त्रेतायुगसन्तानः - अध्यायः २९०
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच--
पार्वतीं चोर्ध्वगां वीक्ष्य कोटिशो योषितस्तदा ।
कृष्णयान्या विलोकार्थं चारुरुहुर्निजालयान् ॥१॥
मण्डपस्योर्ध्वशालासु त्वास्थिता वीक्षणोत्सुकाः ।
ऋग्वेदं गिरिजा प्राह बृहस्पतेः समीपतः ॥२॥
दृश्यते त्वग्रतः किं तत् सान्तं मे सन्निबोधय ।
मम पुत्र्याः कृते के के महीमाना ममाऽद्य वै ॥३॥
के सन्ति कीदृशाश्चापि सुतास्वाम्यपि कीदृशः ।
महत्तमोऽस्ति सर्वं तज्जिज्ञासे वद मेऽखिलम् ॥४॥
सर्वज्ञः ऋग्वेद एवं पृष्टो हर्षमवाप ह ।
सतीं श्रीगिरिजां वक्तुं समारेभे क्रमातत्तः ॥५॥
पश्य मातः प्रथमं वै मंगलाख्यो हि पार्षदः ।
चतुर्भुजः सतिलकः सर्वाऽऽभरणभूषितः ॥६॥
मंगलादेविकायुक्तः सर्वमांगल्यकान्वितः ।
साममन्त्रान् प्रगायन् वै समायाति शुभावहः ॥७॥
स्वल्पहंससमारूढः सर्वशोभासमन्वितः ।
तथाहंससमारूढा मंगला च सरस्वती ॥८॥
शारदा च समायान्ति सर्वाभरणभूषिताः ।
एतद्वै दर्शनं सर्वमंगलानां सुमंगलम् ॥९॥
ततो वैकुण्ठवाद्यानि वादकैर्वादितानि वै ।
समायान्ति त्रिलोक्यां यन्निनादाश्च ध्वनन्ति हि ॥१०॥
पश्य ततः समायाति सध्वजः शोभनो गजः ।
अक्षरस्यैव मुक्तोऽसौ महाद्रिरिव राजते ॥११॥
पश्य ततः समायान्ति जयशब्दप्रवर्तकाः ।
ब्रह्मचर्यपराः पारेसहस्रं स्नातका इमे ॥१२॥
पश्य ततः समायाति डंकानिशानवान् शुभः ।
श्यामकर्णो धवलाश्वोऽक्षरमुक्तो हि वर्तते ॥१३॥
पश्य भेरीभृतं पश्चाद् रथं वृषभवाहितम् ।
सौवर्णं स्वर्णकलशध्वजाऽवरूथशोभितम् ॥१४॥
पश्य ततोऽश्ववाराँश्च सहस्रशः सहेतिकान् ।
पश्य मातस्ततश्चोष्ट्रस्थितान् निर्ऋतराक्षसान् ॥१५॥
सर्वे शृंगारशोभाढ्यान् वैष्णवान् विष्णुसेवकान् ।
पश्य मातस्ततो यक्षान् पदातीन् दानकारिणः ॥१६॥
स्वर्णरूप्यादिवृष्टिं च कुर्वतो धनसंभृतान् ।
सहस्रशो हि मुकुटैरन्वितान् स्वर्णभूषणान् ॥१७॥
पश्य मातस्ततो रासकृतान् वै वैष्णवान् जनान् ।
सहस्रशः सवाद्याँश्च कीर्तयंतो हरेर्गुणान् ॥१८॥
पश्य मातस्ततो नारीवैष्णवीर्गीतिकापराः ।
कृष्णकीर्तनकर्त्रीश्च सहस्रशो विभूषिताः ॥१९॥
पश्य ततः शिबिकासु नरयानेषु संस्थितान् ।
ब्रह्मध्यानपरान् पूज्यान् महर्षींश्च सहस्रशः ॥२०॥
पश्य मातः पितृदेवान् अर्यम्णा सहिताँस्ततः ।
सौवर्णनरयानेषु लक्षकन्यायुतानपि ॥२१॥
पश्य ततः सिद्धजनान् साधून् रथाद्यधिष्ठितान् ।
पारेसहस्रं दिव्याँश्च पावनान् लोकपावनान् ॥२२॥
पश्य मातस्ततो वंशीवाद्ययुक्तान् हि कोमलान् ।
पार्षदान्नवयूनश्च दिव्यवेषविभूषितान् ॥२३॥
पश्य मातः शरभस्थान् दैत्यान् प्रवैष्णवाँस्ततः ।
शृंगारितान् जयनादान् प्रकुर्वतः सहस्रशः ॥२४॥
पश्य मातस्ततो रौद्रान् गणान् वृषभवाहनान् ।
वैष्णवान् बहुवेषाँश्च रूपिणः शिवसदृशान् ॥२५॥
भूतान् प्रेतान् पिशाचाँश्च पश्य वैष्णवसेवकान् ।
पश्य मातस्ततो दिव्यान् गान्धर्वान् वाद्यगायकान् ॥२६॥
स्वर्णचम्पकवर्णाभान् तालमानसमन्वितान् ।
पश्य मातस्ततः सर्वतीर्थानि मूर्तिमन्ति च ॥२७॥
पावनानि समायान्ति लक्षशो दिव्यभानि च ।
पश्य मातस्ततो देवीः कोटिशो गीतिकायुताः ॥२८॥
विभूषिता दिव्यवेषा नरयानस्थिताः शुभाः ।
पश्य मातस्ततो वृद्धान् सौराष्ट्रीयान् नरान् शुभान् ॥२९॥
पश्य देवान् वाहनस्थान् छत्रचामरभूषितान् ।
लक्षशो भानुवर्णान् वै दासदासीसमन्वितान् ॥३०॥
स्वल्पकल्पविमानस्थान् स्थलगान् व्योमगानपि ।
चन्द्रवर्णान् भानुवर्णान् वह्निवर्णान् सुराँस्तथा ॥३१॥
पश्य मातस्ततो यातान् पातालस्थान् फणाधरान् ।
बहुरूपान् कामरूपान् कोटिशोऽत्र समागतान् ॥३२॥
पश्य मातः सूतलोकान् मागधान् किन्नराँस्ततः ।
किंपुंसः पश्य विद्याध्रान् देववाद्यनिनादकान् ॥३३॥
पश्य मातस्ततो विप्रान् वेदघोषकरान् द्विजान् ।
पश्य ततो गजस्थाँश्च नृपान् भूगोलभूपतीन् ॥३४॥
जुम्मसेम्लनृपं हस्तिस्थितं तथाऽभितोऽस्य च ।
सहस्रकन्यका यानगताः पश्य हरेः प्रियाः ॥३५॥
पश्य मातस्ततो दक्षजवंगरं नृपं गजे ।
शताधिकसहस्रकन्यका यानगतास्तथा ॥३६॥
शिबिराजं पश्य मातर्गजस्थं शोभनं नृपम् ।
नरयानगताः कन्याः शतं पश्य विभूषिताः ॥३७॥
थर्कूटस्थं महाराजं पञ्चाशत्कन्यकायुतम् ।
स्वर्णसिंहासनस्थं विष्टिस्कन्धेषु विलोकय ॥३८॥
वीरजारमहाराजं शतकन्यायुतं ततः ।
नरयानस्थितं पश्य सर्वाभूषणशोभितम् ॥३९॥
शक्त्यक्षिनृपतिं षष्टिकन्यकासहितं तथा ।
शतपिशाचिनीकन्यायुतं पश्य सुशोभितम् ॥४०॥
कालिमाशं नृपं पश्य कन्याशतद्वयान्वितम् ।
स्वर्णयानस्थितं सर्वशृंगारसंविभूषितम् ॥४१॥
एते नृपा राशियानाः किंपुरुषप्रजातिकाः ।
देवतुल्याः प्रविद्यन्ते तव गृहे समागताः ॥४२॥
अथ वादित्रनिनदान् शृणु पश्य नवोत्तमान् ।
केतुमालीयजातीँश्च सुशोभान् यन्त्रवादितान् ॥४३॥
उरलकेतुकं पश्य राजानं स्वल्पयानगम् ।
त्रिंशत्कन्यासहितं च वेनुमालप्रखण्डगम् ॥४४॥
क्रथकं पश्य राजानं पञ्चकन्यायुतं शुभम् ।
स्वल्पयानस्थितं पृथुं विंशतिकन्यकायुतम् ॥४५॥
उष्ट्रालराजकं दशकन्यान्वितं विलोकय ।
हंकारं पंचकन्यासंयुतं याने विलोकय ॥४६॥
जयकाष्ठलभूपं च पञ्चकन्यासमन्वितम् ।
तीराणराजकं मातः पश्य षट्कन्यकायुतम् ॥४७॥
अल्वीनरं नृपं पश्य सप्तकन्यासमन्वितम् ।
जीनवर्द्धिनृपं पश्य यानस्थमेककन्यकम् ॥४८॥
ततः पश्य महादेवि राज्ञां पृष्ठे च मण्डलम् ।
कन्यकानां द्विशतसहस्रद्वयसुशोभितम् ॥४९॥
महाविमानगं सर्वं सर्वाभरणभूषितम् ।
विमानं भूतले याति कल्पलतासुशोभितम् ॥५०॥
अल्पकेतुं नृपं पश्य सप्तकन्यासमन्वितम् ।
जयकृष्णवभूपं च मातः पश्यैककन्यकम् ॥५१॥
परीशानं नृपं पश्य त्वेकविंशतिकन्यकम् ।
स्वल्पविमानगं सर्वशोभाभूषणभूषितम् ॥५२॥
ततः पश्य द्विकन्यं च नृपमिन्दुरयं शुभम् ।
मुद्राण्डं नृपतिं पञ्चदशकन्यायुतं ततः ॥५३॥
स्वल्पविमानगं पश्य सर्वाभरणभूषितम् ।
गण्डनृपं नवकन्यायुतं पश्य विमानगम् ॥५४॥
लीनोर्णं च नृपं पश्य चतुःकन्या विमानगम् ।
बृहच्छरं नृपमेकादशकन्यासमन्वितम् ॥५५॥
बललीनं ततः पश्य चत्वारिंशत्सुकन्यकम् ।
स्वल्पविमानगं सर्वसामग्रीशोभितं शुभम् ॥५६॥
वरसिंहाख्यराजानं पश्य वै पञ्चकन्यकम्।
रायगामलभूपं च पश्याऽष्टकन्यकं शुभम् ॥५७॥
फेनतन्तुनृपं पश्य कन्याद्वयसमन्वितम् ।
स्तोकहोमं तथा पश्य कन्यैकं यानगं शुभम् ॥५८॥
काष्ठयाननृपं पश्य कन्यैकं कोलकं नृपम् ।
कन्यैकं चेति केतुमालीया नृपा भवन्ति ते ॥५९॥
एते सर्वे महीमानास्तव गृहे निबोध मे ।
अथ वादित्रकुशलान् पश्य गरिमदेशजान् ॥६०॥
हारीतकान् दिव्यवेशान् पश्य मातः क्रमाच्छुभान् ।
पश्य विमानगं भूपं कन्याद्वययुतं ततः ॥६१॥
दिनमानार्कनृपतिं स्वतन्त्रं सुविभूषितम् ।
पश्य मातस्ततो यान्तं रायकिन्नरभूपतिम् ॥६२॥
एकपञ्चाशत्कन्यकायुतं स्वर्णविमानगम् ।
किन्नाटकप्रदेशानां नृपं चाऽमरिकान्वितम् ॥६३॥
अमरीदेशजान् पश्योत्तरकुरुनृपानथ ।
भूतलस्पर्शिसंवेगमहाविमानगान् शुभान् ॥६४॥
रायरोकीश्वरं भूपमेकविंशतिकन्यकम् ।
रायरणजिद्भूपं च विंशतिकन्यकायुतम् ॥६५॥
रायवाकक्षकं पश्य त्रिकन्यं सुविमानगम् ।
रायमारीशभूपं च त्रिकन्यं च विमानगम् ॥६६॥
रायबालेश्वरं भूपं त्रिकन्यं च विमानगम् ।
रायलम्बारभूपं च षटक्न्यं वै विमानगम् ॥६७॥
रायनवार्कभूपं च सप्तकन्यं विमानगम् ।
रायहूणेशभूपं च नवकन्यं विमानगम् ॥६८॥
रायकूपेशभूपं च कन्यैकं स्वविमानगम् ।
पश्यैतान् छत्रशोभाढ्यान् दासदासीसमन्वितान् ॥६९॥
पश्य मातस्ततो वाद्यवादकान् कृष्णवेषकान् ।
पश्य मातस्ततो भूपान् दक्षिणकुरुदेशजान् ॥७०॥
कालमण्डलीनभूपं कन्याचतुष्टयान्वितम् ।
गजयानगतं पश्य सर्वशोभासमन्वितम् ॥७१॥
वनजेलेशभूपं च पञ्चकन्यासमन्वितम् ।
गजयानगतं पश्य मातश्छत्रादिशोभितम् ॥७२॥
पारावारपिबं भूपं कन्यात्रयसमन्वितम् ।
गजयानगतं पश्य सर्वभृत्यादिसंयुतम् ॥७३॥
कोटीश्वरं नृपं पश्य कन्याद्वयसमन्वितम् ।
गजयानगतं मातः सर्वभृत्यसमन्वितम् ॥७४॥
श्रीसतीशनृपतिं कन्यात्रयसमन्वितम् ।
त्रेताकर्कशभूपं च सप्तकन्यायुतं तथा ॥७५॥
आण्डजरानृपं पश्य कन्याचतुष्टयान्वितम्।
बाल्यरजोनृपं पश्य कन्यैकं गजयानगम् ॥७६॥
रायसोमननृपतिं शुभं कन्यात्रयान्वितम् ।
उरुगवाक्षभूपं च पश्य कन्याद्वयान्वितम् ॥७७॥
पराङव्रतं नृपं पश्य कन्याद्वययुतं ततः ।
ईशानपानभूपं च महागजचतुष्टये ॥७८॥
याने स्थितं त्वेकचत्वारिंशत्कन्यासमन्वितम् ।
पश्य चामरछत्रादिदासीदाससुसेवितम् ॥७९॥
राजारायपतिं पश्य त्रयस्त्रिंशत्सुकन्यकम् ।
चतुर्गजमहायानस्थितं छत्रादिशोभितम् ॥८०॥
पूर्वदेशप्रजाश्चापि पश्य मातर्विमानगाः ।
कोटिकन्यायुताः सर्वाः कोटिकुमारशोभिताः ॥८१॥
आबालवृद्धसर्वस्वा दृष्टिर्यासु न गच्छति ।
विशालां वाहिनीं पश्य तवाऽङ्गणे ह्युपागताम् ॥८२॥
महाबालेश्वरान् पश्य सुरतीयान् प्रपश्य च ।
सान्तपनीः प्रजाः पश्य पञ्चसाहस्रकन्यकाः ॥८३॥
सर्वा विमानगाः शृंगारिताश्चाभरणान्विताः ।
भूगर्भस्य नृपस्यापि लक्ष्मणस्य विमानकम् ॥८४॥
पश्य मातर्द्विसहस्रकन्यान्वितं विशालकम् ।
शावदीनस्य कन्यानां सहस्रं च विमानगम् ॥८५॥
नागकन्याविमानानि नागारूढानि पश्य च ।
सहस्राणां सहस्राणि पश्यांगणे तवात्र वै ॥८६॥
पश्य मातस्ततो देवान् छत्रचामरशोभितान् ।
नरयानगतान् नैजवाद्यवेत्रधरान्वितान् ॥८७॥
कुबेरोऽयं समायाति वैष्णवः पूर्वकल्पगः ।
निजकुटुम्बसहितः सर्वशोभासमन्वितः ॥८८॥
महेन्द्रोऽयं समायाति पश्य तं देवतान्वितम् ।
महासिंहासनस्थं वै स्वर्गराजं रविप्रभम् ॥८९॥
पश्य मातस्ततो वायुं समायान्तं सुरान्वितम् ।
राजाधिराजशोभं च पश्य रुद्रं गणान्वितम् ॥९०॥
वह्निं पश्य ततो यान्तं पश्य सूर्यं विमानगम् ।
पश्य चन्द्रं बुधं शुक्रं कोटिदेवप्रसेवितम् ॥९१॥
महाविमानसंस्थं च पश्य मातर्मुनीश्वरम् ।
ऋभुं सनत्कुमारं च कोटिसत्पुरुषान्वितम् ॥९२॥
वादित्राणि सत्यलोकस्थानि शृणु ततोऽपि च ।
पश्य मातर्जनवासिपितॄन् वै कोटिकन्यकान् ॥९३॥
विमानसैन्यसंस्थाँश्च पश्य विश्वावसुं ततः ।
कन्याशतत्रययुतं गान्धर्वगणसेवितम् ॥९४॥
रसातलीयदैत्याँश्च पश्य भक्तान् समागतान् ।
प्रह्लादादीन्नृपानत्र पञ्चसाहस्रकन्यकान् ॥९५॥
संवरणं च धरणिं कोटिकन्यासमन्विताम् ।
पश्य मातर्भूषितां च विमानोत्तमसंस्थिताम् ॥९६॥
कामधेनुकुटुम्बानि मुक्तात्मकानि पश्य च ।
कोटिकुलानि चायान्ति तव गृहं सुखाश्रयम् ॥९७॥
पश्य मातस्ततो विष्णुं कोटिपार्षदसंयुतम् ।
वैकुण्ठवाद्यशोभाढ्यैर्जनैश्चाऽग्रे प्रयायिभिः ॥९८॥
जयनादैर्वर्धितं च कोटिदीपावलीयुतम् ।
आर्जन्तीशतयुक्तं च रमाकोटिसमन्वितम् ॥९९॥
पश्य मातस्ततो यान्तं ब्रह्माणं परमेष्ठिनम् ।
दिशां पालैर्लोकपालैः कोटिभिश्चाऽभिवर्धितम् ॥१००॥
सरस्वत्यादिभिः सार्धं ब्रह्मसरोभिरन्वितम् ।
द्वासप्ततिसहस्रकन्यकायुक्तं विमानगम् ॥१०१॥
ऐन्द्रजालिककन्यानां सहस्रेणापि राजितम् ।
पश्य मातर्लोमशं च महर्षिकोटिसेवितम् ॥१०२॥
महाविमानसंस्थं च गुरुं लक्ष्मीपतेः प्रभोः ।
पश्य मातस्तस्य पृष्ठे कन्यागणान् हि कोटिशः ॥१०३॥
विमानगान् वनदेवीकन्यालक्षगणानपि ।
द्रुमान् स्तबकान् कल्पलताः पश्य स्थावरदेहिनः ॥१०४॥
महीमानान् शोभनान् वै देवसदृशविग्रहान् ।
पश्य मातस्ततो लक्षकन्यानां मण्डलं परम् ॥१०५॥
दामनीनां विमानस्थं सौदामिनीकुलं परम् ।
पश्य मातस्ततोऽयुतकंकतालीयकन्यकाः ॥१०६॥
विमानस्था भूषिताश्च गीतिकातत्परास्तथा ।
सालमालीयकन्याश्च वासन्तिकाश्च कन्यकाः ॥१०७॥
पश्य मातर्विमानस्थाः सहस्राणि तथाऽपराः ।
पश्य मातर्यमजाश्च वायुजाः कन्यकास्ततः ॥१०८॥
मेघनाद्यश्चतुर्दशसहस्राणि तथाऽपराः ।
वार्क्ष्यो रौद्र्यश्च खानिज्यः सांवत्सर्यश्च गोपिकाः ॥१०९॥
श्रावण्या वैश्वकर्म्यश्च प्राचीन्यश्च पिशंगिकाः ।
राशियान्यश्च रोमाण्यः पारश्यः किन्नरीगणाः ॥११०॥
धैवर्यश्चापि पर्थश्चाऽमर्यो गौर्यश्च भूषिताः ।
हारित्यश्चापि वै स्वर्ग्याः पाताल्यश्चाऽऽब्रिरिक्तजाः ॥१११॥
भौम्यश्चापि च दानव्यः कोट्यर्बुदाब्जसंख्यकाः ।
पश्य मातस्तव पुत्र्या मानार्थं सन्ति तास्त्विह ॥११२॥
आयान्ति चोत्सुकाः सर्वा प्रोद्वाहः कृष्णयोरिति ।
पश्य मातस्ततो यान्तं सहस्रकलशान्विते ॥११३॥
महाविमानके श्रीमद्वैराजं पुरुषं परम्।
अनेकेश्वरयुक्तं च सहस्रभुजशोभितम् ॥११४॥
पश्य मातस्ततो यान्तं सहस्रवदनं ह्यजम् ।
ब्रह्मणश्च तथा विष्णून् सहस्रवदनान् शुभान् ॥११५॥
पश्य सर्वेश्वरान् मातर्महाविष्णुं विलोकय ।
पश्य मातर्हि भूमानं परेश्वरं विमानगम् ॥११६॥
कोटीश्वरयुतं पश्य प्रद्युम्नं चानिरुद्धकम् ।
पश्य मातस्तथा वासुदेवं कुटुम्बकान्वितम् ॥११७॥
प्रकृतिं पुरुषं पश्य सर्वतत्त्वान्वितं ततः ।
पश्य मातश्चेश्वराणां वादित्रवादकाँस्ततः ॥११८॥
पश्य मातश्चेश्वराणीमण्डलानि ततः परम् ।
विमानस्थानि गरुडस्थानि हस्तिगतानि च ॥११९॥
रथस्थानि पश्य मातः पार्षदाणीर्विभूषिताः ।
अहो मातस्ततः पश्य भगवन्तं सनातनम् ॥१२०॥
मत्स्यरूपं कूर्मरूपं ततः पश्य नृसिंहकम् ।
वाराहं च ततः पश्य हंसं हरिं विलोकय ॥१२१॥
कपिलं च ततः पश्य पृथुं पश्य ततः परम् ।
दत्तात्रेयं ततः पश्य ऋषभं पश्य वामनम् ॥१२२॥
पर्शुरामं ततः पश्य यज्ञं पश्य ततः परम् ।
रामं पश्य ततो मातर्हयग्रीवं विलोकय ॥१२३॥
नारदं पश्य मातर्वै राजराजं विलोकय ।
व्यासं श्वेतं पश्य मातर्बुद्धं पश्याऽश्विनीसुतम् ॥१२४॥
धन्वन्तरिं ततः पश्य पश्य नारायणान् बहून् ।
कोटिविमानगान् पश्य पार्षदाँस्तत्प्रियाँस्ततः ॥१२५॥
पश्य मातस्ततो मुक्तान् धामधामनिवासिनः ।
पश्य मातर्हि मुक्तानीः सांख्ययोगवतीस्तथा ॥१२६॥
पश्य मातर्ब्रह्मसखीर्ब्रह्मप्रियास्तथाऽपराः ।
चत्वारिंशदूर्ध्वशतं षट्कं पश्य च योषिताम् ॥१२७॥
राधां लक्ष्मीं रमां पद्मावतीं श्रीं माणिकीं तथा ।
कार्ष्णीः पश्यैता मातस्ते गृहं सर्वाः समागताः ॥१२८॥
माधवी सुगुणा हासा दया शान्ता सुमाऽम्बिका ।
चम्पा हैमी मुक्तिका देविका ललन्तिका जया ॥१२९॥
अन्याश्च शतशो मातस्त्वागताः पश्य ते गृहम् ।
कृष्णाकृष्टाः कृष्णजीवास्त्वत्पुत्रीस्वसृभावनाः ॥१३०॥
मातः पश्य महान्तं वै विमानं गजवाहनम् ।
यत्र पिता च माता च भ्रातरश्च कुटुम्बकम् ॥१३१॥
श्रीहरेस्तु समास्ते वै कोटिसूर्यसमप्रभम् ।
पश्य मातस्ततो दिव्यं सहस्रगजवाहितम् ॥१३२॥
विमानं कलशाढ्यं वै सहस्रशिखरान्वितम् ।
सहस्रायुतयानैश्च समन्तात् परिवारितम् ॥१३२॥
कोटिसौभाग्यवतीभिर्वर्धितं सेवितं तथा ।
वीक्षितं दिव्यशोभं श्रीकृष्णकान्तं विलोकय ॥१३४॥
अनादिश्रीकृष्णनारायणं श्रीबालकृष्णकम् ।
श्रीकृष्णं वल्लभं सर्वं स्वामिश्रीकृष्णरूपिणम् ॥१३५॥
भ्रातृजायादिभिश्चापि स्वसृभिश्चाभिवर्धितम् ।
पुरुषोत्तममेवैनं सर्वाविर्भावकारणम् ॥१३६॥
अहो मातस्तव भाग्यं न भूतं न भविष्यति ।
कृष्णायती चेदृशी वै न भूता न भविष्यति ॥१३७॥
पश्यमातस्ततः कृष्णयातीस्थमहीमानकान् ।
सर्वलोकभवान् चाश्ववारान् पश्य च कोटिशः ॥१३८॥
पश्य मातस्ततो गीतिकारिणीर्वरयोषितः ।
भौमी सर्वा भूषिताश्च पश्य ततश्च दर्शकान् ॥१३९॥
श्रीगिरिजोवाच-
अहो मे परमं भाग्यं चक्षुर्मे बालकृष्णके ।
निरुद्धं ऋक्! न पश्यामि चेतरं वद मा न्विह ॥१४०॥
धन्या पुत्री मम जाता यदर्थं त्वीश्वरा इह ।
यामि शीघ्रं स्वागतार्थं चायाहि मण्डपान्तिकम् ॥१४१॥
इत्युक्त्वा राधिकेः सा तु हिमजा तूर्णमेव ह ।
सम्मानार्थं स्वागतार्थं त्वधश्चावाऽतरद् गृहे ॥१४२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीशांकरीदेव्यै ऋग्वेदेन कृष्णयातीवर्णितमहीमानपरिचयः प्रकारित इत्यादिनिरूपणनामा नवत्यधिकद्विशततमोऽध्यायः ॥२९०॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP