त्रेतायुगसन्तानः - अध्यायः १६०
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
अथ वै राधिके वच्मि यदुक्तं परमात्मना ।
स्वर्णकलशारोहस्य ध्वजस्य विधानकम् ॥१॥
आचार्यो मण्डपस्यैवोत्तरभागे विरच्य च ।
स्वस्तिकमण्डलं ऋत्विग्यजमानादिभिर्युतः ॥२॥
यत्र कुट्यां कलशानां कृतं घटनं शिल्पिभिः ।
तत्र गत्वा पञ्चघटैः संस्नाप्य कलशोत्तमम् ॥३॥
मनोजूतिरितिमन्त्रैः प्रतिष्ठाप्य बलिं तथा ।
दत्वा तु लोकपालेभ्य आचम्याऽभ्युक्ष्य तैलकैः ॥४॥
चन्दनादिभिरभ्यर्च्य त्रिसूत्र्याऽऽवेष्ट्य वै रथे ।
आरोप्य शान्तिपाठाद्यैः स्नानमण्डपमानयेत् ॥५॥
स्वस्तिके भद्रसंज्ञे चासने संस्थाप्य तत्पुरः ।
पुण्याहं वाचयेत् घृतं घृतेत्यभ्युज्य वै घृतैः ॥६॥
उद्वर्त्य यवमसूरहरिद्रापिष्टकेन च ।
उष्णोदकेन प्रक्षाल्योपलिप्य वाल्मीकीमृदा ॥७॥
गन्धोदकेन संस्नाप्य चतुर्भिश्च घटैस्तथा ।
शुद्धोदकेन संस्नाप्याऽर्चयित्वा गन्धपुष्पकैः ॥८॥
वस्त्रैराच्छाद्य च शान्तिपाठमन्त्रान् समुच्चरेत् ।
स्वस्तिमन्त्रेण चोत्थाय प्रादक्षिण्येन मण्डपम् ॥९॥
आनीय पश्चिमद्वारे प्रविश्य देवसन्निधौ ।
भद्रासने विनिवेश्याऽभ्यर्च्य गन्धादिभिस्ततः ॥१०॥
भक्ष्यभोज्याद्यैरापूर्य पठित्वा विश्वतः श्रुतिम् ।
संकलीकृत्य चाचार्यः स्वकुण्डे तु पृथक् पृथक् ॥११॥
मधुक्षीराज्यदधिभिरष्टोत्तरशतं हवम् ।
कृत्वा च शान्तिकलशे निक्षिप्य संस्रवं ततः ॥१२॥
तेनोदकेन क्रमशः पादनाभिहृदक्षिकम् ।
स्पृशेत् पुरुषसूक्तं च विन्यस्य कलशे ततः ॥१३॥
सम्पूज्य कलशं दत्वा बलिं प्रासादमेव च ।
आरुह्य गन्धसलिलैः प्रक्षाल्यांऽगेषु वै ततः ॥१४॥
कृत्वा न्यासान् तूर्यघोषैः प्रासादमस्तके च तम् ।
कलशं तु समानीय क्षणं विश्रम्य वै ततः ॥१५॥
द्वादशाऽक्षरमन्त्रेण सुमुहूर्ते स्थलेऽर्पयेत् ।
ओं आजिघ्रकलशं मह्या द्देवा विशन्त्विन्दवः ॥१६॥
ओं पुनरूर्जानिवर्तस्वशानः सहस्रं धुक्ष्वोरु
धारापयस्वतीनपुनर्मा विशताद्रयिः ।
इतिमन्त्रेण प्रतिष्ठाप्य वस्त्रेणावेष्ट्याऽ
स्त्रेण हुंफट् स्वाहेति समुच्चार्य नमेत्ततः ॥१७॥
चक्रं हिरण्मयं पद्मं शूलं शस्त्रं च विन्यसेत् ।
सुस्थिरीकृत्य वै शिल्पो संस्नाप्य वारिणा तथा ॥१८॥
गन्धपुष्पैः पूजयित्वाऽवतीर्याऽधः प्रणम्य च ।
वस्त्रालंकाररौप्यादिदानं दद्याद् यथाबलम् ॥१९॥
भोजनादि कारयेच्च दीनानाथसतां तथा ।
विप्राचार्यकुटुम्बानां साध्वीनां ब्रह्मचारिणाम् ॥२०॥
अथ कलशसान्निध्ये मानस्तंभोऽतिदार्ढ्यवान् ।
तत्र च ध्वजस्तंभोऽपि प्रतिष्ठेयो विधानतः ॥२१॥
वृक्षसारमयश्चाश्मसारजो लोहजोऽपि वा ।
शींशपास्ताम्रपत्राढ्यो मानस्तंभो मतः खलु ॥२२॥
वर्तुलः शृंगवद्दीऽर्घोऽधिको वा च यथोचितः ।
शिल्पमानेन वै कार्यो दण्डश्च कलशो ध्वजः ॥२३॥
नवत्रिंशच्छताध्याये मानमेषां निरूपितम् ।
अत्र तु पूजनमात्रं फलोद्देशश्च सम्मतः ॥२४॥
मण्डपस्य ध्वजमन्त्रा बोद्धव्याश्चात्र पूजने ।
पूजनं हवनं चापि तत्रत्यविधिना मतम् ॥२५॥
ध्वजो वै परमेशस्य चिह्नं तु सार्वदैवतम् ।
यद् दृष्ट्वा दुष्टसत्त्वानां भवेच्छासनवर्तिता ॥२६॥
सतां भवेद् भक्तिवृत्तिरासुराणां भयन्तथा ।
ध्वजहीनं मन्दिरं न कर्तव्यं तु क्वचिद् भुवि ॥२७॥
तन्तुवर्षसहस्राणि स्वर्गे दाता महीयते ।
ध्वजधूननशस्त्रेण दातुः पापं विनश्यति ॥२८॥
यत्र ग्रामे नगरे च राष्ट्रे राज्ये ध्वजोऽस्ति च ।
नाऽकालमृत्युस्तत्राऽस्ति नाऽलक्ष्मीः पापकृत्स्वपि ॥२९॥
नोपसर्गभयं तत्र न रोगा न ह्युपद्रवाः ।
विपरीतानि नो तत्र सुभिक्षं सस्यसम्पदः ॥३०॥
स्वकालवर्षी पर्जन्यः पयस्विन्यः पयोभृतः ।
ध्वजवन्दनकर्तारः पुण्यवन्तो भवन्ति च ॥३१॥
ध्वजस्य दर्शनं सर्वमंगलं कलशस्य च ।
शिखरस्यापि च तथा मंगलं पुण्यदायकम् ॥३२॥
पापिनां पापशान्तिश्च ध्वजादिदर्शनाद् भवेत् ।
प्रासादप्रतिमावेदीकुण्डध्वजघटेषु वै ॥३३॥
यावन्तः सन्ति अणवस्तावद्वर्षसहस्रकम् ।
स्वर्गे च शाश्वते स्वर्गे मोक्षे मोदन्त एव च ॥३४॥
यजमानादयः सर्वे देवस्यानुग्रहादिति ।
चलमूर्तेः प्रतिष्ठां च वच्मि संक्षेपतो यथा ॥३५॥
शुचौ देशे मण्डपं च कृत्वा कुण्डं च वेदिकाम् ।
प्रतिष्ठादिवसे मूर्तिं चानीय मण्डपे ततः ॥३६॥
निधाय चासने प्राणानायम्योल्लिख्य वै दिनम् ।
संकल्प्य च प्रतिष्ठार्थं गणेशं पूजयेत्ततः ॥३७॥
पुण्याहवाचनं मातृकार्चनं कारयेत्तथा ।
नान्दीश्राद्धं विधायाऽथ गुरुं वृत्वा च ऋत्विजः ॥३८॥
चतुरो वा पूजयेच्च मण्डपस्थापनं गुरुः ।
अग्निस्थापनकं वास्तुपूजनं ग्रहयज्ञकम् ॥३९॥
सर्वतोभद्रके ब्रह्मादिकानावाहयेत्ततः ।
पूजयेत् स्थापयेद् दैवत्य नैवारं चरुं तदा ॥४०॥
श्रपयित्वाऽऽज्यभागान्ते ग्रहहोमं विधाय च ।
पालाशादिसमिद्भिश्च प्रत्येकं शतमष्टकम् ॥४१॥
प्रतिदैवतमेवापि लोकपालादिमन्त्रकैः ।
व्याहृतिभिर्जुहुयाद्वा चाऽऽज्यहोमं तथा चरेत् ॥४२॥
स्थापितानां तु देवानां समित्तिलाज्यकाहुतीः ।
दश दश तथा स्विष्टकृतं हुत्वाऽष्टकं शतम् ॥४३॥
प्रधानदेवतामन्त्रैर्जुहुयाच्च नमेत् प्रभुम् ।
स्वागतं सर्वदेवेश कुर्मस्तेऽत्रेति वै वदेत् ॥४४॥
उत्तिष्ठेतिसुमन्त्रैश्चोत्थाप्य वेद्यां निधाय च ।
पञ्चगव्यैश्चामृतैः पंचभिः संस्नाप्य मन्त्रकैः ॥४५॥
घृताभ्यंगोद्वर्तनादि कलशैः स्नपनादि च ।
कृत्वाऽभिषिच्य तं पीठे ह्युपावेश्य समन्ततः ॥४६॥
जलकुंभानवस्थाप्य क्षिप्त्वा गन्धसुमाऽक्षतान् ।
प्रथमे कुंभके सप्तमृदोऽन्ये पल्लवान् शुभान् ॥४७॥
तृतीये सप्तधान्यानि कुशांश्चाथ चतुर्थके ।
शान्त्युदकं पञ्चरत्नं पञ्चमे तु फलानि च ॥४८॥
प्रवणोदकं पुष्पाणि क्षिपेत् षष्ठे यवान् तथा ।
सप्तमे तु क्षिपेत् सम्पातोदकं चाष्टमे तु वै ॥४९॥
सर्वौषधीः सुनिक्षिप्य आपोहिष्ठेतिमन्त्रकैः ।
हिरण्यवर्णामन्त्रैश्च पवमानेन चापि च ॥५०॥
संस्नाप्य वाससी चोपवीतं दत्वा प्रपूजयेत्॥
गन्धपुष्पैर्धूपदीपैर्नीराज्य पिष्टदीपकैः ॥५१॥
स्वर्णपात्रे तु मध्वाज्यं धृत्वा स्वर्णशलाकया ।
मन्त्रानुच्चार्याऽथ नेत्रे लिखेद् दक्षिणसव्यके ॥५२॥
ओं चित्रं देवानामुदगादनीकं
चक्षुर्मित्रस्य वरुणस्याऽग्नेः ।
ओं तेजोऽसि शुक्रमस्यमृतमसि धामनामासि
प्रियं देवानामनाधृष्टं देवयजनमसि ॥५३॥
अञ्जन्ति त्वामध्वरमितिमन्त्रोग मूर्तिमञ्जयेत् ।
पुनर्मधुघृतेनापि शर्करयाऽपि चाञ्जयेत् ॥५४॥
देवस्य त्वा सवितुश्चमन्त्रेणाञ्जनमञ्जयेत् ।
भक्ष्यभोज्यादर्शकांश्च दर्शयेत् न विलोकयेत् ॥५५॥
दक्षिणां च प्रदायैव द्विजादिभ्यः स्तुवीत च ।
वंशपात्रे पञ्चवर्णान्वितान्नं न्यस्य वह्निना ॥५६॥
देवं नीराजयेदन्नं रुद्राय तु चतुष्पथे ।
दद्याद् ओं नमो रुद्राय स्वाहा कर्माऽस्तु वै शिवम् ॥५७॥
भूतेभ्यश्च नमोऽश्वत्थपर्णे समर्प्य वै बलिम् ।
आचम्य मण्डलदेवान् प्रपूज्य मध्यमण्डले ॥५८॥
प्रतिष्ठितो भवेत्युक्त्वा देवं निवेश्य पूजयेत् ।
देवानां नामभिः कुण्डे तिलाज्यैर्जुहुयाद् दश ॥५९॥
पुष्पाञ्जलिं प्रदायैव नत्वा मण्डलकोत्तरात् ।
स्वस्तिके मञ्चके शय्यां कृत्वोत्तिष्ठेतिमन्त्रकैः ॥६०॥
उपविश्य तु शय्यायां सहस्रसूक्तमागृणन् ।
न्यासान् कुर्यात् नमो ब्रह्मरन्ध्रे तु पुरुषात्मने ॥६१॥
प्राणात्मने नमो मुखे कण्ठे प्रकृतिरूपिणे ।
बुद्धितत्त्वाय हृदयेऽहंकारायोदरे नमः ॥६२॥
मनस्तत्त्वाय गुप्तादौ चित्ताय पादयोर्नमः ।
रसतत्त्वाय बस्तौ च गन्धतत्त्वाय वै नसि ॥६३॥
शब्दतत्त्वाय वै कर्णे स्पर्शतत्त्वाय वर्ष्मणि ।
रूपतत्त्वाय नेत्रे च रसतत्त्वाय रासने ॥६४॥
वाक्तत्त्वाय नमो वाचि पाणितत्त्वाय हस्तयोः ।
पादतत्त्वाय चरणे पायुतत्त्वाय पायुके ॥६५॥
उपस्थाय नमश्चोपस्थके पृथ्व्यै तु पादयोः ।
अप्तत्त्वाय नमो बस्तौ तेजस्तत्त्वाय वै हृदि ॥६६॥
वायुतत्त्वाय वै घ्राणे व्योमतत्त्वाय चाम्बरे ।
गुणतत्त्वाय वै मूर्तौ करणेभ्यो नमोनमः ॥६७॥
पौरुषेण च सूक्तेन कृत्वा न्यासाँस्ततो वदेत् ।
सुखशायी भवेत्येव शय्यायां स्वापयेत् प्रभुम् ॥६८॥
संपूज्याऽधिवासयेच्च देवोपहारमर्पयेत् ।
ब्रह्मणे तत्र सर्वान्नं घृतान्नं वज्रिणे जलम् ॥६९॥
आज्यान्नमग्नये माषान्नं च यमाय चार्पयेत् ।
निर्ऋतये कृष्णव्रीह्यन्नं सघृतं समर्पयेत् ॥७०॥
वरुणाय नवनीतौदनं वायवे यवौदनम् ।
प्रैयंगवं कुबेराय ईशानाय तु पायसम् ॥७१॥
सर्वेभ्यः पायसं दद्यात् नैवारं चरुमित्यपि ।
स्थापयित्वा मण्डलस्य देवताभ्योऽर्पयेद् बलिम् ॥७२॥
रात्रिं नयेत्ततः प्रातश्चोत्थाय मूलमन्त्रकैः ।
श्रपयित्वा चरुं घृतेनाभिघार्योष्टयुक्शतम् ॥७३॥
मूलमन्त्रेण वै हुत्वा देवनामभिरित्यपि ।
स्वाहाऽग्नये च सोमाय धन्वन्तरिस्वरूपिणे ॥७४॥
कुह्वै स्वाहाऽनुमत्यै च प्रजानां पतये स्वाहा ।
परमेष्ठिस्वरूपाय ब्रह्मणे स्वाहाऽग्नये ॥७५॥
सोमाय अग्नये स्वाहा स्वाहा अन्नाय अग्नये ।
अग्नयेऽन्नपतये स्वाहा प्रजापतये च स्वाहा ॥७६॥
विश्वदेवताभ्यः स्वाहा सर्वभूतेभ्यश्च स्वाहा ।
भूर्भुवः स्वश्चाग्नये स्विष्टकृते स्वाहा नमम ॥७७॥
सूर्योदये गुरुर्वेद्यां देवं चाभिमुखं तदा।
विधाय रत्नपुष्पादिमूलफलौषधीस्तथा ॥७८॥
दर्शयित्वा ताम्रपात्रे शान्तिजलं प्रगृह्य च ।
प्रधानदेवमन्त्रेण दशवारं प्रमन्त्रयेत् ॥७९॥
अभिषिच्य देवमूर्ध्नि ओं उत्तिष्ठेत्युत्थापयेत् ।
विश्वतश्चक्षुरित्यादि जपेन्नमेत् पुनः पुनः ॥८०॥
ब्रह्मविष्णुमहेशेभ्यो दिक्पालेभ्यो नमोनमः ।
वसुभ्यश्च नमो रुद्रादित्येभ्यश्च नमोनमः ॥८१॥
अश्विभ्यां च मरुद्भ्यश्च कुबेराय नमोनमः ।
महानदीभ्योऽग्नीषोमाभ्यां द्यावापृथ्वीभ्यां नमः ॥८२॥
इन्द्राग्निभ्यां धन्वन्तरये सर्वेशाय च नमः ।
ब्रह्मणे विश्वदेवेभ्यो नमश्च परब्रह्मणे ॥८२॥
जप्त्वैवं यजमानं चाभिषिच्य देवतां स्मरेत् ।
प्रतिष्ठिताय देवाय दत्त्वा पुष्पाञ्जलिं ततः ॥८४॥
पुरुषसूक्तगायत्र्या व्याहृतिभिश्च मन्त्रकैः ।
देवं तु प्रतिमायां वै प्रतिष्ठाप्य ततः परम् ॥८५१॥
प्राणप्रतिष्ठां कुर्याच्च तद्यथा राधिके शृणु ।
अस्य प्राणप्रतिष्ठाख्यमन्त्रस्य ऋषयस्त्रयः ॥८६॥
देवा वेदास्त्रयश्छन्दांस क्रियात्मवपुस्तथा ।
प्राणाख्या देवता आं बीजं क्रौं शक्तिनियोजनम् ॥८७॥
प्राणप्रतिष्ठायां तथाहि ऋषिभ्यो मस्तके नमः ।
छन्दोभ्यश्चानने देवतायै तु हृदये नमः ॥८८॥
आं बीजाय नमो गुह्ये क्रौं शक्त्यै पादयोर्नमः ।
ओं कंखंगंघंङं आं पञ्चभ्यो भूतेभ्य आं हृदे नमः ॥८९॥
ओं चंछंजंझंञं ईं तन्मात्रेभ्यो नमो ईं च के स्वाहा ।
ओं टंठंडंढंणं ओं ज्ञानकृद्भ्यो नमो ओं शिखायै वौषट् ॥९०॥
ओ तंथंदंधंनं एं कर्मकृद्भ्यो नमो एं कवचाय हुम् ।
ओं पंफंबंभंमं औं कर्मभ्यो नमो औं नेत्रत्रयाय वौषट् ॥९१॥
ओं यंरंलंवंशंषंसंहंलंक्षं ओं आन्तरेभ्यो
नमो अः अस्त्राय फट् ।
एवमात्मनि देवे च न्यासान् कृत्वा
स्पृष्ट्वा देवं ततो जपेत् ॥९२॥
ओं आं ह्रीं क्रौं यंरंलंवंशंषंसंहंसः
देवस्य प्राणा इह प्राणाः ।
ओं आं ह्रीं क्रौं यंरंलंवंशंषंहंसः
देवस्य जीव इह स्थितः ॥९३॥
ओं आं ह्रीं क्रौं यंरंलंवंशंषंसंहंसः
देवस्य सर्वेन्द्रियाणि ।
ओं आं ह्रीं क्रौं यंरंलंवंशंषंसंहंसः देवस्यान्तः-
करणानि प्राणा इह स्थिताः ॥९४॥
इहागत्य स्वस्तये च चिरं तिष्ठतु वै स्वाहा ।
हृद्यंगुष्ठेन वै स्पृष्ट्वा प्रतिमाया जपेद् यथा ॥९६॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाश्चरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥९६॥
सन्निरुद्ध्य प्रणवेन ध्यात्वा सजीवमेव च ।
ओं ध्रुवा द्यौः ऋचं जप्त्वा गायत्रीं कर्णके मनुम् ॥९७॥
पादनाभिशिरांस्येव स्पृष्ट्वा पौरुषसूक्तकैः ।
स्वागतं परमेशाऽत्र कुर्मश्चिरं स्थिरो भव ॥९८॥
यावच्चन्द्रावनिसूर्यास्तिष्ठन्त्यप्रतिघातिनः ।
तावत् त्वयाऽत्र देवेश स्थेयं भक्तानुकम्पया ॥९९॥
पौरुषेण तु सूक्तेन षोडशोपसुवस्तुभिः ।
आर्च्य कंकणं विसृज्य मूर्तौ भूषायुधानि च ॥१००॥
वाहनं परिवारं च ध्यात्वा मुद्रां प्रदर्श्य च ।
संपूज्य मूलमन्त्रेण जपित्वाष्टोत्तरं शतम् ॥१०१॥
स्तुत्वा नत्वाऽऽचम्य स्विष्टकृत्पूर्णाहुतिकान्तकम् ।
कर्मसमाप्य गोदानं दक्षिणां सम्प्रदाय च ॥१०२॥
आरार्त्रिकोत्सवं कृत्वा नैवेद्यान्ते च भोजनम् ।
कारयित्वा जनान् कृत्वा स्वयं परिहरेत् क्रियाम् ॥१०३॥
एवं चलप्रतिष्ठां वै कारयेद् चलमाधवे ।
इत्येवं भगवानाह देवायतनकाय वै ॥१०४॥
जीर्णरंगादिनोद्धारे विधिः संक्षेपतो मतः ।
दक्षिणस्यां तु वेशान्यां पश्चिमद्वारकं शुभम् ॥१०५॥
एकतोरणकं कृत्वा मण्डपं मध्यके ततः ।
वर्तुलां वा चतुरस्रौ वेदीं कृत्वा तु पश्चिमे ॥१०६॥
वास्तु पीठं चोत्तरे तु वालुकास्थण्डिलं तथा ।
देशकालौ प्रसंकीर्त्य जीर्णदोषविशुद्धये ॥१०७॥
उद्धारनिमित्तकर्म करोमीति विचिन्तयेत् ।
गणेशस्यार्चनं स्वस्तिवाचनं मातृकार्चनम् ॥१०८॥
नान्दीश्राद्धं गुरुं वृत्वाऽर्चयित्वा ताँस्ततः परम् ।
मण्डपस्य प्रतिष्ठां च वास्तुपूजां तथा ततः ॥१०९॥
सर्वतोभद्रके देवान् न्यस्य पीठे तदासनम् ।
सम्पूज्यैहि देवदेव व्यापकेश्वर ते नमः ॥११०॥
हृदयाय नमः स्वाहा शिरसे शिखायै वषट् ।
कवचाय हुँ अस्त्राय फट् व्यापकशार्ङ्गिणे ॥१११॥
मूलमन्त्रेणाऽर्चयेच्च जपेदष्टोत्तरं शतम् ।
अग्निं संस्थाप्याज्यभागान्तकं हुत्वाऽर्पयेद् बलिम् ॥११२॥
जीर्णं देवं प्रणवेन सम्पूज्य प्रार्थयेत्ततः ।
जीर्ण भग्न देवदेव जीर्णत्वक् जीर्णमूर्तिक ॥११३॥
जीर्णांगं प्रोद्धराम्यत्र क्षमां कुरु कृपां कुरु ।
यायास्त्वं सम्मतं स्थानं पार्श्वेमूर्तौ च वाऽक्षरे ॥११४॥
जीर्णोद्धारोत्तरं पुनश्चागमाय प्रयाहि वै ।
आरार्त्रिकं भोजनं च पूजनं जलपानकम् ॥११५॥
सर्वं नीत्वा प्रवाह्यन्यत्र स्थले चानुकम्पया ।
स्वेष्टस्थानं याहि विष्णो सर्वदेवान्वितोऽथवा ॥११६॥
इत्युक्त्वा चार्पयेत् विधायाञ्जलिं कुसुमाक्षतैः ।
पुनः प्राणप्रतिष्ठादि कृत्वा संपूजयेत्ततः ॥११७॥
भोजयेद् ब्राह्मणादींश्च जीर्णसंस्कारकर्मसु ।
भुक्तिं मुक्तिमवाप्नोति देवालयाभिवृद्धिकृत् ॥११८॥
इत्येवं राधिकेऽनादिकृष्णनारायणो हरिः ।
देवायतनकायाह मयोदितं च ते तथा ॥११९॥
एतस्य श्रवणात्पाठात्प्रासादनिर्मितेः फलम् ।
उद्धारस्य क्रतोश्चापि प्रतिष्ठायाः फलं लभेत् ॥१२०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कलशारोहणं मानस्तंभध्वजारोपणं चलमूर्तिप्रतिष्ठाविधिः जीर्णोद्धारश्चेत्यादिनिरूपणनामा षष्ट्यधिकशततमोऽध्यायः ॥१६०॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP