संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १२८

त्रेतायुगसन्तानः - अध्यायः १२८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! कृष्णनारायणपरेश्वरः ।
विमानेनाऽम्बरे यावत्समायातोऽतिभास्वरः ॥१॥
प्रकाशः समभूत्कोटिचन्द्रप्रकाशवत् सितः ।
पृथ्व्यां दिक्षु विदिक्ष्वत्र नदीद्वयसमागमे ॥२॥
कोटिशो मानवा देवाः ऋषयो जय माधव ।
जय कृष्ण जय स्वामिन् बालकृष्ण जय प्रभो ॥३॥
अनादिश्रीकृष्णनारायणो विजयतेतमाम् ।
इत्येवं जयशब्दाँश्च मुक्तकण्ठा महोत्सवाः ॥४॥
जगदुः प्राञ्जलयश्च ददृशुर्निर्निमेषकाः ।
तावद्विमानं कृष्णस्य भ्रमित्वा पञ्चवारकम् ॥५॥
व्योम्न्येव जनताभ्यस्तु दत्वा शुभं स्वदर्शनम् ।
अवाततार भूभागे कामगं शुभदर्शनम् ॥६॥
इरात्रिशौषिकायोगे मध्यदेशेऽतिशोभने ।
पञ्चाशद्योजने रम्यमण्डपस्य समीपतः ॥७॥
इरात्रीशातटे कृष्णो विमानाद् बहिराययौ ।
श्रीगोपालः कंभराश्रीस्तथा राजान इत्यपि ॥८॥
विमानाल्लोमशश्चापि कन्याश्च बहिराययुः ।
लाजाभिश्चाऽक्षतैः पुष्पैर्वर्धितास्ते प्रजाजनैः ॥९॥
अथ श्रीभगवान् स्नात्वा इरात्रीशानदीजले ।
मण्डपं कुण्डवेद्यादीर्दृष्ट्वाऽऽवासं ययौ निजम् ॥१०॥
राज्ञा राजकुटुम्बेन वीरजारादिभिस्तदा ।
पूजितः सेवितः कृष्णो विशश्राम च मन्दिरे ॥११॥
बालकृष्णस्ततः प्रातः स्नात्वा यज्ञस्थलीं ययौ ।
पौषकृष्णतृतीयायां देवर्षिपितृशोभितान् ॥१२॥
ददर्श वेदीं कुण्डाँश्च पट्टिकाः काञ्चनीस्तथा ।
सामग्रीर्यज्ञकार्यार्था असंख्या मानवर्जिताः ॥१३॥
यज्ञभूमौ ददर्शाऽथ कोटिविप्रर्षिदेवताः ।
वरणार्थं हरिस्तत्र मण्डपे तु निजासने ॥१४॥
निषसाद तथा राजा वीरजारः प्रियान्वितः ।
आजगाम च यज्ञार्थं लोमशश्चाजगाम ह ॥१५॥
पत्नीव्रतस्तथा ब्रह्मा वशिष्ठो वैष्णवो महान् ।
निषेदुः स्वासनेष्वेव मंगला गीतयस्तदा ॥१६॥
सामवेदस्य वै विप्रा अगायन् हर्षनिर्भराः ।
देव्यश्च गीतिकास्तत्र जगुर्मंगलबोधिकाः ॥१७॥
वादित्राणि ह्यवाद्यन्त तूर्याणि विविधानि च ।
प्रकोष्ठबन्धनं स्वस्तिवाचनादि व्यवर्तत ॥१८॥
अंगदेवस्थापनं च पूजनं विघ्नहानये ।
अभवद्वै मुख्यपात्रपूजनं द्रव्यपूजनम् ॥१९॥
देवदेवीपूजनादि प्रावर्तत तदाऽम्बरे ।
चन्दनादिप्रवृष्ट्यर्थं सुराद्यास्त्वाययुः क्षणम् ॥२०॥
वह्निदेवः कुण्डपात्रे प्रतिष्ठपित एव च ।
ब्रह्माद्या मूर्तिमन्तस्ते देवाश्चक्रुर्हवं तदा ॥२१॥
लोमशश्च वशिष्ठश्चाऽऽरभेते स्म ऋतुक्रियाः ।
मन्त्रास्तत्र तु पठ्यन्ते प्रहूयन्ते हवींषि च ॥२२॥
वह्न्याननाः परब्रह्मब्रह्ममुक्तावतारकाः ।
ईश्वरेशर्षिदेवर्षिपितृमानवभूद्विजाः ॥२३॥
तृप्तिं गच्छन्ति हव्यैर्वै भुञ्जते चानलाननाः ।
जीवसृष्टिर्ब्रह्मसृष्टिश्चेश्वरसृष्टिरित्यपि ॥२४॥
तृप्ताः सर्वाः सृष्टश्चाऽसंख्यहव्यप्रभोजनैः ।
अभवन् राधिके! तत्र पूर्वयज्ञे यथाऽभवन् ॥२५॥
जडाश्च स्थावराश्चापि चेतनाः कामरूपिणः ।
तीर्थानि पर्वता नद्यः कीटपतंगपक्षिणः ॥२६॥
सर्वे वै भगवद्देहास्तृप्तास्तत्र महाध्वरे ।
वैष्णवेऽनादिलक्ष्मीश्रीकान्तनारायणप्रभुः ॥२७॥
सर्वाऽन्तरात्मा भगवानतृप्यताऽग्रणीर्हरिः ।
एवं वै सप्तदिवसास्तृप्त्युत्सवव्रतात्मकाः ॥२८॥
व्यतीयुर्देवयजनैर्नवम्यां तु विसर्जनम् ।
क्रतोस्तस्य परिहारो दक्षिणाश्चांकवर्जिताः ॥२९॥
भोजनानि च सर्वेषां नित्यवन्नूतनानि च ।
यथायोग्यानि पच्यानि पथ्यानि देहिनां यथा ॥३०॥
व्यजायन्त ततो बालः श्रीपतिः पुरुषोत्तमः ।
ओब्या इरात्रिशायाश्च संगमेऽवभृथं परम् ॥३१॥
चकार याज्ञिकैः सर्वैः समं कोटिजनैः सह ।
तत्र तीर्थानि सर्वाणि मूर्तिमन्ति तदाऽभवन् ॥३२॥
मुक्ततीर्थानि सर्वाणि ब्रह्मतीर्थानि वै तथा ।
अवतारप्रतीर्थानि मुक्तातीर्थानि यानि च ॥३३॥
कृष्णतीर्थानि सर्वाणि नारायणस्य यानि च ।
ब्रह्मविष्णु महेशानां पितॄणां योगिनां तथा ॥३४॥
ऋषीणां च सुराणां च द्विजानां च सतामपि ।
सतीनां देवदेवीनां दिक्पालानां तपस्विनाम् ॥३५॥
साध्वीनां चापि साधूनां तीर्थानि मूर्तिमन्ति च ।
ओब्या नद्या इरात्रिशासंगमे न्यवसँस्तदा ॥३६॥
तत्र स्नानं प्रकर्तव्यं पौषकृष्णतृतीयकात् ।
दिनादा नवमीं यावत् सप्ताहे क्रतुपुण्यदम् ॥३७॥
एवमाह महाराजो राधिकेऽवभृथे तदा ।
अहं स्नातो हरेस्तस्य पार्श्वे तिष्ठँस्तदा मुहुः ॥३८॥
नारायणोऽपि तत्राऽऽसीत् पार्श्वे लक्ष्मीपतिः स्वयम् ।
श्रुतवान् हरिणोक्तं तत् तथोक्तं च पुनः पुनः ॥३९॥
नारायणैश्च सर्वैर्वै कृष्णैः सर्वैस्तथाऽत्र वै ।
वासुदेवैरवतारैः सर्वैरीश्वरकोटिभिः ॥४०॥
तीर्थरूपेण चात्राऽपि वस्तव्यं श्रेयसे नॄणाम् ।
राधालक्ष्म्यादिभिश्चापि देवीभिः सर्वथाऽत्र च ॥४१॥
स्वस्वकान्तैः समं स्थेयं तीर्थरूपेण वै सदा ।
इत्येवं तत्र यज्ञस्य तीर्थे तु संगमे सुराः ॥४२॥
ओब्यामिरात्रिशायां च त्रिवलायां जलादिषु ।
वापीषु कूपभागेषु दीर्घिकास्वपि सर्वथा ॥४३॥
पल्वलेषु तत्र यज्ञभूमिष्वपि स्थले स्थले ।
निवसामो वयं सर्वे श्रीहरेराज्ञया प्रिये ॥४४॥
हरिः प्राह पुनस्तत्र पापातिपापकारिणाम् ।
अत्र स्नानेन वै नाशं यास्यन्ति पापपर्वताः ॥४५॥
पुण्यभाजो भविष्यन्ति पुत्रपौत्रकुटुम्बिनः ।
श्रेष्ठिनो भोगभाजश्च नीरोगा बहुजीविनः ॥४६॥
यदा क्वापि समागत्य स्नास्यन्ति चात्र ये जनाः ।
जलपानं करिष्यन्ति स्प्रक्ष्यन्त्येतज्जलानि च ॥४७॥
स्मरिष्यन्ति क्रतोस्तीर्थं देशान्तरेऽपि वर्तिनः ।
तेभ्यो भुक्तिं तथा मुक्तिं प्रदास्यामि न संशयः ॥४८॥
स्नानं दानं तपो होमं परोपकरणादिकम् ।
देवस्थानं धर्मशालां वृक्षारोपणमित्यपि ॥४९॥
विद्यादानं च कन्याया दानं चौषधशालिकाम् ।
कारयिष्यन्ति ये लोकास्तेषां पुण्यमनन्तकम् ॥५०॥
रसशालां ग्रहशालां वेधशालां क्रतुग्रहम् ।
सतां शालां कथाशालां यन्त्रशालां वृषगृहम् ॥५१॥
अन्नशालां च सत्राणि जलशालां पयोगृहम् ।
प्रसूतिगृहमेवापि ज्ञानशालां प्रसेविनाम् ॥५२॥
सेवाशालां तथाऽतिथिभोजनादिगृहाणि च ।
कारयिष्यन्ति ये लोका भूतशालां क्रतुस्थले ॥५३॥
तेभ्यो भुक्तिं तथा मुक्तिं प्रदास्यामि न संशयः ।
इत्येवं श्रीहरिः प्राह राधिकेऽवभृथस्थले ॥५४॥
सस्नौ स्वयं निमज्ज्यैव पुनःपुनर्जलेष्वपि ।
अञ्जलिभिः स्नापितः सः सर्वैः सर्वेऽपि तेन च ॥५५॥
स्नापिता अञ्जलिधाराभिश्चावभृथके मुहुः ।
मया प्रासादिकं वारि धृतं चैतत्तवार्थकम् ॥५६॥
कलशे पिब चालभ्यं पावनं पारमेश्वरम् ।
पिबामीति पपौ राधा श्रीहरेश्चरणामृतम् ॥५७॥
नारायणः प्रददौ च लक्ष्म्यै साप्यपिबज्जलम् ।
एवं राधे विनिर्वर्त्याऽवभृथं परमेश्वरः ॥५८॥
बहिर्निर्गत्य च वस्त्राण्याधाय भूषणादिकम् ।
मण्डपाऽन्तःस्थितं नैजं चासनं प्रययौ हरिः ॥५९॥
लेभे क्षणं च विश्रान्तिं ततः सायं सभां शुभाम् ।
कारयामास भगवान् सर्वलोकनिवासिनाम् ॥६०॥
वीरजारमहाराजः पूजां चकार भावतः ।
श्रीहरेराज्ञया कृष्णं नारायणं समर्चयत् ॥६१॥
वासुदेवं च भूमानं वैराजं परमेष्ठिनम् ।
विष्णुं शिवं चार्यमाणं सनत्कुमारकादिकम् ॥६२॥
ब्रह्मप्रियास्तथा सर्वाः इन्द्रं सूर्यं प्रजापतीन् ।
वशिष्ठं गालवं पत्नीव्रतं देवायतं मुनिम् ॥६३॥
श्रीगोपालं कम्भराश्रीराधालक्ष्मीसरस्वतीः ।
अन्या देवीस्तथा पूज्याः पूज्यानपूजयन्नृपः ॥६४॥
उपदा विविधास्तत्र पूजायामार्पयत्तदा ।
क्षमां चाऽयाचत न्यूनाक्षम्या सेवा ममेति च ॥६५॥
पावितोऽहं कृपयैव पावितं भूमिमण्डलम् ।
ईश्वरैरत्र चागत्य ख्यापितोऽहं दिगन्तरे ॥६६॥
धन्यो राजा जारसंज्ञो वीरतां समुपागतः ।
यदहं सर्वथा जारो जारता नाशिता मम ॥६७॥
अतः परं च किं भाग्यं मम श्रेष्ठं भवेत् किल ।
यदहं स्वगृहे कृष्णचरणौ प्राप्तवानिह ॥६८॥
राज्यं मे सार्थकं चापि भोगा मे सार्थका अपि ।
कुटुम्बं सार्थकं त्वद्य श्रीकृष्णचरणामृतात् ॥६९॥
प्रजा मे सार्थकास्त्वद्य नरा नार्योऽपि सार्थकाः ।
आयुष्यं सार्थकं चापि यदत्र पुरुषोत्तमः ॥७०॥
धनं मे सार्थकं सर्वं गजवाजिविमानकम् ।
सर्वं मे सार्थकं चाद्य यदत्र पुरुषोत्तमः ॥७१॥
धन्योऽहं जननी धन्या धन्यं शतकुटुम्बकम् ।
यद्वंशे यद्गृहे कृष्णः सर्वावतारशोभनः ॥७२॥
कोटिजन्मकृतात्पुण्याल्लब्धिः स्याच्छ्रीहरेरिह ।
सा कृपावशतो जाता किं वदामि सुभाग्यताम् ॥७३॥
ओबी धन्या तथा धन्या इरात्रिशा नदी शुभा ।
त्रिबलाऽपि तथा धन्या यज्जले पुरुषोत्तमः ॥७४॥
धन्या वै राशिऋषयो यद्गृहे पुरुषोत्तमः ।
धन्या वृक्षाश्च विरुधः स्तम्बास्तृणगणादयः ॥७५॥
पशवः पक्षिणो धन्या यद्वासे पुरुषोत्तमः ।
नारायणास्तथा कृष्णा यद्गृहेऽद्य समागताः ॥७६॥
मोक्षस्तेषां जयस्तेषां तेषां सौभाग्यसम्पदः ।
सर्वाऽपि श्रीः सदा तेषां यद्गृहे पुरुषोत्तमः ॥७७॥
धन्यो नृपः शिबिश्चापि धन्यः थर्कूटको नृपः ।
धन्यो राजा वीरराजो यद्गृहे पुरुषोत्तमः ॥७८॥
धन्याः पातालवासाश्च धन्याः पर्वतवासिनः ।
धन्याः कन्याः कुमाराश्च येषां कृष्णस्य दर्शनम् ॥७९॥
गृह्णन्तु मानवाश्चास्मान्नारायणात्परेश्वरात् ।
मन्त्रं मोक्षप्रदं सर्वे येऽवशिष्टा मुमुक्षवः ॥८०॥
इत्युक्त्वा दण्डवच्चक्रे राजा श्रीपुरुषोत्तमम् ।
सभां च दण्डवच्चक्रेऽलोठीद् रजस्सु चोत्सुकः ॥८१॥
हरिस्तस्मै चरणौ द्वौ ददौ तन्मस्तकोपरि ।
हृदयेऽपि ददौ पादौ समालेषं ततो ददौ ॥८२॥
पुष्पहारप्रसादं च ददौ राज्ञे हरिः स्वयम् ।
राज्ञ्यस्तस्य चतस्रश्च पुपूज परमेश्वरम् ॥८३॥
पुत्राः पुत्र्यस्तथा कृष्णं पुपूज बहुभावतः ।
प्रजाजनाः पुपूजुश्च श्रीकृष्णं पुरुषोत्तमम् ॥८४॥
नरा नार्यः पुपूजुश्च देशीया महीमानकाः ।
प्राघूणिकाः पुपूजुश्च श्रीस्वामिपरमेश्वरम् ॥८५॥
श्रीहरिः प्रददौ राज्ञे मुकुटं निजमस्तकात् ।
अथ मन्त्रार्थमाजग्मुः कोटिशस्तु प्रजाजनाः ॥८६॥
हरिस्तेभ्यो ददौ मन्त्रान् नामस्मरणपूर्वकान् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः' ॥८७॥
 'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥८८॥
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥८९॥
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥९ ०॥
पिता वन्द्यः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।
'अहं तस्य शरीरं वै स मे शारीरकोऽस्तु वै' ॥९१॥
'श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम' ।
इतिमन्त्रान् ददौ श्रीमद्बालकृष्णो नरायणः ॥९२॥
प्रासादिकं जलपानं ह्यकारयज्जनान्निजान् ।
दर्शनं दिव्यधामस्थमहामुक्तादिभिः सह ॥९३॥
ददौ स्वस्य जनताभ्यो बालकृष्णः स्वयं प्रभुः ।
शिश्रियुर्जनताः कृष्णं नारायणं परं प्रभुम् ॥९४॥
सभासमाप्तौ भगवान् भोजयित्वाऽऽगतान् जनान् ।
विशश्राम क्षणं विशश्रमुः सर्वं निशि प्रगे ॥९५॥
स्नात्वा हरिर्जनानाह ऋषीन् देवादिकाँस्तथा ।
चतुर्थयज्ञकार्यार्थं यान्तु सर्वेऽपि वै द्रुतम् ॥९६॥
आलनौकाब्धिसंयोगे शक्त्यक्षिभूपराज्यके ।
कारयन्तु योग्यतां च प्रारम्भस्य क्रतोर्द्रुतम् ॥९७॥
एकादश्यां वयं प्रातश्चागमिष्याम एव तु ।
इत्याज्ञप्ताश्च हरिणा देवर्षिपितृमानवाः ॥९८॥
ययुः सर्वे याज्ञिकाश्च आलनौकाऽब्धिसंगमम् ।
बालकृष्णो वीरजारालये तस्यौ तदर्थितः ॥९९॥
राज्ञीभिश्च तथा राज्ञा कुमाराद्यैः प्रसेवितः ।
हरिः कुटुम्बसहितः सुखं तस्थौ मनो विदन् ॥१००॥
राजा तु निजकन्यानां शतं कृष्णे विमोहितम् ।
ज्ञात्वा राज्ञ्यभिमत्या च ददौ कृष्णाय भक्तितः ॥१०१॥
कन्याशतं पतिं प्राप्य तदा श्रीपुरुषोत्तमम् ।
कृतकृत्यं तदा जातं राजाद्याः सुखिनोऽभवन् ॥१०२॥
राज्ञ्यः सर्वाश्च वै कृष्णं जामातारं तदाऽऽप्य च ।
कृतकृत्याः सदा मेने पुण्यपात्राणि राधिके! ॥१०३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वीरजारनृपराज्ये ओबीरात्रीशासंगमे तृतीयविष्णुयागकरणं, मन्त्रादिदानं, तीर्थमाहात्म्यं, चेतिनिरूपणनामाऽष्टा-
विंशत्यधिकशततमोऽध्यायः ॥१२८॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP