त्रेतायुगसन्तानः - अध्यायः १०४
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
राधिके! तत्परं हेमशालायनो नरायणम् ।
पप्रच्छ तु तपः कीदृक् कृतं शंकरकन्यया ॥१॥
अनादिश्रीकृष्णनारायणो जगाद तूत्तरम् ।
शिवराजसुता चक्रवाकीं श्रीगण्डकीतटे ॥२॥
उवाच परया प्रीत्या पुत्रि चागच्छ मे गृहम् ।
इत्युक्ता प्रययौ पुत्री ह्युर्वशी जननीगृहम् ॥३॥
राज्यगृहेऽतिरम्ये सा पालितेव सुतिष्ठति ।
जनानां सा तु सान्निध्ये नैव वदति किञ्चन ॥४॥
निर्जने बहुधाऽऽलापान् मात्रा सह करोति सा ।
नद्यामुद्यानके वाट्यां क्षेत्रे सौधे सभागृहे ॥५॥
पाकगृहे च शयने कणगृहे महानसे ।
स्नानगृहे समाजे च मन्दिरे स्वामिनस्तथा ॥६॥
एवमन्यत्र सर्वत्र सहगा चोर्वशी सदा ।
मात्रा सह दिनक्षेपं करोति शापकारणात् ॥७॥
शिवराजस्य वै भक्त्या सत्या भक्त्या जयस्य च ।
कृष्णायाश्चापि चन्द्रस्य सुभक्त्या धेनुपस्य च ॥८॥
नारायणः स्वयं नित्यं दिव्यकिशोररूपवान् ।
प्रसन्नस्तद्गृहे याति वियाति प्राप्य पूजनम् ॥९॥
भुंक्ते दत्तं तु नैवेद्यं जलं पिबति मिष्टकम् ।
ताम्बूलं चापि गृह्णाति वस्त्रालंकारभूषणम् ॥१०॥
लक्ष्म्या च कन्यया दत्तं सर्वमश्नाति भावतः ।
उर्वश्याऽपि प्रदत्तं च प्रच्छन्नं जनकाय यत् ॥११॥
तत् सर्वं चातिभक्त्यैव गृह्णाति भगवान् प्रभुः ।
नित्यमेवं गृह्यमाणे कान्ते कान्ताऽतिभावुकी ॥१२॥
निमग्ना प्रेमवशगा त्वेकान्ते प्रार्थनां शुभाम् ।
चकार स्वविवाहार्थं शापनाशार्थमित्यपि ॥१३॥
कृष्णादीनां प्रमुक्त्यर्थं -तदा प्राह नरायणः ।
मा शैघ्र्यं वह वामोरु नातिदूरं क्षणं तु तत् ॥१४॥
इत्युक्त्वाऽदृश्यभावं श्रीनारायणोऽगमत्ततः ।
उर्वशी प्राह सा कन्या तपसा साध्यते हरिः ॥१५॥
इत्येवं भगवानाह पिता ते मां नरायणः ।
वद् कीदृक् तपः कार्यं क्व गन्तव्यं हिमालये ॥१६॥
उपद्रवा न यत्र स्युस्तादृशं किं स्थलं भवेत् ।
त्वया दृष्टं भवेत् पुत्रि वद दर्शय तत्स्थलम् ॥१७॥
दैत्याश्च - राक्षसाश्चापि दानवा हरिवैरिणः ।
शंभोश्च वैरिणोऽरण्ये विचरन्ति दिवानिशम् ॥१८॥
अबलानां महत्कष्टं निर्जने तु तपोऽर्जने ।
तत्र त्वं चक्रवाक्यास्से श्येनेभ्यस्ते भयं सदा ॥१९॥
अहं कन्या विवाहार्हा दैत्यादिभ्यो भयं च मे ।
तपःसिद्धिर्यथा स्याद्वै निर्विघ्ना हरितुष्टये ॥२०॥
तादृक् स्थलं वद पुत्रि यदि जानासि पर्वते ।
इत्युक्ता तूर्वशी प्राह मातर्यावान् हिमालयः ॥२१॥
मया दृष्टोऽस्ति परितो विहरन्त्या सुरैः सह।
काश्चित् स्थल्यस्तत्र सन्ति यत्र वसन्ति मानवाः ॥२२॥
द्रोण्यस्ताः पार्श्वभागस्था अरण्यवनमिश्रिताः ।
भूतायनप्रदेशोऽस्ति यत्र वै शांकरीप्रजाः ॥२३॥
नीपालयप्रदेशोऽयं यत्र वै पार्वतीप्रजाः ।
तथा बदरीदेशश्च यत्र नारायणीप्रजाः ॥२४॥
तथा त्रिवर्तदेशोऽपि यत्र त्रिदेवजाः प्रजाः ।
तथा काश्मीरदेशोऽपि यत्रास्ते काश्यपी प्रजा ॥२५॥
तथा गान्धर्वदेशश्च चारणानां प्रदेशकः ।
किन्नराणां प्रदेशाश्च किंपुरुषभूमयः ॥२६॥
सतीशिवस्य कैलासस्तथा देवादिभूमिकाः । -
विद्यन्तेऽसंख्यका मातः पर्वते तु हिमालये ॥२७॥
तत्र विघ्ना भवेयुर्वै देवमानवदैत्यजाः ।
निर्जनं न स्थलं तत्र क्वाऽपि संभाव्यतेऽम्ब वै ॥२८॥
मया त्वेकं स्थलं दृष्टं पुरा यन्नातिदूरगम् ।
द्रोण्यां यत् कृष्णशैलस्य यत्रास्ते पूर्वसृष्टिजः ॥२९॥
हनुमान् ब्रह्मचारी च रामभक्तोऽतितापसः ।
यत्र नैवाऽस्ति विघ्नानां संभवस्तस्य सन्निधौ ॥३०॥
कदलीनां वने सोऽयं महाभागवतः प्रभुः ।
नित्यं सीतादासभक्तो राजते नातिगोचरः ॥३१॥
क्वचित् श्रीबदरीं याति क्वचिद्गौरीतपःस्थलम् ।
गौरीशिखरमेवापि क्वचित् कैलासपर्वतम् ॥३२॥
क्वचिद्वै काञ्चनीं गंगां गहरे शृंगवर्तिनि ।
यत्र यत्र हनुमान् स प्रयाति च वसत्यपि ॥३३॥
तत्र नैवाऽस्ति विघ्नानां मातर्वै संभवः खलु ।
गंगामूले तु शिखरे कल्पलता भवन्ति च ॥३४॥
यद् यदा चेष्यते तत्तत् तदोपस्थितमाप्यते ।
हनूमदाश्रमस्तत्र वर्तते सर्वरक्षकः ॥३५॥
गन्तव्यं तत्र शिखरे तपः कार्यं हि निर्जने ।
आवेदयित्वा कीनाशं स्थास्यावस्तपसे सदा ॥३६॥
इत्येवं निश्चयं कृत्वा दुःखिनीकमला सुता ।
मात्रे निवेदयामास जानक्यै तप ईहितम् ॥३७।
मातर्मे वर्तते चेच्छा कर्तुं नारायणं पतिम् ।
स मां प्राह मदर्थं वै तपः कुरु सुकन्यके ॥३८॥
ततोऽहं तपसोऽर्थ वै गमिष्ये तु हिमालयम् ।
गहनं निर्जनं प्राप्य करिष्ये तप उत्तमम् ॥३९॥
तपः सिद्ध्युत्तरं मातश्चागमिष्ये तवाऽन्तिकम् ।
श्रुत्वा माता शुशोचाऽति कोमला बालिका मम ॥४०॥
कथं पारं तपसः सा गमिष्यति हरेः कृते ।
इत्येवं चिन्तयमाना सा जगाद् हराय तत् ॥४१॥
शिवराजो विचार्यैव योगेनाऽऽह तु जानकीम् ।
योग्यं सा वक्ति कन्याऽत्र यतः साऽस्ति रमा स्वयम् ॥४२॥
त्वं चाऽसि दक्षपुत्री वै सती चाऽहं हरः स्वयम् ।
कृष्णाद्या वैकुण्ठवासाः सन्ति शापवशादिह ॥४३॥
सर्वेऽत्र जनिमापन्ना नारायणः सदा प्रगे ।
भक्तस्नेहादत्र नित्यं समायाति परेश्वरः ॥४४॥
तद्वाक्येन प्रिये कन्या रमा तपः करिष्यति ।
रमया सह च ततो नारायणस्य शार्ङ्गिणः ॥४५॥
प्राप्ते तु समये पत्नि विवाहः संभविष्यति ।
ततो वयं रमाशापाद् विमुक्ताः स्याम भामिनि ॥४६॥
तद्योग्यं सर्वथा चास्तु तपो निर्विघ्नमेव च ।
सफलं तत्तपश्चास्तु हरिश्चास्तु सुतापतिः ॥४७॥
एषा या चक्रवाक्यस्ति सा पुत्री चोर्वशी हरेः ।
शापमुक्ताऽपि तपसा भविष्यति न संशयः ॥४८॥
इत्येवं शंभ्वनुमता जानकी प्राह पुत्रिकाम् ।
वत्से त्वयाऽर्थितः कान्तो नारायणः स्वयं प्रभुः ॥४९॥
तपसा तत्तपस्तेऽस्तु सफलं समनोरथम् ।
प्रापयितुं स्थलीं यत्र तपस्त्वं वै करिष्यसि ॥५०॥
शिवराजस्तथा चाऽहं समागच्छाव ईश्वरि ।
अपेक्षितं गृहाणाऽत्र मुहूर्तं च शुभं तथा ॥५१॥
रक्षार्थं वद दास्यामि भ्रातरं यदि रोचते ।
तदा प्राह रमा मातर्मम किंचिन्न रोचते ॥५२॥
रक्षां मे तपसः कृष्णो रक्षानाथः करिष्यति ।
वस्तु किञ्चिन्न चेच्छामि वन्यं यद्देहसाधनम् ॥५३॥
शुभो मेऽस्तु हरः साक्षात् कैलासवासकृत् प्रभुः ।
रक्षा मेऽस्तु सदा माता सती दक्षसुता मम ॥५४॥
रक्षको मे वैष्णवोऽस्तु हनुमान् शंभुबालकः ।
साहचर्ये चक्रवाकी योर्वशी मम बालिका ॥५५॥
हिमालयः स्वयं रक्षां करिष्यति ममाऽम्बिके ।
स्वयं मे रक्षकश्चास्ते वरदोऽपि नरायणः ॥५६॥
नारायणं वरिष्येऽहं मरिष्ये वा हिमालये ।
साधयिष्ये मनोऽभीष्टं मोक्षयिष्ये तु शापतः ॥५७॥
इत्येवं पूर्वसंस्कारा जगाद मातरं सुता ।
ततः सा बलवच्चन्द्रे पृष्ट्वा संपूज्य मातरम् ॥५८॥
पितरं बान्धवान् बाला स्वसारं च सुहृज्जनान् ।
सखीजनान् समापृच्छ्य कृतकौतुकमंगला ॥५९॥
जटावल्कलवस्त्राढ्या शालग्रामशिलान्विता ।
अपरिग्रहसर्वस्वा त्यक्त्वा राज्यस्य वैभवान् ॥६०॥
विघ्नेशं च सतीं सूर्यं नत्वा शिवं नरायणम् ।
कार्तिकस्यैव पूर्णायां यात्रां चकार कन्यका ॥६१॥
चक्रवाक्या सह पुत्री ययौ शीघ्रं विहायसा ।
तदा वाद्यान्यवाद्यन्त जयशब्दास्तदाभवन् ॥६२॥
सुराणां पुष्पवृष्टिश्च चान्दनी वृष्टिरुत्तमा ।
पार्षदानामभवच्च सहाया मरुतोऽभवन् ॥६३॥
शकुनान्यभवँस्तत्र व्योम्नि सौभाग्यचिह्निताः ।
सुरदेव्यश्च मिलिता गच्छन्त्यो बदरीवनम् ॥६४॥
श्वेतो गजश्चतुर्दन्तो मिलितोऽवतरन् दिवः ।
हनूमान् बालसूर्याभो मार्गे दृष्टिपथं गतः ॥६५॥
यास्यन् काञ्चनगंगां सः स्वाश्रमं तु हिमालये ।
अपृच्छत् कन्यके कुत्र गम्येते वद नोऽधुना ॥६६॥
ममाश्रमे ह्यभक्तानां प्रवेशो नास्ति सर्वथा ।
रमा प्राह नमस्तेऽस्तु रामनाममहोदधे ॥६७॥
महाभागवतश्रेष्ठ रामप्रिय नमोऽस्तु ते ।
तापसीनां तपोरक्षाकर भक्त नमोऽस्तु ते ॥६८॥
अभक्ता नास्मि सीताऽस्मि नारायणप्रिया रमा ।
इयं नारायणपुत्री चक्रवाक्युर्वशी सुता ॥६९॥
सनत्सुजातशापेन चक्रवाकीतनुस्थिता ।
शापमोक्षणकामेयं तपस्तप्तुं समिच्छति ॥७०॥
अहं लक्ष्मीः स्वयं चाऽस्मि तथोऽर्थं यामि वानर ।
हनूमदाश्रमो यत्र त्वास्ते शृंगे सुगह्वरे ॥७१॥
यत्राऽऽस्ते कांचनगंगा कल्पवल्लीसमाश्रया ।
तत्र यामि तपोऽर्थं ते सन्निधौ हरिलब्धये ॥७२॥
श्रुत्वैवं तु रमावाक्यं हनूमान् मातरं द्रुतम् ।
ननाम पादयोः शीघ्रमहोभाग्यममन्यत ॥७३॥
शिवराजस्य जानक्या पुत्रीं श्रुत्वा ततस्तरम् ।
आनन्दं प्राप्तवाँश्चाति सेवावान् किंकरोऽभवत् ॥७४॥
शंकरस्य सुतः साक्षाद्धनूमान् वानरोत्तमः । '
शंभुपुत्रीं स्वसारं श्रीं ज्ञात्वाऽऽनन्दभरोऽभवत् ॥७५॥
स्वसृपुत्रीमुर्वशीं च ज्ञात्वा तामभ्यनन्दयत् ।
सर्वाश्रमं नीतवाँस्तत्र कदलीवनशोभितम् ॥७६॥
स्वल्पशृंगाधित्यकायां गह्वरे सर्वदा सुखे ।
कल्पवल्लीसमायुक्ते सर्वसिद्धिसमन्विते ॥७७॥
नर्भये राज्यसदृशे वासं ददौ प्लवंगमः ।
धूनी ददौ तथा वह्निकुण्डं ददौ शुभाश्रयम् ॥७८॥
कमण्डलुं वल्कलानि चासनं जपमालिकाम् ।
शीतोष्णजलकुण्डानि फलमूलजलानि च ॥७९॥
तथा नारायणमूर्तिं चतुर्भुजां ददौ तदा ।
तथोपचारसर्वस्वं ददौ स्वस्रे हनूधरः ॥८०॥
एवं तद्रक्षिते देशे लक्ष्मीश्चक्रवती तथा ।
मार्गकृष्णद्वितीयातस्तप आद्यं - जपात्मकम् ॥८१॥
'औं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
मालाभिस्तन्मन्त्रजपं चक्रतुस्तु दिवानिशम् ॥८२॥
स्नानं काञ्चनगंगायां सदा त्रिषवणं हि ते ।
चक्रतुः प्रातरेवैते नत्वा श्रीभ्रातरं कपिम् ॥८३॥
पूजयित्वा हरिं नित्यविधानतस्ततः पुनः ।
हवनं त्वनले कृत्वा तेपाते सजपं मुदा ॥८४॥
चक्राते मासमात्रं ते कन्दाहारं सकृद् दिवा ।
रात्रौ भूशयन कृत्वा चक्राते भजनं हरेः ॥८५॥
ततो द्वितीयमासे ते फलाहारं प्रचक्रतुः ।
तृतीये मासि ते पत्राहारं चक्रतुरादरात् ॥८६॥
चतुर्थे मासि ते पुष्पाहारं चक्रतुरुत्सुके ।
पञ्चमे मासि मेघाम्बुपानं चक्रतुरम्बरे ॥८७॥
षष्ठे मासि तु बाष्पाणामशनं चक्रतुर्मुदा ।
सप्तमे चक्रतुः साध्व्यौ कृष्णार्थं पवनाशनम् ॥८८॥
अष्टमे श्वासमात्रेण तस्थतुश्चेतनान्विते ।
नवमे मासि तरुवत् त्वेकपादेन संस्थिते ॥८९॥
दशमे मासि च तयोर्देहयोः काष्ठतुल्यता ।
एकादशे ततो मासि वह्निस्तु तपसोद्भवः ॥९०॥
समुत्थितो महाज्वालश्चात्मशक्त्या भयंकरः ।
व्यानशे सर्वतो दिक्षु ब्रह्माण्डे नाशकारकः ॥९१॥
अणुरूपैश्चातिदाहैर्जावान्तं प्राणनाशकः ।
आश्चर्यं प्राप हनुमान् रामकृष्णेति वै जपन् ॥९२॥
रक्षायां वर्तते तत्र सेवको हरिभक्तकः ।
विज्ञाय भगवान् लक्ष्म्यास्तपसश्चातिकाष्ठताम् ॥९३॥
उर्वश्याश्चापि तपसः परां काष्ठां विलोक्य च ।
नारायणः स्वयं तत्र द्रागेव च समाययौ ॥९४॥
पद्भ्यां समाययौ प्रेम्णा पत्न्यास्तपो विलोकितुम् ।
फलं दातुं तपसश्च तपोऽन्तार्थं समाययौ ॥९५॥
कोटिसूर्यसमं कृष्णं नारायणं विलोक्य च ।
हनुमान् दण्डवच्चक्रे तथा स्वागतमुत्तमम् ॥९६॥
आसनं मधुपर्कं च पूजनं फलपुष्पकैः ।
सुनैवेद्यं जलं शीतं ददौ नारायणाय सः ॥९७॥
नैवेद्यं च जलं नैव बुभुजे श्रीनरायणः ।
यावल्लक्ष्मीश्चोर्वशी च न भुञ्जाते फलं जलम् ॥९८॥
अथ गत्वा सन्निधौ द्रागुवाच परमेश्वरः ।
अहो लक्ष्म्यास्तथोर्वश्याः कीदृशं तप उत्तमम् ॥९९॥
यद्वर्ष्मणोरनला वै सूर्यसमाः क्षरन्ति हि ।
ब्रह्माण्डदाहशक्ता वै महाप्रलयसदृशाः ॥१००॥
शापस्य प्रतिकारोऽद्य पूर्णो जातो न शिष्यते ।
ददाम्याभ्यां बोधयित्वा यदिष्टं सुखदं तयोः ॥१०१॥
इति विचिन्त्य भगवान् हनुमन्तमुवाच ह ।
याह्येतयोश्चेतनार्थं जलं कांचनगांगकम् ॥१०२॥
शीघ्रमानय पात्रेऽस्मिन् मा चिरं कुरु भक्तराट् ।
इत्युक्त्वा भगवानास्ते क्षणं मौनं समाधिमान् ॥१०३॥
इत्येवं राधिके स्वामिकृष्णनारायणः पतिः ।
नारायणस्वरूपेण फलं दातुं समाययौ ॥१०४॥
हेमशालायनाद्यास्तच्छ्रुत्वाऽऽश्चर्यं परं गताः ।
अचिन्तयन्नहो लक्ष्म्याश्चोर्वश्यास्तप उत्तमम् ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने माता-पित्राज्ञां गृहीत्वा लक्ष्म्युर्वश्योस्तपोऽर्थं हिमालये हनुमदाश्रमगमनं, तपः, वर्षान्ते तपःफलं दातुं तत्र नारायणस्यसाक्षाद्गमनमित्यादिनिरूपणनामा चतुरधिकशत-
तमोऽध्यायः ॥१०४॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP