संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २०

त्रेतायुगसन्तानः - अध्यायः २०

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
एवंविधे कृते तत्र मण्डपे कुंजलक्षकैः ।
शोभिते रंगरंगोलीस्वस्तिकवल्लरीयुते ॥१॥
दध्यंकुशक्षतलाजास्तम्बमण्डनमंगले ।
परितो झल्लरीमध्ये न्यस्तश्लोकाभिबोधके ॥२॥
कम्मानिकोपरिन्यस्तमुख्यदेवाभिधानके ।
तत्तद्ध्वजेषु विन्यस्ततत्तत्प्रधानवाहने ॥३॥
तत्तद्गोपुरपालानामम्बरे कंध्रवेष्टने ।
तत्तत्प्रधानदेवानां नामभिश्चित्तरञ्जने ॥४॥
सप्तरूपाभिरूपाढ्याम्बरवेष्टितयष्टिके ।
दिव्यसौवर्णवस्त्रैश्च वेष्टितस्तम्भमण्डले ॥५॥
दिव्यदेवीप्रतिमाभिः स्तम्भशिरोमनोहरे ।
स्थले जलं जले स्थलं चोभयोरनलेक्षणे ॥६॥
अनले नलवद्राजच्चामरैरुपशोभिते ।
विद्युल्लताभिः परितः पारदर्शननिर्मले ॥७॥
मध्योल्लोचेषु वर्तुले रासमण्डलराजिते ।
अज्ञातमूलतो निर्यन्नवरंगसुकान्तिके ॥८॥
विद्युत्पटेषु नाट्यानां नवदर्शनरञ्जने ।
व्यूहावतारदेवानां चमत्कारैः सुचित्रिते ॥९॥
कृष्णकान्तार्बुदानां च लीलाललिततामये ।
सर्वस्मृद्धे कामयाने कामगे कामगह्वरे ॥१०॥
कामोपस्थितसत्ये च सत्यसंकल्पमण्डपे ।
एतादृशेऽष्टमीप्रातः श्रीमद्गोपालकृष्णकः ॥११॥
चन्दनादिजलैर्भूमिं सेचयामास शीतलैः ।
धूपैः सुगन्धयामासाऽऽमोदैर्विविधजातिकैः ॥१२॥
स्वस्तिकान् सर्वतोभद्रान् चक्राणि वर्तुलानि च ।
मण्डलानि विविधानि कारयामास रंगकैः ॥१३॥
अक्षतैः कुसुमैश्चापि कुंकुमैर्दधिपल्लवैः ।
भद्राँस्तान् शोभयामास गोपुराँश्चापि तोरणैः ॥१४॥
आम्राऽशोकादिपत्रैश्च कदलीस्तम्भपत्रकैः ।
सफलैः कदलीस्तम्भैः शाखाप्रान्तैः फलाञ्चितः ॥१५॥
पुष्पितैः स्तबकैश्चापि शोभयामास वाटगान् ।
ध्वजानारोहयामासोत्सवबोधकशब्दितान् ॥१६॥
पताकाश्चापि सर्वत्र बन्धयामास मण्डपे ।
दिव्यकाचादियन्त्राणि विद्युद्दीपादिभिस्तथा ॥१७॥
सम्यक् प्रभासयामास मण्डपादौ समन्ततः ।
मण्डपस्याऽतिरम्यस्य स्तम्भे स्तम्भेऽष्टसिद्धयः ॥१८॥
इष्टापूरकरूपिण्यः पूरयामासुरीहितम् ।
ध्रुवयन्त्रं कालयन्त्रं वेधयन्त्रं महत्तरम् ॥१९॥
दूरदर्शनयन्त्राणि दूरश्रावणकानि च ।
प्रतिबिम्बप्रयन्त्राणि प्रतिस्थलं प्रतिगृहम् ॥२०॥
प्रतिस्तम्भं च नद्धानि विद्यन्ते दिव्यमण्डपे ।
सुदीर्घौर्णास्तरणानि शाद्वलादिनिभानि वै ॥२१॥
बृस्यः कटानि चास्यानि सिंहासनानि वेदिकाः ।
गजासनानि हंसास्या गारुडास्यानि चत्वराः ॥२२॥
सुवर्णवालुकादीनि मणिनद्धासनानि च ।
दोला बहुविधाश्चापि मञ्चा दीर्घाः समन्ततः ॥२३॥
विद्यन्ते बहुमूल्यानि तथा सोपानतूलिकाः ।
स्वर्णरत्नमणिस्मृद्धाः शोभन्ते च समन्ततः ॥२४॥
मृन्मयास्तत्र केदारास्तूलसीद्रुमशोभिताः ।
अनगशार्ङ्गसञ्जाता जात्यादिपुष्पजातयः ॥२५॥
चम्पकाद्याः शुभाः खर्वा द्रुमास्तिष्ठन्ति मण्डपे ।
सुवर्णवालुकाभूमिः काशते वै समन्ततः ॥२६॥
मृद्वी मृदुकुमारीणां पत्तलाऽर्हाऽतिकोमला ।
यज्ञवाटाः खण्डरथ्याः सृतयश्च प्रदक्षिणम् ॥२७॥
मार्गाः पल्लववल्ल्याद्यैः शोभन्ते यत्र मण्डपे ।
दर्शकानामासनानि पर्यङ्कमञ्चवन्ति च ॥२८॥
परितश्चोर्ध्वमूर्ध्वं च क्लृप्तानि व्योमगानि वै ।
भृत्यचारणभाट्टानां भटमागधबन्दिनाम् ॥२९॥
विप्रविद्वद्विदुषीणां कविवाचालगायिनाम् ।
शोभन्ते चासनान्युच्चस्थानि विद्युल्लता यथा ॥३०॥
मनुष्याणां ततश्चान्तर्भागेष्वासनपंक्तयः ।
परितो बहुविस्ताराः शोभन्ते चन्द्रिका यथा ॥३१॥
ततोऽन्तःस्था यक्षरक्षोभूतप्रेतपिशाचकाः ।
कूष्माण्डा वैनायकाश्च वेतालाः किन्नरास्तथा ॥३२॥
किंपुरुषाश्च विद्याध्रा योगिनीनां गणास्तथा ।
ततोऽन्तःस्था दिव्यदेहा मुकुटकटकोज्ज्वलाः ॥३३॥
देवा देव्यो देवपाला देवेश्वराः सुरानुगाः ।
स्थले स्थले चतुष्कश्च पट्टिका निहितास्तथा ॥३४॥
चतुष्पाद्यश्चाष्टपाद्यस्तथा षोडशपादुकाः ।
तत्र तिष्ठन्ति देवानां मूर्धन्या देवभूभृतः ॥३५॥
अथ सिंहासनान्यासन् सफणाछत्रकानि च ।
सौवर्णान्यतिदिव्यानि ह्यधिष्ठितानि पितृभिः ॥३६॥
अथान्तः ऋषयश्चासन् जापका ब्रह्मचिन्तकाः ।
वेदपाठकरा लक्ष्मीसंहितापाठकास्तथा ॥३७॥
रुद्रस्य ब्रह्मणश्चापि संहितयोः प्रपाठकाः ।
अगस्त्यस्य संहितायाः पाठकाश्चापि केचन ॥३८॥
और्णासनेषु पट्टिकानिहितेषु स्थितास्तदा ।
ततोऽन्तर्मण्डपस्याऽधःपीठिकायां महर्षयः ॥३९॥
सत्यलोकनिवासा ये तथा वैराजवासिनः ।
ब्रह्मचर्यपराश्चासन् ब्रह्मजापपरायणाः ॥४०॥
यज्ञकर्मपराश्चासन् ऋत्विजो ब्रह्मवित्तमाः ।
ब्रह्मा होता तथोद्गाताऽध्वर्युश्चेति प्रतिक्रमाः ॥४१॥
सामगा गीतिगाश्चान्ये मन्त्रप्रयोगिणस्तथा ।
आसन् स्वकर्मकुशला भार्गवाद्याः सशक्तिकाः ॥४२॥
यज्ञपात्राणि चरवः स्रुक्स्रुवाद्यास्तथा द्रवाः ।
यज्ञियानि च काष्ठानि व्रीह्यादीन्यभवत् स्फिरम् ॥४३॥
आज्यं हव्यं समग्रं च विविधं वर्तते तदा ।
यज्ञकुण्डो विशालश्च वैष्णवो यज्ञदेवता ॥४४॥
वह्निश्च वैष्णवो यत्राहवनीयो विराजते ।
स्वस्तिवाचनपूर्वं च यज्ञकर्म प्रवर्तते ॥४५॥
माता श्रीकम्भरालक्ष्मीः पिता गोपालकृष्णकः ।
यजमानस्थले तत्र राजेते लोमशाग्रतः ॥४६॥
लोमशो विधिवत्तत्र नारायणस्य पूजनम् ।
कारयामास च ततो हवनं सम्प्रवर्तते ॥४७॥
दक्षिणे कुण्डतस्तत्राऽक्षरमुक्ताः स्थिताः शुभाः ।
पार्श्वे गोलोकमुक्ताश्च पार्श्वे वैकुण्ठवासिनः ॥४८॥
ततोऽन्ये वैकुण्ठवासाः क्षीरोदश्वेतवासिनः ।
बद्रीस्थाश्चापि कैलासस्थाश्चान्यधामगास्तथा ॥४९॥
तिष्ठन्ति दक्षिणे भागे पूर्णब्रह्मपरायणाः ।
वेदिकायां परब्रह्म स्वयं कृष्णनरायणः ॥५०॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
साक्षाद्विराजते बालः स्वामी किशोररूपधृक्॥५१॥
यद्यप्यास्ते लोकरीत्या द्वितीयवर्षसञ्चरः ।
तथापि धामरूपाढ्यो राजते परमेश्वरः ॥५२॥
वेद्यां सिंहासने रम्ये विमाने भगवान् स्वयम् ।
तत्पार्श्वे राधिके चाहमासं कृष्णस्तव प्रियः ॥५३॥
मत्पार्श्वे श्रीपतिश्चास्ते तत्पार्श्वे नृनरायणः ।
तत्पार्श्वे श्वेतवासी च क्षीरवासी ततस्तथा ॥५४॥
भूमाद्या वासुदेवाद्याः कपिलाद्यास्ततः परम् ।
आसते वेदिकासिंहासनेषु च विमानके ॥५५॥
तत्पत्न्यस्तत्कुमार्यश्च तन्मुक्ता वेत्रधारिणः ।
छत्रध्राः पार्श्ववासाश्च तिष्ठन्ति तत्समन्ततः ॥५६॥
अवाद्यन्त च तूर्याणि वेदिकायाश्च पृष्ठतः ।
कोटिदेव्यो विराजन्ते समन्यूनासनेषु च ॥५७॥
गायन्ति गीतिका रम्या कृष्णमहोत्सवप्रियाः ।
अनादिश्रीकृष्णलीलागर्भा दिव्यमनोहराः ॥५८॥
होमो वै जायते तत्र तृप्यन्ति चेश्वरादयः ।
देवाश्च पितरः सर्वेऽवतारा मुक्तकोटयः ॥५९॥
श्रीमद्गोपालकृष्णेनार्पितं हव्यं नवं नवम् ।
साक्षाद् गृह्णन्ति ते सर्वे वह्निव्याजेन वै पुनः ॥६०॥
पायसानि विचित्राणि फलपुष्पमधून्यपि ।
हूयन्ते व्रीहयश्चापि नारिकेलान्यभीक्ष्णशः ॥६१॥
परिहारे कृते चाथ पूर्णाहुतौ तथोत्थितः ।
समाजो मण्डपे तत्र जुहोति दिव्यसद्रसान् ॥६२॥
रुद्रो विष्णुस्तथा ब्रह्मा ग्रहा गणपतिस्तथा ।
मातरः कलशश्चापि दिक्पाला देवतेश्वराः ॥६३॥
ये ये संस्थापितास्तत्र तत्तदायतनात्मकाः ।
पूजिता मूर्तिमन्तस्ते हवने समवायिनः ॥६४॥
साक्षात्कृत्वा हवनं च गृह्णन्त्यग्निमुखैस्तदा ।
तृप्तिर्जाता यज्ञकार्यं समाप्तं दक्षिणायुतम् ॥६५॥
अनन्तदक्षिणादानैस्तृप्तास्ते ब्राह्मदेवताः ।
अथाऽनादिबालकृष्णपूजनं कर्तुमुद्यताः ॥६६॥
अवतारास्तथा मुक्ता ब्रह्मर्षयो महर्षयः ।
तत्तल्लोकनिवासाश्च सोपदाः सम्प्रतस्थिरे ॥६७॥
वादित्राणि च तूर्याणि तारपावनकानि च ।
मृदंगपटहाद्याश्चाऽवाद्यन्त जलयन्त्रिकाः ॥६८॥
सुतन्त्र्यो मुरजाः शंखा घण्टा झल्लरिकास्तथा ।
वीणा भेर्यश्च शृंगाणि त्ववाद्यन्त च तुम्बिराः ॥६९॥
गालवाद्याः स्वरवाद्याः फुद्वाद्याः स्पर्शवादनाः ।
अवाद्यन्त तदा मिष्टान्यश्रुतानि पुरा यथा ॥७०॥
स्वरा वैदिकमन्त्राणां प्रवर्तन्ते द्विजैस्तदा ।
आशिषां च प्रवाहाश्च कृष्णनारायणेऽवहन् ॥७१॥
अभ्युक्षितो हरिः कृष्णः सामुद्रतीर्थवारिभिः ।
ब्रह्मह्रदजलैर्गंगाविरजायमुनाजलैः ॥७२॥
सरस्वतीस्वर्णरेखागण्डकीसलिलैस्तथा ।
किशोरो राजते कृष्णस्तदा तेजोभिरुद्यतः ॥७३॥
मस्तके राजते यस्य मुकुटः कोटिसूर्यवत् ।
कोटिचन्द्रैः प्रणद्धश्च कल्गिधर्मविराजितः ॥७४॥
दिव्यमायूरपिच्छानां पारिधेयप्रमण्डितः ।
कुण्डले श्रवणाकारे सौवर्णे नद्धरत्नके ॥७५॥
विराजेते कर्णयोश्च बालकृष्णस्य शोभने ।
तैलेन साधितकेशजटाग्रन्थियुतं शिरः ॥७६॥
ललाटं चोर्ध्वपुण्ड्रेण कैसरेण विराजितम् ।
चन्दनेन तथा चन्द्रः कुंकुमेन शुभावहः ॥७७॥
विराजते तथा भास्वत्कज्जलं नेत्रगोलयोः ।
चन्दनेनाऽक्षतेनाऽपि चर्चनं लम्बदण्डितम् ॥७८॥
सुरेखं मध्यबिन्द्वीभिः शोभतेऽस्य ललाटके ।
दक्षगण्डे सूक्ष्मबिन्दुः पाण्डुरोऽतिध्रुवायते ॥७९॥
चिबुके तिलबिन्दुश्च कण्ठेऽपि तिलबिन्दुकः ।
राजते तेजसा युक्तः कपोलौ वर्तुलौ शुभौ ॥८०॥
राजीवभावमापन्ने प्रेमपूरितनेत्रके ।
रक्तप्रवालरेखाभिः शोभेते सुमनोहरे ॥८१॥
आकर्णान्तायतकोणे, कर्णौ दूरश्रवौ समौ ।
कम्बुकण्ठकृकाटश्च रक्तावोष्ठौ प्रमोहकौ ॥८२॥
धनुःकम्मानिकाकारावनुद्भूतरुहान्वितौ ।
राजेते रतिबीजौ तौ हृदाकर्षणकौ हरेः ॥८३॥
पुष्टस्कन्धौ पूरबाहू बलिप्रकोष्ठराजितौ ।
विशालतलसम्पन्नौ त्रिसन्धिशाखशोभितौ ॥८४॥
अकृतालक्तकरक्तौ सूक्ष्मचन्द्राग्रराजितो ।
चक्रमीनधनुःशूलैः स्वस्तिकवज्रराजितौ ॥८५॥
अनामिकाऽऽरूढधाराऽऽयुष्यरेखामनोहरौ ।
आदर्शवत् सदा स्वच्छौ प्रतिबिम्बाऽभिधायकौ ॥८६॥
उपर्युपरि रोम्णां वै सूक्ष्मग्रामांगुलिप्रियौ ।
भुजौ पार्श्वाभिमुखतः पाण्डुरौ शारदोपमौ ॥८७॥
पार्श्वौ कामनिवासौ च वक्षः श्रीवासि शोभनम् ।
मध्ये रोम्णां दक्षिणावर्तेन कान्तेन राजितम् ॥८८॥
स्वर्णरेखापरिचञ्चन्मणिश्रेष्ठविराजितम् ।
असूत्रहारततिभ्यां कामलीभ्यां प्रकाशते ॥८९॥
नीलद्वितारकशोभं राजते हि स्तनद्वयम् ।
सुवर्णतन्तुरोमालिस्तबकेन युतं तथा ॥९०॥
अकापट्यगुणाऽऽवेदि रोमोद्यानं विराजते ।
उभयोर्नलयोर्मध्ये सन्धौ दीर्घा च कानकी ॥९१॥
रोमावली जघनगा लक्ष्मीचित्रप्रवेशिता ।
राजते यस्य नाभेस्तु निम्रगेय कमण्डलोः ॥९२॥
लिङ्गं सूज्ज्वलं वामे तिलशोभाविराजितम् ।
सक्थिनी चन्द्रकदलीगर्भशोभौ च रोमभिः ॥९३॥
प्रान्तस्वर्णस्वरूपैश्च राजेतेऽक्षरयायिनौ ।
चारुचम्पकवर्णाभौ पुष्टौ वीर्यभरौ शुभौ ॥९४॥
पार्ष्णितो पिण्डिकां व्याप्य सक्थ्नोः पृष्ठे तथोर्ध्वगे ।
विलक्षणे रोमरेखे जघनश्रान्तिमागते ॥९९॥
वर्तेते गोलोकवैकुण्ठयोः सृती मनोहरे ।
वामसक्थ्नो मूलभागादंगुलद्वयनिम्नगम् ॥९६॥
कीलकक्षतचिह्नं च वर्ततेऽङ्गुलतोऽधिकम् ।
वामजानूपरिभागे सक्थ्नि पाण्डुरवर्णकम् ॥९७॥
चिह्नं श्रीकमलावासं कमलं चाष्टपत्रकम् ।
वर्तते बहुशोभाढ्यं प्रत्यक्षं कमलाश्रयम् ॥९८॥
अक्षयवीर्यकोशौ द्वौ मणी बाह्यौ वृषाश्रयौ ।
अन्यौ चान्तर्निगूढौ द्वौ लिङ्गपार्श्वस्थितावपि ॥९९॥
त्रिगुणावलिसंराजन्नाभिकूपः प्रशोभते ।
नितम्बौ चन्द्रधवलौ कोमलौ नवनीतवत् ॥१००॥
करिः सौवर्णरशनानिभचर्मविराजिता ।
पृष्ठं देवालयं चाग्रं कामालयं प्रकाशते ॥१०१॥
जंघे वर्तुलगोले च कानकी रोमशोभिते ।
दक्षायां नलिकापार्श्वे जंघायां कृष्णबिन्दुकः ॥१०२॥
दक्षभुजे तथा बिन्दुः राजते घूटिकात्रयम् ।
कम्मानिकाकृतितले पादयोः कमलस्पृशे ॥१०३॥
ऊर्ध्वरेखान्विते सौधशिखराद्रिप्रचिह्निते ।
पद्मकलशवज्रादियवादिभिरलंकृते ॥१०४॥
षोडशद्वात्रिंशदष्टचिह्नरेखाऽभिराजिते ।
नखचन्द्राश्रितमृद्वंगुलिकाशोभिते शुभे ॥१०५॥
पुण्डरीकनिभे सौम्ये कोटिदेवप्रपूजिते ।
कोटिकन्याकृतस्पर्शे कोट्यैश्वर्यनिवासिते ॥१०६॥
नुपूरहारपिशंगधृतधौत्राभिरञ्जिते ।
विजयेते स्वर्णपीठे स्थापिते चरणे हरेः ॥१०७॥
कटिः सौवर्णरशनालक्षिता राजते शुभा ।
हारांगुलीयोर्मिकादिभूषाभूषितविग्रहः ॥१०८॥
मध्यांगुल्योः कम्बुचिह्नेऽष्टासु चक्राणि सन्ति च ।
वामहस्ततले चोर्ध्वगता रेखा महत्यपि ॥१०९॥
मध्यांगुलिमूलतश्चाऽऽप्रकोष्ठं लम्बते तु सा ।
पौष्पगुच्छसुकन्दुकमालामालितमूर्तिकः ॥११०॥
सौवर्णमणिरत्नादिमौक्तिकमालिकादिभिः ।
तथा शृंगारभूषाभिर्विराजतेऽतिसुन्दरः ॥१११॥
अनादिश्रीकृष्णनारायणो नैजमहोत्सवे ।
विराजितः सभामध्ये मण्डपेऽन्तर्गजासने ॥११२॥
श्रीः रमा कमला लक्ष्मीः पद्मा भिन्नस्वरूपिणी ।
तदा कान्ते हरौ सर्वा विद्योतन्ते समन्विताः ॥११३॥
एवंविधोऽयं भगवान् श्रीकृष्णः पुरुषोत्तमः ।
राधिके वार्षिके जन्मदिने सम्राजते विभुः ॥११४॥
शोभाढ्ये सर्वशोभाड्ये लोकशोभाभिवर्धिते ।
मण्डपे चैश्वरे रम्ये मध्ये संराजते हरिः ॥११५॥
ब्रह्मजलैः सुगन्धैश्च प्रोक्षितः स महर्षिभिः ।
सर्वेषां देहिनां कृष्णोबालश्चैकल एव हि ॥११६॥
चक्षुषां विषयश्चासीन्मनसां च हृदामपि ।
अन्तर्बहिः स एवाऽऽसीद् यथा ब्रह्मपदेऽतिगे ॥११७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महामण्डपस्य शोभावर्णनं समाजासनानि श्रीबालकृष्णस्य प्रभोर्मूर्तिशृंगारादि चेतिनिरूपणनामा विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : April 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP