलसम्बन्धनाशश्च सर्वदुःखादिनाशनम् ॥३९॥
आत्ममात्रप्रसत्ताकः साधुर्यदा भवेत्त्विह ।
सोऽयं तदा विमुक्तो वै जीवन्नपि निरुच्यते ॥४०॥
एतादृशप्रयुक्तस्य ब्रह्मानन्दः प्रजायते ।
निजात्मानं ब्रह्मरूपं प्राप्तस्येह सतः सदा ॥४१॥
परे ब्रह्मणि चित्तेर्वै तादात्म्यं संप्रसज्यते ।
तादात्म्यमिव तादात्म्यं जायते पारमेश्वरम् ॥४२॥
यथा जिह्वा मधोर्भिन्ना मधोः रसं प्रविन्दते ।
यथा चक्षुर्गोलकस्थं वस्तुरूपं प्रविन्दते ॥४३॥
यथा मनोऽन्तरस्थं च विप्रकृष्टं प्रविन्दते ।
यथा बुद्धिश्चात्मगता परात्मज्ञा प्रजायते ॥४४॥
स्ववेत्त्री जायते चापि स्वात्माधिकप्रगोचरा ।
तथाऽऽत्मा स्वप्रकाशोऽस्ति स्ववेत्ता स्वं प्रकाशते ॥४५॥
स्वप्रकाशयुतोऽस्वं स्वान्वितं कृष्णं प्रकाशते ।
कृष्णः प्रकाशयत्येनं परस्परं प्रकाशते ॥४६॥
द्वयोः प्रकाशयोरैक्ये तादात्म्यमिव जायते ।
गुणसाजात्म्यतादात्म्याद् गुणिनोस्तादृशात्मता ॥४७॥
एवं भूतावेशनीत्या परब्रह्मतदात्मता ।
जायते वै तया साध्वोर्द्वयोश्चात्मपरात्मनोः ॥४८॥
परब्रह्मात्मभावेन ब्रह्मानन्दं समश्नुते ।
अयं दशांगयोगो वै साधुधर्मः सदोत्तमः ॥४९॥
कथितः सुसतां सेव्यः परब्रह्मनिवासिनाम् ।
स्वभानं परभानं च यदि स्यादपरा स्थितिः ॥५०॥
स्वभावर्ज्यं परभानं सा बोध्या परमा स्थितिः ।
एतादृशो भवेत् साधुस्त्वसम्प्रज्ञातनामकः ॥५१॥
नारायणस्वरूपः स वेदशास्त्रैः प्रगीयते ।
सनत्कुमारः शंभुश्च शेषनारायणस्तथा ॥५२॥
लोमशोऽयं महर्षिश्च त्वेते नारायणा मताः ।
ब्रह्मप्रियास्तथा सर्वा राधालक्ष्मीरमादिकाः ॥५३॥
गरुडाद्याश्च मे वाहाः सर्वे नारायणा इमे ।
कुंकुमवापीनगरी सर्वा नारायणी मम ॥५४॥
प्रमुक्ता वर्तते त्वत्र साधवः साध्विकाः समाः ।
परब्रह्मात्मका लीलाविभूतयो वसन्ति मे ॥५५॥
केचनात्र भवन्त्येव मद्गुणा वै सहस्रशः ।
केचनात्र भवन्त्येवैश्वर्याणि मम सिद्धयः ॥५६॥
केचनात्र भवन्त्येव दिव्यानि भूषणानि मे ।
केचनात्र भवन्त्येव शक्तयो मम मूर्तिजाः ॥५७॥
केचनात्र भवन्त्येव तेजांसि मम भाः प्रभाः ।
केचनात्र भवन्त्येव भोग्यजातानि यानि मे ॥५८॥
सर्वा कुंकुमवापीयं ममोपकरणात्मिका ।
मन्मूर्तिर्विद्यते सर्वा निर्लेपा निर्गुणा परा ॥५९॥
परब्रह्मस्वरूपा वै ब्रह्मधामनिवासिनी ।
भूरियं ब्रह्मधामाऽस्ति साधवो मामकी तनुः ॥६०॥
इतीत्येवं निजरूपं परब्रह्मात्मकं सदा ।
चिन्तयत ध्यायताऽपि प्राप्नुताऽऽनन्दमुत्तमम् ॥६१॥
एवं धर्मा मया वोऽत्र साधूनां गदितास्त्विह ।
दिव्याः सूक्ष्मा ज्ञानगम्याः साधवो हि तथा मताः ॥६२॥
साधव ऊचुः-
भगवन् सूक्ष्मधर्मा वै भवत्ततोऽवगतास्त्विह ।
स्थूलधर्माः कीदृशा वै कथं रक्ष्या वद प्रभो ॥६३॥
परब्रह्मोवाच-
देहो नरो च वा नारी साधुभावे यदा स्थितः ।
तदा देहस्य दोषा वै त्याज्या ग्राह्या गुणास्त्विह ॥६४॥
आलस्यं च प्रमादं च स्त्यानं त्यक्त्वा प्रगे सदा ।
विनिद्रस्त्वरितो भूत्वा ब्राह्मे स्नानं समाचरेत् ॥६५॥
जलेन भस्मना वा च वायुना मार्जनेन वा ।
देहशुद्धिं प्रकुर्याद्वै तैलाद्यभ्यंजनेन च ॥६६॥
आन्तरे भगवद् ध्यानं शौचं श्रेष्ठं सदाऽऽचरेत् ।
ततो वै पूजनं कृष्णनारायणस्य वै हरेः ॥६७॥
विष्णोः शंभोर्गणेशस्य लक्ष्म्याः सूर्यस्य वै तथा ।
साधूनां पूजनं चारार्त्रिकं नैवेद्यकाऽर्पणम् ॥६८॥
स्तवनं नामरटणं मालावर्तनमाचरेत् ।
हरेः कथं प्रकुर्याच्च भिक्षां वै पाकमाचरेत् ॥६९॥
भूत यज्ञं देवयज्ञं पितृयज्ञं समाचरेत् ।
ब्रह्मयज्ञं नैजयज्ञं कृत्वा भोजनमाचरेत् ॥७०॥
सायं चाराधनं कुर्यान्नवधा श्रीहरेः शुभम् ।
यथोचितं श्रद्धयैव सर्वकल्याणमाचरेत् ॥७१॥
सन्तोषेण च सौम्येनाऽपरिग्रहेण निर्वहेत् ।
नात्याहारं नातितपः प्रकुर्यात् साधुधर्मवान् ॥७२॥
अनाचारं नाचरेच्चाऽकर्तव्यं नाचरेत्तथा ।
क्लेशं हिंसां मृषा निन्दां परवादं विवर्जयेत् ॥७३॥
परोपकारं कुर्याच्च देहेन मनसा गिरा ।
क्रियया परसौख्यार्थं हितं सौख्यं समाचरेत् ॥७४॥
आप्ममार्गं मोक्षमार्गं विशेषेण प्रसाधयेत् ।
परेषां पापनाशार्थं शरण्यः संभवेत् सदा ॥७५॥
मम मन्त्रान् प्रदद्याच्च दीक्षां दद्याच्च मामकीम् ।
स्वाध्यायं मोक्षदं ज्ञानं प्रकुर्याच्छृणुयात्तथा ॥७६॥
तीर्थानि विचरेच्चापि गृह्णीयाच्छुद्धभोजनम् ।
शुद्धं जलं प्रपेयाच्च गालितं पय आदि च ॥७७॥
रागं तृष्णां मदं लोभं नैव कुर्यात् कदाचन ।
तिरस्कारं न कस्यापि कुर्याद् वै ब्रह्मभावनः ॥७८॥
प्रतारणं न वै कुर्याद् द्वेषं क्वचिन्न चाचरेत् ।
दानं दद्याद् यथाशक्ति मोक्षस्याऽप्यभयस्य च ॥७९॥
आश्रितस्य स्नेहभक्तिं स्वीकुर्यान्मोक्षयोगिनीम् ।
साधवः पावनाः सन्ति सत्संगश्चापि पावनः ॥८०॥
सदा समागमे नैजे चानीय देहधारिणः ।
पावयेत् परया प्रीत्या प्रेषयेन्मम धाम च ॥८१॥
इन्द्रियाण्यन्तःकरणादीनि प्रत्याहरेत् हृदि ।
ध्यानं कुर्यान्मम नित्यं ब्रह्मानन्दं समर्जयेत् ॥८२॥
मम मूर्तौ प्रलीनत्वं कुर्यात् कर्तव्यमुत्तमम् ।
उपासनां प्रकुर्याच्च नित्यं मे मननात्मिकाम् ॥८३॥
एवं भवद्भिः स्थातव्यं कर्तव्यं साधुभिर्मम ।
साध्वीभिश्च तथैवाऽत्र कर्तव्यं सेवनं सताम् ॥८४॥
नारीणां सर्वदा मोक्षदानं ज्ञानं समर्पणम् ।
शिक्षणं च साधुसाध्वीदीक्षणं मुक्तये भवेत् ॥८५॥
व्यसनानि न कार्याणि मोक्षरोधीनि यानि च ।
पतिर्नारायणश्चाऽहं साध्वीनां च सतां सदा ॥८६॥
पातिव्रत्येन धर्मेण सेवनीयोऽहमिष्टदः ।
आत्मनिवेदनं मह्यं कर्तव्यं शाश्वतं सुखम् ॥८७॥
भोक्तव्यं तु मया सार्धं मम दिव्यसमागमात् ।
अहं क्वचिन्न वै त्याज्यः सर्वक्रियासु सर्वदा ॥८८॥
इत्येषा जीवनी मुक्तिः परमुक्तिविधायिनी ।
दिव्यधर्ममयी प्रोक्ता मया सन्तः! शुभाश्रया ॥८९॥
देहधर्माः साधुभिर्वै पालनीया यथोचितम् ।
नाधिक्येनाऽनुषक्तव्या मे सेवाविघ्नरूपिणः ॥९०॥
स्वस्ति वोऽस्तु साधवो मे साध्व्यश्च स्वस्ति वोऽस्त्वपि ।
इत्युक्त्वा राधिकेऽनादिकृष्णनारायणः प्रभुः ॥९१॥
विरराम ततः सन्तोऽर्हणां नीराजनं व्यधुः ।
रक्षणीया मोक्षणीया भवतः स्मेति सञ्जगुः ॥९२॥
ययुश्चाशीर्गृहीत्वैव सरस्तीरे निजालयान् ।
तावत् काशीगतो यश्च नारदो हरिमाययौ ॥९३॥
मंगलपत्रिकायुक्तगुरुणा सह चोत्सुकः ।
चकार दण्डवत् कृष्णनारायणं ततः परम् ॥९४॥
पितरं मातरं नत्वा मंगलं प्रजगाद् सः ।
बृहस्पतिर्देवगुरुः प्रणम्य प्राप्य माननम् ॥९५॥
स्वागतं मधुपर्कादि कुशलं विनिवेद्य च ।
शिवेश्वरस्य तत्पुत्र्या लक्ष्म्याः सौख्यं नमस्कृतिम् ॥९६॥
पत्रं कुंकुमसूत्रेण वेष्टितं च सरत्नकम् ।
पत्रं च राधिके! दत्वा वृत्तं न्यवेदयच्छुभम् ॥९७॥
कुशलं सर्वदा लक्ष्म्या युगलत्वमुहूर्तकम् ।
मार्गशीर्षस्य शुक्लायां चतुर्थ्यां च न्यवेदयत् ॥९८॥
वर्धयित्वा च तत्पत्रं प्रपूज्य च बृहस्पतिम् ।
गोपालकृष्णकस्तत्र नारदं चाऽप्यपूजयत् ॥९९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽनादिश्रीकृष्णनारायणेन साधुसाध्वीभ्यो मन्त्रदीक्षाज्ञानोपदेशादि दत्तम्, काशीतः शिवेश्वरप्रेषितमंगलपत्रिकासहितस्य बृहस्पतेर्नारदेन सह कुंकुमवाप्यामागमनं तत्पत्रप्रदानं चेत्यादिनिरूपणनामा त्रिसप्तत्यधिकद्विशततमोऽध्यायः ॥२७३॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP