संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १८४

त्रेतायुगसन्तानः - अध्यायः १८४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! कृष्णनारायणः परेश्वरः ।
रुद्रं राक्षसहन्तारं प्राह चोद्धरणक्षमम् ॥१॥
शंभोऽनाथस्य बालां च बालं प्रदेहि मन्त्रकम् ।
अनाथाय ततो देहि वैष्णवौ तस्य बालकौ ॥२॥
शंभुर्मन्त्रं ददौ शीघ्रं बालायै बालकाय च ।
अनाथोऽपि मनुं शंभोर्जग्राह वैष्णवोऽभवत् ॥३॥
बाला सा रक्षकं कृष्णं मत्वा योग्यं वरं तदा ।
पित्राज्ञां प्राप्य तत्रैव कृष्णहस्तमुपाददे ॥४॥
एतद्विलोक्य च तदा शते द्वे च सहस्रकम् ।
या युवत्यो गह्वरात्तु मोचिता रक्षिताश्च ताः ॥५॥
सर्वा विज्ञाय कान्तं स्वं नारायणं परेश्वरम् ।
शुक्लवर्णा यथा देव्यस्तादृश्यो योग्यमीश्वरम् ॥६॥
रक्षितारं हरेर्हस्तं विवाहहृदयैः शुभैः ।
जगृहुस्तत्र च वने स्वतन्त्राः पुण्यनोदिताः ॥७॥
शंभुः सर्वाभ्य एवादौ मनुं ददौ तु वैष्णवम् ।
ब्रह्मप्रियासु ताः सर्वाः स्थापयामास चाम्बरे ॥८॥
कारागारे स्थितान् सर्वान् नरान्नारीश्च माधवः ।
ददौ स्वचरणौ मूर्घ्नि स्वतन्त्रानप्यचीकरत् ॥९॥
दुःखान्यपाहरत् कृष्णोऽदापयच्छंभुना मनुम् ।
वैष्णवास्ते तदा जाता भेजिरे श्रीनरायणम् ॥१०॥
मारीशानामपुर्यां च रुद्धा या राक्षसैः प्रजाः ।
ताभ्यो दत्वा मन्त्रकाँस्तु वैष्णवीस्ता हरोऽकरोत् ॥११॥
तां सुशुभां नगरीं च परिभ्रम्य स्थले स्थले ।
कृष्णनारायणः सर्वां देवोऽपवित्रयत्तदा ॥१२॥
तैः सर्वैरर्थितः कृष्णः पूजितो हृदयैस्तथा ।
स्थातुं निशां तु तत्रैव पुनः पुनः समर्थितः ॥१३॥
दृष्ट्वा तद्भावनां विमानान्यवातारयद् द्रुतम् ।
विशालेऽरण्यके मारीशापुर्याः सन्निधौ तदा ॥१४॥
निशामुखे निवासाँश्चाकारयद् वृक्षवद्भुवि ।
रात्रौ वै भोजनं सर्वान् कारयित्वा हरिः स्वयम् ॥१५॥
विजयस्योत्सवं तत्र कारयामास चोत्तमम् ।
गायनैर्नर्तनैर्वाद्यैः संकीर्तनैश्च हर्षणैः ॥१६॥
नाटकैश्च कथाख्यानैर्निशामगमयत्तदा ।
युद्धे मृतास्तु ये सर्वे निजपक्षीययोधिनः ॥१७॥
तान् सर्वान् श्रीहरिस्तूर्णं सस्मार योगविद्यया ।
सर्वे ते जीवभावं च प्राप्य प्राणान् शरीरकम् ॥१८॥
स्वस्था भूत्वा च तद्रात्रौ हरेर्वासे समाययुः ।
गह्वरेऽस्थीनि येषां वै मृतानां च वनेऽपि च ॥१९॥
नगर्याः सन्निधौ चापि पतितान्यभवँस्तदा ।
योगैश्वर्येण भगवान् सस्मार तत्र देहिनः ॥२०॥
मृताः सर्वे सत्यसंकल्पस्य कृष्णस्य वाञ्च्छया ।
सजीवाश्चाऽभवन् स्वस्था रात्रौ तत्र समाययुः ॥२१॥
अनेके वै नरा नार्यो बाला बाल्यश्च मानवाः ।
प्रातर्नवीनरूपाः समदृश्यन्त निवासने ॥२२॥
पारेलक्षं मानवान् श्रीहरिश्चैवं निशान्तरे ।
जीवयामास कृपया तेभ्यः शंभुर्मनुं ददौ ॥२३॥
वैष्णवास्ते तदा जाता हरेः पादजलं पपुः ।
भिन्नदेशीयलोकास्ते सस्मरुर्निजभूस्थलीम् ॥२४॥
ययुः शक्ता निजान् देशानन्ये न्यूषुश्च तत्र वै ।
अथ श्रीभगवानाह लोमशाय महात्मने ॥२५॥
जिनवर्द्धिनृपायेदं राज्यं समर्प्यमेव तु ।
अभिषेकविधिनैनं प्रदेहि मुकुटं गुरो ॥२६॥
विधेहि तिलकं तस्य भाले राजा भवेदिह ।
जिनवर्द्धिस्तदा प्राह विजेत्रे देयमेव तत् ॥२७॥
ईशानाय प्रदेयं तद्राज्यं श्रीपरमेश्वर ।
अल्पकेतुस्तथा चान्ये महर्षयोऽपि तत्तथा ॥२८॥
ऊचुस्ततो हरिः शंभुं प्रसह्य कानकासने ।
प्रतिष्ठाप्याऽक्षतैः कुंकुमैश्च चन्द्रं ललाटके ॥२९॥
स्वयं दक्षकरेणैव चकार मुकुटं ददौ ।
ईशानः श्रीमहादेवो मारीशाया नृपोऽभवत् ॥३०॥
नगरीं पार्वतीभूमेरुपत्यकास्थले पुनः ।
अवासयच्छनैः राधे वाटिकोद्यानमण्डिताम् ॥३१॥
ईशानः शंकरः सोऽयं द्वितीयरूपधृक् प्रभुः ।
दुर्गया सहितश्चापि गणैश्च सहितस्तथा ॥३२॥
हर्याज्ञया निवासं स्वं प्रचकार प्रजार्थितः ।
इष्टदेवोऽभवत् सोऽयमीशानः परमेश्वरः ॥३३॥
श्वेतगौरप्रजानां वै रक्षसां नाशकारकः ।
दोषाणां नाशको देवो मोक्षदः सुखदः सदा ॥३४॥
आप्यायनं च गांगेयं शंकरः प्राह तद्दिने ।
राज्यस्थितिं प्रसाध्यैव दास्ये तुभ्यं पुरीमिमाम् ॥३५॥
मालां गृहाण च हरेः सन्निधौ सजलाञ्जलिम् ।
इत्येवं तत्र सः प्रातः प्रोक्तो मालामुपाददे ॥३६॥
प्रातर्हरिर्गणान् शंभोः रक्षकान् न्यस्य तत्र च ।
शंभुं दुर्गां ब्रह्मसतीर्महर्षीन् स्वकुटुम्बकम् ॥३७॥
कारयिता दुग्धपानं पञ्चम्यां भाद्रकृष्णके ।
उपादिदेश भगवान् सभां कृत्वा प्रजाजनान् ॥३८॥
कालो वै राक्षसश्चाऽस्ति यथाऽत्र राक्षसो ह्यभूत् ।
मारितः शंकरेणाऽसौ मम भक्तेन साऽन्वयः ॥३९॥
तथा ममाश्रयेणैव भक्ताः कालोऽपि राक्षसः ।
मुक्तभावसमापन्नैर्नाश्यते नात्र संशयः ॥४०॥
मम भक्तिं प्रकुर्वन्तु तथेशानं भजन्त्वपि ।
इष्टदेवं महारक्षाकरं शंभुं भवन्तु वै ॥४१॥
महादेवीं सतीं दुर्गां वैष्णवीं च भजन्त्वपि ।
गतश्वः सूर्यवारो वै ह्यभवत् सूर्यदेवता ॥४२॥
सर्वदोषविनाशार्थं समाराध्या प्रकाशदा ।
सूर्यवारे मया त्वत्र शंकरादिसहायिना ॥४३॥
प्रहता राक्षसा घोरा भक्षका दुःखदायिनः ।
भवद्भिश्चापि हन्तव्या दोषाः पापप्रदा रवौ ॥४४॥
कामक्रोधादयः सर्वे पालनीयो वृषो रवौ ।
द्विविधो जायते व्याधिः शारीरो मानसोऽथवा ॥४५॥
शारीरान्मानसो व्याधिर्मानसाद् देहजोऽपि च ।
परस्परं तयोर्जन्म कामक्रोधादयो हि ते ॥४६॥
दोषा वै व्याधयः प्रोक्तास्त्यक्तव्यास्ते रवौ दिने ।
सत्त्वं रजस्तम इति मानसा वै त्रयो गुणाः ॥४७॥
रवौ वारे नातियोज्यास्त्रयस्ते विश्वरूपिणः ।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥४८॥
तामसेन तु धर्मेण हर्षशोकौ प्रबाध्यतः ।
विज्ञायैव गुणचक्रं बाधनीयं रवौ प्रभौ ॥४९॥
असन्तोषः प्रमादश्च मदो रागोऽतिलालसा ।
लोभो मोहोऽभिमानश्चोद्वेगश्चैते हि राक्षसाः ॥५०॥
एभिः पाप्मभिराविष्टो भवेन्नैव रवौ क्वचित् ।
उदराख्यां खनिं नाऽह्ना पूरयितुमलं जनैः ॥५१॥
रवौ तां पूरयेन्नैवाऽपूर्या मत्वा विचक्षणः ।
यथेद्धः प्रज्वलत्यग्निरसमिद्धः प्रशाम्यति ॥५२॥
रवावाहारशून्यः स स्वयं शाम्यति वै प्रभौ ।
आत्मोदरकृते लोकः करोति विघसं बहु ॥५३॥
रवावुदरजेता स्याद् विजेता सर्वपाप्मनाम् ।
मानुषाः कामभोगाश्च जेतव्याः सूर्यवासरे ॥५४॥
अभोगिनो जनाः सूर्ये यान्ति स्थानमनुत्तमम् ।
योगः क्षेमस्तथा त्यागः सूर्ये कार्या हरौ सदा ॥५५॥
एकोदरकृते व्याघ्रः करोति विघसं बहु ।
तमन्येऽप्युपजीवन्ति मन्दा लुब्धा मृगादयः ॥५६॥
विचार्यैवं रवौ त्याज्या वृथा विघसराशयः ।
पत्राहारैः फलाहारैश्चैकाहारैर्जनैः रवौ ॥५७॥
यस्त्विमां वसुधां कृत्स्नां प्रशिष्यादखिलां नृपः ।
रवौ त्यागपरो भक्तो विशिष्यते न वै नृपः ॥५८॥
संकल्पास्तु निरारंभा रवौ कार्या हरे शुभाः ।
निरामिषा न शोचन्ति त्याज्यं वै चामिषं रवौ ॥५९॥
पितृयानं देवयानं रवौ लभ्येत शंकरात् ।
तपसा ब्रह्मचर्येण भजनेन महर्षयः ॥६०॥
विमुच्य देहान् यान्त्यन्ते ब्रह्मलोकमनामयम् ।
आमिषं बन्धकृत्कर्म तत् त्यक्तव्यं रवौ सदा ॥६१॥
तस्मान्मुक्तो हरे लग्नः पदमाप्नोति तत्परम् ।
प्रज्ञाप्रसादमारुह्य त्याज्यं त्यक्तव्यमेव यत् ॥६२॥
ग्राह्यं चेशानभजनं चक्षुष्मता सुबुद्धिना ।
षाट्कौशिकेऽत्र देहे वै रविस्तु सप्तमः पृथक् ॥६३॥
तद्देवं च तदात्मानं यः पश्यति स पश्यति ।
तत एव तु शनकैर्ब्रह्म सम्पद्यते परम् ॥६४॥
सूर्ये सूरिगतिं यान्ति दान्ताः शान्तास्तितिक्षवः ।
सूर्ये चेशानहवनं दुर्गायाः पूजनं तथा ॥६५॥
गुरोः पूजा हरेः पूजा कर्तव्या भक्तमानवैः ।
असक्तस्तद्दिने तिष्ठेन्निःसंगो मुक्तबन्धनः ॥६६॥
समः शत्रौ च मित्रे च स वै मुक्तो भवेद् ध्रुवम् ।
एवं धर्ममनुक्रान्ताः सद्वा दानतपःपराः ॥६७॥
आनृशंस्यगुणोपेताः कामक्रोधादिवर्जिताः ।
प्रजापालनयुक्ताश्च सूर्येशानव्रतस्थिताः ॥६८॥
गुरुवृद्धार्हणपरा इष्टलोकानवाप्स्यथ ।
स्वस्ति चास्तु भवतां च सदा सूर्यजुषां सुखम् ॥६९॥
इत्युक्त्वा श्रीहरिर्मौनं समास्थाय विचार्य च ।
अल्पकेतुं प्राह गन्तुं तदीयां जीवनीपुरीम् ॥७०॥
सज्जा भवन्तु चान्येऽपि भोक्ष्यामस्तत्र चैव ह ।
जिनवर्द्धिमहाराजः प्राह नत्वा हरिं तदा ॥७१॥
ईशानश्च तथा दुर्गा आप्यायनो मुनिस्तथा ।
भुक्त्वाऽत्र भगवन् पुर्यां भ्रमित्वा च ततः परम् ॥७२॥
पावयित्वा भूतलं च गन्तव्यं तु ततः परम् ।
दयालुर्भगवानाह राधिके वै तथास्त्विति ॥७३॥
पक्वान्नानि कृतान्येव शीघ्रं तत्रत्यमानवैः ।
मध्याह्ने भोजनं चक्रुः सर्वे चेशानवाञ्च्छया ॥७४॥
दुर्गा सती ब्रह्मपत्नीर्भोजयामास वै तदा ।
विश्रम्य च क्षणं यानैर्वाहनैश्च विमानकैः ॥७५६॥
सज्जीभूयाऽम्बरे प्राप्य पूजास्तन्मानवैः कृताः ।
कृष्णनारायणाद्या वै विमाने विविशुर्द्रुतम् ॥७६॥
विदायस्य सुवाद्यानि तदाऽवाद्यन्त भूरिशः ।
जयशब्दास्तूर्यशब्दाश्चाभवन् वै समन्ततः ॥७७॥
राजसैन्यं प्ररक्ष्यैव तत्र राजा जिनर्द्धिकः ।
विदायं प्रददौ शंभुदुर्गानारायणादये ॥७८॥
अल्पकेतुनृपेणैव साकं यानान्यपासरन् ।
विमानानि चाल्पकेतुदर्शितेन पथाऽगमन् ॥७९॥
आप्यायनो महर्षिश्च विमाने सह चागमत् ।
अपियानं पर्वतं चातिक्रम्य चोत्तरे गिरिम् ॥८०॥
अल्पाख्यं समपश्यँश्च विमानस्थाः सुसुन्दरम् ।
अल्पकेतुर्विमानेन प्रथमं चाग्रगोऽभवत् ॥८१॥
साऽऽप्यायनः स्वागतार्थं निजां वै जीवनीपुरीम् ।
सवाद्यसैन्ययुक्तश्च शीघ्रं हारार्हणादिभिः ॥८२॥
राज्ञीपुत्रसुताद्यैश्च सहितः पुरतोऽभवत् ।
तदाज्ञया द्रुतं वाद्यघोषाः कृताश्च वादकैः ॥८३॥
जयशब्दाः प्रजाभिश्च वेत्रहारैर्यशोगिरः ।
यान्त्रिकैर्यन्त्रशब्दाश्च कृताः स्वागतसूचकाः ॥८४॥
नरा नेमुश्चाम्बरे च दृष्ट्वा स्वर्णविमानकम् ।
नार्यः पर्वतवासिन्यस्तथा भूभवना जनाः ॥८५॥
हरेर्विमानमालोक्य सध्वजं तेजसा ज्वलत् ।
विलक्षणं सुसम्पन्नं दिव्यताधिक्यराजितम् ॥८६॥
बहुमालातोरणाद्यैर्मुक्ताहीरकजातिकैः ।
स्मृद्धं मूर्तिसरत्तेजःकिरणैः सूर्यसन्निभम् ॥८७॥
अग्रे हंसैश्च गरुडेर्गजैर्माणिक्यवाजिभिः ।
सिंहैश्च शरभैश्चापि मूर्तिमद्भिः प्रयापितम् ॥८८॥
बहुभिश्चान्ययानैश्च विमानैः पार्श्वमण्डितम् ।
पश्चाच्च देवदेवीभिः परीभिर्जयघोषितम् ॥८९॥
पुष्पाक्षताद्यैर्मालाभिः शृंगारितं सुवर्धितम् ।
अधस्ताच्चन्द्रसदृशैर्मणिभिः शीतभान्वितम् ॥९०॥
कल्पद्रुमालिपुष्पाद्यैः कृतोद्यानसुमध्यमम् ।
चिन्तामणिप्रणद्धाढ्यभित्तिपट्टविराजितम् ॥९१॥
स्वर्णकलशशोभाढ्यशिखरैरतिशोभितम् ।
कमलाकारकल्याणीकृतस्वस्तिकचित्रकम् ॥९२॥
दिव्यव्यजनच्छत्राद्यैश्चामरैरुज्ज्वलैर्युतम् ।
वेत्रहारैर्जयशब्दैर्गजितं पूर्वकांगनम् ॥९३॥
अनादिश्रीकृष्णनारायणो विजयतेतमाम् ।
इत्येवं स्वर्णवर्णैश्च सूचयन्माधवाश्रितम् ॥९४॥
एवंभूतं शुभं वीक्ष्य विमानं नेमुरम्बरे ।
राज्ञा दर्शितमार्गेण भूतले चायते शुभे ॥९५॥
हरिर्निजं विमानं तच्चावातारयदच्युतः ।
अन्यान्यपि विमानानि चावतेरुर्भुवस्तले ॥९६॥
जयशब्दैः स्वागतं च चक्रुः प्रजाः सुदण्डवत् ।
लाजादि चिक्षिपुस्तत्र विमाने दूरतः स्थिताः ॥९७॥
पुष्पाणि चिक्षिपुश्चान्येऽक्षतान केचिच्च चिक्षिपुः ।
गन्धमाल्यादीनि चान्ये चिक्षिपुश्च विमानके ॥९८॥
इत्येवं राधिके कृष्णे भाद्रे तु पञ्चमीदिने ।
जीवनीं नगरीं नारायणः प्राप्तो वनान्विताम् ॥९९॥
राजाऽल्पकेतुको राज्ञी तथा पुत्र्यः सुतादयः ।
विमानाग्रे प्रतीक्षन्ते बहिश्चागमनं हरेः ॥१००॥
सर्वे पश्यन्ति तत्रैव द्वारे कदा हि माधवः ।
बहिश्चेयात् स्थिरनेत्राश्चातिहर्षाऽभिसंभृताः ॥१०१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अनाथबालोद्धरणाय राक्षसानां विनाशोत्तरं द्व्यधिकशतयुक्सहस्रकन्याभिः हरिकरग्रहणं, राक्षसमारिताऽस्थिभ्यो
मृतानामुज्जीवनम्, ईशानराज्यस्थापनं,रविवारमाहात्म्यं, पूजाशीर्वादा निशाविश्रान्तिः, प्रातर्भोजनोत्तरम् अल्पकेतुनृपस्य जीवनीं नगरीं प्रति भाद्रकृष्णपञ्चम्यां गमनमित्यादिनिरूपणनामा चतुरशीत्यधिकशततमोऽध्यायः ॥१८४॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP