संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २८८

त्रेतायुगसन्तानः - अध्यायः २८८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके च ततः श्रीमद्बालकृष्णस्ततः परम् ।
राधारूपः स्वयं भूत्वा ययौ श्रीपार्वती गृहम् ॥१॥
त्वां सा स्नुषा पार्वती च वीक्ष्योत्थायाऽऽसनं ददौ ।
रहस्येऽस्यै राधिका प्रोवाच शृणु हितावहम् ॥२॥
माता सा कथ्यते पुत्र्याः श्रेयस्करी सदा भवेत् ।
दानमात्रं न द्रष्टव्यं द्रष्टव्योऽस्यास्तथाऽऽयतिः ॥३॥
उत्तरे स्यात् सुता नित्यसुखिनीति मता मतिः ।
नारीवर्गेषु दुःखं चेत् सापत्न्यं सर्वतोऽधिकम् ॥४॥
मया त्वद्य श्रुतं तद्वै यस्मै प्रदीयते सुता ।
स चास्ति बाल्यतो भूमौ पतिर्वै कोटियोषिताम् ॥५॥
यास्ताः सर्वाश्चागता वै पित्रादिभिः समं त्विह ।
प्रत्यक्षं वर्तते त्वेतत् पुत्री स्यात् तत्र दुःखिता ॥६॥
ममाऽस्ति तत्र वैमत्यं तस्माद् देया न पार्वति! ।
बहुस्त्रीणां समवाये भोगा भिन्नो भवन्ति हि ॥७॥
सम्पदा च विभागाः स्युः पर्याप्ताः स्युर्न ते ततः ।
बहुनारीमतः पुंसो नार्यस्तृप्तिं न यन्ति हि ॥८॥
राज्ञां संघटत सर्वं पृथ्वीराज्यवतः खलु ।
अयं तु विद्यते विप्रो जामाता वैश्यकर्मवान् ॥९॥
नास्ति ग्रामोऽस्य वाटी वा क्षेत्रं वा चापणादिकम् ।
भिक्षा त्वस्याऽस्ति वृत्तिर्वै कथं स्यात् सुखिनी सुता ॥१०॥
गृहे नाऽस्याऽस्ति वित्तं वै दर्शयत्यधिकं बहिः ।
नारदोक्त्याऽर्पिता चापि वाग्दानेऽपि वियुज्यते ॥११॥
तस्माद् देया न वै लक्ष्मीः सुसुखा दुःखिनी भवेत् ।
वद स्नुषे मतं तेऽत्र मयोक्तं तपता हृदा ॥१२॥
अरोगाय कुमाराय सुशीलाय सुयोगिने ।
धनवतेऽद्विभार्याय सुता देया सुरूपिणे ॥१३॥
कुटुम्बिने समस्थाय गोधनाय महीमते ।
स्वबाहूपार्जितसम्पद्युक्ताय गुणशालिने ॥१४॥
कीर्तिमते समर्थाय कामनापूरकाय च ।
पत्नीं तु देवतां मत्वा सुखदात्रे यशस्विने ॥१५॥
रामाय धर्मयुक्ताय कन्या देया सुवेदिने ।
अन्ये गुणास्ततो वीक्ष्या असापत्न्योत्तरं तदा ॥१६॥
सापत्न्यं दूषणं त्वाग्र्यं नरकं सर्वदा गृहे ।
अपत्यानां मान्यता च ध्रुववन्नैव स्याच्च वा ॥१७॥
रोहिण्यां पक्षपातश्च चन्द्रस्येव भवेत्तथा ।
विरजायाश्च राधाया मे यथा तु कलिः पुरा ॥१८॥
गोलोकेऽप्यभवत्तेन दुःखं सापत्न्यमेव यत् ।
मयोक्तं मे तु यद्भातं स्नुषे कुरु यथोचितम् ॥१९॥
इत्येवं राधिके! राधावाक्यं श्रुत्वा तु पार्वती ।
शिवेश्वरप्रिया प्राह पूज्या निर्णयमुत्तमम् ॥२०॥
पुण्योऽयं बालकृष्णोऽस्ति परब्रह्म सनातनः ।
पतिः पूर्णानन्दश्च सागरः सरितां यथा ॥२१॥
पूर्णस्मृद्धः पूर्णवीर्यः पूर्णगुणो विराजते ।
अस्मादेव समुत्पन्नं सर्वं वै सृष्टिमण्डलम् ॥२२॥
रोगश्चिन्ता च सा नास्ति पूर्णकामस्य वै प्रभोः ।
कुमारत्वं सदा चास्तेऽविप्लुतस्याऽस्य योगिनः ॥२३॥
शीलाख्यं च व्रतं त्वस्य गीयते श्रुतिमूर्धसु ।
योगी चायं योगवेत्ता निरोधवान् सदाऽस्ति च ॥२४॥
सर्वं धनं कृतं येन सोऽयं वै श्रेष्ठिसत्तमः ।
मेदिनी च कृता तेन वसवस्तेन निर्मिताः ॥२५॥
कुबेरत्वं निर्मितं च तेनाऽतो धनवत्तमः ।
यावत्योऽस्य भवेयुश्च भार्यास्तावत्तनूधरः ॥२६॥
भार्यां भार्यां पृथग् भुंक्ते वर्ततेऽपि पृथक् सदा ।
अद्विभार्यस्ततश्चाऽयं चन्द्रमोवन्न दूषणम् ॥२७॥
रूपं रूपं प्रतिरूपो बभूवाऽयं सुरूपवान् ।
कुटुम्बं चाऽक्षरे धाम्नि चाऽसंख्यं यस्य विद्यते ॥२८॥
यस्यैव प्रतिबिम्बानि सन्त्यवतारकोटयः ।
ईश्वरा मनवो रुद्रा लोकपालाश्च विष्णवः ॥२९॥
अस्यैव सन्त्यवतारा आदित्याः ऋषयोऽमलाः ।
कुटुम्बं त्वस्य विद्यते सार्वभौमं मया श्रुतम् ॥३०॥
सर्वासु समभावेन त्वास्तेऽयं पुरुषोत्तमः ।
प्रत्युताऽधिकभावेन यावत् तृप्तिः प्रजायते ॥३१॥
समस्थो विषमस्थो वा पत्न्याः सुखप्रदोऽस्ति सः ।
गोधनं चापि गोलोके श्रेष्ठं मतं त्वया मया ॥३२॥
कामदुघाः सदा त्वस्य सेवायां सन्ति संश्रुतम् ।
मही चाऽस्य समग्राऽस्ति राजानः श्वशुरा यतः ॥३३॥
स्वबाहूपार्जिता सम्पत् साक्षादत्र विलोक्यते ।
काशीयात्राऽस्य वै चास्ते कोटिसृष्टिसमन्विता ॥३४॥
अस्य माता स्वयं महालक्ष्मीरेव विराजते ।
पिता चास्य महाविष्णुर्गोपालोऽस्ति विराजकृत् ॥३५॥
अष्टौ महागुणाश्चात्र विद्यन्ते श्रुतिबोधिताः ।
नित्या अपहतपाप्मत्वादयः परमेश्वरे ॥३६॥
सत्यं शौचं तथाऽन्ये च नवत्रिंशद्गुणास्तथा ।
असंख्याश्च गुणास्त्वत्र विद्यन्ते नित्ययोगिनः ॥३७॥
कीर्तिर्वेदेषु चास्याऽस्ति धामसु चेश्वरेष्वपि ।
देवेषु मानवे लोके सर्वपातालकेष्वपि ॥३८॥
समर्थोऽस्ति मोक्षदोऽस्ति मोक्षार्थं कन्यका मया ।
दत्ताऽस्ति दीयते चापि का तत्र परिवेदना ॥३९॥
कामनापूरकश्चाऽयं विद्यते परमेश्वरः ।
भक्तकामप्रपूरोऽस्ति सर्वकामप्रपूरकः ॥४०॥
पत्नीं स्वां देवतातुल्यां मन्यतेऽसौ सदीश्वरः ।
सुखदोयं यशोयुक्तो रामो रमणको हि सः ॥४१॥
सर्वधर्मभरोऽस्त्येव विद्वानस्ति पुरातनः ।
असापत्न्यं सदा चात्र बहुभार्ययुतेऽस्त्यपि ॥४२॥
नात्र न्यूनगुणैश्वर्यं येन वै ध्रुववद् भवेत् ।
चन्द्रवद् वा च गोलोकवद्वा नात्र तु संभवेत् ॥४३॥
हस्तेऽस्य सन्ति चिह्नानि मत्स्यध्वजधनूँषि च ।
शरशूलस्वस्तिचक्रदण्डाद्याः पारमेश्वराः ॥४४॥
शरीरेऽस्य भवन्त्येव सामुद्रलक्षणान्यपि ।
मया श्रुतं समस्तं तन्नारदस्य मुखात्ततः ॥४५॥
कन्या दत्ता स्थले स्थानेऽर्पणयोग्ये परेश्वरे ।
तस्मान्मातः सुपुत्री मे सुखिनी भाग्यशालिनी ॥४६॥
अनादिश्रीकृष्णनारायणं लब्ध्वा वरोत्तमम् ।
तया तपः पुरा बाल्ये घोरं तप्तं हिमालये ॥४७॥
हनूमदाश्रमे तत्र सोऽयं दिव्यरूपधृक् ।
वरं लक्ष्म्यै पतित्वेन दत्वा चाऽदृश्यतां गतः ॥४८॥
ततः पुत्री गृहं याता मामाह तमुदन्तकम् ।
तत आरभ्य सा प्रतीक्षते द्वादशवर्षकम् ।
स्वस्याः कृष्णस्य तु वर्षं पूर्णं चोक्तं चतुर्दशम् ॥४९॥
सोऽयं वै विद्यते श्रेष्ठः समयः समुपागतः ।
मम गृहे समायातो भगवान् पुरुषोत्तमः ॥५०॥
कृतकृत्या भवाम्यद्य पूज्यो मे पुरुषोत्तमः ।
महालक्ष्मीर्विधात्र्यस्या विद्यते भाग्यशालिनी ॥५१॥
कृतकृत्या च मे पुत्री तव पौत्री सदाऽऽर्यके ।
इत्युक्ता राधिका सा च मौनमाश्रित्य चाशिषा ॥५२॥
समायुज्य ययौ नैजालयं साऽपि तिरोऽभवत् ।
बालकृष्णो दृढं ज्ञात्वा भावं तु वृद्धयोर्निजे ॥५३॥
मुमुदे चातिहृष्टश्च लक्ष्मीं प्रति ययौ रहः ।
विप्ररूपो बालकृष्णः प्रोवाच ह्रदयाऽगमम् ॥५४॥
शृणु पुत्रि प्रदानं ते मया श्रुतं प्रवर्तते ।
राजपुत्रीं परिणेतुमागतोऽस्त्यपि भूसुरः ॥५५॥
भिक्षुकोऽसौ राज्यहीनः श्रुतो मयाऽब्धितीरगः ।
धीवरो हि यथा तद्वद् गोपालो वर्ततेऽप्यसौ ॥५६॥
नाऽस्य गृहेऽस्ति वै सम्पन्नाऽयं वधूव्रतोऽस्ति च ।
परं नैव कुमारोऽपि कोटिनारीपतिर्हि सः ॥५७॥
श्रुतो मयैवंविधिको नार्योऽस्याऽप्यागतास्त्विह ।
विद्यन्ते हि समानार्थं त्वया सह स्थितास्त्विह ॥५८॥
मण्डपे त्वागमिष्यन्ति भ्रमिष्यन्ति प्रदक्षिणम् ।
वह्निं साक्ष्येऽत्र संस्थाप्य सपत्न्यस्ते हि कन्यके ॥५९॥
किमिदं रोचते तुभ्यं सपत्न्यस्तव मण्डपे ।
मा तं वृणु राजपुत्रि बहुनारीपतिं द्विजम् ॥६०॥
राजानं वृणु राजेन्द्रि नारायणांशमेव ह ।
धर्मिष्ठं च गरीयांसं दातारं सर्वसम्पदाम् ॥६१॥
त्वं चास्ते सुन्दरी रम्या रमा रामासु पूजिता ।
नवयौवनसंवेशा तेजसोज्ज्वलिता सती ॥६२॥
तप्तकाञ्चनवर्णाभा शुद्धसत्त्वस्वरूपिणी ।
पतिव्रता सत्यशीला शान्ता श्रेष्ठगुणान्विता ॥६३॥
इन्द्राणी वरुणानी च रोहिणी च कलावती ।
स्वाहा संज्ञा च सावित्री कुबेराणी च विद्यसे ॥६४॥
अन्यासु श्रेष्ठकान्तासु श्रेष्ठतमा विराजसे ।
शरत्पूर्णेन्दुशोभाढ्या शरत्कमललोचना ॥६५॥
मा विप्रं वृणु राजेन्द्रि भिक्षुकं दूरवासिनम् ।
श्रुत्वैवं कन्यका प्राह विप्ररूपं निजं पतिम् ॥६६॥
विप्रोऽसि मम पूज्योऽसि माऽवोचस्तद्वचः पुनः ।
अन्यथा दण्डपात्रं स्याः, याहि तत्राऽऽगतो यतः ॥६७॥
भिक्षुको यादृशो वापि तादृशो वा भवेदपि ।
मया परीक्षितः पूर्वं पश्चादंगीकृतो मम ॥६८॥
राज्यं यस्याऽस्ति वै सार्वभौमं सृष्टित्रयात्मकम् ।
क्षीराब्धितीरगः सोऽयं सर्वज्ञो धीवरो पतिः ॥६९॥
गवां च तेजसां चापि पालकोऽसौ विराजते ।
सर्वाश्च सम्पदस्त्वस्य चेशावास्यमिदं यतः ॥७०॥
भक्तिमतीव्रतो नित्यं वर्तते हि प्रियाव्रतः ।
कोटिनारीपतिश्चापि सदोर्ध्वसत्त्ववानयम् ॥७१॥
सदा कुमारकश्चास्ते जानाम्येनं पुराभवे ।
तथा विदितोऽस्त्येवाऽखण्डोर्ध्वरेताः प्रयोगवान् ॥७२॥
विप्र नार्यः कोटिसंख्या यदि मे मण्डपे त्विह ।
मम पृष्ठे भ्रमिष्यन्ति तत्र मे गौरवं भवेत् ॥७३॥
सपत्नीनां हि सर्वासामग्रपूज्या भवामि यत्॥
अग्निसाक्ष्ये मम साम्ये भवन्तु कोटियोषितः ॥७४॥
अस्य ततोऽप्यधिकाश्च भवन्तु मेऽत्र गौरवम् ।
परिपूर्णो मिलेन्नाथस्तदाऽशं वृणुयाद्धि का ॥७६॥
यथा सोऽयं दूरवासा तथाऽहं दूरवासिनी ।
द्वयोर्वै मेलनं योग्यं मा चिन्ता वह भूसुर ॥७६॥
इन्द्राद्या यद्वशे सन्ति ब्रह्माद्याश्च वशेऽस्य तु ।
वैराजाद्या वशे चाऽस्य व्यूहाश्चास्य वशेऽपि च ॥७७॥
अवतारा वशे चास्य का कन्या वृणुयान्न तम् ।
पूर्वाख्यानं च वेदोक्तं जानास्येव न तच्छ्रुणु ॥७८॥
कृपया भगवान् साक्षाच्छ्रीपतिः पुरुषोत्तमः ।
उद्धारार्थं हि लोकानां भक्तानां चापि सर्वथा॥७९॥
बालकृष्णोऽयमेवाऽऽस्ते परिपूर्णतमः प्रभुः ।
कम्भराश्रीसकाशाद्वै गोपालकृष्णसद्गृहे ॥८०॥
जातोऽस्ति परमेशः स राधारमासतीपतिः ।
विधातुश्च विधाता सः ब्रह्मेशशेषवन्दितः ॥८१॥
ज्योतिःस्वरूपो भगवान् परमात्मा परात्परः ।
निर्लिप्तश्च निरीहश्च साक्षी च सर्वकर्मणाम् ॥८२॥
हृदयस्थश्च सर्वस्थस्तदर्थं चाहमागता ।
धाम्नः पूर्वं तमेवाऽत्र वरयामि न चेतरम् ॥८३॥
समर्पिताऽहं तत्रैव स्वात्मना परमात्मनि ।
विधात्रा लिखिता रेखा तस्यार्थं मम भूसुर ॥८४॥
पश्य तं परमात्मानं भक्तानुग्रहविग्रहम् ।
ध्यानानुरोधहेतुं च नित्यदिव्यसुरूपिणम् ॥८५॥
दर्शनात् कुरु विप्रेन्द्र स्वजन्मकर्मखण्डनम् ।
यं न जानन्ति चत्वारो वेदाः सन्तश्च देवताः ॥८६॥
सद्धेन्द्राश्च मुनीन्द्राश्च देवा ब्रह्मादयो ह्यपि ।
ध्यायन्ते ध्यानमग्नाश्च योगिनोऽपि न यन्ति यम् ॥८७॥
सरस्वती जडीभूता वर्णने यस्य जायते ।
सहस्रवक्त्रः शेषोऽपि पञ्चवक्त्रः सदाशिवः ॥८८॥
चतुर्मुखो जगद्धाता कुमारः कार्तिकस्तथा ।
ऋषयो मुनयश्चापि भक्ताः परमवैष्णवाः ॥८९॥
अक्षमाः स्तवने यस्य ध्यानाऽसाध्यश्च योगिनाम् ।
बालिकाऽहं विप्रवर्य! तद्गणान् कथयामि किम् ॥९०॥
वृताऽस्मि तं सदा विप्र तदर्थं चास्मि भामिनी ।
कन्या चापि तदर्थाऽहं विश्वेश्वरस्य पुत्रिका ॥९१॥
भक्तपुत्रीह सञ्जाता भूमौ भगवदर्थिनी ।
पातिव्रत्यं हि तन्नाम कन्यात्वे यो हृदि स्थितः ॥९२॥
मनसा च धृतो नाथः स एव जीवनं सदा ।
हृदयस्य प्रदानं वै हृदयेन प्रजायते ॥९३॥
स्थूलदेहप्रदानं तु पश्चात्स्थूलेन जायते ।
व्यवहारप्रवाहार्थं लोकेऽस्ति कल्पितः स्थूलः ॥९४॥
सोऽयं मेऽद्य विजानीहि याहि तद्दर्शनं कुरु ।
यावत्त्वया न दृष्टोऽस्ति सर्वकान्तो महाप्रभुः ॥९५॥
अनादिश्रीकृष्णनारायणः श्रीप्राणवल्लभः ।
तावद्वै भाषसे मेऽत्राऽश्राव्यं विप्र क्षमां वह ॥९६॥
इत्युक्तो भगवानाह दार्ढ्यं चेदृक् तवाऽस्ति चेत् ।
क्षन्तव्यं यन्मयोक्तं तत् प्रयामि पश्य मां पुनः ॥९७॥
इत्युक्त्वा निजनामाढ्यं ददौ स्वर्णांगुलीयकम् ।
दर्शनं दिव्यरूपं च ददौ स्वपरिचायकम् ॥९८॥
हारकेयूरकटककुण्डलाद्यैर्विराजितम् ।
शंखचक्रगदापद्मपीताम्बरादिशोभितम् ॥९९॥
लक्ष्मीर्नाथं द्विजात्मानं दृष्टं वीक्ष्य यथार्थकम् ।
पादयोः पतिता शीघ्रं क्षणं तं परिषस्वजे ॥१००॥
प्रिये सायं समायामीत्युक्त्वा मिष्टं वचः प्रियम् ।
तूर्णं तिरोबभूवैव सा त्वानन्दपरिप्लुता ॥१०१॥
विवेद न क्षणं तत्रात्मानं तद्गतमानसा ।
भानमासाद्य शनकैः प्रमोदान्वितविग्रहा ॥१०२॥
धन्यभाग्यं निजं मेने राधिके! रमणीवरा ।
गाम्भीर्यं रक्षमाणा सा नोवाचेदं प्रकाशने ॥१०३॥
इत्येवं भगवान् भावं विविदाऽन्यत्स्वरूपधृक् ।
आत्मनिवेदिभक्तानां भक्तिवश्योऽभवद्धि सः ॥१०४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य राधारूपस्य पार्वत्या सह 'कन्या न देयेति'सम्वादः, विप्ररूपस्य 'मा विप्रं भिक्षुकं वृणु' इति लक्ष्म्या सह संवादः, तदुत्तराणि, दार्ढ्यं चेत्यादिनिरूपणनामाऽष्टाशीत्यधिकद्विशततमोऽध्यायः ॥२८८॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP