त्रेतायुगसन्तानः - अध्यायः २६४
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
ततश्च राधिके चाश्वपट्टलो लोमशान्वितः ।
ययावग्रे च शार्ङ्गध्रतीर्थं परमपावनम् ॥१॥
अश्वपाटल उवाच-
कवि तीर्थमिदं सौम्यं रमणीयं किमात्मकम् ।
यत्र मे स्फुरति विद्या वेदवेदाङ्गबोधिनी ॥२॥
श्रीलोमश उवाच-
राजँस्तीर्थमिदं चैवं चमत्कारभरं परम् ।
विद्यते वै ऋषेर्योगाच्छार्ङ्गधरमहात्मनः ॥३॥
शार्ङ्गधरोमहात्माऽभूद् विप्रोऽपि बुद्धिवर्जितः ।
धर्मारण्यकृतावासः शृंगधरस्य वै सुतः ॥४॥
आबाल्यात्तु जडवत् स वक्तंु जानाति नैव ह ।
मूकवद् वर्तते चापि जिह्वाह्रस्वाख्यदोषतः ॥५॥
अश्वपाटल उवाच-
कथं जिह्वाऽभवत्तस्य ह्रस्वा मौर्ख्यं च मे वद ।
मूकवद्वा कथं चास्ते बाल्ये चाञ्चल्यमन्दिरे ॥६॥
श्रीलोमश उवाच-
पूर्वजन्मनि शूद्रोऽभूद् दण्डकारण्यवासकृत् ।
हिंसापरस्तथा शास्त्रदेवनिन्दापरोऽप्यभूत् ॥७॥
ब्राह्मणान् यज्ञकर्तॄन् स क्लेशयत्येव वाग्रुषा ।
नारायणाऽवताराँश्च नास्तिको मनुते न वै ॥८॥
कथा यत्र च भवति तत्राऽसत्यां प्रवक्ति ताम् ।
सर्वामुदरपोषार्थं वक्ति स्वार्थपरायणाम् ॥९॥
एवं निन्दापरश्चाऽयं कदाचिद् गौतमीतटे ।
मृगयार्थं गतस्तत्र शृंगमृगं व्यलोकयत् ॥१०॥
मृगं हन्तुं शरं चानुसन्दधाति तु यावता ।
तावन्मृगो भयात् तूर्णं दुद्राव गौतमीं प्रति ॥११॥
अदृश्यतां गतो वृक्षघटायां च ततः परम् ।
शूद्रकोऽपि प्रदुद्राव मार्गयितुं तटं प्रति ॥१२॥
गोदावर्या जलप्रान्ते ददर्श तं मृगं पुनः ।
शरो मुक्तश्च शूद्रेण मृगपृष्ठे प्रवेशितः ॥१२॥
मृगश्चोत्प्लुत्य सरितः प्रवाहे निपपात ह ।
अभानो मूर्छितोऽगाधे जले वेगप्रवाहणे ॥१४॥
कर्षितः सशरो यातो जलयोगेन वै तलम् ।
मृतश्च जलमध्ये वै मकरेण स भक्षितः ॥१५॥
कृष्ण कृष्ण हरेकृष्ण नारायणेति संस्मरन् ।
मृगोऽपि तीर्थमाहात्म्यात् परेशस्मरणात्ततः ॥१६॥
पुण्यतीर्थमृतेर्जातो धर्मारण्ये स भूसुरः ।
शृंगचिह्नसमेतश्च बालः पर्णधरस्य वै ॥१७॥
विप्रस्य मन्दिरे कृष्णभक्तिमान् विप्रसद्गणः ।
जातिस्मरोऽभवच्चापि भजत्येव हि माधवम् ॥१८॥
गंगे गोदावरि सिन्धो यमुने च सरस्वति ।
स्मृत्वा स्नाति हरेकृष्ण गृणात्येव दिवानिशम् ॥१९॥
ववृधे स च बालोऽपि पित्रा शृंगधरः कृतः ।
उपवीती च शास्त्राणि समध्यैत प्रतापवान् ॥२०॥
धर्मकर्मपरश्चाभूद्विवाहितश्च वै ततः ।
शूद्रो ममार च गोदावरी तटे वने तदा ॥२१॥
गोदावर्यां देहदाहो निष्पादितश्च बान्धवैः ।
तेन पुण्यप्रतापेन पापाण्यस्य प्रजज्वलुः ॥२२॥
मृत्युकालेऽस्मरत् सोऽपि मृगं तं शरसन्धितम् ।
तत्प्रतापेन शूद्रः स शृंगधरस्य पुत्रकः ॥२३॥
धर्मारण्येऽभवद् विप्रः शूद्राचारौ जडो यथा ।
पिता जानाति वै सर्वं जातिस्मरस्वभाववान् ॥२४॥
पुत्रो जानाति नैवाऽयं कोऽहमासं पुरा तनौ ।
बालः स शारदाहीनो मूक इव व्यजायत ॥२५॥
जिह्वा ह्रस्वा यतो वक्तुं जानात्येव न बाल्यतः ।
त्रुटितान्स्फोटितान् वर्णान् मम्मा चच्चा वदत्यपि ॥२६॥
मूको वक्तुं न जानाति नाम्ना शार्ङ्गधरः कृतः ।
उपवीती कृतः पित्रा ऋणानुबन्धनोऽपि सः ॥२७॥
पूर्वजन्मकृतनिन्दाफलं भुंक्ते हि मूकताम् ।
नास्तिक्यस्य फलं मौर्ख्यं भुंक्ते विचित्तवत्तथा ॥२८॥
मृगहत्याफलं तस्य पुत्रताभवनं ह्यपि ।
ऋणदानाय जन्माऽस्या भवच्छृंगधरालये ॥२९॥
तीर्थमृत्युफलं चास्य विप्रगृहे जनिर्मता ।
सोऽयं मौर्ख्यान्मूकभावाज्जडत्वान्मानवर्जितः ॥३०॥
जडवद्वै तपस्तप्तुं धर्मारण्ये मनोऽकरोत् ।
समारेभे स वै स्थित्वा वल्मीकशिखरे स्थितः ॥३१॥
तपश्चोग्रं चकाराऽसौ फलमूलदलाशनः ।
नित्यं त्रिषवणस्नायी मानसं जपमादधे ॥३२॥
लोका द्रष्टुं समायान्ति मूको वै तपसि स्थितः ।
नाऽयं पश्यति काँश्चित्तु बद्धनेत्रोऽभवत्तदा ॥३३॥
नाश्चर्यं मन्यते तत्र मालया जपमादधन् ।
सस्मार भगवन्तं तं जिह्वासरस्वतीप्रदम् ॥३४॥
वेदानां शेवधिं कृष्णं नारायणं परेश्वरम् ।
सर्वविद्याश्रयं सर्वविज्ञं श्रीकृष्णवल्लभम् ॥३५॥
दशवर्षं जजापैवं तपश्चकार सदृशम् ।
वल्मीकावास एवाऽसौ वर्षासु प्लक्षमूलगः ॥३६॥
पर्णकुटीविहीनश्च वितानरहितस्तथा ।
आसनादिविहीनश्च प्रावरणविवर्जितः ॥३७॥
जटाधरो रोमधरो भस्मधरोऽतितापसः ।
वल्कलकौपीनमात्रः करपात्रोऽभवत् सदा ॥३८॥
दशवर्षोत्तरं चोर्जे मासे प्रबोधिनीतिथौ ।
रात्रौ त्वाकाशगीश्चास्मै श्रवसोर्मध्यगा जगौ ॥३९॥
विप्र तपसा सिद्धोऽसि गतं ते कल्मषं बहु ।
पूर्वजन्माऽपराधानामन्तस्त्वया विनिर्मितः ॥४०॥
तपसा चाथ भजनैस्ततस्त्वं सावधानतः ।
याहि पद्भ्यां तीर्थमग्र्यमश्वपट्टसरोवरम् ॥४१॥
पश्चिमोदधिसान्निध्ये द्वीपे चानर्तसंज्ञके ।
सौराष्ट्रे देशके तत्राऽक्षरक्षेत्रं प्रविद्यते ॥४१॥
नाम्ना कुंकुमवापीति नगरी चाच्युताश्रया ।
अनादिश्रीकृष्णनारायणाऽऽवासा हि शाश्वती ॥४३॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
जप मन्त्रं च सततं याहि तं देशमुत्तमम् ॥४४॥
स्थानबलाद् देशबलादाश्रमस्य बलात्तथा ।
देवबलाद् यत्नबलादसाध्यमपि सिद्ध्यति ॥४५॥
इत्युक्ता विररामैषा वाणी ततः स भूसुरः ।
नत्वा पित्रे च मात्रे च तपःस्थानं प्रणम्य च ॥४६॥
वल्मीकं प्लक्षमेवाऽपि नत्वा प्रययौ तैर्थिकः ।
गयां काशीं प्रयागं च इन्द्रप्रस्थवनं यमीम् ॥४७॥
पुष्करं च नदीं सरस्वतीं सिद्धसमाश्रिताम् ।
बहुचरां सतीं तीर्थान्यावीक्ष्य प्रविधाय च ॥४८॥
सौराष्ट्रं चाविवेशाऽसौ मूकश्चतुष्टिलाचलम् ।
गत्वा कुंकुमवाप्याख्यं क्षेत्रमापाऽक्षराभिधम् ॥४९॥
दृष्ट्वा सरोवरं रम्यं सागराभं महत्तमम् ।
सर्वतीर्थाश्रयं देवदेवीसतीसदाश्रयम् ॥५०॥
महर्षिकृतसन्ध्यादिध्यानकर्मादिशोभितम् ।
तीर्थवासिप्रजाभिश्च स्नानदानादिबृंहितम् ॥५१॥
हंसगरुडमेनाद्यैः पक्षिव्रातैः समन्वितम् ।
आम्राऽमृतफलिवृक्षैरुद्यानैः परितोऽन्वितम् ॥५२॥
ईशानवश्यदेवाद्यैर्गणैः संरक्षितं सदा ।
यज्ञभूमण्डपाद्यैश्च वेदघोषैश्च नादितम् ॥५३॥
कामधेनुकामलताकल्पमणिविराजितम् ।
संकीर्तनपरैर्भक्तैः कृतवैष्णवसन्मखम् ॥५४॥
देवकन्याराजकन्याब्रह्मप्रियाऽभिशोभितम् ।
वैकुण्ठातिप्रभाशालिकुंकुमानगरीयुतम् ॥५५॥
तेजः परिधिसंव्यापन्मूर्द्धमुक्तप्रजान्वितम् ।
राधारमासतीलक्ष्मीकमलामन्दिरान्वितम् ॥५६॥
अनादिश्रीकृष्णनारायणमन्दिरमस्तके ।
सहस्रैकस्वर्णघटैः प्रसारितप्रभान्वितम् ॥५७॥
देवालयैः सतां स्थानैर्विमानैश्चातिसम्पदम् ।
विमानानां व्योममार्गैर्गतागतैः सुघोषितम् ॥५८॥
आर्तानां दुःखनाशेन संस्तुतं च निजार्थिभिः ।
चन्द्रशीतमधुमिष्टकस्तूरीगन्धसज्जलम् ॥५९॥
पावनं पापिनां चापि मुक्तिदं ब्रह्मदं सरः ।
विप्रो विलोक्य सहसा दिव्यभावमुपागमत् ॥६०॥
विस्मृत्य सर्वतीर्थानि परां शान्तिमुपागमत् ।
उत्तरे च तटे गत्वा जलपानमुपाचरत् ॥६१॥
सस्नौ सुविधिना कन्दं मूलं प्रभुज्य वै ततः ।
दैवं पैत्र्यं चकारापि प्रदक्षिणां ततोऽकरोत् ॥६२॥
उत्तरेऽत्र स्थले राजन् स्थित्वा मनुं जजाप च ।
नित्यं त्रिषवणस्नायी नित्यमहर्षिपूजकः ॥६३॥
नित्यं देवार्हणस्तोत्रपूजापरोऽभवच्छुचिः ।
वैकुण्ठं वापि गोलोकं प्राप्य यद्वत् प्रमोदते ॥६४॥
तथा मुदा मूकविप्रः कृतकृत्यं विवेद ह ।
अथ ज्ञात्वा लोमशस्याऽऽश्रमं ययौ मुदान्वितः ॥६५॥
नत्वा मुमोद बहुधा पपात पादयोः ऋषेः ।
पादसंवाहनं चक्रे ऋषेर्भावसमन्वितः ॥६६॥
जिह्वाग्रं च कराग्रैश्च धृत्वाऽप्यदर्शयत् तदा ।
चेष्टया त्वार्थयच्चापि वाणी मे भवतु प्रभो ॥६७॥
ऋषिस्तथाऽस्त्विति प्राह जिह्वाऽत्यजद्धि ह्रस्वताम् ।
वर्णग्रहणयोग्या सा राजन् ममाऽऽश्रमेऽभवत् ॥६८॥
ततो जग्राह मन्त्रं च मत्तो नारायणस्य सः ।
'अनादिश्रीकृष्णनारायणः स्वामी ममाऽस्तु सः' ॥६९॥
इति मन्त्रं गृहीत्वा च विप्रस्त्वत्र तटे पुनः ।
स्नात्वा जजाप विधिना मन्त्रद्वयं निशान्तरे ॥७०॥
तावद् ब्राह्मे मुहूर्ते वै द्वादश्यां कार्तिके सिते ।
प्राविर्बभूव भगवान् प्रत्यक्षस्तस्य गोचरः ॥७१॥
अश्वशिरा वेदधर्ता वेदमूतिर्महाप्रभुः ।
अश्वमुखो नरदेहः सर्वविद्याविराजितः ॥७२॥
शारदासहितः कृष्णो जगाद क्ष्मासुरं ततः ।
वद विप्र प्रसन्नोऽस्मि किं ते मनसि वर्तते ॥७३॥
विप्रो दृष्ट्वा तथा श्रुत्वा भगवन्तं पुरातनम् ।
सहसोत्थाय विधिना चकार दण्डवन्नमः ॥७४॥
भावपुष्पैः प्रपूज्यैव ववन्दे शुभया गिरा ।
धर्ममूर्ते धर्मपुत्र धर्मारण्ये प्रबोधकृत् ॥७५॥
धार्मिकं च तपन्तं च दृष्ट्वा कृपापरो भवान् ।
समुद्दधार मां मग्नं संसारसागरे प्रभो ॥७६॥
कृपां विना न चान्यद्वै हेतुश्चात्र मयाऽर्जितः ।
यदहं पूर्वपापानां क्षालनं प्राप्तवानिह ॥७७॥
दर्शनं प्राप्तवानत्र दिव्यं दिव्यस्थलस्य ते ।
दिव्यमूर्ते कृपासिन्धो वाणी श्रीलोमशस्य वै ॥७८॥
आशीर्वादेन मे जाता दर्शनात्तव चाधुना ।
जातिस्मरो भवाम्यत्र स्मरामि निन्दनं तव ॥७९॥
प्राग्भवे शूद्रवर्णे यत् कृतं दण्डकसद्वने ।
सर्वं पापं नाशमाप्तं हतो मृगो मया तु यः ॥८०॥
स चास्ते मम जनकः शृंगधरः सशृंगकः ।
ऋणं तस्य प्रदातुं तु तद्गृहे मूकपुत्रकः ॥८१॥
जातोऽस्मि गोमतीतीर्थयोगाद् विप्रत्वमाप्तवान् ।
विप्रो विद्याविहीनश्चेत् पापः स नामधारकः ॥८२॥
तस्माद् विद्यां प्रदेह्यत्र पितृऋणविमोचिनीम् ।
इत्युक्त्वा प्रणनामाऽसौ नमो ओं परमात्मने ॥८३॥
अथ श्रीभगवानाह विप्र त्वं मम वाञ्च्छया ।
कृपालेशेन सरसा शार्ङ्गधर प्रवैदिकः ॥८४॥
सर्वौषधीनां विज्ञाता रसानां तत्त्ववेदनः ।
गुणज्ञश्च तथा दैवबलो भव हि सर्वथा ॥८५॥
इत्युक्त्वा भगवानत्र राजँस्तिरोदधे द्रुतम् ।
विप्रे सा शारदा देवी संहिता चौषधिप्रभा ॥८६॥
हरिद्वर्णा प्रविवेश विप्रश्चायुष्यवेदवान् ।
अभवत् तत्क्षणादेव करे विद्यामवाप्तवान् ॥८७॥
व्यरचयत्ततः शीघ्रं शार्ङ्गधराख्यसंहिताम् ।
कुंकुमवापिकाक्षेत्रे कृष्णनारायणान्तिके ॥८८॥
गत्वा निवेदयामास गृहीत्वाऽऽशीर्वचांसि सः ।
लोमशं च प्रपूज्याऽध्यापयामास च भूसुरान् ॥८९॥
एवं शार्ङ्गधरश्चात्र राजन्नश्वशिराहरेः ।
दर्शनं प्राप्तवांस्तीर्थं शार्ङ्गधराख्यमेव तत् ॥९०॥
आश्वशिरसमेवापि शारदातीर्थमित्यपि ।
वर्तते चोत्तमं चेदं यत्र वै तपआदिभिः ॥९१॥
लभ्यते वेदविज्ञानं निन्दापापादिनाशनम् ।
स्नाहि देहि च विप्रेभ्योऽनाथेभ्यो दक्षिणाः शुभाः ॥९२॥
स विप्रश्च ततः कालान्तरे धर्मवनं ययौ ।
पितरं प्राप्य मुमुदे ख्यातिं चावाप शाश्वतीम् ॥९३॥
यन्न तपसा द्रव्येण यत्नेन नापि सम्पदा ।
तद्वै भवति ध्यानेनाऽऽशीर्वादैर्भजनेन च ॥९४॥
देशबलेन चाश्रयबलेन महिमदृशा ।
उपास्त्या जायते चापि दुर्लभं सुलभं नृप ॥९५॥
इत्युक्तो नृपतिस्तत्र शार्ङ्गधरं तथा द्विजान् ।
प्रपूज्य चाप्लवनं संप्रचक्रे सरसो जले ॥९६॥
ददौ दानानि विधिना बहुसोऽप्यभवत्तदा ।
तीर्थस्यैवं प्रतापं स जानन् वै राधिके ततः ॥९७॥
रत्नदानं च गोदानं विद्यादानं चकार सः ।
छत्रदानं वस्त्रदानं भूषादानं चकार सः ॥९८॥
अन्नदानं स्वर्णदानं चकार चाश्वपाटलः ।
नत्वा तीर्थं सुरान् नत्वा लोमशेन समं ततः ॥९९॥
ययौ चाग्रे शुभं तीर्थान्तरं माहात्म्यसंभृतः ।
पठनाच्छ्रवणादस्य विद्यावान् वै प्रजायते ॥१००॥
इति श्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने निन्दकशूद्रस्य हरिणघातिनो गोदावर्यां मरणाद्धर्मारण्ये मूकविप्रजन्म, तपसा क्षीणपापस्य कुंकुमवाप्यामोषधिविद्याविज्ञानं, मूकतानाशः शार्ङ्गधरसंहिताकर्तृत्वं, शार्ङ्गधरतीर्थमाश्वशिरसतीर्थमित्यादिनिरूपणनामा चतुष्षष्ट्यधिकद्विशततमोऽध्यायः ॥२६४॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP