संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १८

त्रेतायुगसन्तानः - अध्यायः १८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु राधे भाद्रपदे पितृपक्षे हरेर्गृहम् ।
अर्यमादिकपितॄणां हरयेऽर्पयितुं सुताः ॥१॥
कन्याः समागता मिष्टपायसान्नतिलान्विताः ।
फलपुष्पाऽगुरुकस्तूरिकाकुंकुमतण्डुलैः ॥२॥
कर्पूराद्यैर्युक्तसौवर्णादिपात्रसमन्विताः ।
पुराणदेवपूजार्थं सर्वशृंगारशोभिताः ॥३॥
विमानैर्दिव्यसामग्रीसंभृतैः प्रेमसंप्लुताः ।
अमावास्यादिने सर्वाश्चाययुर्लोमशाश्रमम् ॥४॥
लोमशं प्रथमं नत्वा गुरुं च पितरं परम् ।
सस्मरुश्च हरिं तत्र कृष्णनारायणं हि ताः ॥५॥
तावत्तत्र बालकृष्णश्चाययौ लोमशाश्रमम् ।
कन्याप्रदत्तपूजादिग्रहणार्थं दयावशः ॥६॥
पितृकन्याः कृष्णनारायणमायान्तमुज्ज्वलम् ।
मनोहरं किशोरं च विलोक्योत्थाय सत्वरम् ॥७॥
अभिजग्मुः प्रमोदेन नेमुर्लाजाऽक्षतादिभिः ।
वर्धयामासुरत्यर्थं निपेतुः पादयोर्हरेः ॥८॥
अभिभाष्य च कुशलं परस्परमनामयम् ।
पुष्पहारान् ददुस्तस्य गले सहस्रकन्यकाः ॥९॥
पद्रजो मस्तके धृत्वा मूर्तिं न्यधुश्च मानसे ।
न्यधू रूपं नेत्रयोश्च स्नेहं न्यधुस्तदन्तरे ॥१०॥
स्वयं न्यधुश्चार्पणेऽथ मिलित्वाऽऽश्रममाययुः ।
ब्रह्मसरोभिः कन्याभिः सत्यलोकीयमुत्तमम् ॥११॥
दिव्यमर्पितमेवादौ हंसासनं विमानवत् ।
शतचन्द्राभिनद्धं च स्वर्णवरूथशोभितम् ॥१२
अमृतस्रावि परितः सुगन्धनिर्झरान्वितम् ।
स्वयं दोलायमानं च गीतिस्वरमनोहरम् ॥१३॥
यथाकामं च गतिमच्चैतन्यस्तम्बभूषितम् ।
मणिसोपानसंराजत् स्फाटिकपार्श्वघट्टितम् ॥१४॥
मृदुविभूतिगद्दीकातुलिकापट्टराजितम् ।
अध्यारुरोह भगवान् कृष्णनारायणश्च तत् ॥१५॥
सिंहासनाच्छतगुणा शोभा हरेस्तदाऽभवत् ।
अथाऽप्सरोभिः कन्याभिरुपानहौ सुकोमले ॥१६॥
मखमल्लकृते मृद्व्यौ विद्युच्चन्द्रिकतारकैः ।
स्वर्णराजतसन्तानैर्भरतेन विराजिते ॥१७॥
इन्द्रगोसन्निभे रम्ये चार्पिते पादयोर्हरेः ।
निर्यातस्ते यथाकामं यथाकामं धृतिक्रिये ॥१८॥
कृष्णेन च प्रमोदेन धृते तूपानहौ यदा ।
आक्षरं दिव्यमेवाऽऽभ्यां तेजः प्रकटितं बहु ॥१९॥
यदव्याप्नोद् दिगन्तांश्च कोटिचन्द्रनिभं तदा ।
अथाऽर्यमादिसूर्याणां कन्याभिश्छत्रमर्पितम् ॥२०॥
सुवर्णकटवस्त्राढ्यं राजतीकिंकिणीयुतम् ।
सुवर्णकलशं रत्नदण्डं भासुरमुज्ज्वलम् ॥२१॥
कौशेयमञ्जरीयुक् च आदित्यचित्रराजितम् ।
अथ कुबेरकन्याभिः पादपीठः समर्पितः ॥२२॥
मृदुसुवर्णखचितश्चन्दनद्रुमनिर्मितः ।
सिंहपादसुशोभाढ्यश्चाष्टकोणसमन्वितः ॥२३॥
पद्मपत्रमिव स्वच्छः शीतलस्तेजसान्वितः ।
आदर्शखचितः पार्श्वे मध्ये चन्द्रविराजितः ॥२४॥
तत्र न्यधाच्चरणौ श्रीपतिः स्वामिपुमुत्तमः ।
अथ शैलस्य कन्याभिश्चामरौ श्वेतगोभवौ ॥२५॥
रत्नसुवर्णदण्डौ चार्पितौ कृष्णाय तुष्टये ।
अथेन्द्रकन्यकाभिश्चार्पितं वेत्रं तु कानकम् ॥२६॥
वेधोमस्तकसंशोभं कम्बुकण्ठं च वक्षसि ।
वलयैर्विविधैर्युक्तं ततो वल्ल्युदरं शुभम् ॥२७॥
पीतपटकबद्धं च प्रान्ते शेषफणायुतम् ।
मध्ये मौक्तिकहीरकमणिनद्धं समन्ततः ॥२८॥
अथ च धर्मराजस्य कन्याभिर्यष्टिरर्पिता ।
कानकी संहृतिशक्तिमस्तका जीवनीपदा ॥२९॥
समाधिशक्तिमध्या च धर्ममूर्तिमुखान्विता ।
मध्ये याम्यसभायुक्ता प्रान्ते दूतगणान्विता ॥३०॥
अथ वायोश्च कन्याभिर्व्यजने रत्नयष्टिके ।
सौवर्णकटकैर्नद्धे कौशेयप्रान्तझल्लरे ॥३१॥
सौवर्णपटवाक्षेपे सूर्यचन्द्रोभयान्विते ।
वर्तुले तैजसमणिनद्धे रौत्यनिसर्गजे ॥३२॥
अथर्तुकन्यकाः कृष्णे ददुः शेखरगुच्छकौ ।
पुष्पाणां कन्दुकं हारान् तोरान् सुगन्धिसंभृतान् ॥३३॥
अम्लानान् दिव्यरूपांश्च मिष्टस्वेष्टसुगन्धिकान् ।
अथ विश्वकर्मकन्या ददुर्मुकुटमुज्ज्वलम् ॥३४॥
आभूषणानि च स्वर्णनिर्मितानि च मालिकाः ।
ऊर्मिका रशनाश्चाङ्गुलीयकानि च मेखलाम् ॥३५॥
कटकानंगदान् शृंखलाश्च नुपूरकिंकिणीः ।
कण्ठभूषा विचित्राश्च ददुर्नारायणाय ताः ॥३६॥
अथ द्रुकन्यकास्तस्मै ददुर्वस्त्राणि भावतः ।
अंगरक्षकं धौत्रं चोत्तरीयकं शिरःपटम् ॥३७॥
स्कन्धवस्त्रं कटिपटं सौवर्णतारसंहितम् ।
नक्तकं करवस्त्रं च पट्टकं सत्पटीं ददुः ॥३८॥
अथ श्रवणपितॄणां कन्याः श्रावण्य इत्यपि ।
ददुः श्रीहरये वारिभृतान् स्वर्णघटान् शुभान् ॥३९॥
अथ संवत्सरपितृकन्याः पक्वान्नपूरिकाः ।
पायसानि च शाकानि भोज्यानि हरये ददुः ॥४०॥
कालकन्या ददुर्दिव्यं करे त्वभयचक्रकम् ।
वह्निपितृकन्यकाश्च ददुः पात्राणि भूरिशः ॥४१॥
स्थालीश्च वटकीश्चापि कलशान् तापलीनिकाः ।
चमचान् जलपाँश्चापि सौवर्णान् राजतादिकान् ॥४२॥
अथ प्रेतपितृपुत्र्यो ददुस्ताम्बूलकानि च ।
खनिजन्मपितृकन्या ददुर्मांगल्यवस्तुकम् ॥४३॥
द्रवाँश्च विविधान् धातुविकारोत्थान् सुरंगिणः ।
एवमन्याश्च पित्र्यश्च न्यधुर्योग्यं हरेः पुरः ॥४४॥
वार्क्ष्यो ददुश्चटन्यादि तिक्ताम्ब्लकटुमिश्रितम् ।
एवं भाद्रे ह्यमायां तु पित्र्यः सर्वा हरिं प्रभुम् ॥४५॥
अर्चयामासुरत्यर्थं नैजाऽसामान्यवस्तुभिः ।
तर्पयामासुरत्यर्थं भोजयित्वा पुनः पुनः ॥४६॥
पायसादीनि चान्नानि फलानि विविधानि च ।
मिष्टपानानि शीतानि स्वाद्यानि रसवन्ति च ॥४७॥
विश्वंभरो हि भगवान् बुभुजे बहुरूपधृक् ।
सर्वेषां पितॄणां लक्षकन्यानां भावनानुगः ॥४८॥
लक्षरूपो हरिर्भूत्वा श्राद्धं जग्राह तत्कृतम् ।
अथ श्रीभगवान् तत्र सस्मार पितृदेवताः ॥४९॥
ब्रह्मादि मुख्यदेवांश्च ब्रह्मोर्ध्वरेतसोऽपि च ।
मुनीनृषीन् सुराँश्चापि लोकपालान् दिगीश्वरान् ॥५०॥
श्रावणान् याम्यपितँश्च प्रेतपितॄँश्च कालिकान् ।
साम्वत्सरिकपितॄँश्च खानेयाँश्चापि सर्वशः ॥५१॥
आज्यपान् सोमपाँश्चापि बर्हिषदाँस्तथा पितॄन् ।
अग्निष्वात्तान् कर्मवशान् सर्वानतर्पयद्धरिः ॥५२॥
जलैस्तिलैः फलैराज्यैः पायसैर्मिष्टभोजनैः ।
शाकैर्मधुभिर्दध्यन्नैर्विविधैर्भोज्यवस्तुभिः ॥५३॥
अन्नवस्त्रवारिपानैर्मुखचूर्णादिभिस्तथा ।
आगतान् सर्वपितॄँश्च तर्पयामास माधवः ॥५४॥
कोटिशः पितृदेवान् स तर्पयामास केशवः ।
प्रासादिकं महापुण्यं भोजयामास भावतः ॥५५॥
ततो दानानि च ददौ कोटिरत्नानि वै तदा ।
कन्याभ्यः कोट्यर्बुदेभ्यः सर्वाभ्यो भगवान् स्वयम् ॥५६॥
भोजयामास विधिना पायसादीनि सर्वथा ।
मिष्टान्नानि च बहूनि पेयानि विविधानि च ॥५७॥
स्वप्रासादिकताम्बूलादीन्यपि प्रददौ प्रभुः ।
तृप्तास्ताः कन्यकाः सर्वाः प्राच्योऽवाच्यश्च पितृजाः ॥५८॥
अथ सायं कृष्णनारायणं पुपूजुरादरात् ।
आरार्त्रिकं ततश्चक्रुर्वन्दनं च यथेप्सितम् ॥५९॥
अर्थयामासुरेता याः पितृकन्याः समाययुः ।
कृष्णसेवनलाभं वै दातुं यावच्च जीवनम् ॥६०॥
अनादिश्रीकृष्णनारायणः प्राह तथाऽस्त्विति ।
सर्वास्तास्तस्थुरौत्सुक्याल्लोमशस्याऽऽश्रमे सदा ॥६१॥
बालकृष्णाज्ञया कृष्णसेवापराः सदाऽभवन् ।
पितरो ये च तृप्ताश्च गता नैजं स्वरादिकम् ॥६२॥
भगवान् बालरूपश्च लोमशं सुसमर्च्य च ।
भोजयित्वा पूजयित्वा त्वेकरूपो हरिर्ययौ ॥६३॥
नैजं सौधं कंभराश्रीनिवासं सम्पदाश्रयम् ।
अथ सन्ध्यासमये श्रीहरिः सस्मार सूर्यजम् ॥६४॥
नारकिणां तु जीवानां विमोक्षार्थं हि पापिनाम् ।
तथा प्रमुक्तशेषाणां भुज्यमानशरीरिणाम् ॥६५॥
धर्मराज्यस्य याम्यानां त्वभयं कर्तुमेव च ।
धर्मराजः समायातस्तत्कालं हरिसन्निधौ ॥६६॥
जरया व्याधिभिश्चापि महाकालेन मृत्युना ।
चित्रगुप्तेन सहितो द्वितीयरूपधृक् नयः ॥६७॥
एतानाह प्रभुश्चाऽऽद्य पितॄणां दिवसो महान् ।
तृप्तिप्रदस्ततश्चाऽहं त्वाज्ञापयामि सर्वथा ॥६८॥
यमलोकगताः सर्वे भोजनीयास्तु पायसैः ।
मम प्रसादशाकाद्यैः पावनीया मदिच्छया ॥६९॥
सर्वे शुद्धा भवन्त्वद्य यात स्वर्गं च मोक्षणम् ।
इत्युक्त्वा प्रददौ कृष्णस्तेभ्यः प्रसादपायसम् ॥७०॥
यमाद्या जगृहुस्तत्र भक्षयामासुरादरात् ।
जलपानादिकं कृत्वा कृतकृत्यान् हि मेनिरे ॥७१॥
अथ कृष्णो ददौ तेभ्यः पायसान्नं सुपुष्कलम् ।
याम्येभ्यश्च प्रदानार्थं यमाद्या जगृहुश्च तत् ॥७२॥
श्रीहरेराज्ञया धर्मराजाद्याः परिपूज्य तम् ।
नत्वा स्तुत्वा पादयोश्च पतित्वा च यमक्षयम् ॥७३॥
ययुः सम्यक् प्रसन्नाश्च याम्यानाहूय नाटकान् ।
यथाज्ञां भोजयामासुः प्रसादं पायसं हरेः ॥७४॥
भुक्त्वा पापानि तूर्णं ते क्षालयित्वाऽऽन्तराण्यपि ।
निर्मलास्ते च सञ्जाता धर्मराजाज्ञया ततः ॥७५॥
स्वर्गं सत्यं परं लोकं मोक्षं चापि ययुस्तदा ।
हरेः प्रतापादेवं वै प्रेताद्याः पितरो गणाः ॥७६॥
तारिता हरिणा लोकपितरः कर्मवर्तिनः ।
अवगतिं गताश्चापि तारितास्ते दयालुना ॥७७॥
अनुग्रहार्थं जीवेषु यतो जन्माऽस्ति भूतले ।
एवं वै राधिके कृष्णनारायणः परात्परः ॥७८॥
परं धाम जनान् जीवान्नयत्येव कृपावशः ।
निजयोगं ददात्येष भक्तसंकल्पतत्परः ॥७९॥
पठनाछ्रवणाच्चास्य पितृमोक्षो भवेद्ध्रुवम् ।
तथैव योषितः पित्र्यो मुक्तिं प्रयान्ति वै श्रुतेः ॥८०॥
श्रीराधिकोवाच-
पितरस्तु श्रुता देवपितरः श्रावणास्तथा ।
प्रेता याम्याः साम्वत्सराः काला खानेयकास्तथा ॥८१॥
अग्निष्वात्ता बार्हिषदा आज्यपाः सोमपास्तथा ।
अर्यमाद्या ऋषिरूपा ऊर्ध्वरेतस ऐश्वराः ॥८२॥
ब्रह्मविष्णुमहेशाश्च मानवा राक्षसाः खगाः ।
यक्षा दूताः पिशाचाश्च भूताः कूष्माण्डकास्तथा ॥८३॥
वैनायकाश्च वेताला अधोगतिं गताश्च ये ।
त एते पितरः सर्वे श्रुतास्त्वत्तः प्रसंगतः ॥८४॥
किन्तु पुत्र्यस्त्वयोच्यन्ते यास्तु कृष्णेन तर्पिताः ।
कास्ताः पित्र्यो भवन्त्यत्र श्राद्धभोजनवासनाः ॥८५॥
रासेश्वर कृपासिन्धो तन्मे कृष्ण प्रदर्शय ।
यास्ता नार्यो पित्र्यीभूताः क्व कथं निवसन्ति ताः ॥८६॥
श्रीकृष्ण उवाच-
सम्यक् पृष्टं त्वया राधे लोकानुग्रहकाम्यया ।
त्वं तु जानासि वै सर्वं निबोध कथयाम्यपि ॥८७॥
नारीवर्गो मया सृष्टो गोलोके मम वामतः ।
राधा लक्ष्मीः सती गंगा सरस्वती तथाऽपराः ॥८८॥
विरजा श्रीर्यमी दुर्गा सावित्री च तथेतराः ।
ताः पित्र्यः पूर्वजाः श्राद्धे भुञ्जते तर्पिताः प्रियाः ॥८९॥
पितामही तु सावित्री श्रीश्च वै प्रपितामही ।
प्रप्रपितामही दुर्गा श्राद्धे चायान्ति तास्तदा ॥९०॥
माता लक्ष्मीश्च वै मातामही सरस्वती तथा ।
सती प्रमातामही च श्राद्धे चायान्ति सर्वथा ॥९१॥
याश्च वध्वः स्नुषा बाला विधवा वा कुमारिकाः ।
अधवाऽप्यदती चाऽक्षता जरठाः सवासनाः ॥९२॥
विचित्ताः कृतवाग्दाना विवासिताः स्वतन्त्रिकाः ।
निर्वंशा निष्कुटुम्बाश्च निराधारा निराश्रयाः ॥९३॥
अकृतोदकश्राद्धाश्च तथाऽप्रदत्तवह्निकाः ।
अतीर्थवाहिका याश्चऽसम्बन्धिस्पृष्टयच्छवाः ॥९४॥
अकालमृत्युमापन्ना आकस्मिकमृतिं गताः ।
गर्भप्रसूतिदोषेण मृता याश्चाभिचारिकाः ॥९५॥
अभिचारमृताश्चापि प्रसह्याऽपि च या मृताः ।
प्रसह्य मैथुने मृता यक्षराक्षससंहृताः ॥९६॥
योनिदुष्टा मृता याश्च वैधव्यधर्मवर्जिताः ।
बहुयोगं गता याश्च पराधीनमृतिं गताः ॥९७॥
भूतप्रेतपिशाचादिच्छायावशमृतिं गताः ।
पश्चात्पुण्यविहीनाश्चाऽकृतपुण्यव्रतोत्सवाः ॥९८॥
एता निर्वंशजाः सर्वाः पित्र्यो भवन्ति राधिके ।
याम्ये वसन्ति निर्वंशाः कुमार्यः सत्यलोकके ॥९९॥
महर्जनतपस्स्वेव तदन्याश्चापमृत्युजाः ।
स्वर्गे पुण्यकृताश्चापि निर्वंशा अप्सरोगणाः ॥१००॥
भूवर्लोके निवसन्ति भूती प्रेती पिशाचिनी ।
डाकिनी शाकिनी कूष्माण्डिनी वैनायकी तथा ॥१०१॥
वैताली भैरवी रण्डा कृत्या षण्ढा च सूतकी ।
शवी चिता ननाम्नी च श्मशानी चेति राधिके ॥१०२॥
एताः पित्र्यो भवन्त्येव भुवर्भूलोकसंस्थिताः ।
नागिनी भिक्षुकी पिपीलिका मत्स्यी च राक्षसी ॥१०३॥
काकी गृध्री च मकरी पाताले च जले स्थिताः ।
एता निर्वंशमृतिजाः पित्र्यो भवन्ति राधिके ॥१०४॥
मातरो देवता याश्च सात्त्विक्यस्ता अपि स्त्रियः ।
क्रूरदृशोऽथवा वंशयुता अपि मृतेः परम् ॥१०५॥
भवन्ति पित्र्यः पापेन यथाकर्मनिवासिकाः ।
ताभ्यः श्राद्धं प्रदातव्यं जानता विदुषा सदा ॥१०६॥
अनादिश्रीकृष्णनारायणेन ताभ्य एव च ।
जलान्नादि तदा दत्तं विश्वंभरेण तृप्तये ॥१०७॥
ताः सर्वा अपि संगृह्य प्रसादमधिगम्य च ।
ययुः स्वर्गादिकं सौख्यानन्दस्थलं वृषान्विताः ॥१०८॥
शृणु त्वं राधिके तत्र चमत्कारो महानभूत् ।
निशिथे राक्षसा गुरोर्मन्दिरं समुपाययुः ॥१०९॥
शिरोहीनस्तेषु चैकोऽपरो नेत्रविहीनकः ।
तृतीयो नासिकाहीनश्चतुर्थः कर्णशून्यकः ॥११०॥
पञ्चमः पादहीनश्च षष्ठः कटितृणोपमः ।
सप्तमः पादपृष्ठश्चाऽष्टमः पृष्ठाननस्तथा ॥१११॥
नवमोऽन्धो बधिरश्च पंगुर्मूकश्च कुष्ठवान् ।
चतुर्दशो वातरोगी जलोदरी नपुंसकः ॥११२॥
सप्तदशो मलिनश्च परितो लग्नमक्षिकः ।
अष्टादशो गलपाशः सशूलश्च तथेतरः ॥११३॥
विंशः श्वफाटितः क्रोडत्रोटितश्च तथाऽपरे ।
एवमाद्या गणाश्चाऽश्वपट्टसरः समाययुः ॥११४॥
क्रोशन्तो बहुधाऽऽक्रोशान् निवेदयन्तो दुष्कृतान् ।
अन्नहीना जलहीनाः शुष्ककण्ठौष्ठतालुकाः ॥११५॥
छन्नोदराश्च वै प्रेताश्चाययुर्बहुधा तदा ।
रुरुदुर्लोमशस्याऽग्रे स्वोद्धारार्थं भृशं ततः ॥११६॥
लोमशः परिपप्रच्छ कथं वै प्रेततां गताः ।
तत्रैकः प्राह च मया छिन्नं द्विजशिरः पुरा ॥११७॥
तेन पापिन वै जातः शिरोहीनोऽत्र राक्षसः ।
अपरः प्राह च मया चौर्यकार्ये गृहेशितुः ॥११८॥
नेत्रे प्रस्फोटिते तेन नेत्रहीनोऽभवम् ऋषे! ।
तृतीयः प्राह च मया पत्न्याश्छिन्ना तु नासिका! ॥११९॥
तेनाऽहं नासिकाहीनः प्रेतो भवामि दुःखवान् ।
चतुर्थः प्राह च मया कर्णौ छिन्नौ द्विजस्य वै ॥१२०॥
भूषायुक्तौ भूषणानां मयाऽपहरणं कृतम् ।
तेन जातः कर्णहीनः प्रेतो भवामि दुःखवान् ॥१२१॥
पञ्चमस्तु तदा प्राह मया प्रवासिनः पुरा ।
हतौ पादौ वने द्रव्यहरणार्थं ततोऽप्यहम् ॥१२२॥
पादहीनः समभवं गच्छाम्यधोमुखः सदा ।
षष्ठः प्राह मया यष्ट्या मारेण घातिता कटिः ॥१२३॥
गोः पूर्वं तेन पापेन भग्नकटिर्भवाम्यहम् ।
सप्तमः प्राह च मया पादौ बध्वा मम स्त्रियाः ॥१२४॥
क्लेशिता सा विना दोषं तेन दोषेण राक्षसः ।
पृष्ठपादो भवाम्यत्र गतिशक्तिविहीनकः ॥१२५॥
अष्टमः प्राह च मया त्वजाबालास्य कण्ठतः ।
मस्तकं म्रोडितं पश्चान्मारितं चाजबालकम् ॥१२६॥
तेन दोषेण जातोऽस्मि पृष्ठाननः सुदुःखितः ।
नवमः प्राह च मया मृगयाकरणे पुरा ॥१२७॥
चक्षुः प्रस्फोटितं चैकमृगस्य जीवतस्ततः ।
जातोऽस्मि तेन दोषेण जात्यन्धो दुःखदुःखितः ॥१२८॥
दशमः प्राह च मया निन्दा विष्णोः पुरा श्रुता ।
तेनाऽहं जन्मबधिरश्चैकादशोऽप्युवाच तम् ॥१२९॥
मया पादे हतः श्वा च तेनाऽहं पंगुतां गतः ।
द्वादशः प्राह साधूनां निन्दया मूकतां गतः ॥१३०॥
अगम्यागमनात् कुष्ठी त्रयोदशोऽवदत्तदा ।
चतुर्दशो वातरोगी विश्वासघातकोऽभवम् ॥१३१॥
मत्स्यादोऽयं जलोदरी नातोऽस्तीति जगाद च ।
षोडशोऽयं व्यवायी च नपुंसकोऽण्डनाशकः ॥१३२॥
वृषभाणां ततो जातस्तथा चण्डालकर्मकृत् ।
मक्षिकासमभिव्याप्तः संजातोऽयं तथाऽवदत् ॥१३३॥
गलपाशप्रदश्चायं गलपाशोऽभवत्तथा ।
शूलप्रदश्च जीवानां शूलरोगी ततो ह्ययम् ॥१३४॥
विंशः प्राह मया पूर्वं शशाद्याः श्वापदादिभिः ।
विदारिता बहुपापो भवाम्यद्य विदारितः ॥१३५॥
अतिकष्टं च भुञ्जामो भोजनं नोपलभ्यते ।
तृषिता दुःखिताः स्मोऽद्य कृपालुर्भगवान् यदि ॥१३६॥
अनादिश्रीकृष्णनारायण उद्धारयेत्तु नः ।
मुक्तिं गता भविष्यामो विप्र! मुक्तिं प्रदापय ॥१३७॥
इत्युक्तो लोमशस्तेभ्यो ददौ मन्त्रं जलान्वितम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥१३८॥
सस्मार बालकृष्णं च कृष्णो द्राक् तत्र चाययौ ।
निजपादजलं तेभ्यो पाययित्वा हरिश्च तान् ॥१३९॥
विधाय दिव्यदेहाँश्च चतुर्भुजस्वरूपिणः ।
विमानैः प्रेषयामास वैकुण्ठं धाम शाश्वतम् ॥१४०॥
एवं मुक्तिं प्रदत्वैव हरिर्नैजालयं ययौ ।
पापिनां मुक्तिदाताऽयं जयते परमेश्वरः ॥१४१॥
पठनाच्छ्रवणाच्चास्य पित्रुद्धारो भवेद्ध्रुवम् ।
यशः कीर्तिर्धनं धान्यं गावश्चारोग्यमित्यपि ॥१४२॥
पुत्रः पौत्राः सुताः स्वर्णं मोक्षो लक्ष्मीर्विभूतयः ।
भवेयुः सम्पदः सर्वाः श्रोतुर्वक्तुर्न संशयः ॥१४३॥
नमस्तस्मै भगवते सर्वोद्धारदयालवे ।
कर्माणि पापिनां चाऽविगणय्य मोक्षदायिने ॥१४४॥
दैत्यदानवपापानां रक्षसां पावनाय च ।
भूतप्रेतपिशाचानां मोक्षकर्त्रे नमोनमः ॥१४५॥
दयालोः श्रीहरेर्नास्ति दयायाः पार इत्यपि ।
पापिनां तु क्वचिन्नास्ति दोषाणामन्त इत्यपि ॥१४६॥
इत्येवं राधिके कृष्णनारायणं परेश्वरम् ।
ज्ञात्वा भजन्ति सततं ते मोक्षस्था न संशयः ॥१४७॥
चित्ते कृष्णो हृदि कृष्णश्चक्षुषोः कृष्ण आत्मनि ।
ब्रह्मरन्ध्रे यस्य कृष्णः स भवेन्मोक्षगो ध्रुवम् ॥१४८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पितृपक्षे पितृकन्याकृतहरिपूजनं, हरिकृतपितृतर्पणादि, नारकाणां मोक्षणं, पितृस्त्रीजातिपरिचयः प्रेतानां मुक्तिश्चेत्यादिनिरूपणनामाऽष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : April 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP