त्रेतायुगसन्तानः - अध्यायः २६२
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके राजा त्वश्वपाटलसंज्ञकः ।
लोमशेन समं सोमतीर्थे वै प्रथमं ययौ ॥१॥
तत्र स्नात्वा च विधिना दत्त्वा दानान्यनेकशः ।
यूपस्थलीं नमस्कृत्य रामतीर्थं ययौ ततः ॥२॥
अश्वपाटल उवाच-
कथं तीर्थमिदं जातं महर्षे रामनामकम् ।
समासेन कथामेतां प्रश्रावय पुरातनीम् ॥३॥
श्रीलोमश उवाच-
भाणवीर्योऽभवत् सिंहज्ञातीयो नृपतिः पुरा ।
गोपनाथादिखण्डस्य राज्य करोति शोभनम् ॥४॥
शत्रुजयप्रदेशाँश्च शास्ति धर्मधरो नृपः ।
रामरामेतिरामेतिरामादित्येति सर्वदा ॥५॥
कृष्णकृष्णेतिकृष्णेतिकृष्णादित्येति वै तथा ।
जपति स्वकुटुम्बेन सहितो वैष्णवः खलु ॥६॥
प्रजास्तस्य सुखस्थानाः सुखालयाः सुखे स्थिताः ।
भजन्ते च सदा रामं कृष्णं गोविन्दमच्युतम् ॥७॥
धर्मं करोति नित्यं च भाणवीर्योऽतिथावपि ।
साधुषु देवकार्येषु दानहोमप्रदक्षिणाः ॥८॥
एवं वै वर्तमानस्यैकदा कष्टं हि भौतिकम् ।
समुत्पन्नं भालदेशनृपो नाम्ना क्षमाभृतः ॥९॥
विजयार्थं स्वसैन्येन निर्ययौ चाऽनुसागरम् ।
साभ्रमतीं समुत्तीर्य धवलाख्यान् प्रदेशकान् ॥१०॥
विजित्य भाणवीर्यस्य राष्ट्रं जेतुमुपाययौ ।
सैन्यं क्षमाभृतस्याप्युद्धतं ग्रामान् पुराणि च ॥११॥
अटति स्म निजान् कृत्वा प्रदेशान् सिंहरायिकाम् ।
राजधानीं विजेतुं वै तूर्णमन्तिकमाययौ ॥१२॥
सिंहराज्या नगर्या वै परितः सैन्यचक्रकम् ।
कृत्वाऽऽवृणोद् राजधानीं दूतं चाप्रेषयन् नृपम् ॥१३॥
राजवाक्यं जगादापि दूतो गृहाण वश्यताम् ।
यद्वा युद्धं प्रदेह्यत्र राज्यं वा सकलं ततः ॥१४॥
भाणवीर्यो जगादापि दूतं क्षमाभृतस्य ह ।
नाऽन्यायो विद्यते राज्ये नाऽधर्मो विद्यते तथा ॥१५॥
ईज्यते भगवान् रामः कृष्णश्च सर्वदा मया ।
रक्ष्यन्ते साधवः सर्वे पूज्यन्तेऽतिथयः सदा ॥१६॥
राज्यं रामस्य शरणे मयाऽर्पितं विभाव्यते ।
नाऽत्राऽस्ति वश्यताऽन्यस्य युद्धं नैव नरैः सह ॥१७॥
राज्यदानं कृतं रामे कथमन्येन भुज्यते ।
अहं तु तत्प्रधानोऽस्मि योत्स्यते भगवान् स्वयम् ॥१८॥
वद दास्ये न वै राज्यं करिष्येऽपि न वश्यताम् ।
योधनं भगवानेव करिष्यति निजार्थकम् ॥१९॥
सन्नद्धो भव राजेन्द्र गर्वं मा वह चेति वै ।
वद क्षमाभृतं यद्वा याहि स्वभवनं प्रति ॥२०॥
यद्वा मित्रस्वरूपेण स्वागतं ते करोमि च ।
यथेष्टं मे पुनश्चात्राऽऽवेदयेति विलोकये ॥२१॥
दूतो गत्वा जगादेदं यथोक्तं च ततः स च ।
क्षमाभृतोऽप्रेषयच्च दूतं सज्जो भवेति च ॥२२॥
युद्धं कृत्वा गृहीष्येऽहं राज्यं मा मदमावह ।
नहि नारायणो युद्धे रक्षिष्यति प्रभक्तकम् ॥२३॥
इति संप्रेषयित्वैव दूतं युद्धस्य सूचकान् ।
भेरीब्यंगुलशंखानां निनादान् समकारयत् ॥२४॥
यन्त्रशब्दान् विविधाँश्चाऽकारयत् दुर्गसन्निधौ ।
दुर्गपालान् गोपुरस्थान् द्वाररक्षकराँस्तथा ॥२५॥
बन्धयित्वा स्ववशगान् कृत्वा क्षमाभृतो नृपः ।
प्रविवेश नगर्यां वै सिंहराज्यां ससैन्यकः ॥२६॥
प्रजास्त्रेसुः कम्पमानाः सस्मरुः राममच्युतम् ।
कृष्णनारायणं देवं रक्षकं परमेश्वरम् ॥२७॥
राजसौधं प्रगत्वैव क्षमाभृतो बलान्वितः ।
भाणवीर्याद् बाहुयुद्धं ययाचे राष्ट्रकं च वा ॥२८॥
भाणवीर्यो महाभक्तः समदृग् वै क्षमाभृतम् ।
स्वागतेन समदृष्ट्याऽमानयच्च जगौ तदा ॥२९॥
राजन् युद्धे मनुष्याणां नाशो हिंसा भवेदिति ।
जयो वाऽपजयो वाऽपि मयि त्वयि भविष्यति ॥३०॥
स्वस्वराज्ये स्थितौ चाऽवां विजयस्थौ न संशयः ।
नहि तृष्णाख्यतन्तूनां विच्छेदोऽन्तो भविष्यति ॥३१॥
भज कृष्णं हरिं रामं वृथा क्लेशं च मा वह ।
न मे राज्यं न ते राज्यं न क्षितिः सह यास्यति ॥३२॥
न सैन्यं बान्धवा भृत्या धनानि राष्ट्रकं प्रजाः ।
सह यास्यन्ति मरणे मृतौ न क्षणनिर्णयः ॥३३॥
मया कृष्णार्पितं राज्यं न मे राज्यं विशिष्यते ।
रामराज्ये वृथा गृध्नां मा समावह पार्थिव ॥३४॥
बाहुयुद्धं बलं पृथ्व्या न ते मेऽपि कथंचन ।
शस्त्रयुद्धं हि सैन्यस्य परस्यैव बलं हि तत् ॥३५॥
बलं रामात् प्रसंपाद्यं यद्बलं सहगं भवेत् ।
तद्विना चाऽफलं सर्वं बलं निर्बलमेव तत् ॥३६॥
क्षमाभृत उवाच-
राजा भूत्वा साधुवादान् वदस्येव हि निर्बलः ।
नेयं राजकुले साधो रीतिर्यशस्करी क्वचित्। ॥३७॥
नात्र रामो न वै कृष्णो न युद्धे रक्षको हरिः ।
बलजय्यं भवेद् राष्ट्रं युद्धधर्मः सनातनः ॥३८॥
देहि युद्धेन वा राज्यं शरणागतिमावह ।
अन्यथा त्वां निगडे वै कृत्वा नेष्ये तमोगृहम् ॥३९॥
भाणवीर्य उवाच--
निगडा रचिताः श्रीमद्रामेण न त्वया नृप ।
दुष्टार्थे निगडा योग्या यद्यहं तादृशस्तथा ॥४०॥
निगडे संभविष्यामि मा चिन्तां तत्र वै कुरु ।
अदुष्टस्य न निगडो यथा ते रोचते कुरु ॥४१॥
परेश्वरेण रचिता भूमिर्जलं च वह्नयः ।
वायुः प्राणा गगनं च शब्दाद्याश्चेन्द्रियाणि च ॥४२॥
शरीरं रचितं तेन राज्यं तेनैव निर्मितम् ।
राजपदं प्रदत्तं च तेनैव परमात्मना ॥४३॥
यस्य राज्यं जगत् सर्वं यद्दत्तं प्रकरोम्यहम् ।
राज्यं राजन् करोम्येवं तद्दत्तं त्वं सुखी भव ॥४४॥
मा च गृधः परस्याऽन्नं परेशस्य करे स्थितम् ।
चातितृष्णो जनो नश्येत् समूलः सपरिग्रहः ॥४५॥
राज्ञा कार्ये सदा चेशदत्ताद् देयं परात्मने ।
पूजनेऽर्पणमेवाऽत्र त्वं तथा भक्तिमावह ॥४६॥
अनाददानो गृह्णानो राजँस्त्वं दोषमुग्रकम् ।
मा सवहाऽत्र भूमौ वै मानवे मोक्षसाधने ॥४७॥
पश्य राजन् राज्यभूमौ कर्षुका यदि वत्सरे ।
द्विवत्सरयोश्च वा त्रिवत्सरेषु करादिकम् ॥४८॥
यदि नैव ददत्येव राज्ञे ते दोषभागिनः ।
राजदण्ड्या भवेयुस्ते गृहान्निष्कासितास्तथा ॥४९॥
क्षेत्रवाटीविहीनाश्च भवेयुः राज्यदण्डिताः ।
करदानेन निर्दोषाः कराऽदानेन दोषिणः ॥५०॥
कर्षुकस्य गृहवाटीक्षेत्रोद्यानादिकं च यत् ।
नृपस्यैव भवत्येव कराऽऽदाननिमित्तकम् ॥५१॥
कर्षुकस्तत्र कृष्याद्यैर्जीवत्येव करप्रदः ।
कर्षुकेण नृपो नैव विस्मर्तव्यः कदाचन ॥५२॥
यदि राजा विस्मृतः स्यात् कर्षुको दण्डभाग् भवेत् ।
करं दत्वा नृपं स्मृत्वा जीवत्येव ह्यबाधितः ॥५३॥
एवमेव जगद् राजन् राज्यं श्रीपरमात्मनः ।
पृथिवी निर्मिता तेन जलं तेजोऽनिलोऽनलः ॥५४॥
शरीरं निर्मितं तेन द्रव्यमन्नं रसादयः ।
नरा नार्यः पुत्रपशुवृक्षवल्लीगृहादयः ॥५५॥
दिवा रात्रिः सूर्यचन्द्रौ सुखं शमः कुटुम्बकम् ।
सम्पद्भोज्यं च पेयं च सर्वं तस्यैव राष्ट्रकम् ॥५६॥
तस्मै राज्ञे समर्प्यो वै कस्मै यज्ञात्मको हि सः ।
अनिवेद्याऽसमर्प्याऽपि करं नारायणस्य वै ॥५७॥
कर्षुकाश्च वयं सर्वे भुंक्ष्वहे चेदनर्पितम् ।
तर्हि दण्डस्य पात्राणि भवेम नात्र संशयः ॥५८॥
तस्माद् राजन् नहि पृथ्वी ते मे वापि कदाचन ।
पृथ्व्यां स्थितैश्च वाऽस्माभिः कर्षुकत्वेन पाल्यते ॥५९॥
स एव सम्राड् राजाऽस्ति मा युद्धं कुरु पार्थिव ।
मया वा तेन साकं वा भुञ्जीथास्तेन तेऽर्पितम् ॥६०॥
तेन वास्यमिदं सर्वं यत् किञ्चिज्जगत्यां हि तत्॥
तेन दत्तं प्रभुञ्जीथा मा गृधोः यत्परस्य वै ॥६१॥
नैजं मुक्त्वाऽर्पयित्वैव हरये मोक्षमावह ।
मोक्षराज्यं परं राज्यं प्राप्नुहीति निबोध मे ॥६२॥
क्षमाभृत उवाच-
भूपपथो मोक्षपथो ज्ञानपथः पृथक् त्रयः ।
युद्धपथो नृपाणां वै तत्र ज्ञानं न युज्यते ॥६३॥
सर्वं नारायणस्यैव बलवान् यः स विन्दते ।
भुंक्ते राज्यं समृद्धं चेद् राजधर्मो हि योधनम् ॥६४॥
एष त्वां निगडे कृत्वा राजन् हरामि राष्ट्रकम् ।
इत्युक्त्वा सहसा क्षमाभृतो बबन्ध भाणकम् ॥६५॥
सकुटुम्बं च सामात्यं कोशं च राजमन्दिरम् ।
भाणवीर्यो हरे राम रामकृष्ण हरेहरे ॥६६॥
बालकृष्ण कृष्णकृष्ण लक्ष्मीनाथ हरेहरे ।
एवं चकार भजनं निगडस्थोऽपि निर्भयः ॥६७॥
कुटुम्बं भजनं चक्रे निर्भयं भगवद्बलम् ।
क्षमाभृतश्च मुमुदे राज्यं प्राप्तमकण्टकम् ॥६८॥
भक्तप्रियो हि भगवान् भक्तसाहाय्यदः प्रभुः ।
वैकुण्ठस्थः प्रभुः श्रीमान् सितापतिः परेश्वरः ॥६९॥
शुश्राव भजनं तस्य भाणवीर्यस्य चोत्तमम् ।
सिता प्राह हरिं तत्र किमिदं कीर्तनं बहु ॥७०॥
श्रूयते तीव्रसंवेगं कान्त केन समीरितम् ।
रामादित्यस्तदा प्राह पश्य लक्ष्मि स्वभक्तकम् ॥७१॥
निगडस्थं भाणवीर्यं सुराष्ट्रे सिंहराजके ।
पत्तने च निजे क्षमाभृतेन निहितः खलु ॥७२॥
सिताऽपश्यन्निगडस्थं भक्तं राजानमेव सा ।
उत्थाय सहसा रामं समुत्थाय सपार्षदा ॥७३॥
आजगाम क्षणात् पृथ्व्यां चाश्वपट्टसरोऽन्तिकम् ।
अनादिश्रीकृष्णनारायणं ब्रह्मप्रियास्तथा ॥७४॥
सह नीत्वा सिता रामं सैन्यं व्यरचयत्तदा ।
चतुरंगं च युद्धार्थं व्योमगं शीघ्रगामि च ॥७५॥
भक्तस्य रक्षणार्थं वै युद्धतूर्याण्यवादयत् ।
सिंहराजीनगर्यास्तु प्राकारस्य समन्ततः ॥७६॥
चक्रव्यूहं पृतनायाः कृत्वा क्षमाभृतं नृपम् ।
चेतयामास युद्धार्थं सोऽपि सैन्येन संयुतः ॥७७॥
युद्धार्थं त्वाययौ शीघ्रं संग्रामोऽभून्महोल्बणः ।
दशसाहस्रयोद्धारः क्षमाभृतस्य भेदिताः ॥७८॥
शरैर्बाणैस्तोमरैश्च वज्रैश्चक्रैः कृपाणकैः ।
क्षमाभृतो धृतो जीवसहः पाशैर्महाभटैः ॥७९॥
भाणवीर्यं च निर्बन्धं चकार हि सिता स्वयम् ।
कृष्णनारायणो रामस्तस्मै ददौ स्वदर्शनम् ॥८०॥
ब्रह्मप्रिया ददुश्चापि दर्शनं नृपयोषिते ।
कुटुम्बाय प्रजाभ्यश्चाशीर्वादान् लोमशो ददौ ॥८१॥
अहं राजन् लोमशो वै मन्त्रं ददेऽस्य वैष्णवम् ।
राज्यं भक्ताय दत्त्वैव क्षमाभृतं निबध्य च ॥८२॥
विसृज्य तस्य देशं च कुंकुमक्षेत्रकं प्रति ।
भाणवीर्यं सवंशं च रामादित्यं सपार्षदम् ॥८३॥
आनाय्याऽश्वसरोवारौ स्नापयामास शुद्धये ।
हतानां मोक्षणं प्रादाद् भगवान बालकृष्णकः ॥८४॥
रामादित्यः समुवास सपार्षदगणस्तदा ।
आदृतः सत्कृतश्चापि सरस्यत्राऽऽप्लवं व्यधात् ॥८५॥
तत्तीर्थं रामतीर्थं वै राजन्नेतत् ततोऽभवत् ।
सितातीर्थं मुक्तितीर्थं सरस्येतन्निगद्यते ॥८६॥
भाणवीर्येण वै चात्र मन्दिरं कारितं शुभम् ।
रामादित्यो हि सितया सहितश्चात्र शोभते ॥८७॥
पार्षदैः सहितश्चापि धृतकार्मुकहेतिकः ।
एवं भक्तस्य रक्षा वै कृता श्रीपरमात्मना ॥८८॥
भाणतीर्थं तथा ख्यातं वैकुण्ठतीर्थमित्यपि ।
ईशानतः पश्चिमे वै वर्तते सोमतीर्थकात् ॥८९॥
अत्र स्नाहि जलं पीत्वा तर्पित्वा भक्तितः पितॄन् ।
देहि दानानि विप्रेभ्यः सद्भ्यः सतीभ्य इत्यपि ॥९०॥
सर्वदानफलं चात्र लप्स्यसे त्वल्पदानतः ।
पृथ्वीदानफलं चात्र फलमात्रप्रदानतः ॥९१॥
स्वर्गदानफलं चात्र धेनुदानप्रदानतः ।
लक्ष्मीदानफलं चात्र कन्यादानप्रदानतः ॥९२॥
मोक्षदानफलं चात्राऽभयदानप्रदानतः ।
इत्युक्तो राधिके राजा भाणवीर्यो महाबलः ॥९३॥
भक्तराड् विधिना स्नानदानार्हणानि संव्यधात् ।
ध्यानं चक्रे क्षणं रामादित्यस्य परमात्मनः ॥९४॥
रामस्य दर्शनं तस्य तेजोमध्ये हृदन्तरे ।
जातं तुतोष राजाऽपि लोमशोऽपि समाधिना ॥९५॥
ददर्श दिव्यदृष्ट्या वै स्मारितः कृष्णवल्लभः ।
दृष्टः साक्षात्ततो रामोऽन्तर्धानं प्रजगाम ह ॥९६॥
इत्येवं चेतनं तीर्थं रामादित्याभिधं परम् ।
राधिके स्मरणाच्चापि रामदर्शनकारकम् ॥९७॥
पापतापहरं शत्रुसंकटादिविनाशकम् ।
वैकुण्ठवासदं रम्यं विष्णोश्च मन्दिरं शुभम् ॥९८॥
यत्र मृताः पशवोऽपि यान्ति वैकुण्ठमुत्तमम् ।
यत्र स्नाता नरा नार्यो यान्ति वैकुण्ठमुत्तमम् ॥९९॥
यत्र रामह्रदे स्नात्वा प्रयान्ति सत्यतः परम् ।
सकामाः सुरलोकं वा निष्कामाश्चाक्षरं पदम् ॥१००॥
प्रयान्ति राधिके सम्पूजिताः पार्षदसत्तमैः ।
श्रवणात्पठनाच्चास्य तत्सर्वं फलमाप्नुयात् ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलो रामादित्यतीर्थं प्राप्य भाणवीर्यभक्तकथां श्रुत्वा विधिना स्नानदानादिकं चकार राज्ञोः मिथः संवादश्चेत्यादिनिरूपणनामा द्वाषष्ट्यधिकद्विशततमोऽध्यायः ॥२६२॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP