त्रेतायुगसन्तानः - अध्यायः ७३
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं चमत्कारं हरेः शुभम् ।
गौर्जरे वर्तते रम्या नदी ध्राधरसंज्ञिका ॥१॥
तत्तटाद् दक्षिणे चास्ते आमोदनगरं शुभम् ।
बहुश्रेष्ठिजनावासं देवसेवापरायणम् ॥२ ।
व्यवसायपरैर्लोंकैरधिष्ठितं धनान्वितैः ।
मानवा बहुधा यत्र ध्राधरातीरवासिनः ॥३॥
न्यूषुर्भक्तास्तत्रशंभोः शंभुभक्तिपरा वराः ।
ध्राधरायास्तटे चान्ये पूजापाठपरायणाः ॥४॥
यान्त्यायान्ति च नगरं कृत्वा शंभोश्च दर्शनम् ।
वैष्णवं मन्दिरं तत्र ध्राधरायास्तटे शुभम् ॥५॥
श्रिया युक्तो हरिर्यत्र नारायणो विराजते ।
प्रतिमारूपधारी स पूज्यते चार्च्यते जनैः ॥६॥
वन्द्यते सेव्यते चापि वैष्णवैः सर्वदा प्रगे ।
मन्दिरस्याऽभितस्तत्र वसन्ति साधवोऽमलाः ॥७॥
तत्प्रसंगादभवच्च वैष्णवः सुधनो वणिक् ।
सुधनाख्यो नित्यमादौ स्नात्वा समर्च्य देवताः ॥८॥
नत्वा च वैष्णवान् साधून् याति शंभ्वालयं ततः ।
उद्यानवर्यसंकुलं वृक्षवल्ल्यादिराजितम् ॥९॥
फलपुष्पादिसंशोभत्तरुवर्यविराजितम् ।
जलवापीयुतं स्तम्बसस्यस्मृद्धिसुशोभितम् ॥१०॥
निराबाधं च भक्तानां शान्तिदं दर्शनादपि ।
आमोदेश्वरलिंगं च तदुद्याने महालये ॥११॥
विराजते सुस्फटिकद्युति दिव्यं मनोहरम् ।
तत्सेवायां विप्रवर्यो महर्षिर्वर्चकायनिः ॥१२॥
ब्रह्मचर्यपरो यज्ञहोमकार्यपरायणः ।
फलमात्राशनो व्योमशयनो दिव्यदृष्टिमान् ॥१३॥
वैष्णवः परमः शंभौ सेवाधर्मपरायणः ।
वेदवेदाङ्गविद्याधिः कथाख्यानपरायणः ॥१४॥
व्रतेन कृतकार्श्याप्तिशुष्कनाडीकदेहवान् ।
लक्ष्मीनारायणसंहितायाः कथापरायणः ॥१५॥
नित्यं सायं शिवोद्याने तरुमण्डपसंश्रितः ।
कथां करोति देवास्तां शृण्वन्ति मानवादयः ॥१६॥
नरा नार्यः पक्षिणश्च देहिनस्तन्निवासिनः ।
तच्छ्रोतुं नित्यदा याति सुधनो भक्तिभावनः ॥१७॥
तत्र वै श्रुतवान् कृष्णनारायणं श्रियः पतिम् ।
सौराष्ट्रे कुंकुमवापीक्षेत्रे श्रीकम्भरासुतम् ॥१८॥
बालकृष्णं परब्रह्म गोपालकृष्णबालकम् ।
सर्वसामर्थ्ययुक्तं श्रीराधारमादिसेवितम् ॥१९॥
विराजन्तं चाश्वपट्टसरोऽन्तिकं महालये ।
लोमशस्याऽऽश्रमं चापि तीर्थानि च बहून्यपि ॥२०॥
ततोऽस्य वणिजो जाता सुधनस्य शुभाश्रया ।
साक्षादनादिदेवस्य कृष्णनारायणस्य तु ॥२१॥
धृतमानवनाट्यस्य दिदृक्षा मोक्षदायिनी ।
नित्यं चिन्तयते रम्यं बालकृष्णं दिवानिशम् ॥२२॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
मन्त्रं जग्राह च तस्मादृषेः श्रीवर्चकायनेः ॥२३॥
जजाप तं परमं मन्त्रं दध्यौ मूर्तिं हृदन्तरे ।
सत्यां चापि दिदृक्षायां दूरदेशं विचार्य सः ॥२४॥
गृहेऽर्चायां तु सन्तोषं ह्यमन्यताऽर्चनादिभिः ।
नित्यं पूजयतेऽनादिकृष्णनारायणं हरिम् ॥२५॥
नैवेद्यं ददते प्रातर्मध्याह्ने च निशामुखे ।
आरार्त्रिकं च ददते स्तवं जापं करोत्यपि ॥२६॥
उत्सवान् कुरुते चापि न्यायागतधनैः शुभान् ।
तत्पत्नीपुत्रपौत्राद्या वैष्णवाः श्रीहरिश्रिताः ॥२७॥
देवसेवापरा ह्यासन् साधुसेवापरायणाः ।
कथाश्रवपराश्चासन् कृष्णार्पणात्मबुद्धयः ॥२८॥
सेवन्ते सततं कृष्णं साधून् साध्वीर्धनादिभिः ।
यानवाहनभोज्याद्यैः पादसंवाहनादिभिः ॥२९॥
एवं वै वर्तमानस्य सुधनस्य गृहे सदा ।
अनादिश्रीकृष्णनारायणमूर्तौ हरिः स्वयम् ॥३०॥
प्रकटीभूय साक्षात्तु गृह्णात्यन्नादि चार्पितम् ।
प्रसादं ददते चास्मै भक्ताय प्रहसंस्ततः ॥३१॥
बालकृष्णस्तिरो याति मूर्तौ नित्यं तथाऽकरोत् ।
एकदा सुधनः श्रेष्ठी पौत्रविवाहकारणात् ॥३२॥
स्ववाहिनीं परिष्कृत्य धनभूषाम्बरादिभिः ।
नरनारीवरराजयुतो गन्त्र्यादिवाहनैः ॥३३॥
आमोदात्तु ययौ कन्यानगरं जाम्बुसारसम् ।
नावानदीं समुत्तीर्य गत्वा च जाम्बुसारसम् ॥३४॥
विधिं वैवाहिकं कृत्वा प्रत्यावर्तत वै यदा ।
ध्राधराख्यनदीतीरे तस्करा विंशतिप्रथाः ॥३५॥
आपेतुरुग्ररूपास्तु सशस्त्रा वृक्षसंकुले ।
ताडयामासुरुग्रास्ते शकटीवाहकाँस्तथा ॥३६॥
वाहिनीरक्षकाँश्चापि निजघ्नुर्यष्टिकादिभिः ।
सुवर्णं च विभूषाश्च रूप्यं तथाऽम्बरादिकम् ॥३७॥
श्रेष्ठं धनं समाजह्रुश्चाश्ववारा हि तस्कराः ।
भोज्यादिकं चापि जह्रुः सुधनो दुःखितोऽभवत् ॥३८॥
कुटुम्बं चापि तत्सार्थस्तदाऽभवद् धनोज्झितः ।
भूषाहीना योषितश्च शृंगाराम्बरवर्जिताः ॥३९॥
अभवन् शोकसंमग्नाः सम्बन्धिबान्धवास्तथा ।
महीमाना धनहीना निस्तेजस्का च वाहिनी ॥४०॥
शोकोद्वेगपरो जातो वधूजनः सखीजनः ।
स्नुषा चाऽमंगलग्रस्ता विवाहे सति चाऽभवत् ॥४१॥
लक्ष्मीनाशोऽभवद्भाविदारिद्र्यसूचकः खलु ।
एवं विचार्य सुधनः कृत्वा स्थैर्यं हृदि स्थितः ॥४२॥
आत्मनाऽऽत्मानमालम्ब्य सस्मार बालकृष्णकम् ।
अनादिश्रीकृष्णनारायणं स्वेष्टं परेश्वरम् ॥४३॥
तुष्टाव परया प्रीत्या स्वेष्टदेवं पुमुत्तमम् ।
कृपानाथ दयासिन्धो संसारार्णवतारक ॥४४॥
शरणागतरक्षाकृत् रक्षयात्र वनान्तरे ।
त्वया गजस्य वै पूर्वं कृता रक्षा जलान्तरे ॥४५॥
त्वया प्रह्लादरक्षा च कृता दानवमण्डले ।
त्वया च मरुतां रक्षा कृता गर्भगृहान्तरे ॥४६॥
त्वं पाता त्वं विधाता च परमात्मा सनातनः ।
रक्ष रक्ष कृपावार्धे चौराणां त्रासतः प्रभो ॥४७॥
सर्वस्वं संहृतं चौरैर्जीवनं गृहमेधिनाम् ।
स्वर्णरूप्यविभूषादि ततश्चोद्धर दुःखतः ॥४८॥
गृहस्थानां धनं द्रव्यं भूषा द्रव्यं तु योषिताम् ।
शान्तिर्द्रव्यं च साधूनां भक्तद्रव्यं हरिः स्वयम् ॥४९॥
विना द्रव्यं तु लोकेऽत्र प्रतिष्ठा नैव विद्यते ।
धान्यं वस्त्रं व्यवहारो नाथ! द्रव्ये प्रतिष्ठति ॥५०॥
द्रव्ये दोषा बहवोऽपि गुणा जीवनसम्प्रदाः ।
द्रव्ये भवन्ति सततं ततश्चालम्बनं धनम् ॥५१॥
तत्रापि वणिजां कृष्ण सुवर्णभूषणादिकम् ।
सर्वस्वं विद्यते तच्च चौरैर्हृतं समस्तकम् ॥५२॥
तव भक्तिमता नाथ पराभवोऽयमुत्कटः ।
अभक्तानां हास्यपात्रताया आस्पदतां गताः ॥५३॥
आपद्भ्यश्चोद्धर कृष्णनारायणपरेश्वर ।
भक्तरक्षाकरश्चेति नामसार्थकमावह ॥५४॥
अन्यथा तु जना आशाभंगेन त्वां जनार्दन ।
त्यक्ष्यन्ति भजनं ते ते मत्वा चाऽरक्षकं प्रभुम् ॥५५॥
आर्ता आर्तिहरं कृष्णं यावदार्ता भजन्ति वै ।
अर्थार्थी चार्थदं कृष्णं यावदर्थं भजन्ति च ॥५६॥
जिज्ञासवश्च यावत् स्याज्जिज्ञासा तावदेव ह ।
भजन्ते श्रीहरिं ज्ञातुं ज्ञाते ते विरमन्ति हि ॥५७॥
तेषा स्वार्थपराणां तु यथोद्धारो भवेदपि ।
यथाकथंचिदाशावान् त्वां यथा चाऽवलम्बते ॥५८॥
तथा नाथ स्वभक्तानां वाञ्च्छां प्रपूर्य चापि वै ।
भक्तिं कारयितुं चापि मम रक्षां कुरु प्रभो ॥५९॥
इत्यभ्यर्थ्य वने तत्र मुमोचाऽश्रूणि दुःखितः ।
श्रुत्वा त्वभ्यर्थनां स्वामी कृष्णनारायणो हरिः ॥६०॥
विप्रवेषेण वै शीघ्रं यत्र चौराः समाययौ ।
चौरा नद्यास्तटे वृक्षच्छायायां सन्निषद्य च ॥६१॥
भागान् चक्रुः सुवर्णस्य रूप्यस्य च धनस्य च ।
भूषादीनां विभागे तु जायमानेऽथ भिक्षुकः ॥६२॥
विचित्तो ब्राह्मणो भूत्वा बालकृष्णश्च दीनवत् ।
अटन् धूलिसमव्याप्तदेहो दिगम्बरो यथा ॥६३॥
कौपीनमात्रवसनो भोजनं याचितुं ययौ ।
भिक्षति भोजनं मेऽत्र बुभुक्षिताय रोचते ॥६४॥
भवन्तो भाग्यवन्तो मे ददन्तां श्रेष्ठिनः शुभाः ।
न मे द्रव्यं वाञ्च्छनीयं भोजनं समपेक्ष्यते ॥६५॥
चौराः प्राहुर्द्रव्यमत्र वर्तते तद्गृहाण भोः ।
यदि ते रोचते तर्हि दद्मस्ते रूप्यकं वद ॥६६॥
भिक्षुकस्तु तदा प्राह न मे द्रव्यप्रयोजनम् ।
धने दोषा हि बहवो दुःखदा वैरकारकाः ॥६७॥
धनं त्याजयते धर्मं हिंसां कारयति द्रुतम् ।
आकस्मिकी चापदं च समाह्वयति वै धनम् ॥६८॥
धनार्जने प्रयासोऽपि रक्षणे चिन्तनं महत् ।
भोगे क्षयस्य तु चिन्ता चौरहार्यादिदूषणम् ॥६९॥
तस्माद्धनं न चेष्टव्यं भिक्षुकेण सुखैषिणा ।
भवन्तो धनवन्तश्च ददन्तामत्र भोजनम् ॥७०॥
रूप्यकोऽपि यदग्रेऽस्ति सुखं निद्रां न याति सः ।
येन केन निमित्तेन वियोगस्य भयात् सदा ॥७१॥
धनहीनाः पक्षिणश्च फलमात्रस्य भिक्षुकाः ।
भुक्त्वा शाखासु तत्रैव विभ्रमन्ति निरामयाः ॥७२॥
बालाश्च भोजनं भुक्त्वा सुखं स्वपन्ति भूतले।
चिन्ता तु ग्रसते वृद्धान् यूनो धनिन इत्यमून् ॥७३॥
रत्नानि मौक्तिकादीनि हीरकाद्याः स्वभावतः ।
पाषाणा अपि मृत्योस्तु निमन्त्रणकरा हि ते ॥७४॥
सुवर्णं रजतं भूषाश्चाम्बराणि धनानि च ।
पार्थिवास्तैजसा वाऽपि चिन्तोद्वेगकराः सदा ॥७५॥
अहंममत्वबद्धाश्च रागद्वेषविधायकाः ।
जन्ममृत्युप्रदाश्चान्ते वासनालोभभावकाः ॥७६॥
तन्मया नेष्यते द्रव्यं परद्रव्यं विनाशकृत् ।
कस्माद्धनेऽत्र बहुलं द्रव्यं लब्धं महाजनाः ॥७७॥
इति पृष्टास्तथोक्ताश्च याहि याहीति रोषतः ।
प्राहुस्ते तत्र कश्चित्तु यष्टिमादाय चायसीम् ॥७८॥
ताडयितुं प्रोत्थितश्च भिक्षुकं दीनवत् स्थितम् ।
तावत्तु भिक्षुकस्तस्मात् स्थानाददृश्यतां ययौ ॥७१॥
विलोक्य चैतदैश्वर्यं विस्मयं ते परं ययुः ।
किन्तु भूतं पिशाचं वा मेनिरे मायया हताः ॥८०॥
तावत् काकः समागत्य द्रुमोपरि जगाद ह ।
शुष्कशाखास्थितश्चैतदमगलं तदाऽभवत् ॥८१॥
अथ ते संविभज्यैव स्वर्णद्रव्याणि वै ततः ।
हारमालादिरत्नानि विभजन्ते यदा तदा ॥८२॥
श्रीहरिश्च तुरगस्थस्तथाऽन्ये राजसेवकाः ।
अश्ववाराः सशस्त्राश्च पञ्चाशत्संख्यका द्रुतम् ॥८३॥
राजदूतादिवेषास्ते परितस्तत्र चाययुः ।
कुर्वन्तो धूष्कृतीशब्दान् धर्षयन्त्विति वादिनः ॥८४॥
मारयन्तु प्रगृह्णन्तु चौरा इमे भवन्ति च ।
इत्येवं वदमानास्ते चक्रुः प्राकारवत् तदा ॥८५॥
परितो व्यूहबन्धं च तदाऽश्ववारशोभितम् ।
चौरा भयमवापुस्ते दुद्रुवुः परितस्तदा ॥८६॥
स्वर्णरूप्याम्बरहीरहारान् विहाय तत्क्षणम् ।
किन्तु मार्गमनासाद्याऽशक्ताश्च व्यूहमभ्यतः ॥८७॥
निर्गन्तुं ते हस्तगता भटानामभवन् खलु ।
परवशा हस्तकटा रज्जुपाशाः कृताश्च तैः ॥८८॥
यष्टिभिस्ताडिताः केचित् केचित् कशाभिराहताः ।
केचिद् दण्डेन हस्तेन पल्लताभिश्च ताडिताः ॥८९॥
कृतदण्डा भटैस्ते च प्रार्थयामासुरीश्वरम् ।
तृणान्याधाय दन्तेषु भूस्पर्शीकृतमस्तकाः ॥९०॥
दीना गद्गदहृदया दोषक्षमा ययाचिरे ।
दयालुर्भगवाँस्तेभ्यः पुनर्दोषनिवृत्तये ॥९१
उपादिदेश ते सर्वे प्रतिज्ञां च तदा व्यधुः ।
वयं चौर्यं कदाचिन्न करिष्यामोऽद्य कालतः ॥९२॥
कुरु क्षमां महाराज विमोचय च बन्धनात् ।
इत्येवं याचमानान् श्रीकृष्णनारायणः प्रभुः ॥९३॥
हस्ते जलं प्रदायैव प्रतिज्ञां स्तेनकर्मणः ।
स्तैन्यं नैव हि कर्तव्यं कारयामास तादृशीम् ॥९४॥
ततस्तान् ध्राधरानद्यास्तटे रम्ये मनोहरे ।
मोचयामास भगवान् जग्राह चाहृतं धनम् ॥९५॥
सुवर्णं रजतं रत्नाम्बरभूषादि यद्ध्यभूत् ।
तत्सर्वं च गृहीत्वैव सुधनो यत्र तिष्यति ॥९६॥
ससंघस्तं समासाद्य साश्ववारश्च केशवः ।
सुधनाय ददौ सर्वं चौरहस्ताहृतं धनम् ॥९७॥
सुधनस्तस्य सार्थाश्च जहृषुर्धनलाभतः ।
राजभटा ददुः सर्वं सार्थाय स्वर्णरूप्यकम् ॥९८॥
भूषणान्यम्बरादीनि रत्नमौक्तिकहीरकान् ।
येषां यान्यभवँस्तानि तेभ्यो ददुर्हरेर्भटाः ॥९९॥
सुधनश्च ददात्येभ्यो धनं तु पारितोषिकम् ।
भटाधिपस्तदा प्राह धर्मोऽस्ति पारितोषिकम् ॥१००॥
भक्तिं कुरु सदा कृष्णनारायणस्य मोक्षदाम् ।
पारितोषिकमेवाऽत्र विद्यते न ततोऽन्यथा ॥१०१॥
सुधनः संशयं प्राप्तः श्रुत्वा कृष्णनरायणे ।
भगवानेव रक्षार्थं त्वायातो विद्यते किमु ॥१०२॥
इति सन्दिह्य चोत्थाय पपात पादयोः खलु ।
अन्येऽपि च प्रणेमुर्वै गतानुगतिका इति ॥१०३॥
अश्ववारैश्च सहितो भटाधिपस्तु वाहिनीम् ।
सह नीत्वा नदीपारं कारयामास निर्भयाम् ॥१०४॥
प्रापयामास रम्यं तमुद्यानं शंकरस्य वै ।
ततश्चाऽदृश्यतां प्राप्ता भटाधिपभटास्तदा ॥१०५॥
न अश्वा नो राजभटा नास्ति भटाधिपस्तथा ।
सुधनश्च जनास्तस्य परमाश्चर्यमागताः ॥१०६॥
सुधनस्तु तदा शीघ्रं समाजुहाव तं प्रभुम् ।
व्योमनादं महान्तं वै कृत्वा सर्वबलेन ह ॥१०७॥
हे हरे हे कृष्णनारायणस्वामिन् दयाधर ।
कृता रक्षा त्वयाऽरण्ये मद्भाग्यं त्वद्य वर्धते ॥१०८॥
ते दिदृक्षाऽस्ति मे कृष्ण दर्शनं देहि मे पुनः ।
इत्येवं व्याहरन् पृथ्व्यां धूलिक्षेत्रेऽलुठन्मुहुः ॥१०९॥
नृत्यन् ताली वादयँश्च पुनर्धूल्या समालुठत् ।
अनादिश्रीकृष्णनारायणो भक्तिं विलोक्य च ॥११०॥
बालकृप्णोऽभवच्छीघ्रं दिव्यमूर्तिः सुरूपवान् ।
कोटिसूर्याग्निचन्द्रादितेजोऽधिकप्रभास्वरः ॥१११॥
दिव्यस्वर्णविभूषश्च दिव्यमुकुटकुण्डलः ।
दिव्यमालाम्बरधरो दिव्यविमानवाहनः ॥११२॥
रूपानुरूपावयवः कौस्तुभादिविराजितः ।
श्रीराधामाणिकीपारवतीप्रभादिसेवितः ॥११३॥
मञ्जुलासगुणाहंसाललितासुजयार्चितः ।
एवं भूत्वाऽभवत् साक्षाद्दर्शनीयो हरिः स्वयम् ॥११४॥
सुधनाद्यैर्वीक्षितश्चोवाच यूयं विमानके ।
तिष्ठतात्रेति तान् कृत्वा विमाने क्षणमात्रतः ॥(१५॥
कुंकुमवापिकाक्षेत्रं प्रासादं पितरौ ऋषिम् ।
सरस्तीर्थानि सर्वाणि प्रदर्श्य क्षणमात्रतः ॥११६॥
विमानेनाऽप्रापयच्च तमुद्यानं तिरोऽभवत् ।
सुधनाद्याः सुखं प्रापुः परमेश्वरयोगतः ॥११७॥
दिव्यदृष्टिमया जाता दिव्यभक्तिपरायणाः ।
भाद्रे शुक्ले कृताः सर्वे कृतार्था हरिणा हि ते ॥११८॥
एकादश्यां मध्यदिने ध्राधरायास्तटे शुभे ।
अथ कालान्तरे तेभ्यः परंधाम ददौ प्रभुः ॥११९॥
इत्येवं राधिके भक्तरक्षा श्रीहरिणा कृता ।
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिर्भवेद् ध्रुवा ॥१२०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आमोदनगरस्थसुधनाख्यभक्तस्य वर्चकायनिमहर्षियोगेन प्राप्तभागवतभावस्य चौरेभ्यो रक्षा भगवत्कृता, प्रभोर्दिव्यदर्शनादि चेतिनिरूपणनामा त्रिसप्ततितमोऽध्यायः ॥७३॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP