संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ४१

त्रेतायुगसन्तानः - अध्यायः ४१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके तस्य कृष्णनारायणस्य वै ।
कथां दिव्यां पावनीं च चमत्कारमयीं पराम् ॥१॥
आसीद् राजा धार्मिकश्च भक्तं कन्थाधराऽभिधः ।
सौराष्ट्रे वै नैजराज्ये शासनं प्रचकार ह ॥२॥
स हि राजा शंभुभक्तोऽभवत् स्थाणुप्रपूजकः ।
सिंहारण्ये वसन् कोटीनाराधिपः प्रतापवान् ॥३॥
शंभुं प्रसाद्य तपसा कालदण्डमवाप्तवान् ।
दण्डो यत्र भवेत्तत्र याम्यपाशो न विद्यते ॥४॥
यमदूतस्तथा कालो दण्डं दृष्ट्वा निवर्तते ।
नित्यं सहस्रकमलैः पार्थिवं शंकरं नृपः ॥५॥
पूजयित्वा प्रगे चैकपादेन शतमालिकाः ।
'ओं नमः कालकालाय संकर्षणाय शंभवे ॥६॥
मृत्यवे याम्यवाराय निर्भयं पदमर्पय' ।
एवं जपति मन्त्रं स आवर्तयति नित्यशः ॥७॥
तत एकावर्तनेन जुहोत्यष्टोत्तरं शतम् ।
पराह्णे तु फलं शाकं पक्वं निर्बीजमेव सः ॥८॥
गृह्णाति देहयात्रार्थं रात्रौ भूशयनः सदा ।
सत्यपि यौवने भावे नारीं वाञ्छति नैव सः ॥९॥
इत्येवं वर्तमानस्य प्रतापिनस्तु भूभृतः ।
राज्ये चौर्यं भयं व्याधिः पारदार्यं न चाऽभवत् ॥१०॥
मद्यमांसाऽभक्ष्यवर्ज्यं हव्यं प्रजाऽनुसेवते ।
त्रयोदश्यां चोभयायां सोमतीर्थस्य सेवनम् ॥११॥
भवनाथस्य च तथा दर्शनं सेवनं शुभम् ।
अश्वपट्टसरसश्च स्नानं लोमशदर्शनम् ॥१२॥
यात्रां करोति चेत्येवं ततो गृहं प्रयाति सः ।
तीर्थयात्राजलं कोटीनारीयजनतासु सः ॥१३॥
प्रापयत्यैव च प्रजाकल्याणार्थं मुहुर्मुहुः ।
मासे मासे पूर्णिमायां प्रजाभ्यो मिष्टभोजनम् ॥१४॥
ददात्याबालवृद्धेभ्यः पशुपक्षिभ्य इत्यपि ।
मत्स्यकीटपतंगेभ्यो वृक्षेभ्यः सलिलं तथा ॥१५॥
एवं धर्मपरस्याऽस्य राज्यप्रजा च निर्भया ।
स्वयमन्यत्र तु गते भयं राज्ये न विद्यते ॥१६॥
अकालमरणं नास्ति नास्ति चेतिभयं तथा ।
एवं काले गते त्वस्य वाञ्च्छाऽभूत् पुष्करं प्रति ॥१७॥
तीर्थं कर्तुं ययौ चापि मासस्तत्र गतस्तदा ।
वसिष्ठं तत्र राजा चाऽप्रसादयत् सुसेवया ॥१८॥
चिरञ्जीवेति तेनोक्तं तथास्त्वित्याह वै नृपः ।
दीर्घायुष्ट्वं परं लब्ध्वा श्रेयो लब्ध्वाऽप्यनन्तकम् ॥१९॥
तीर्थदानानि सन्दत्वा स्नात्वा सम्पूज्य वेधसम् ।
ततः सरस्वतीं स्नात्वा सिद्धान् सम्पूज्य भूपतिः ॥२०॥
अश्वपट्टसरः स्नात्वा शीघ्रं स्वगृहमाययौ ।
स्वप्ने स दृष्टवान् मार्गे विप्रपुत्रस्तु नीयते ॥२१॥
केनचित् कृष्णवर्णेन रक्षयामीति भूपतिः ।
विचार्य यावत् त्वरया धावत्येनं प्ररक्षितुम् ॥२२॥
तावन्निद्रा विलीना च किञ्चिन्नास्तीत्यलोकयत् ।
शंकितः स शीघ्रमेव राज्यं प्रति समाययौ ॥२३॥
ग्रामसीमाऽऽगते सर्वं स्वप्नं सत्यं व्यजायत ।
यतोऽस्य राज्ये विप्रस्य ग्रामपुरोहितस्य तु ॥२४॥
पुत्रो मृत्युंगतश्चायुषोऽन्ते पितरि जीवति ।
याम्यदूतैर्धृतो नीतो याम्यलोकं क्षणान्तरे ॥२५॥
तावद् राजा त्वाययौ वै यात्रां कृत्वाऽत्र तत्क्षणम् ।
रोदनं शोचनं ज्ञात्वा राजा दुःखमवाप ह ॥२६॥
उदन्तं सम्परिज्ञाय ज्ञात्वा मृत्युमृतं ततः ।
दण्डं च शंकरं नीत्वा समाश्वास्य च तं द्विजम् ॥२७॥
ययौ पृष्ठे मृतं पुत्रं विप्रं चानेतुमिष्टकृत् ।
दण्डं नीत्वा यत्र याति तत्र मार्गोऽस्य विद्यते ॥२८॥
पृथ्व्यां जलेऽनले वायौ चाम्बरे तमसि ग्रहे ।
चतुर्दशसु लोकेषु सदण्डस्य गतिर्यतः ॥२९॥
विना दण्डं तु नैवाऽस्य गतिः स्याद्भूतलं विना ।
शिवदण्डेन राजाऽसौ ययौ व्योम्ना यमालयम् ॥३०॥
निरुद्धो मानवदेहो यमदूतेन वै यदा ।
दण्डेन राज्ञा संस्पृष्टो याम्यो दूरं पपात ह ॥३१॥
विनिपत्य समुत्थाय भयव्याप्तो यमानुगः ।
दधाव यमराजानं जगाद स्वपराभवम् ॥३२॥
आयातोऽस्ति यमपूर्यां कश्चिन्मानवदेहवान् ।
सदण्डो वर्तते देव मया रुद्धोऽतिवेगतः ॥३३॥
तथापि नैवरुद्धोऽभूत् स मां पस्पर्श दण्डतः ।
तावत्पराजितश्चाहं यथा वज्रहतोऽभवम् ॥३४॥
पृथ्व्यां निपत्य चोत्थाय त्वायाम्यत्र यमेश्वर ।
निवेदयितुं तद्वृत्तं कोऽयं कस्माद्धि चाययौ ॥३५॥
न जानामि महाराज यथेष्टं तत्र चिन्तय ।
इत्युक्तो यमदूतेन धर्मराजस्तदाऽनुगम् ॥३६॥
मृत्युनामानमाहूय विवासयितुं चादिशत् ।
मृत्युर्गत्वा करेणैनं नृपं दधार वेगतः ॥३७॥
याहीत्युवाच राजानं न चेन्मृत्युस्तवाऽत्र वै ।
श्रुत्वैवं नृपतिर्दण्डं योजयामास मृत्यवे ॥३८॥
मृत्युः पपात भूभागे समुत्प्लुत्य ययौ द्रुतम् ।
बलं निवेदयामास यमराजाय मानवम् ॥३९॥
ततो यमो महाकालं प्रेषयामास तत्क्षणम् ।
कोऽयं कस्मात् समायातो ममान्तिकं समानय ॥४०॥
इत्युक्तश्च स्वयं कालस्तस्याऽन्तिकं समाययौ ।
नत्वोवाच भवान् कोऽत्र धर्मराजो जिज्ञासति ॥४१॥
नृपः प्राह च सौराष्ट्रे कोटीनारस्य भूपतिः ।
अस्म्यहं तु समायातो विप्रबालं प्रवीक्षितुम् ॥४२॥
स तु क्वाऽऽस्ते कथं चात्राऽऽनीतोऽस्ति यमचारिणा ।
इति जिज्ञासितुं त्वत्र समायातोऽस्मि मानद ॥४३॥
कालः प्राह समागच्छ यमराजं निवेदय ।
स ते दास्यति प्रत्युक्तिं नाऽहं योग्योऽस्मि तत्र वै ॥४४॥
इत्युक्त्वा सह नीत्वा च यमराजं प्रति नृपम् ।
काल आवेदयामास यमराजोऽप्यमानयत् ॥४५॥
पप्रच्छ स्वागतं कृत्वा किमागमनकारणम् ।
राजा ननाम धर्मं च प्रोवाच विप्रबालकम् ॥४६॥
मार्गयितुं समायातः क्वास्ते स द्विजबालकः ।
पिता तस्याऽतिकरुणं रौति पुत्रस्य कारणात् ॥४७॥
एक एवाऽस्य पुत्रोऽस्ति मृत्युस्तस्याऽभवत्तथा ।
तच्छोकं त्वपनेतुं च मयोक्तं भूसुराय वै ॥४८॥
तस्य बालं पुनर्नीत्वा दातुमिच्छामि धर्मराट् ।
तच्छवं रक्षितं चास्ते यावच्चाहं न यामि तम् ॥४९॥
तस्माद् देहि द्विजपुत्रं याञ्चां मे प्रतिपालय ।
यमः प्राह च तत्रस्थं दूतं यमं च सत्वरम् ॥५०॥
चित्रगुप्तं सलेखं च ब्राह्मणार्थे समाह्वय ।
आकारितश्चित्रगुप्तः सलेखस्तत्र चाययौ ॥५१॥
पश्याऽस्य विप्रबालस्य कियदायुर्भवेदिति ।
चित्रगुप्तः पूर्णमायुः समाप्तं स मृतो यतः ॥५२॥
विप्रदेहेऽस्य नास्त्येव भोगायुर्वै मनागपि ।
यमराजस्तु तच्छ्रुत्वा राजानं चाभ्यवेदयत् ॥५३॥
नास्त्यायुस्तस्य तद्देहे स्थातुं भोक्तुं ततो नृप ।
मृतोऽयं लप्स्यसे नैव कर्मन्यायोऽत्र विद्यते ॥५४॥
यत्कृतं येन वै यादृक् यं यस्मै यस्य वै यतः ।
यत्र यदर्थं तत्सर्वं तथैव स्यान्न चान्यथा ॥५५॥
राजा प्राहाऽस्य बालस्य किं कर्म पापकृद्ध्यभूत् ।
येनाऽस्य प्राणवाहश्च यमदूतो ह्यजायत ॥५६॥
चित्रगुप्तस्तदा प्राह यमराजानुदेशतः ।
विप्रश्चायं पूजकश्च देवस्याऽऽसीन्निरन्तरम् ॥५७॥
मन्दिरे वासुदेवस्य शैत्ये स्नानं विना ह्ययम् ।
देवमुत्थापयामास तेन पापेन चास्य वै ॥५८॥
यमलोको निश्चितोऽस्ति दण्डं विना न शुद्ध्यति ।
पुण्यं नास्ति मानवार्थे आयुर्नास्ति तथोत्तरम् ॥५९॥
कथं नेष्यसि राजेन्द्र विना कर्म द्विजार्भकम् ।
राजा प्राह ददाम्यस्य त्वायुर्मे नूतनं, मया ॥६०॥
वसिष्ठस्याऽऽशिषा लब्धा पुष्करे चिरजीविता ।
तन्मध्यतोऽयुतवर्षं ददाम्यस्य तु मानवम् ॥६१॥
इत्युक्त्वा सलिलं हस्ताद्द्विसृज्य जीवितं ददौ ।
चित्रगुप्तो लिलेखाऽस्य वर्षाऽयुतं सुजीवनम् ॥६२॥
धर्मराजौ ददौ बालं चायुताब्दप्रजीवनम् ।
ततः पप्रच्छ राजानं बलं लब्धं कुतस्त्वया ॥६३॥
यदत्र नरदेहेन समायातो विहायसा ।
यमो मृत्युस्तथा कालोऽप्रधृष्यो धर्षितस्त्वया ॥६४॥
वद केन प्रतापेन प्राप्तमैश्वर्यमुत्तमम् ।
श्रुत्वा राजा तदा प्राह शंकरस्य प्रतापतः ॥६५॥
प्राप्तं बलं धर्मराज येनाऽहं चाऽत्र वीक्षितः ।
बालोऽपि च मया प्राप्तो महतां कृपया न्विदम् ॥६६॥
धर्मराजस्तदा प्राह यष्टिं मे देहि भूपते ।
राजा प्राहाऽत्र वै यष्ट्यां सर्वं तत्त्वं ममाऽस्ति हि ॥६७॥
यष्टिलोपे न मे चास्ति गतिर्वैहायसी वृष ।
तस्माद् यष्टिं न दास्यामि यष्टिः सांकर्षिणी न्वियम् ॥६८॥
कालसंहारिणी त्वास्ते तदाऽन्यस्य तु का कथा ।
त्वयि चेद् योजये यष्टिं तव नाशो भवेद् ध्रुवम् ॥६९॥
इत्युक्त्वा धर्मराजे तां यष्टिं योजयितुं नृपः ।
हस्तं स्वं लम्बयामास तावत् क्षोभं ययौ वृषः ॥७०॥
क्षुब्धं तस्यासनं चापि धर्मो ननाम तं नृपम् ।
बलं देवबलं दीर्घं सत्ताबलं न वै बलम् ॥७१॥
मेने तदा धर्मराजस्ततस्त्वसान्त्वयत् नृपम् ।
मा मैवं कुरु राजेन्द्र मान्योऽसि देवदर्शितः ॥७२॥
कालकालस्य कृपया सर्वं ते वर्तते करे ।
तस्माद् ददामि राजेन्द्र कन्यां मे हृड्डकायिनीम् ॥७३॥
यौवनोद्भिन्नसर्वांगां रमणीं देहसुन्दरीम् ।
त्वां दृष्ट्वा चेच्छमानां संगृहाणैनां तव प्रियाम् ॥७४॥
इत्युक्त्वा च बलं ज्ञात्वा प्रददौ हृड्डकायिनीम् ।
कन्यां पत्नीस्वरूपां तां तथा विप्रार्भकं नृपः ॥७१॥
नीत्वा वैहायसा धर्माऽर्पितेन वाहनेन वै ।
समाययौ स सौराष्टे कोटीनाराख्यपत्तनम् ॥७६॥
विमानमम्बरात्तस्य द्विजस्यैव गृहान्तिकम् ।
अवातारयच्छनकैः सूर्यतुल्यं समृद्धिमत् ॥७७॥
दिव्यनारीयुतं दिव्योपस्करणसुशोभितम् ।
अनेकैश्वर्यसिद्ध्यादिवासितं यमनिर्भयम् ॥७८॥
दृष्ट्वा लोकाः सतीं पत्नीं तथा विप्रस्य बालकम् ।
नृपं प्रति हर्षनादान् जयनादान् व्यधुर्मुदा ॥७९॥
राजा पुत्रं ददौ तस्मै विप्राय प्रणनाम च ।
स वै नाम्नाऽभवत्तत्र वृषपर्वा ऋषिस्तदा ॥८०॥
वृषपर्वा समुत्तस्थौ मृते देहे विवेश ह ।
विप्रः प्रजाः प्रसन्नाश्चाऽभवँस्तस्याऽऽशिषो ददुः ॥८१॥
विप्रपुत्रः समत्तस्थौ नेमे वृद्धान् पुनः पुनः ।
पितरौ नृपतिं चापि राजा यज्ञं चकार ह ॥८२॥
यमपुत्रीं निजराज्ञीं कृत्वाऽग्रे हृड्डकायिनीम् ।
होमं दानं दक्षिणां च भोजनानि ददौ नृपः ॥८३॥
यद्यद् दत्तं च तद् दृष्ट्वा प्रजज्वालाऽऽन्तरे नृपी ।
तामसी गर्वमन्या च स्वार्थमात्रपरायणा ॥८४॥
स्ववर्चस्वाऽतिलुब्धा परोपकारविरोधिनी ।
दाने प्रभोजने होमे राजानं हृड्डकायिनी ॥८२॥
पुनः पुनः समुवाच मा विधेहि व्ययं नृप ।
त्वं ब्रह्म परमं चास्ते त्वं वै नारायणः स्वयम् ॥८६॥
त्वं विष्णु्स्त्वं शिवो ब्रह्मा त्वं प्रजापतिरस्यपि ।
त्वं भोक्ता त्वं विधाता च त्वमग्निस्त्वं दिवस्पतिः ॥८७॥
त्वं पात्रं त्वं परः शास्ता त्वं यज्ञस्त्वं परायणम् ।
त्वं स्वाहेशः स्वधेशश्च त्वं वषट्कारभूमिका ॥८८॥
त्वं होता त्वं यजमानः कोऽन्यो देवस्त्वदुत्तमः ।
तस्मात्सर्वं परं तत्त्वं त्वमेव विद्यसे प्रभो ॥८९॥
प्रभुं प्रत्यक्षमेवाऽत्र त्वादृशं च विमानगम् ।
यमराजस्य च पुत्र्याः पतिमैश्वर्यवर्धितम् ॥९०॥
परित्यज्य च को लोके यजनीयो महेश्वरः ।
तस्मात्त्वं त्वां परं तत्त्वं विजानीहि मखेश्वरम् ॥९१॥
कालं हन्तुं तथा हन्तुं मृत्युं त्वं शक्तिमानसि ।
मृतं जीवयितुं त्वं च समर्थो विद्यसे प्रभुः ॥९२॥
नेन्द्रो वरुणः पवनः कुबेरोऽग्निश्च निर्ऋतिः ।
दिक्पाला लोकपाला वा त्वादृशाः कान्त सन्ति न ॥९३॥
सर्वं ते संवशे लोके चोपास्से चेतरे तु कम् ।
त्यज यज्ञं तथा दानं त्यजाऽऽस्थां पारलौकिकीम् ॥९४॥
भज स्वं च सुखं विद्धि मया दत्तं हि सेवया ।
पुण्यं निजात्मसेवा च पापं निजात्मपौडनम् ॥९५॥
मिष्टं स्वकान्तावचनं विद्ध्यन्यत् कटु नाशकृत् ।
एवं ज्ञात्वा परं राज्यं कुरु स्वमानसंभृतम् ॥९६॥
एवं नित्यं राधिके सा वक्ति तं हृड्डकायिनी ।
सोऽपि तस्याः सङ्गदोषाच्छनैर्नास्तिकतां गतः ॥९७॥
शयने भोजने याने स्पर्शे श्वासग्रहे तथा ।
विलोकने च करणे पार्श्वस्ते क्रमते गुणः ॥९८॥
सहवासे च वार्तायामध्ययने च चूम्बने ।
शिष्टभक्ष्ये मनुष्याणां पापं संक्रमते जने ॥९९॥
उपरि वायुग्रहणे धृतवस्त्रस्य धारणे ।
प्रदत्तजलपाने च व्रजेत् तद्गुणितां मतिः ॥१००॥
क्षुधायोगात् क्रूरतां च शत्रुयोगाद् विनाशिताम् ।
कान्तायोगाद् भोग्यतां च यायाद् बुद्धिर्विवर्तिनी ॥१०१॥
साधुयोगात् सत्त्वभावं शास्तृयोगात्तु दीनताम् ।
भृत्ययोगात् स्वामिभावं व्रजत्येव मतिः सदा ॥१०२॥
एवं वै राधिके राज्ञो मतिः समपर्यवर्तत ।
स्वार्थमात्रपरा जाता यथाऽऽह हृङ्कुकायिनी ॥१०३॥

'इतिश्रीलक्ष्मीनारायागीयसंहिताता द्वितीये त्रेतासत्ताने कंथाधरनृपतेः शंकरभक्त्या कालयष्टिप्राप्तिः, ततः पुष्करे सेवया वशिष्ठाशीर्वादेन चिरजीविता, विप्रपुत्रस्य यमपुरगतस्याऽऽनयनम्, स्वायुर्दानम्, यमराजपुत्र्या हृङ्कुकायिन्या विवाहः, तत्प्रसंगेन नास्तिकता चेतिनिरूपणनामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP