संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ४३

त्रेतायुगसन्तानः - अध्यायः ४३

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके भक्तकथां परमपावनीम् ।
ततोऽयं नृपतिः रणंगमस्तीर्थेऽत्र नित्यशः ॥१॥
चकार विधिवत्तूर्ध्वदैहिकं श्राद्धतर्पणम् ।
भोजयामास विप्रांश्च साधून् साध्वीश्च कन्यकाः ॥२॥
बालान् ऋषींश्च देवाँश्च भिक्षुकान् किंकराँस्तथा ।
ददौ दानानि बहुधा स्वर्णरूप्याणि भावतः ॥३॥
जग्राह लोमशान्मन्त्रं वैष्णवं परमं द्रुतम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥४॥
व्रतं चकार विधिवत् तीर्थविधिं चकार ह ।
जग्राह तुलसीमालां प्रतिमां पारमेश्वरीम् ॥५॥
भेजे कृष्णं बालकृष्णं लोमशस्याऽऽश्रमे ततः ।
उवास परमप्रीत्या विप्रभृत्यादिभिः सह ॥६॥
समागमं च साधूनां करोत्येव दिवानिशम् ।
संस्मृत्य पूर्वजाँस्तत्र यज्ञं कर्तुमियेष च ॥७॥
श्रीराधिकोवाच-
कोऽयं राजा कस्य वंशेऽभवत् के तस्य पूर्वजाः ।
कथं यज्ञं चकाराऽसौ कदा कुत्र वदात्र मे ॥८॥
श्रीकृष्ण उवाच-
चन्द्रपुत्रोऽभवदृक्षोऽर्बुदायुर्धर्मयोगवित् ।
तस्य पुत्रः संवरणो बभूव सार्वभौमपः ॥९॥
सूर्यपुत्रीं स तपतीं समुद्वाह सुकन्यकाम् ।
ताभ्यां कालान्तरे जातः कुरुराजा विरागवान् ॥१०॥
पितृराज्यं त्वग्रजेभ्यो पित्रा दत्तमतो ह्ययम् ।
स्वभागं प्राप्य च द्वैतवने गत्वा कृषिं शुभाम् ॥११॥
चकार परमां श्रेष्ठां ब्रह्मदृष्ट्या हलेन वै ।
विष्णुं साक्षात् क्रतौ कृत्वा मोक्षलोकं जगाम ह ॥१२॥
कुरोः कनिष्ठो भ्राता यः कन्थाधराऽभिधः शुभः ।
संवरणसुतः सोऽपि दायभागं सुराष्ट्रकम् ॥१३॥
आप्तवान् खण्डराज्यं वै जीवनार्थकमात्रम् ।
सिंहारण्ये कोटिनारपत्तने समुवास सः ॥१४॥
एवं सोऽपि चन्द्रवंशस्तस्य पुत्रो रणंगमः ।
सस्मार पूर्वजानश्वपट्टसरसि तैर्थिकः ॥१५॥
ब्रह्माणं च मरीचिं कश्यपं चन्द्रं च ऋक्षकम् ।
संवरणं च कन्थाध्रं तिलवार्भिरतर्पयत् ॥१६॥
सावित्रीं च कलां चाप्यदितिं तथा च रोहिणीम् ।
घटिकां तपतीं हिक्कां तिलाद्भिः समतर्पयत् ॥१७॥
अश्वपट्टसरःपार्श्वे पश्चिमे भूस्तरे क्रतुम् ।
कर्तुं चेयेष नृपतिः रणंगमोऽतिधार्मिकः ॥१८॥
अनादिश्रीकृष्णनारायणस्य षष्ठवर्षके ।
चातुर्मास्ये वैष्णवं स महायागं चिकीर्षति ॥१९॥
निजराज्यात्तु सामग्रीरानयामास सत्वरम् ।
कुशान् सम्पाद्यामास समिधश्च पृथग्विधान् ॥२०।
मण्डपाग्र्यं मण्डपाँश्च रचयामास शोभनान् ।
पर्णशाला वासयोग्याः कारयामास शिल्पिभिः ॥२१॥
कुण्डं कुण्डान् वेदिकाश्च पट्टिका आसनानि च ।
यज्ञपात्राण्युत्तमान्यौदुम्बरं पात्रमुत्तमम् ॥२२॥
कौशेयानि सुवस्त्राणि कारयामास सत्वरम् ।
रसशालाः पाकशाला भोज्यशाला द्रुमादिषु ॥२३॥
क्लृप्तयामास सुभगाः पेयशालाः प्रपादिकाः ।
गौशाला हयशालाश्च पत्नीशाला व्रतस्थलीः ॥२४॥
कारयामास विधिना त्वानयामास चाक्षतान् ।
गोधूमकान् यवान् व्रीहीन् तिलान् फलानि शर्कराः ॥२५॥
हव्यद्रव्याणि सर्वाणि रङ्गद्रव्याणि यानि च ।
पूजाद्रव्याण्युत्तमानि दक्षिणा भूयसीस्तथा ॥२६॥
जपजाप्योपकरणान्यखिलान्यम्बराणि च ।
कलशान् रङ्गपटकान् पत्राणि पञ्चधा तथा ॥२७॥
घृतपात्राणि च चरुं देवानां स्थापनानि च ।
कारयामास विधिना स्वस्तिवाच्यानि मंगलम् ॥२८॥
नान्दीश्राद्धं च संस्कारान् शुद्धिं प्रोक्षणकादिकम् ।
शतमष्टोत्तरं चाथ सहस्रं ब्राह्मणास्तथा ॥२९॥
याज्ञेयाः समतिष्ठन्त ब्रह्माद्याश्चापरे तथा ।
होतोद्गाता प्रत्युद्गाता सामज्ञा यन्त्रवेदिनः ॥३०॥
आहर्ता प्रतिहर्ता च यजमानाश्च जापकाः ।
पाठका ब्रह्मचिन्ताश्च गुणकार्यकरास्तथा ॥३१॥
मृगशृंगादियुक्ताश्च न्यदीषन् मण्डपेषु च ।
प्रावर्तत क्रतुकार्यं वह्निर्न्यधायि हव्यभुक् ॥३२॥
विष्णुर्नारायणः कृष्णनारायणः परेश्वरः ।
चतुर्विंशत्यवतारैः सहितः पूजितः पुरः ॥३३॥
ब्रह्म मुक्ता राधिकाद्या मुक्तान्यो विष्णुयोषितः ।
पार्वती च प्रभा लक्ष्मीः श्रीः सती कमलादिकाः ॥३४॥
हंसा परमहंसा च सगुणा मञ्जुला प्रियाः ।
पूजिताः मातरश्चापि शंभुर्देवा गणाधिपः ॥३५॥
ब्रह्मचराः ऋषयोऽन्ये पार्षदाः शक्तयस्तथा ।
पट्टकन्याश्च दुर्गाद्या ग्रहा देवाश्च क्षेत्रपाः ॥३६॥
दिक्पाला लोकपालाश्च सिद्धयो योगिनीगणः ।
सात्त्विकाः पितृवर्गाश्च स्थापिता देवमण्डले ॥३७॥
ब्रह्मसृष्टिरीशसृष्टिर्जीवसृष्टिर्वरीयसी ।
मण्डपे पूजिता तत्र यज्ञभागार्थिनी च या ॥३८॥
राजसास्तामसाश्चापि देवकिंकरवादिनः।
पूजिता लोमशेनाऽत्र विष्णुयज्ञे महोत्सवे ॥३९॥
रणंगमो यजमानो गुरुर्वै लोमशो मुनिः ।
अनादिश्रीकृष्णनारायणो यज्ञाग्र्यदेवता ॥४०॥
सर्वं तत्र सुसम्पन्नं चातुर्मास्येऽन्वहं क्रतौ ।
विधिवन्नित्यमेवैतदाद्यन्तं कर्म पुष्कलम् ॥४१॥
आषाढे तु समारंभः कार्तिकेऽस्य समापनम् ।
नित्यं च हवनं तत्राऽयुतविप्रप्रभोजनम् ॥४२॥
अन्येषां नैव पारोऽस्ति कोटिकन्यादिभोजनम् ।
कोटिबालादिभोज्यानि वस्त्रदानानि नित्यशः ॥४३॥
घृतकुल्या दधिकुल्याः पयःकुल्याः सहस्रशः ।
रसकुल्या मधुकुल्या मधुपर्कादिवैभवाः ॥४४॥
मिष्टपानानि मिष्टान्नोत्तमान्यगणितान्यपि ।
दीयन्ते भोजने तत्र तृप्ता भवन्ति देहिनः ॥४५॥
वह्निर्नित्यं मूर्तिमान् स्वकराभ्यां ग्रसते हविः ।
स्वयंप्रकाशो भगवान् जुहोति घृतधारया ॥४६॥
कृष्णनारायणो वह्निर्गृह्णाति मुखपंकजे ।
यज्ञात्मानः परां तृप्तिं प्राप्नुवन्ति क्रतूत्तमे ॥४७॥
कोटिदानानि दीयन्ते रणंगमेन नित्यशः ।
एवं नित्यं जायमाने यज्ञे त्रैलोक्यवासिनः ॥४८॥
दर्शनार्थं हवनार्थं समायान्ति वियन्ति च ।
नित्यं सहस्रकमलैः पूजयन्ति सुरा हरिम् ॥४९॥
यत्र सा कम्भरा लक्ष्मीस्तथा गोपालकृष्णकः ।
विराजेते च जनकौ पूजोपकरणप्रदौ ॥५०॥
यज्ञद्रव्यप्रदौ चापि तत्र का न्यूनता खलु ।
पत्नीव्रतो महर्षिश्च सर्वाध्यक्षोऽत्र वर्तते ॥५१॥
तत्र का न्यूनता सर्वसत्कारे पानभोजनैः ।
इत्येवं राधिके यज्ञः प्रावर्तत दिने दिने ॥५२॥
वृष्टिः प्रजायते नित्यं मोदन्ते सस्यजातयः ।
कन्थाधरनिमित्तेन कृतो यज्ञः सुतेन वै ॥५३॥
कन्थां विना सर्वमदाद् दाने रणंगमः सुतः ।
कृष्णस्तुष्यतु प्रत्यक्षश्चेत्युक्त्वाऽदात् सुपात्रके ॥५४॥
देवाः स्वर्गात् समागत्य घ्रात्वा धूमान् घृतस्य वै ।
शुकरूपाश्चाब्रुवँश्च दिव्यवाण्या परस्परम् ॥५५॥
धन्यो रणंगमो लोके धन्यः कन्थाधरोऽपि च ।
धन्यश्चन्द्रादयो वृद्धा यद्वंशे यज्ञविस्तरः ॥५६॥
यत्क्रतौ विंशतितमोऽक्षरो लुप्तोऽनुनासिकः ।
सर्वं प्रदीयते यत्र कन्थां कौपीनमन्तरा ॥५७॥
क्षुधा देवी यत्र यज्ञे पराजयं गताऽस्ति वै ।
तृप्तिर्विजयते चात्र धन्यो वै लोमशो मुनिः ॥५८॥
धन्यः पत्नीव्रतो विप्रो धन्यः स्वयंप्रकाशकः ।
अनादिश्रीकृष्णनारायणो येषां सहायकृत् ॥५९॥
चातुर्मास्ये सदा देवा! वस्तव्यं त्वत्र सर्वथा ।
गमनागमने नित्यं वृथा यत्नो न चेष्यते ॥६०॥
दुर्लभं पुण्यतीर्थं दुर्लभा सत्संगतिस्तथा ।
दुर्लभं चाऽर्हणं नित्यं दुर्लभं शरणं हरेः॥६१॥
दुर्लभा पुण्यकीर्तिश्च दुर्लभश्च कथाश्रवः ।
दुर्लभं प्रियमित्राणां नित्यमेवाऽनुदर्शनम् ॥६२॥
दुर्लभा श्रीहरेर्भक्तिर्दुर्लभं चरणामृतम् ।
दुर्लभं तत्प्रसादस्य नित्यमेवाऽशनं तथा ॥६३॥
दुर्लभं सुलभं सर्वं धन्या कुंकुमवापिका ।
धन्यं त्वश्वसरस्तीर्थं यत्र यज्ञः प्रवर्तते ॥६४॥
त्रैलोक्यतृप्तिदो देवाः साक्षाच्छ्रीपतिसन्निधौ ।
नेदृग् ब्रह्मसरश्चापि नेदृग्वै पुष्करं सरः ॥६५॥
सरश्च मानसं नेदृङ् नेदृङ् नारायणं सरः ।
नेदृङ पम्पासरश्चापि न यत्र परमेश्वरः ॥६६॥
अत्र वृक्षाश्च वल्ल्यश्च मुक्ताः सर्वे वसन्ति हि ।
स्तम्बा गुल्मास्तृणात्मानः सर्वे मुक्ता वसन्ति हि ॥६७॥
पशवः पक्षिणो वारिचराः पतंगजातयः ।
पार्थिवाः कीटमशकाः सर्वे मुक्ता वसन्ति वै ॥६८॥
धन्यं रजोऽस्य देशस्य यत्स्पर्शः पापनाशनः ।
धन्यं जलं च सरसो यद्बिन्दुर्मोक्षदायकः ॥६९॥
वयं यज्ञभुजो धन्या येषां लाभोऽयमुत्तमः ।
रणंगमोऽयं धन्यश्च देवदेहो भवत्वयम् ॥७०॥
देवसिद्धियुतश्चास्तु देवस्मृद्धिभरोऽस्तु च ।
देवो देवगतिमाँश्च भवत्वयं रणंगमः ॥७१॥
इत्याशीर्भिर्योजितोऽयं रणंगमो हि भक्तराट् ।
तावत् स्मृद्धं दिव्ययानं स्मृद्धं तदर्थमागतम् ॥७२॥
कामदं कल्पलतिकायुक्तमानन्दसंभृतम् ।
संस्थितं नित्यसेवायामिन्द्रार्पितं ससारथि ॥७३॥
दासदासीभृत्ययुक्तं भोज्याऽमृतह्रदाऽन्वितम् ।
सप्रकाशं सर्वशय्याभोग्यवस्तुसमन्वितम् ॥७४॥
एवं रणंगमो राजा देवानां सुप्रसादतः ।
प्राप्याऽक्षयं विमानं त्वक्षयवस्तुप्रदं सदा ॥७५॥
ददौ दानानि संकल्प्य नित्यं कोट्यर्बुदानि च ।
आहूय विश्वकर्माणं शम्बरं च मयं तथा ॥७६॥
कारयामास तत्तीर्थे त्वश्वपट्टसरोन्तिके ।
परितो देववासनामयुतं साप्तभौमकम् ॥७७॥
स्वर्गवच्छोभयामास देवानस्थापयत्तथा ।
पूजनार्थं च विप्रेभ्यो गृहदानानि वै ददौ ॥७८॥
कल्पवल्लीं च प्रत्येकब्राह्मणाय ददौ तदा ।
सर्वं फलति वल्ल्यां च भोग्यमिष्टं च नित्यशः ॥७९॥
न क्षेत्रस्य न सस्यानां गवां नापि प्रयोजनम् ।
धान्यार्थं च कणार्थं च वसार्थं च तदाऽत्र वै ॥८०॥
अल्पराज्योऽपि राजाऽसौ चान्द्रीं कान्तिं सुनिर्मलाम् ।
कीर्तिं चाप्यभजल्लोके सार्वभौमादिकां तदा ॥८१॥
राधिके! मम भक्तस्य नाऽपूर्णं विद्यते क्वचित् ।
मह्यं ददाति सर्वस्वं तस्मै सर्वं ददाम्यहम् ॥८२॥
एवं यज्ञे जायमाने देवालयाऽयुतेषु च ।
जायमानेषु च ततो रणंगमो दिवंगमः ॥८३॥
अनादिश्रीकृष्णनारायणस्य सप्तमे शुभे ।
आगते वत्सरेऽष्टम्यां हरेर्जन्मोत्सवं व्यधात् ॥८४॥
तत्र रत्नासनेऽनादिकृष्णनारायणं प्रभुम् ।
उपावेशयाऽर्चयत् तु नैकदिव्योपदादिभिः ॥८५॥
ब्राह्मणान् भोजयामास लक्षशो बालकानपि ।
सुरान् संपूजयामास गापयामास गीतिकाः ॥८६॥
मंगलानि विविधानि कारयामास भावतः ।
साधूनृषीन् सतीः साध्वीः पूजयामास वै नृपः ॥८७॥
दानानि दापयामास स्वर्णरूप्यकहीरकान् ।
वस्त्रभूषागोमहिषीर्गजाश्वरथकिंकरान् ॥८८॥
अथ रात्रौ कथां रम्यां वाचयामास लोमशः ।
लक्ष्मीनारायणसंहिताया द्वितीयखण्डगाम् ॥८९॥
कथान्ते कोटिकन्याभिः कृतं कान्तस्य पूजनम् ।
निशायां रासरमणं कोटिरूपैर्हरिः स्वयम् ॥९०॥
कान्ताभिः कोटिभिः साकं चकार परमेश्वरः ।
स्थलपद्मवाटिकायां विस्तृतायां हरिः स्वयम् ॥९१॥
परिहारं चकाराऽथ सुखयित्वा सखीगणान् ।
प्रातर्यज्ञे हवनं च राजा चकार नित्यवत् ॥९२॥
आगतानां च देवानां जन्मोत्सवजुषां नृपः ।
सेवां चकार बहुधा विसर्जनं चकार च ॥९३॥
कार्तिक्यां पूर्णिमायां च यज्ञहोमोत्तरं नृपः ।
परिहारं चकाराऽस्य क्रतोर्ददौ च दक्षिणाः ॥९४॥
रत्नहीरकमाणिक्यस्वर्णरौप्यविभूषणम् ।
वस्त्रान्नयानवाहादीन् ददौ दानान्यनेकशः ॥९५॥
अवभृथं चकाराऽसौ सहर्षिभिः सरोवरे ।
अवतारास्तथा मुक्ता मुक्तान्य ईश्वरास्तथा ॥९६॥
देवाश्च पितरो मर्त्याः सर्वे स्थावरजङ्गमाः ।
यज्ञान्ते प्रययुर्नैजं नैजमालयमुत्सुकाः॥९७॥
राजाऽनादिकृष्णनारायणं भजन् सनातनम् ।
विप्रैर्भृत्यैश्च सहितो दिव्ययानस्थितोऽभवत्॥९८॥
ऋषीन् कृष्णं पितरं मातरं देवान् सुरालयान् ।
तीर्थानि वृक्षवल्लीश्च प्रणम्य प्रययौ गृहम् ॥९९॥
कोटीनाराख्यनगरं प्रजाभिरभिवन्दितः ।
विवेश नगरं नैजं विशश्राम निजालये ॥१००॥
अथ यक्षश्चित्रमालाभिधः शुश्राव तं नृपम् ।
प्रतापिनं महाभक्तं कीर्तिमन्तं सुयौवनम् ॥१०१॥
आजगाम च सौराष्ट्रं चाश्वपट्टसरोवरम् ।
ददर्श भूपतियज्ञभूमिं प्रासादवैभवान् ॥१०२॥
नृपेण कारितान् ज्ञात्वा ज्ञात्वा माहात्म्यमुत्तमम् ।
कृतमालां निजकन्यां दातुं ययौ रणंगमम् ॥१०३॥
रणंगमेन च कल्पवल्ल्या नवीकृतं पुरम् ।
नगरं देवनगरं ददर्श यक्षपुङ्गवः ॥१०४॥
अवातरद् विमानाच्च राज्ञो निवासमम्बरात् ।
कन्यां दासीस्तथा दासान् ददौ रणंगमाय सः ॥१०५॥
राजा विवाहविधिना पाणिग्रहं चकार ह ।
जामाता यक्षवर्यस्य देववद् राजते भुवि ॥१०६॥
यक्षः पुत्रीं प्रदायैव ययौ कौबेरपत्तनम् ।
राधिके! जायते श्रोता वक्ताऽस्य भुक्तिमुक्तिभाक् ॥१०७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रणंगमकृतयशः, प्रभोः सप्तमो जन्मोत्सवः, यक्षकन्यया रणंगमविवाहो विमानादिलाभश्चेत्यादिनिरूपणनामा त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP