त्रेतायुगसन्तानः - अध्यायः १२
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
राधिके पावनीं रम्यां समाकर्णय चापराम् ।
श्रीहरेरैश्वर्ययुक्तां कथामष्टममासजाम् ॥१॥
सौराष्ट्रे दक्षिणे भागे व्याघ्रारण्यं परं महत् ।
सिंहारण्यं ततोऽवाच्यां ततोऽब्धिर्द्वीपशोभितः ॥२॥
द्वीपस्याऽस्याऽभवद् राजा दमनाख्योऽतिदारुणः ।
पश्चिमादब्रिक्तदेशादागत्याऽसुरभावनः ॥३॥
वासं राज्यं प्रसह्यैव करोति स्माऽतिदारुणः ।
न मनुते बलिष्ठो वै धर्मं स्वर्गं पुनर्भवम् ॥४॥
बलं धर्मो बलं राज्यं बलं स्वर्गं बलं सुखम् ।
बलेन भुज्यते राज्यं स्वर्गं बलेन लभ्यते ॥५॥
नाऽऽहुतोऽग्निर्ददात्यन्यद्घृतक्षयं करोति च ।
न जपालभ्यते राज्यं शस्त्राद् राज्यं तु लभ्यते ॥६॥
न स्मृद्धिर्गम्यते स्तुत्या युद्धेन श्रीरवाप्यते ।
न कन्या लभ्यते दैन्यात् हरणात् कन्यकाऽप्यते ॥७॥
नाऽनुयाति प्रजा साम्नाऽनुयाति दण्डजाद् भयात् ।
देवास्तु कल्पनामात्रा न चाऽऽयान्ति न भान्ति च ॥८॥
वृथा भोज्यं ब्राह्मणानां वृथाऽर्चनं सतां तथा ।
मृषा ज्ञानं कथकानां सत्यं तु पुरुषार्थिंनाम् ॥९॥
बलिनं लम्बते पृथ्वी दासा दास्यः श्रयन्ति च ।
पुरुषार्थविहीनस्य न दारा न गृहं धनम् ॥१०॥
बलेन लभ्यते यत्तत् स्वीयं नैतिकमेव च ।
बलहीनमधर्माढ्यं तस्मात् कुर्याद् बलं परम् ॥११॥
धर्मार्थकाममोक्षाश्च बलमेव च नेतरत् ।
पापं पुण्यं बलं सर्वं नाऽन्योऽर्थस्तस्य विद्यते ॥१२॥
बलिनः सुखिनः सन्ति निर्बलास्तु दरिद्रकाः ।
बलिनं चोपतिष्ठन्ति चला लक्ष्मीश्च सम्पदः ॥१३॥
अलसस्य क्षुधितस्य मुखे नायाति भोजनम् ।
विहरतस्तु सिंहस्य वने सम्पद्यतेऽदनम् ॥१४॥
इमे हिंस्या इमे नेति धर्मो लोके व्यवस्थितः ।
न तु मुख्यः स शूराणां मुख्यत्वे बलवान् क्षयेत् ॥१५॥
विविधासु प्रजास्वत्र बलवानग्रगो भवेत् ।
पशुपक्षिपतंगानां बलवानूर्जितो भवेत् ॥१६॥
भुंक्ते स्वर्गं बलवाँश्च भाग्यं बले व्यवस्थितम् ।
श्रूयते बलवानत्र भुवि सौराष्ट्रमण्डले ॥१७॥
सुसमृद्धोऽतिबलवान् नाम्ना गोपालकृष्णकः ।
कुंकुमवापिकाक्षेत्रे पिता कृष्णस्य शार्ङ्गिणः ॥१८॥
बालकृष्णोऽत्र बालत्वे स्थितोऽपि वर्तते प्रभुः ।
अनेकबलसाहस्रो लोमशस्याऽऽश्रयेऽस्ति च ॥१९॥
तलाऽर्जन्तादिकन्याश्च सन्ति लोमशकाश्रमे ।
रक्षसां च सुराणां च वनिनां कन्यकास्तथा ॥२०॥
युवत्यश्चातिरूपाढ्या बालकृष्णबलेन वै ।
रक्षितास्तत्र विद्यन्ते मम योग्या हि ता यतः ॥२१॥
मया वै लोमशं हत्वा हत्वा गोपालकृष्णकम् ।
बालकृष्णं तथा हत्वाऽऽनेतव्या मे वशे तु ताः ॥२२॥
इति विचार्य दमनो महासुरो निजान् भटान् ।
समाहूय सभायां स प्रकाशं हृदयं न्यधात् ॥२३॥
मार्तण्डं च प्रचण्डं च कूष्माण्डं भाण्डकं तथा ।
दुष्टाण्डं च कटाहाण्डं गर्ताण्डं ताण्डवं तथा ॥२४॥
भण्डं षण्डं कुभाण्डं च शैलाण्डं भ्रमराण्डकम् ।
हर्जाण्डं चापि गर्जाण्डं जठ्राण्डं गृध्रकाण्डकम् ॥२५॥
गोक्राण्डं घुर्घुराण्डं च मायाण्डं सैन्यनायकान् ।
सर्वान् वीरवतीं वाणीमुवाच दानवेश्वरान् ॥२६॥
लक्षसैन्यसमायुक्ताः सन्नद्धा भवताऽत्र वै ।
सौराष्ट्रे वीरकन्याश्च कोटिशो लोमशाश्रमे ॥२७॥
अनादिश्रीकृष्णनारायणार्थे सन्ति रक्षिताः ।
तलाजा तिष्ठति तत्र तथाऽन्याश्च सहस्रशः ॥२८॥
आनेतव्या बलात्ताश्च बलं वै राज्यमुच्यते ।
तासामिष्टतमो बालोऽष्टमे मासे प्रवेक्ष्यति ॥२९॥
श्रूयते स महैश्वर्ययुतो नित्यं न बालकः ।
तस्मात् सावधानभावा भवताऽस्त्रादियोगिनः ॥३०॥
चतुरंगं बलं सर्वॆ सन्नह्य यात चाऽग्रतः ।
विमानैः कमलाकारैर्वाहनैर्व्योमगामिभिः ॥३१॥
सर्वाऽऽयुधैः सह यात चाग्रे कुॆकुमवापिकाम्।
कार्यॆ त्रयं प्रकर्तव्यं साध्यं प्राणप्रदानकैः ॥३२॥
आहर्तव्याः कन्यकास्ताः प्राणैरपि धनैरपि ।
लोमशेन समं युद्धं कर्तव्यं तद्विनाशकम् ॥३३॥
यदि कृष्णो वालरूपो महान् भूत्वा रणं चरेत् ।
घातयितव्य एवाऽयं कार्यॆ चैतन्महत्तरम् ॥३४॥
एवं कार्यत्रयं कार्यं प्रतिज्ञां यात मत्पदे ।
इप्युक्तास्तत्र कूष्माण्डः प्राह विनयगर्भितम् ॥३५॥
भृत्योक्तं हितकृद्वाक्यं मन्तव्यं कटु वा भवेत्॥
अहं कूष्माण्डकेष्वेव गणेषु शंकरस्य च ॥३६॥
स्थित्वा वै श्रुतवान् पूर्वं कृष्णनारायणो हरिः ।
परमात्माऽसुरहाश्च दैत्यहा दानवक्षयः ॥३७॥
कुंकुमवापिकाक्षेत्रे वर्तते दिव्यविग्रहः ।
हिरण्यकूर्चप्रभृतेर्नाशकानां गुरोर्गुरुः ॥३८॥
यस्यैकरोम्णि पद्मानि दशकोट्ययुतानि वै ।
वर्तन्ते देवताः सर्वा बलवद्दैत्यनाशिकाः ॥३९॥
ब्रह्मविष्णुमहेशाद्या रुद्रा विद्याधरादयः ।
नागाः सर्पाः पत्तलस्थाः किंकरा यस्य वै मताः ॥४०॥
तस्य चेच्छ्रीकृष्णनारायणस्य धनमेव ताः ।
कन्यका यदि वर्तन्ते मा स्प्रष्टव्यास्तु ताः क्वचित् ॥४१॥
शरणं मरणं तत्र पश्यामि नेतरत् परम् ।
नाऽतिलोभः प्रकर्तव्यः शाश्वतं सुखमिच्छता ॥४२॥
परद्रव्यं न हर्तव्यं दीर्घं जीवनमिच्छता ।
यत् स्वस्य भाग्यतः प्राप्तं तन्न कैश्चिद्वियुज्यते ॥४३॥
यत्परार्थं समुत्पन्नं तन्नात्मार्थं हि जायते ।
कृते तत्र पुरुषार्थे वैपरीत्यं प्रजायते ॥४४॥
स्त्रियो द्रव्यं क्षितिश्चेति पोषयन्ति निजाश्रयम् ।
यदि पुण्येन लब्धाश्चेद् विपरीतास्तु नाशकाः ॥४५॥
आयुर्यशो बलं द्रव्यं सन्तानं राज्यमित्यपि ।
विपरीता यदि ते स्युर्नाशयन्ति न संशयः ॥४६॥
तव राजन् बहु चास्ति पत्न्यो द्रव्यं प्रजाजनः ।
दासा दास्यो गजाश्चेति कथं तृष्णां न मुञ्चसि ॥४७॥
तृष्णाया बहवो नष्टाः पद्मभ्रमरवन्निशि ।
सन्तोषेण तु बहवो मोदन्ते निजवस्तुषु ॥४८॥
मयोक्तं कटु चाप्यस्ति किन्तु मिष्टं तु भाविनि ।
संक्षेपान्नाययुक्ताऽन्यद् दुःखदं चेति वेद्म्यहम् ॥४९॥
तथापि मन्यसे राजन् कर्तव्यं चानुगा वयम् ।
अवश्यं हि करिष्यामो मरणार्थं तवेहितम् ॥५०॥
इत्युक्त्वा विररामाऽसौ कूष्माण्डश्च ततः परम् ।
मार्तण्डाद्या अपि तत्त्वं विमृश्योचुर्निजाधिपम् ॥५१॥
वह्नौ रत्नं रवौ पुष्पं रत्नाकरतले मणिम् ।
हृदयस्थं च रक्तं त्वं कृष्णकान्ताः समिच्छसि ॥५२॥
लब्धं चापि न सुखदं लब्धव्यं च दुरन्तकम् ।
भृत्यैस्तथापि नोपलंघ्या राजाज्ञा पारमेश्वरी ॥५३॥
जव्राण्डश्च तदा वृद्धो मघ्राण्डश्च सहायकः ।
उभौ बलेन तान् सत्यान् शौर्याभं प्राहतुस्तदा ॥५४॥
मनोरस्थास्तु जायन्ते प्रवर्तन्ते जनास्तथा ।
शूरा निर्माल्यवल्लोके भवन्ति यदि निष्क्रियाः ॥५५॥
प्रवृत्तिं के करिष्यन्ति परीक्षार्हे तु वस्तुनि ।
शूराणां मरणं युद्धे निमित्तं स्त्रीधनादिकम् ॥५६॥
विजये सति चायान्ति पराजये विनाशनम् ।
परलोकप्रदं श्रेष्ठं मरणं रणमध्यतः ॥५७॥
इत्येवमेव मत्वैव यत्र रत्नानि सन्ति च ।
तत्र गत्वैव शूरैश्च प्राप्तव्यानि समर्पणात् ॥५८॥
तस्माद् युद्धं प्रकर्तव्यं प्राप्तव्याः कन्यकाश्च ताः ।
लोमशो बालकृष्णश्च तथा गोपालकृष्णकः ॥५९॥
अन्ये तेषां सहायाश्च हन्तव्या विघ्नदा हि नः ।
इति श्रुत्वा जागृताण्डो विचार्याऽऽह सभाजनान् ॥६०॥
हरिर्बालो विद्यते च रुद्राद्या नहि बालकाः ।
त्रयस्त्रिंशत्कोटिदेवा न बालाः कृष्णपूजकाः ॥६१॥
अकाण्डं प्रलयं द्रष्टुं यदिच्छथ प्रशूरकाः ।
कुरुत विजयं गन्तुं धर्मराजाऽऽतिथेयकम् ॥६२॥
दमनस्तु तदा श्रुत्वा सर्वेषां निर्बलात्मकम् ।
एषोऽहं प्रथमं यामीत्युक्त्वाऽसिं धृतवान् करे ॥६३॥
ये जीवलुब्धा गच्छन्तु नैजं गृहं विहाय माम् ।
रणशूराः समायान्तु शीघ्रं सैन्यसमन्विताः ॥६४॥
राजा दमनकश्चैवं क्रुधा शौर्येण जल्पवान् ।
अमनस्काः समनस्काः सर्वे सज्जास्तदाऽभवन् ॥६५॥
गमने चाऽशकुनानि जातान्येषां पुनः पुनः ।
कृष्णसर्पाऽवलोकश्च घूकदर्शनमित्यपि ॥६६॥
मुकुटानां च शस्त्राणां पातनं यानभञ्जनम् ।
दारिद्र्यदर्शनं रिक्तपात्राणां दर्शनं तथा ॥६७॥
अग्रे याति रजको नापितस्तमनुगच्छति ।
शुष्ककाष्ठे रौति काको भूकम्पोऽपि व्यजायत ॥६८॥
तेषां स्त्रीणां च केशेभ्यः स्रस्तानि कुसुमानि च ।
अकालेऽपि रजोभावो गृहं वह्निर्ददाह च ॥६९॥
पशुपक्षिविरावाश्च त्रासदाश्चाऽभवँस्तदा ।
अनादिश्रीकृष्णनारायणप्रेरितमेव हि ॥७०॥
काले सर्वं भवत्येव दमनस्य तु का कथा ।
इत्येवं चाऽपशकुने जायमानेऽपि राधिके! ॥७१॥
कन्यकालालसाव्याप्तो दमनः सैन्यसंयुतः ।
कुंकुमवापिकाक्षेत्रं त्वागतो लोमशाश्रमम् ॥७२॥
चकार शंखनिर्घोषं वादयामास दुन्दुभिम् ।
रणतूर्याणि बहुधा ताडयामास तज्जनैः ॥७३॥
दूतं स्वं प्रेषयामास लोमशं प्रति खर्वटम् ।
खर्वटस्तु समागत्य ननाम पादयोः ऋषेः ॥७४॥
सन्देशं कथयामास दमनस्य नयेन ह ।
ऋषे! राजा दमनकः सामुद्रक्षितिराज्यवान् ॥७५॥
आवेदयति मान्यस्य पूज्यस्य पादयोर्नमन् ।
कन्यकाः कोटिशो राजयोग्याः सन्ति तवाऽऽश्रमे ॥७६॥
देहि नः कृपया शान्त्या विनयेन रणेन वा ।
लोमशस्तं खर्वटं च प्राह नेमा धनं मम ॥७७॥
बालकृष्णस्य तु धनं कथं दातुं समुत्सहे ।
अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ॥७८॥
तस्य शाश्वतनिक्षेपः कथं दीयेत वै मया ।
यातच बालकृष्णं तं यथेष्टं कुरुताऽथवा ॥७९॥
इत्युक्तः स खर्वटस्तु नत्वा ययौ नृपं प्रति ।
उवाचाऽनुपूर्विकायुग्वाक्यं श्रुत्वा दमस्तदा ॥८०॥
प्रैरयत् कन्यका हर्तुं सर्वान् दैत्यान् भयंकरान् ।
सैन्यं लोमशभूभागं समावृणोत् समन्ततः ॥८१॥
धर्षयन्तु चाहरन्तु मर्दयन्तु च कन्यकाः ।
नीत्वा नीत्वा समायान्तु त्वेवं सैन्यभटास्तदा ॥८२॥
आक्रोशन्तो दुद्रुवुश्च गर्जयन्तः परस्परम् ।
यत्र ताः कन्यकाः सन्ति दृष्ट्वा दुद्रुवुरन्तिकम् ॥८३॥
कोलाहलं तथा दृष्ट्वा भीतास्तु कन्यका हरिम् ।
सस्मरुर्लोमशं निवेदयामासुर्महाभयम् ॥८४॥
ध्यानस्थो लोमशस्तत्र बालकृष्णं हरिं प्रभुम् ।
स्मृत्वा वै स्तम्भनमन्त्रं प्राक्षिपत् क्षणमात्रतः ॥८५॥
तावत् सैन्यं जडीभूतं वृक्षस्तम्बा यथा तथा ।
सर्वं निश्चेष्टमेवाऽऽसीत् काष्ठपुत्तलिका यथा ॥८६॥
हाहाकारो महानासीद् दमनस्य भटेषु च ।
नायकाश्चाति सन्त्रस्ता मृत्युमुखे गता इव ॥८७॥
अथ बालः कृष्णनारायणो ज्ञात्वाऽतिदारुणम् ।
प्रियाणां च तदा कष्टं चागच्छत् कन्यकाः प्रति ॥८८॥
लोमशं च मुनिं नत्वा शंखचक्रधरः प्रभुः ।
सौम्यदृष्ट्या प्रिया वीक्ष्य हसंस्तस्थौ क्षणं पुरः ॥८९॥
लोमशेन प्रदत्ते त्वासने वै निषसाद सः ।
भयोद्विग्नाः कन्यकाश्च रक्ष नाथेति वै जगुः ॥९०॥
अथ ते जडतां प्राप्ता दमनाद्याः शिला इव ।
मनसा शरणं जग्मुर्लोमशं परमेश्वरम् ॥९१॥
अपराद्धं युद्धबलैर्नात्मबलैः कृपां कुरु ।
आत्मबलांशलेशेन बलं नो विलयं गतम् ॥९२॥
निर्बलाश्चाऽबलास्तुल्यास्ततो नश्चाऽबलाजनान् ।
जडभावात् प्रविचाव्य जीवनं देहि नः प्रभो ॥९३॥
इत्येवं ते हृदा मुनेर्लोमशस्य तु पादयोः ।
शरणं नेमुरत्यर्थं तदाऽनुग्रहवान् मुनिः ॥९४॥
जडभावं स्तम्भनं मोचयामास हरे पुरः ।
अथ दुष्टस्वभावेन दमनेन नियोजिताः ॥९५॥
पुनः कन्याः समाक्रष्टुं निपेतुः श्येनवत्तदा ।
दृष्ट्वाऽपराद्धं भगवान् सुदर्शनं मुमोच ह ॥९६॥
वह्निज्वालामयं नैकरूपधृक् सर्वतोदिशम् ।
चिच्छेद सस्यवद् दैत्यान् लक्षशस्तत्र रंहसा ॥९७॥
क्षणमात्रेण सैन्यं तत् नायका दमकस्तथा ।
सर्वे छिन्नास्तदा द्वेधा नैकः शेषोऽपि विद्यते ॥९८॥
दग्धाः सर्वेऽपि तत्रैव सौदर्शनेन वह्निना ।
सुदर्शनं हरेर्हस्ते नीत्वाऽऽत्मनः समागतम् ॥९९॥
कृष्णमूर्तौ लयं याता लक्षात्मानस्तु राधिके।
भगवाँश्चक्रमादाय नत्वा च लोमशं मुनिम् ॥१००॥
वीक्ष्याऽऽभाष्य प्रियाः सर्वाः कन्यका हि मुहुर्मुहुः ।
बालरूपं विधायैव पर्यंकिकां समाययौ ॥१०१॥
इत्येवं भगवांश्चक्रे दैत्यलक्षप्रणाशनम् ।
क्षणाद्वै किमसाध्यं श्रीपतेः श्रीराधिकापतेः ॥१०२॥
यत्राऽसुरा विनष्टास्ते चक्रेण निहतास्तदा ।
चक्रखाताऽभवत्प्रख्या भूमिः सा सरसस्तटे ॥१०३॥
चक्रतीर्थं तु तज्जातं चाश्वपट्टसरोवरे ।
एवं भगवता तत्र भूभारहरणं कृतम् ॥१०४॥
श्रोतुः श्रावयितुः स्मर्तुर्वाचयितुश्चमत्कृतेः ।
मोक्षः स्यादेव वा स्मृद्धिर्भवेत् सुकाम इत्यपि ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने दक्षिणोदधिस्थदमनकदैत्यस्य कन्यका हर्तुं लोमशाश्रममागतस्य लोमशेन कृतो जडीभावो बालकृष्णेन सुदर्शनेन कृतः ससैन्यस्य ध्वंसो मोक्षश्चेत्यादिनिरूपणनामा द्वादशोऽध्यायः ॥१२॥
N/A
References : N/A
Last Updated : April 29, 2021
TOP