संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ११४

त्रेतायुगसन्तानः - अध्यायः ११४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
एवं विशेषतः प्राह श्रीपतिः श्रीनरायणः ।
अधिकं चापि यत्प्राह शृणु त्वं राधिके हि तत् ॥१॥
मम भक्तौ विघ्नकृतान् स्वजनानपि संत्यजेत् ।
नेत्राभ्यां दर्शनं कुर्यान्मेऽङ्गोपाङ्गात्मवर्ष्मणः ॥२॥
श्रुतिभ्यां मत्कथां नित्यं शृणुयान्मम कर्मणाम् ।
त्वचा स्पर्शं मम कुर्यात् सर्वांगानां समस्ततः ॥३॥
मे गुणोच्चारणं कुर्याज्जिह्वया मन्त्रजापनम् ।
मुखेन मे प्रसादस्याऽशनं कुर्याज्जलं पिबेत् ॥४॥
नासया मे प्रसादं च पत्रं तुलसीसंभवम् ।
पुष्पं गन्धं च गृह्णीयाच्चन्दनं मे समर्पितम् ॥५॥
कराभ्यां मम देहस्य कुर्यात् संवाहनं शुभम् ।
शीर्ष्णा कुर्याद् वन्दनं मे पद्भ्यां प्रदक्षिणां तथा ॥६॥
मनसा मम संकल्पं धिया मे निश्चयं परम् ।
चेतसा चिन्तनं मे च कान्तस्यैव विधापयेत् ॥७॥
मम दासत्वाभिमानं स्वस्मिन् कुर्यात्सदाऽहमा ।
मदर्थमेव कुर्याद्वै कृषिव्यापारसत्क्रियाः ॥८॥
उद्यमं च मदर्थं वै प्रकुर्यात् पितृकन्यकाः! ।
यद्यत् स्वेष्टं भवेद् वस्तु तत्तन्मे त्वर्पयेत् सदा ॥९॥
गन्धं पुष्पं भूषणं चाम्बरं श्रांगारिकं तथा ।
मत्प्रसादं शुभं कृत्वा धारयेत्तु ततः परम् ॥१०॥
पत्रं पुष्पं जलं वापि मह्यं यत्स्यान्न चार्पितम् ।
तन्न भक्ष्यं न वा पेयं न धार्यं हीरकाद्यपि ॥११॥
तपः कुर्यात् क्रतुं कुर्याद् दानं कुर्याज्जपं तथा ।
मम प्रसन्नतार्थं वै सर्वं कुर्यात् परार्थकम् ॥१२॥
सात्त्वतां सेवनं चापि साध्वीनां सेवनं तथा ।
कर्तव्यं मम भक्तैर्वै प्रसन्नतायै मेऽनघाः ॥१३॥
भक्ते साधौ तथा साध्व्यां स्थितो वै सर्वदाऽस्म्यहम् ।
तदंगेषु ममाऽङ्गानि सर्वेन्द्रियाणि मे सदा ॥१४॥
वसन्त्येव न सन्देहस्तस्मात् सेव्यास्तु तेऽन्वहम् ।
सकामैः साधवः सेव्याः कल्पवृक्षा हि मे मताः ॥१५॥
कामनापूरकाः सन्ति साधवः स्वर्गमोक्षदाः ।
साध्व्यो मे कल्पवल्ल्यश्च सेव्याः सकामया स्त्रिया ॥१६॥
ताभ्यो मनोरथाः सर्वे सिद्ध्यन्त्येव न संशयः ।
तेषां तासां सदाशीर्भिः फलन्त्येव मनोरथाः ॥१७॥
धर्माऽर्थकाममोक्षाख्याः पुरुषार्थाः फलन्ति च ।
तेषु तासु वसाम्येव स्वयं नारायणोत्तमः ॥१८॥
यथायथं च भक्तानां पूरयामि मनोरथान् ।
देहान्ते शाश्वतं स्थानं महानन्दं ददामि च ॥१९॥
लभन्ते चेष्टसौख्यानि तत्र ते चाऽक्षयाणि हि ।
सालोक्यं सार्ष्टि सामीप्यं सारूप्यं च तदात्मताम् ॥२०॥
ददाम्येतेभ्य एवाऽहं यथा तुष्टो हि सेवनैः ।
अन्ये श्रेष्ठा महाभागवता भक्ताश्च मे पराः ॥२१॥
मम सेवां विना नान्यदिच्छन्ति सिद्धिवैभवान् ।
न च मुक्तिं चतुर्धां वा ते समिच्छन्ति कर्हिचित् ॥२२॥
मया दत्तं दीयमानं त्वैश्वर्यं चोर्जितं परम् ।
नैव वाञ्छन्ति ते भक्ता यथा लक्ष्मीर्न ते तथा ॥२३॥
अन्तरायकरत्वाद्वै सन्ति विघ्नानि सिद्धयः ।
ऐश्वर्याण्यपि विघ्नानि गृह्णन्ति न हृदाऽपि ते ॥२४॥
ममाऽऽनन्देनसम्पूर्णं हृद् आत्मकुटिका शुभा ।
मन्मूर्त्त्यानन्दसंव्याप्ता भवत्यस्य प्रियाः! खलु ॥२५॥
एवं निष्कामभावेन मां भजेरँश्च ये जनाः ।
भक्तोत्तमास्ते प्रोक्ता मे मत्पूर्णहृदया यतः ॥२६॥
एवं मां भजमानस्य सेवमानस्य नित्यदा ।
स्नेहो विवर्धते भूयान् यत्र विघ्नो न जायते ॥२७॥
ब्रह्मपुत्र्या यथा ह्यापो भित्त्वा हिमगिरीन् बहून् ।
आयान्त्यासामदेशाँश्च विशन्ति सुन्दराब्धिकम् ॥२८॥
तथा प्रेमा हि भक्तानां विघ्नान् विभिद्य देशजान् ।
कालजान् संगजाँश्चान्यान् विशत्यनन्तके मयि ॥२९॥
आन्तराणां च बाह्यानां तत्त्वानां वृत्तयोऽखिलाः ।
स्वभावाश्चापि संस्कारा मय्येषां विश्रमन्ति वै ॥३०॥
प्रत्यक्षे मयि सम्प्राप्ते सन्निधावप्युपस्थिते ।
स्वसमाने मानवाख्ये सजातीयादिवर्तने ॥३१॥
प्राप्तस्नेहभरा भक्ता मत्सुखाब्धौ सुखं गताः ।
अन्यत्र नाऽनुरक्ताः स्युर्मां विहाय क्वचिद्धि ते ॥३२॥
वस्तुद्वयं जनैः प्राप्तं विविक्तं च द्विधा हि तत् ।
रमणीयं स्वानुकूलं सुखदं प्रथमं मतम् ॥३३॥
द्वितीयं नाऽनुकूलं चाऽरमणीयं च दुःखदम् ।
तत्तु त्याज्यं स्वभावाद्धि सर्वेषां तत्र का कथा ॥३४॥
प्रथमं तु सदा चेष्टं सर्वेषां देहिनां खलु ।
तदाप्येषा महद्दुःखप्रदं भाति विवेकिनाम् ॥३५॥
देहनिर्वाहमात्रं वै ग्राह्यं प्रसह्य योगिनाम् ।
विशेषं तु तदप्येषां दुःखदं भाति बुद्धितः ॥३६॥
रम्यत्वं रमणीयेषु नैषा भवति कर्हिचित् ।
रम्यत्वं चास्ति यत्राऽहं तत्रैवैषां महात्मनाम् ॥३७॥
मद्विना चन्दनं रम्यं शीतलं गन्धसंभृतम् ।
स्पृष्टं विषायते शीघ्रं मद्युक्तं चामृतायते ॥३८॥
मद्विना पुष्पमालाश्च स्वर्णहारादयस्तथा ।
पाशायन्ते गले क्षिप्ता मद्युक्तास्तु वधूकराः ॥३९॥
भूषणं मद्विहीनं च स्वर्णमौक्तिकहीरकम् ।
धृतं गोधासमं स्याद्वै मद्युक्तं चन्द्रवत्सुखम् ॥४०॥
सुन्दरी पुष्पशय्या मद्विहीना रमणीयुता ।
वह्निधौताम्बरक्लृप्ता श्रेष्ठाऽपि रौरवायते ॥४१॥
चान्द्रकान्तिः शारदी च मद्विहीना सुधास्रवा ।
विषाऽऽतपायते दुग्धायते सा तु मया युता ॥४२॥
प्रासादश्चेन्द्रवासार्हो मद्विहीनो गुहायते ।
जनाऽऽवासो मद्विहीनो भूतारण्यायते तथा ॥४३॥
सुगन्धिशीतलो वायुर्मद्विहीनोऽनलायते ।
श्रेष्ठवस्त्रं मद्विहीनं शूलयुक्खर्जनायते ॥४४॥
सम्बन्धिनो मद्विहीना वृकायन्तेऽस्य सर्वथा ।
रूपं कुष्ठायते सौम्यं मद्विहीनं मनोहरम् ॥४५॥
स्वादु भोज्यं तु मच्छून्यं भक्तस्य तु विषायते ।
स्वादु पानं मया हीनं वान्तायतेऽमृतं त्वपि ॥४६॥
गतिर्माधुर्यपूर्णाऽपि मया हीना शरायते ।
मया हीना सती नारी देव्यपि प्रदवायते ॥४७॥
सुखं दुःखायते सर्वं शान्तं क्रूरायते तथा ।
मिष्टं सर्वं मया हीनं भक्तस्य कटुकायते ॥४८॥
उत्सवो मद्विहीनस्तु भग्नोत्साद्वायते सदा ।
आनन्दोऽपि मया हीनो तिक्तमर्चायते तथा ॥४९॥
प्रसंगोऽपि शुभः सर्वो मां विना मरणायते ।
शुभं सर्वं विना मां तु भक्तस्यैवाऽशुभायते ॥५०॥
एवं भक्तस्य विज्ञेयः स्नेहो मय्यत्यसीमकः ।
अहमेव स्फुराम्येको भक्तस्याऽन्तश्च वै बहिः ॥५१॥
दृष्टोऽहमेव भक्तेन सहसा त्वान्तरे यदा ।
तदा विलोक्य मां भक्तः प्रेम्णा वै हसति क्वचित् ॥५२॥
क्वचिन्मां दूरमालोक्य गच्छन्तमिव रोदिति ।
क्वचिच्चानन्दलाभेन नृत्यं करोति गायति ॥५३॥
क्वचित् संभाषते दिव्यमूर्तिना स मया सह ।
क्वचित् करोति साष्टांगं क्वचिदालिङ्गतीति माम् ॥५४॥
क्वचित् प्रचुम्बति मां च क्वचित् स्वपिति चादरात् ।
क्वचिदुत्थाय सहसा जलं ददाति मे तदा ॥५५॥
स्नानभोजनभूषादि क्कचित् क्वचिद् ददाति मे ।
क्वचिद्ध्यानपरो भूत्वा रमते चान्तरे मयि ॥५६॥
क्वचिन्मौनं समालम्ब्य समाह्वयति मां हृदि ।
क्वचित् स्नेहात् समाकृष्य मां नयत्येव निर्जने ॥५७॥
क्वचिद् दासी स्वयं भूत्वा दास्यं करोति मे तदा ।
क्वचित् मैत्र्यं क्वचिच्छ्रैष्ठ्यं क्वचित् करोति साम्यकम् ॥५८॥
क्वचिन्मत्वाऽपराधं स्वं क्षमस्वेति वदत्यपि ।
क्वचित् प्रार्थयते वस्तु क्वचित् परवशो भवेत् ॥५९॥
अनर्गलः क्वचिद्भूत्वा नामान्येव गृणाति च ।
अनादिश्रीकृष्णनारायणस्वामिपतिप्रभो ॥६०॥
परब्रह्म परात्मन्मे नाथ कान्त हरे विभो ।
नारायण महाविष्णो कृष्ण श्रीमन्नरायण ॥६१॥
परमेश दयासिन्धो क्वास्से वदाऽत्र मां प्रति ।
एवमाहूय च मां स सेवतेऽपि यथेष्टकम् ॥६२॥
नाऽत्र लोके भवेत्तस्य त्रपा सेवनविघ्निका ।
तादृशो मम भक्तो यो भक्ता दासी च वा मम ॥६३॥
पुनाति भुवनं सर्वं ब्रह्माण्डं पारवारिभिः ।
तस्य वै पादरजसा प्रज्वलन्ति दुरीतिकाः ॥६४॥
तस्य सन्दर्शनाल्लोकाः पूता भवन्ति वै द्रुतम् ।
एतादृशस्य भक्तस्याश्रयेण मुक्तिरुत्तमा ॥६५॥
सेवनेन भवेत् सेवा ममैवात्र न संशयः ।
तस्य मे नहि भेदोऽस्ति तनुः सोऽस्ति ममैव सः ॥६६॥
तदिन्द्रियाणि मे सन्तीन्द्रियाणि नात्र संशयः।
पश्यामि तस्य नेत्राभ्यां स्पृशामि तस्य वै त्वचा ॥६७॥
शृणोमि तस्य कर्णाभ्यां रसयामि च जिह्वया ।
वदामि तस्य वै वाचा जिघ्रामि घ्राणयोगिना ॥६८॥
मम घ्राणेन तत्रैव विविधान् गन्धगौरवान् ।
भ्रुवा चिचेष्टे तस्यैव गृह्णामि तत्करेण च ॥६९॥
गच्छामि तत्पदाभ्यां च देवक्षेत्रेषु सर्वदा ।
आनन्दयामि तस्यैवेन्द्रियेण कामवृत्तिना ॥७०॥
कच्चरं चोत्सृजाम्येव तदिन्द्रियेण पायुना ।
चिन्तयामि तु तस्यैव चेतसा मम चेतसा ॥७१॥
मननं च तया कुर्वे मनसा तस्य वै सदा ।
अहंभावं च सर्वत्र करोम्यहं हि तद्धृदा ॥७२॥
निर्णयं तस्य बुद्ध्यैव करोम्यहं सदा प्रियाः! ।
शब्दं स्पर्शं रसं रूपं गन्धं चानन्दमित्यपि ॥७३॥
गृह्णाम्यहं स्थितस्तस्मिन् कृष्णनारायणः पतिः ।
एवं तस्य क्रियाः सर्वा दिव्या मम क्रियार्हि ताः ॥७४॥
मोक्षरूपा भक्तिभावा मायिका नहि वै हिताः ।
तस्य सेवा प्रकर्तव्या तया विन्दामि तर्पणम् ॥७५॥
तस्यार्पणेन मे स्याद्वै सर्वार्पणं हि देहिनाम् ।
प्रत्यक्षोऽहं तथा चाऽस्मि मम साधुस्वरूपवान् ॥७६॥
परोक्षोऽहं तथा चास्मि मम साधुवियोगवान् ।
प्रत्यक्षाः साधवो मे वै सन्ति दिव्यास्तु मूर्तयः ॥७७॥
तेषां भगवतां कार्या सेवा सर्वक्रियादिभिः ।
न तत्र संशयः कार्यो मम मूर्त्यात्मका हि ते ॥७८॥
न तथा ब्राह्मणाः श्रेष्ठा मुनयो न महर्षयः ।
न चाचार्या न गुरवो यथा मे साधवो वराः ॥७९॥
वर्णेषु ब्राह्मणः श्रेष्ठो ब्राह्मणेषु च सात्त्वताः ।
सात्त्वतेषु मम भक्ताश्चात्मनिवेदिनः पराः ॥८०॥
आत्मनिवेदिषु श्रेष्ठा दीक्षावन्तो हि साधवः ।
साधुभ्यः श्रेष्ठं एवाऽहं नान्यो मत्तः परः समः ॥८१॥
साधवो मे समाः श्रेष्ठा जपाम्येतान् सदा ह्यहम् ।
करोमि दर्शनं नित्यं साधूनां मयि वासिनाम् ॥८२॥
मय्यर्पितसमस्तानां मोक्षदाना मदात्मनाम् ।
करोमि स्मरणं तेषां दास्यं सख्यं महात्मनाम् ॥८३॥
कीर्तनं वन्दनं तेषां साधूनां च करोम्यहम् ।
पादसंवाहनं कुर्वे साधूनामहमात्मनाम् ॥८४॥
अर्चने त्वात्मनो मे च करोम्यपि निवेदनम् ।
साधुतो न प्रियं मेऽस्ति मम तत्त्वस्य चिन्तनात् ॥८५॥
परमेश्वरसंज्ञास्ते मम नाम्ना हि मोक्षदाः ।
नारायणाश्च ते प्रोक्ताः साधवो मम वै प्रियाः ॥८६॥
तन्मुखैर्भोजनं कुर्वे तृप्तो भवामि तेषु च ।
न देवा न च गन्धर्वाश्चारणा गुह्यकादयः ॥८७॥
पितरो मुनयो विप्रा नाधिकाः साधुतो हि मे ।
ईश्वरा लोकपालाद्याः साधुतो नाधिका हि मे ॥८८॥
मुक्ता मुक्तिं गताश्चापि साधुतो नाऽधिका हि मे ।
का कथा वा स्वयं लक्ष्मीः राधिका कमलादिकाः ॥८९॥
श्रीर्लीला भूर्विभूतिश्च पार्वती चापि माणिकी ।
प्रभाद्या मे साधुतो नाऽधिका अन्यस्य का कथा ॥९०॥
एवंविधया भक्त्या मां भजध्वं पितृकन्यकाः! ।
उद्धरिष्यामि सर्वा वः पावयध्वं च देहिनः ॥९१॥
इप्युक्त्वा च ततस्ताभ्यो राधिके! श्रीनरायणः ।
ददौ तासां हृदयेषु चरणौ मूर्तिमित्यपि ॥९२॥
स्नात्वा भुक्त्वा भोजयित्वा ददावाज्ञां स्वयं हरिः ।
स्वस्वस्थानेषु गन्तुं वै तीर्थेषु पावनेषु च ॥९३॥
मयोक्तया सदा रीत्या भजध्वं मां पतिं प्रभुम् ।
अनायासेन भक्तानां भक्तिं कारयताऽपि च ॥९४॥
अन्ते विना प्रयत्नेन निरोधं प्राप्य वै मयि ।
यास्यन्ति तादृशा भक्ता भवत्यश्चापि मत्पदम् ॥९५॥
दिव्या ब्रह्मतनुं प्राप्य मदिच्छया ममाऽऽलये ।
मया सह प्रयास्यन्ति भवत्यो भक्तियुग्जनाः ॥९६॥
मया दत्तानि सर्वाणि शाश्वतानि पराणि च ।
अनन्तान्यक्षराण्येव दिव्यसौख्यानि सर्वदा ॥९७॥
प्राप्स्यन्ति मम सेवां च भवत्यो भक्तिसंभृताः ।
ये जनाश्च तथा भक्तिं करिष्यन्ति स्त्रियोऽपि याः ॥९८॥
ते च ताश्च प्रयास्यन्ति मम मुक्तिपदं परम् ।
यान्त्येवं मां विदन्त्वेवं सेवन्तां मां तथा प्रियम् ॥९९॥
मम मन्त्रं प्रदायैव मोक्षयन्तु हि देहिनः ।
गच्छाम्यहं मम क्षेत्रं शाश्वतीं कुंकुमस्थलीम् ॥१००॥
इत्युक्त्वा पितृतनयाभ्यश्च नदीभ्य इत्यपि ।
ऋषीन् देवान् ब्रह्मप्रियास्ततो मौनं स्थितः क्षणम् ॥१०१॥
आत्मन्यचिन्तयत् किञ्चिद् वक्तुं श्रीशंकराय सः ।
आज्ञां पालयितुं सज्जा नरा नार्योऽवतस्थिरे ॥१०२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पितृकन्यात्मकनदीभ्यो भगवता स्वात्मात्मकसाधुजनादिभक्तिस्वरूपप्रदर्शनमित्यादिनिरूपणनामा
चतुर्दशाधिकशततमोऽध्यायः ॥११४॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP