संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २७५

त्रेतायुगसन्तानः - अध्यायः २७५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके! नारदस्ताभ्यस्ततोऽकथयद् यद्धि तत् ।
कथयामि समस्तं ते शृणु त्वेकाग्रमानसा ॥१॥
नारद उवाच-
आगतोऽहं सत्यलोकादश्वपट्टसरोवरम् ।
पृथ्व्यां पश्चिमसौराष्ट्रे यत्राऽऽस्ते पुरुषोत्तमः ॥२॥
तेन साकं पृथिव्यां च व्यचरं यज्ञकर्मणे ।
यत्राऽऽयाता धाममुक्तास्तथाऽन्यधामपार्षदाः ॥३॥
पार्षदान्यस्तथा सत्य ईश्वराण्यश्च देवताः ।
मानव्यो नागकान्ताश्च साध्व्यः सिद्धिवरास्तथा ॥४॥
अवताराः समस्ताश्चेश्वराश्चापि च साधवः ।
सिद्धा ब्रह्मव्रताश्चापि पितरश्च तथर्षयः ॥५॥
आर्ष्यः सर्वास्तथा देवा देवान्यश्च समागताः ।
मानवाश्च दिवःपाला लोकपाला महेश्वराः ॥६॥
आदित्या वसवो रुद्रा अश्विनौ तत्स्त्रियस्तथा ।
वह्नयश्च मरुतश्च निधयश्च ग्रहास्तथा ॥७॥
दिशः कामश्च मेनेवस्तिथयश्च कलास्तथा ।
तत्त्वानि सर्वतीर्थानि नद्यः सरांसि सागराः ॥८॥
पर्वताश्च वालखिल्या वायुदेहाऽसुरादयः ।
दैत्या भक्ता दानवाश्च पक्षाश्च राक्षसास्तथा ॥९॥
सिद्धचारणगन्धर्वा विद्याध्राः किन्नरास्तथा ।
उरगा किंपुरुषाश्च वृक्षास्तृणानि वल्लयः ॥१०॥
धर्माद्या याम्यभक्ताद्याः शैवाः कैलासवासिनः ।
वैकुण्ठश्वेतदुग्धाब्धिवासा बदरीवासिनः ॥११॥
मेरुवासा आवरणवासाः पातालवासिनः ।
असंख्यदेवकोट्यश्च प्राययुर्वै मखे मखे ॥१२॥
सर्वे प्रशंसन्ति कृष्णं बालकृष्णं परेश्वरम् ।
वन्दन्ते तं चार्हयन्ति स्तुवन्ति कंभरासुतम् ॥१३॥
तत्प्रसादं तच्चरणामृतं पिबन्ति ते तदा ।
लोकपाला धामपालाः सृष्टिपाला नरायणाः ॥१४॥
नारायणाश्च ये ते च तदाज्ञामुद्वहन्ति च ।
एतत् सर्वं मया तत्र प्रत्यक्षं त्ववलोकितम् ॥१५॥
शंकरस्तु स्वयं यस्याऽक्षरक्षेत्रे निवासकृत् ।
क्षेत्रपालतया चास्ते ह्यश्वपट्टसरोऽभितः ॥१६॥
श्रीकृष्णः श्रीरामदेवो नरो नारायणस्तथा ।
वासुदेवादयो व्यूहाः सनत्कुमारयोगिराट् ॥१७॥
तथाऽन्ये चेश्वराः श्रेष्ठाः संकर्षणादयोऽपि च ।
महाविष्णुस्तथा भूमा वैराजश्च सदाशिवः ॥१८॥
यस्याऽऽज्ञां संवहन्ते च कालमायायमेश्वराः ।
यस्माद् भवन्ति भूतानि पुष्यन्ते चाभियन्ति च ॥१९॥
अन्तरात्मा तु यः प्रोक्तः साक्षी च भगवान् स्वयम् ।
परब्रह्म च यः प्रोक्तो यस्मात् सर्वमिदं ततम् ॥२०॥
विद्युतो भानि सूर्यश्च चन्द्रो वह्निस्तथा ध्रुवः ।
यत्तेजसा प्रविद्यन्ते तेजस्विनः प्रभाकराः ॥२१॥
यत्प्रवेशेन भूतानि भवन्ति ज्ञानवन्त्यपि ।
येनास्ते जीवलोकस्य प्रकाशं वै निजात्मनि ॥२२॥
सर्वप्रकाशदाता सः कुंकुमवापिकास्थले ।
विराजते हि भगवानक्षरातीत एव यः ॥२३॥
मानवेन स्वरूपेण गोपालकृष्णबालकः ।
इत्येवं ते प्रशंसन्ति वै महीमानका मखे ॥२४॥
कोटिरूपधरः सोऽपि बालकृष्णो जनार्दनः ।
कोटिभक्तानेकपदे मिलत्येव च वक्षसि ॥२५॥
मया दृष्टं हि साक्षात्तत् श्रुतं सर्वं प्रशंसितम् ।
श्रुता च योषितां वाणी स्थले स्थल्यां महोत्सवे ॥२६॥
धन्या वयं सुरूपस्य सर्वेश्वस्य योगिनः ।
दर्शनं त्वद्य कुर्मो यत्पुण्यपारो न विद्यते ॥२७॥
अहोऽस्य दर्शनाच्छान्तिः शाश्वती समजायते ।
अस्माकं नेत्रयोर्दैर्घ्यं साफल्यं विन्दतेऽद्य वै ॥२८॥
दूरतोऽपि महानन्दो जायतेऽस्य विलोकने ।
अभिन्नपूरवेगाढ्यं यावत्सुखोत्तरं सुखम् ॥२९॥
अनुभूयते चास्माभिः सर्वेन्द्रियसुखं महत् ।
यस्य दूरावलोकेन यदीदृशं परं सुखम् ॥३०॥
तदा साक्षात्तस्य पत्न्याः पार्श्वशयनयोषितः ।
शिवेश्वरसुता लक्ष्म्या दिव्यायाः कीदृशं भवेत् ॥३१॥
अर्धांगी चेश्वरी या वै नारायणी परेश्वरी ।
सूर्यचन्द्रनिभौ यस्याः कपोलौ गण्डकौ तथा ॥३२॥
सुवर्णसदृशं यस्या वपुश्चम्पकपुष्पवत् ।
अलक्तकनिभे यस्याः करपादतले तथा ॥३३॥
पक्वबिम्बसमौ यस्या ओष्ठौ प्रीतिनिवासिनौ ।
कदलीस्तम्भसदृशे सक्थिनी चापि शोभने ॥३४॥
पद्मपत्रायतनेत्रे यस्या रूपं ह्यनुत्तमम् ।
कृष्णनारायणवक्षोवासा या परमेश्वरी ॥३५॥
या च वासयति कृष्णं कान्तं वै निजवक्षसि ।
साक्षात् सर्वांगसंयुक्ता कीदृशी सुखिनी भवेत् ॥३६॥
अहो धन्या शिवपुत्री सुखं कृष्णात् समश्नुते ।
धन्या सा पार्वती देवी यत्सुखात् सुखिनी शिवा ॥३७॥
रमायाः कमलाया वा श्रिया वा कृष्णयोषितः ।
वृन्दाया वा तुलस्या वा भार्गव्या वा च तत्सुखम् ॥३८॥
ललाटे लिखितं कार्ष्णं यल्लक्ष्म्या लिखितं सदा ।
अहो नेदृङ्परं भाग्यमस्माकं यन्न चेयते ॥३९॥
न चाऽस्माकं पतिः सोऽयं कृष्णनारायणः प्रभुः ।
व्यर्थं जन्म स्त्रिया लोके कृष्णयोगसुखं विना ॥४०॥
व्यर्थं सर्वं पातिव्रत्यं पतिः कृष्णो न चेद् यदि ।
अहो वै शिवकन्यायाः साफल्यं गौरवे तथा ॥४१॥
सर्वरसान् सर्वगन्धान् सर्वस्पर्शान् सुखैर्भृतान् ।
सर्वशब्दान् सर्वदृश्यान् सर्वानन्दान् भुनक्ति या ॥४२॥
सर्वानन्दाश्रयं कृष्णं कान्तं लब्ध्वा जितेन्द्रियम् ।
अखण्डवीर्यं सर्वेशं भुंक्ते या शिवकन्यका ॥४३॥
काशीस्थाऽपि सदा कृष्णे लग्ना चास्तेऽप्रकाशिता ।
पश्यन्ति दिव्यनेत्राश्च सत्यः साध्व्यो दिवानिशम् ॥४४॥
इत्येवं वै मया कीर्तिः श्रुता नारीगणान्मुहुः ।
सोऽहं दिदृक्षुरेवाऽसं जिज्ञासुश्च पुनः पुनः ॥४५॥
पृष्ट्वा पृष्ट्वा शनैश्चाऽत्र भवतीगेहमागतः ।
संश्रुतं दुःखहालक्ष्मीरितिनामापि वै मुहुः ॥४६॥
कीदृशी सा कस्य कन्या कीदृग्गुणा भवेदिति ।
यदि स्यादत्र सा देवी द्रष्टव्या सा मया सति ॥४७॥
क्वाऽऽस्ते कीदृक् स्वरूपा सा किमवस्था किमम्बरा ।
किंनिसर्गा किंसुपिण्डा किंसंस्थाना भवत्यपि ॥४८॥
किमाकृतिः किंसुप्रभा कियद्वर्षा हि भामिनी ।
किमानना च किंवेगा किंभावा किंसुलक्षणा ॥४९॥
किंकला किंस्वरा किसंवर्णा किंपत्करोज्ज्वला ।
किंभाला किंसुष्ठुकेशी किमात्मा किंसुसिद्धिका ॥५०॥
किंप्रभावा किंसुखाढ्या किंभाना किंसुबोधिनी ।
किंकार्या किभक्तिमती किंदिव्या च किमान्तरा ॥५१॥
किंविद्या किंचिह्नशोभा किमुच्छ्रया च किंगतिः ।
किंवासा च किंसखी च किंभूषा किंघटाछटा ॥५२॥
किंबला किंसुसत्त्वा च किंभोजना किंतापसी ।
किंसन्तोषा च किंशौचा किंस्वाध्याया च किंवृषा ॥५३॥
किंहार्दा किंप्रेमपात्रा किंकौशल्या च किंमतिः ।
किमंगा किंधना किंचंचला किंलेखना हि सा ॥५४॥
किंरुचिः किंप्रवादा च किंवृत्तिः किंप्रवर्तना ।
किंत्रिका किंसमारंभमध्यप्रान्तफला तथा ॥५५॥
किंक्रिया किंविशेषा च किंसामान्या किंमध्यमा ।
किंविश्वासा च किंयोगा किंबोधा किमुपासना ॥५६॥
किमाराधनिका किंशृंगारा किंसंविरागिणी ।
किंतुष्टा किंगृध्निका च किमाशा च किमिच्छुकी ॥५७॥
किंतर्का किंनिश्चया च किंवादा किंप्रमाणिका ।
किंप्रमेया किंप्रयोगा किंसिद्धान्ता किंनिग्रहा ॥५८॥
किंवेदा किंसाधना च किंप्रिया किंवितर्जिनी ।
किंयमा किंनियमा च किंध्याना च किमासना ॥५९॥
किंप्राणा किंरतिश्चास्ते किंकामा शिवकन्यका ।
एवंद्रष्टुं च जिज्ञासा मे जाताऽति ततोऽप्यहम् ॥६०॥
समागतोऽयं देवर्षिर्नारदो भगवन्मनः ।
ब्रह्मपुत्रश्च रुद्रस्य भ्राता देवर्षिकीर्तिमान् ॥६१॥
विष्णुभक्तः स्थैर्यहीनः सर्वथा कलहप्रियः ।
येषां गृहं प्रगच्छामि ते यदि मानयन्ति मे ॥६२॥
वचांसि वै मयोक्तानि तेषां सुखकरोऽस्म्यहम् ।
नाऽऽद्रियन्ते यदि लोका वचांसि तोषयन्ति न ॥६३॥
तदा तेषां गृहे कृत्वा कलहं चातिदुःसहम् ।
प्रव्रजामि परं गेहं यत्र मे माननं भवेत् ॥६४॥
कन्यका मे दर्शयन्ति करौ भाग्यं विलोकितुम् ।
अहं दृष्ट्वा समस्तं च कथयामि सुखप्रदम् ॥६५॥
असुखं च भवेत् किञ्चित् तदहं नाशयाम्यपि ।
असत्कारं मम कृत्वा लभन्ते न सुखं जनाः ॥६६॥
सुसत्कारं लभन्ते ते मम वाचोऽनुवर्तिनः ।
मम गोदोहमात्रं वै वासश्चैकत्र जायते ॥६७॥
तथापि भक्तिमावीक्ष्य वसाम्यपि दिवानिशम् ।
ततो विशेषवासो मे स्मृद्धिस्वर्गप्रदो भवेत् ॥६८॥
ततोऽप्यधिकवासो मे नारायणाप्तिदायकः ।
ततोऽप्यधिकवासश्च परब्रह्मप्रदायकः ॥६९॥
मुक्तिं ददामि वचनान्मुक्तिं ददामि कीर्तनात् ।
क्लेशं ददामि कलया सुखं ददामि तोषणात् ॥७०॥
विषं ददामि वार्तायां यत्र नाऽहं प्रतोषितः ।
पाययाम्यमृतं चापि यत्राऽहं सेवितोऽभवम् ॥७१॥
जिज्ञासा यत्र पूर्णा मे तत्र स्वर्गोत्तमं सुखम् ।
दत्वा प्रयामि चान्यत्र जानन्त्विति व्रतं मम ॥७२॥
हरेकृष्ण हरेकृष्ण बालकृष्ण हरेहरे ।
श्रीपते कंभरापुत्र लक्ष्मीपते हरेहरे ॥७३॥
शिवेश्वरसुताकान्त हरे गोपालनन्दन ।
ब्रह्मप्रियापते कृष्ण बालकृष्ण हरेहरे ॥७४॥
अनादिश्रीकृष्णनारायण ब्रह्मपते हरे ।
सत्पते सर्वकान्तानां कान्त कृष्ण हरेहरे ॥७५॥
श्रीकृष्णवल्लभस्वामिन् कुंवरकृष्णरूपवान् ।
देशिक श्रोत्रिय स्वात्मन् सर्वात्मन् शेषणाश्रय ॥७६॥
इत्येवं भजनं कृत्वा विरराम स नारदः ।
लक्ष्मीर्वै मनसा वाचा कर्मणा नारदं प्रति ॥७७॥
दत्तेन्द्रियान्तरवृत्तिस्तल्लीना हि तदाऽभवत् ।
सती शिवाऽऽह देवर्षि धन्यं भाग्यमृषे मम ॥७८॥
भवान् कृष्णस्वरूपो यन्मद्गृहं समुपागतः ।
मत्पुत्र्याश्च महद्भाग्यं यत् सतस्तेऽत्र दर्शनम् ॥७९॥
नारदोऽहं विजानामि शतजन्मकृतं यदि ।
पुण्यं सम्मिलितं तेन जन्म वै मानवं लभेत् ॥८०॥
पुनस्तत्र कृता यज्ञाः स्युः शतं तर्हि वै दिवम् ।
प्राप्येतेन्द्रसमकालं ततोऽत्र भूतले स तु ॥८१॥
शेषपुण्यप्रभावेण श्रेष्ठमानवतां लभेत् ।
तत्र विप्रप्रतापेन सतामाशीर्भिरित्यपि ॥८२॥
राज्यं भक्तिमयं श्रेष्ठं प्राप्नुयात् सुखदं शुभम् ।
तत्र देवकृता सेवा सेवाऽतिथिजनस्य च ॥८३॥
प्रापयत्येव सद्बुद्धिं स्मृद्धिं वंशस्य वल्लिकाम् ।
पितृतोषेण तत्रापि पुत्राः पुत्र्यो भवन्ति च ॥८४॥
सतां सेवाप्रतापेन जायन्ते सुखिनो जनाः ।
सतां सेवा धनदात्री भूमिदात्री सुखप्रदा ॥८५॥
सा च धर्मेण भक्त्या च तपसा च तथा व्रतैः ।
मिलत्येवाऽन्यथा नैव सतां सेवा हि दुर्लभा ॥८६॥
अनुग्रहेण दयया सतां सेवाऽभिपद्यते ।
पातिव्रत्येन धर्मेण सतां सेवाऽभिपद्यते ॥८७॥
परोपकारशीलानामन्नसत्रविधायिनाम् ।
सदादानपराणां वा सतां लाभः प्रजायते ॥८८॥
भक्तानां सौम्यभावानां सर्वार्पणविधायिनाम् ।
सतां सत्कारकर्तॄणां सतां लाभः प्रजायते ॥८९॥
नित्यं तीर्थस्वभावानां नित्यं कथां सुशृण्वताम् ।
नित्यं वन्दनशीलानां सतां लाभः प्रजायते ॥९०॥
नित्यं देवार्हणस्थानां नित्यं सत्कारकारिणाम् ।
नित्यं साधुस्मृतिमतां सतां लाभः प्रजायते ॥९१॥
आत्मश्रेयोऽभिलाषाणां सेवावृत्तिजुषां तथा ।
जिज्ञासूनां सेवकानां सतां लाभः प्रजायते ॥९२॥
सतो मार्गयमाणानां सतां गुणानुशालिनाम् ।
सतां गृहे सतां योगे सतां लाभः प्रजायते ॥९३॥
सद्गुरूणां निवासेषु सतां महोत्सवादिषु ।
सतां प्रसंगात् सततं सतां लाभः प्रजायते ॥९४॥
सत्यव्रतस्थितानां च सत्परब्रह्मयाजिनाम् ।
हरेः पार्षदयोगानां सतां लाभः प्रजायते ॥९५॥
हरेर्भक्तिमतां गेहे भक्तानां योषितां गृहे ।
विरक्तानां समूहेषु सतां लाभः प्रजायते ॥९६॥
सन्मित्राणां प्रसंगेन सद्देशस्य निवासनात् ।
सत्कालस्य च योगेन सतां सेवा प्रजायते ॥९७॥
सतां दीक्षाप्रसंगेन सतां मन्त्रग्रहेण च ।
सतां स्नेहवशेनाऽपि सतां सेवा प्रजायते ॥९८॥
आस्तिक्येनाऽऽमन्त्रणेन यशसा सत्कुलेन च ।
सम्बन्धेन च महतां सतां सेवा प्रजायते ॥९९॥
श्रीहरेः कृपया वापि हरेः पत्न्याः समाश्रयात् ।
हरेर्वासेन वा नित्यं सतां सेवाऽभिपद्यते ॥१००॥
अद्य नारद वासो मे श्मशानः शंकरालयः ।
पावितो भवता साधो सता भक्तिमता हरेः ॥१०१॥
तव पादप्रसंगेन पावितं सकलं जगत् ।
मुक्तिमार्गं प्रयात्येव मद्गृहं चापि पावितम् ॥१०२॥
श्रावितं शुभदं सर्वं कृष्णसम्बन्धजं सुखम् ।
कृष्णनारायणकीर्तिः श्राविता पावनी त्वया ॥१०३॥
पावितं हृदयं मेऽत्र मत्पुत्र्याश्चाऽपि तेऽन्तिके ।
स्थितायाः स्वर्णवर्णाया लक्ष्म्या नारद जीव यत् ॥१०४॥
अहो भाग्यं मम पुत्र्या यन्नाम जगतीत्रये ।
ख्यायते सर्वभूतेषु धन्याऽहं मम पुत्रिका ॥१०५॥
पुत्रि लक्ष्मि नमस्कारं कुरु श्रीनारदाय वै ।
पादसंवाहनं चापि तैलांगमर्दनं कुरु ॥१०६॥
जलमन्नं मिष्टमिष्टं गरिष्टं देहि मा चिरम् ।
पर्यंकं च मधुपर्कं देहि पानं मनस्तथा ॥१०७॥
यथेच्छति सतां वर्यो नारदोऽयं हरिः स्वयम् ।
तथैनं च परीक्षां ते कर्तुं देहि समस्तिकाम् ॥१०८॥
ब्रह्मभ्रातुश्च वै शंभोः कन्या त्वं दुःखहे सुते ।
अयं पुत्रो ब्रह्मणश्च मम पुत्रो तवाऽग्रजः ॥१०९॥
सम्बन्धतो भवत्येव गुरुश्चापि महानृषिः ।
नारदोऽयं हरेरंशस्तव पूज्योऽस्ति मेऽपि च ॥११०॥
पुत्रि यथा सुसन्तुष्टो भवेत्तथा प्रसेवय ।
इत्युक्ताऽऽजाकरीलक्ष्मीर्नारदाय ननाम ह ॥१११॥
जलपानं तथा मिष्टमन्नं ददौ शुभासनम् ।
पर्यंकं स्वर्णवर्णं च ददौ पुष्पस्रजादिकम् ॥११२॥
पादसंवाहनं चक्रे लक्ष्मीः श्रीनारदस्य च ।
राधिके श्रमनाशं च विश्रम्य नारदो व्यधात् ॥११३॥
नारदोऽपि यथोक्तानि लक्षणानि न्यभालयत् ।
सर्वश्रेष्ठानि वै तत्र पूर्वदृष्टानि वै पुनः ॥११४॥
सती च जानकी शीघ्रं शिवेश्वरं पतिं निजम् ।
आह्वयत् सुमहोद्यानगतं विश्वेश्वरं मुदा ॥११५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पार्वती-सत्यै नारदोक्तश्रीकृष्णनारायणमहिमा, लक्ष्मीमहिमा, सतां समागमलाभकारणानि, नारदसम्माननं चेत्यादिवृत्तान्तावेदननामा पञ्चसप्तत्यधिकद्विशततमोऽध्यायः ॥२७५॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP