त्रेतायुगसन्तानः - अध्यायः २३९
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
राधिकेऽथ शृणु चान्यं चमत्कारं हरेः प्रभोः ।
कार्तिकैकादृशीरात्रिप्रान्ते व्यधात्तु यं प्रभुः ॥१॥
पुण्डरीकोऽभवद्राजा गौर्जरो वैष्णवो महान् ।
सर्वधर्मान्वितो राज्यमपालयन्महीतटे ॥२॥
प्रातः पूजां करोत्येव विष्णोर्लक्ष्म्याः सुवस्तुभिः ।
साधून् वृद्धान् पूजयित्वा गृह्णाति भोजनं सदा ॥३॥
नित्यमतिथयस्तस्य गृहे चायान्ति यान्ति च ।
हरेर्नाम्नां भजनं च कृत्वा त्वन्नानि भुंजते ॥४॥
हरेर्जयन्तिकाहानां करोत्यपि व्रतानि च ।
राज्ञा तेन निजे राज्ये श्रावितः पटहः शुभः ॥५॥
एकादश्यास्तु यावत्यः कार्या अशनवर्जिताः ।
सर्वाभिर्वै प्रजाभिश्च वृद्धबालातुरान् विना ॥६॥
प्रजाः सर्वास्तदाज्ञां च पालयन्त्येव सद्व्रताः ।
वैष्णव्यश्च प्रजास्तस्य भजन्ते च व्रते हरिम् ॥७॥
स राजा तीर्थयात्रार्थं त्वश्वपट्टसरो ययौ ।
कार्तिकैकादशी तेन कृता क्षेत्रेऽक्षराभिधे ॥८॥
कुंकुमवापिकायां स दशम्यामभिगम्य च ।
भोजयामास साधूँश्च विप्रांश्च बालकृष्णकम् ॥९॥
पूजयामास भक्त्यैव लोमशं चर्षिमण्डलम् ।
तीर्थेऽवगाहनं चक्रे चक्रे देवादिदर्शनम् ॥१०॥
व्यलोकयत् स नगरीं दिव्यां कुंकुमवापिकाम् ।
प्रदक्षिणां चकारापि सरोवरस्य सर्वतः ॥११॥
तटस्थदेवताः सर्वाः पूजयामास वस्तुभिः ।
रात्रौ त्वारार्त्रिकं चक्रे सरोवरस्य भूपतिः ॥१२॥
विश्रान्तिं प्राप शालायां प्रातरुत्थाय सत्वरम् ।
कृताह्निकः कृतस्नानः कृतविप्रप्रपूजनः ॥१३॥
कृततीर्थविधिः कृष्णदर्शनार्थं ययौ तदा ।
पूजयामास बालेशं कृष्णनारायणं प्रभुम् ॥१४॥
ददौ दानान्यनन्तानि स्वर्णरूप्याम्बराणि च ।
विप्रेभ्यः प्रददौ तैर्थिकेभ्यो राजा धनानि च ॥१६॥
साधुभ्योऽम्बरपात्राणि दीनेभ्योऽपेक्षितानि वै ।
गोदानानि ददौ चापि ह्यन्नदानान्यपि नृपः ॥१६॥
उद्यापनं व्रतस्यापि कारयामास सत्फलम् ।
सुवर्णघटकादानादि स्वर्णमूर्तिप्रदानकम् ॥१७॥
धनधान्याम्बरपात्रदानं चकार भूपतिः ।
लक्ष्मीनारायणसंहिताकथाश्रवणं तथा ॥१८॥
लोमशस्याऽऽश्रमे गत्वा चकार दिवसे नृपः ।
ऋषीणां सेवनं चक्रे साध्वीनां सेवनं तथा ॥१९॥
भक्तानां वन्दनं राजा चक्रे सायं प्रपूजनम् ।
आरार्त्रिकं चकारापि रात्रौ जागरणं व्यधात् ॥२०॥
निर्जलश्च निराहारः सर्वसार्थसमन्वितः ।
रात्रौ च भजनं चक्रे तालीवादनपूर्वकम् ॥२१॥
'हरेकृष्ण बालकृष्ण परमेश परेश्वर ।
कांभरेय परमात्मन् श्रीमद्गोपालनन्दन ॥२२॥
ब्रह्मप्रियापते लक्ष्मीपते राधापते प्रभो ।
अनादिश्रीकृष्णनारायण स्वामिपते विभो' ॥२३॥
एवं चकार भजनं रटणं कीर्तनं तदा ।
दध्यौ स्वहृदये साक्षाद् दृष्टं श्रीकृष्णवल्लभम् ॥२४॥
आप्रातर्भजनं कृत्वा ध्यानमग्नो बभूव ह ।
अनुगाश्च ययुः सर्वे स्नानार्थं च सरोवरे ॥२५॥
राजा ब्राह्मे मुहूर्ते स्वहृदये श्रीनरायणम् ।
ध्यात्वा सोऽहं च सोऽहं च सोऽहं सोऽहं जजाप ह ॥२६॥
सोऽहं हंसश्च हंसश्च हंसहंसं जजाप च ।
भगवान् श्रीबालकृष्णः श्रुत्वा जापं हृदि स्थितः ॥२७॥
प्रसन्नोऽभूद् द्रुतं स्मृत्वा हंसरूपं पुरातनम् ।
बभूव शीघ्रं तत्रैव हंसरूपो हरिः स्वयम् ॥२८॥
शुक्लवर्णः शुक्लकान्तिः शुक्लहंसस्वरूपवान् ।
दिव्यमानुषवक्त्रश्च हंसदेहः श्रिया युतः ॥२९॥
रूपानुरूपावयवः कोटिकन्दर्पसुन्दरः ।
सर्वविद्याशेवधिश्च तथा वेदादिशेवधिः ॥३०॥
शनैः शनैश्च पद्भ्यां स चाययौ नृपसन्निधौ ।
राजा स्वहृदये देशं ददर्श सरसस्तटम् ॥३१॥
हंसमायान्तमेवापि लक्ष्मीं ददर्श पार्श्वगाम् ।
आश्चर्यपूर्णहृदयः प्रेमपूरितविग्रहः ॥३२॥
उत्थाय भगवन्तं तं चाभियातुं त्वरान्वितः ।
अभवत्तावदेवाऽसौ जाग्रद्भावं गतोऽभवत् ॥३३॥
नेत्रे चोन्मील्य यावत्स राधे पश्यति सन्निधौ ।
पश्यति स्म महातेजःपुञ्जं दिक्षु समन्ततः ॥३४॥
तेजो योग्ये स्वके नेत्रे ह्यजायेतां क्षणान्तरे ।
ततस्तेजोगर्भके स ददर्श जगतां पतिम् ॥३५॥
श्वेतवर्णं हंसरूपं हसन्तं श्रीसमन्वितम् ।
उत्थाय सहसा राजा पपात दण्डवत् तदा ॥३६॥
कृतार्थोऽस्मीत्यभिधाय मुखे पादरजो न्यधात् ।
लुलुण्ठ भूतलेऽस्यापि पादयोः सन्निधौ मुहुः ॥३७॥
नेत्राश्रूणि मुमोचाऽपि हर्षेण महता नृपः ।
लक्ष्मीः कमण्डलोर्वारि नृपमूर्ध्यन्यभिसिषेच ह ॥३८॥
प्रसादं प्राप्य राजा तज्जलं हर्षान्वितः पपौ ।
कृतकृत्योऽभवत्प्राप्य दर्शनं प्रजगाद ह ॥३९॥
अहोभाग्यमहोभाग्यं राजदेहस्य मे न्विदम् ।
यद्दृष्टौ परमानन्दः पूर्णब्रह्म परेश्वर ॥४०॥
हंसरूपः श्रियायुक्तः साक्षात्करुणयाऽऽगतः ।
पावितोऽहं मोक्षितोऽहं समुद्धृतोऽस्मि सागरात् ॥४१॥
इत्युक्त्वा चरणौ धृत्वा हंसस्य मौनमावहत् ।
हंसः प्राह वरं राजन् वृणु यत्तेऽभिवाञ्च्छितम् ।४२॥
राजा प्राह हरे चात्र मोक्षं देहि पदे नय ।
नमे वाञ्च्छाऽस्ति राज्यस्य लोकैषणा न विद्यते ॥४३॥
अन्यैषणास्तु सम्पूर्णा वर्तन्ते मोक्षमावह ।
यल्लाभो योगिनां नास्ति युगकाले गतेऽपि च ॥४४॥
स लाभोऽद्य मया प्राप्तश्चैकादशीव्रतेन ह ।
तस्माद् देहि कृपासिन्धो मोक्षणं सर्वथाऽत्र मे ॥४५॥
राधिके राजवाक्यानि स्वीकृत्य परमेश्वरः ।
तथाऽस्त्विति हसन्प्राह तावद्राजानुगादयः ॥४६॥
आयुयुर्वीक्ष्य तेजांसि तं हरिं समलोकयन् ।
कृतकृत्या हि ते जाता वीक्ष्य हंसस्वरूपिणम् ॥४७॥
तावत् तत्र समायातं विमानं सूर्यवर्चुलम् ।
राजा देहं विहायैव मुक्तदेहमवाप ह ॥४८॥
चतुर्भुजो विष्णुतुल्यो विमानस्थोऽभवत् क्षणात् ।
राज्ञी तस्यास्तदा शीघ्रं विमानं स्वकरेण वै ॥४९॥
सह यातुं दधारैव स्पर्शमाप्ताऽपि सा तदा ।
त्यक्त्वा भौतिकदेहं स्वं दिव्यदेहा बभूव ह ॥५०॥
विमानं शीघ्रमेवापि ततस्तत्राऽम्बरेऽभवत् ।
हंसः श्रीबालकृष्णोऽपि विष्णुश्चतुर्भुजोऽभवत् ॥५१॥
तद्विमानेन राजानं निन्ये वैकुण्ठमेव सः ।
बालकृष्णस्वरूपेण सरस्तीरे स्थितोऽभवत् ॥५२॥
तेजो विलीनतां यातं सार्थोऽप्याश्चर्यमाप्तवान् ।
देहक्रियां प्रचक्रुश्च सार्थाः सर्वे नृपानुगाः ॥५३॥
ततो ययुर्निजं देशं पुत्रं जगदुर्भूभृतः ।
वृत्तान्तं सर्वमेवैनं पुनः श्रुत्वा मुमोद ह ॥५४॥
राधिके हंसतीर्थं तत्त्वश्वपट्टसरोजले ।
अभवद् दक्षिणे पूर्वे कोणे मुक्तिप्रदं शुभम् ॥५५॥
स्नानाद्दानादवगाहाज्जलपानान्निषेवणात् ।
भुक्तिः स्वर्गं च मुक्तिश्च भवेयुर्नात्र संशयः ॥५६॥
आत्मज्ञानं भवेत्तत्र स्नानात्पानाज्जलस्य च ।
यज्ञपुण्यं भवेच्चापि हंसतीर्थेऽन्नदानतः ॥५७॥
द्वादश्यां त्वेकसाधोर्हि भोजनात्पुण्यमुत्तमम्।
शतसाधुभोजनस्य पुण्यं भवेन्न संशयः ॥५८॥
एकादश्यां फलदानात् स्वर्णदानसमं फलम् ।
स्वर्णदानाद् राजसूयसमं चात्र भवेत् फलम् ॥५९॥
शृणु त्वं राधिके त्वन्यं चमत्कारं महाप्रभोः ।
रोलाख्यश्चोत्कलराजस्तीर्थार्थं सोमनाथकम् ॥६०॥
समाययौ स्वसैन्येन बहुमासैः शनैः शनैः ।
सोमनाथं महातीर्थं कृत्वा प्राचीसरस्वतीम् ॥६१॥
मूलद्वारिकिकातीर्थं कृत्वा च वामनस्थलीम् ।
भद्रावतीमहातीर्थं कृत्वा कुंकुमवापिकाम् ॥६२॥
अश्वपट्टसरस्तीरं पूर्णिमायां समाययौ ।
सायमागत्य विधिना कृत्वा तीर्थं जलं पापौ ॥६३॥
सैन्यं तृप्तं जलपानाद् रात्रौ भोजनमाप सः ।
देवाऽऽरार्त्रिकनादाँश्चाऽशृणोत् साधुकृतान् स्तवान् ॥६४॥
रात्रौ विश्रान्तिमासाद्य ततो निद्रावशोऽभवत् ।
सुप्तं सैन्यं चोत्थितं च प्रातस्तटाकप्राङ्तटे ॥६५॥
उद्यानः फलपूष्पाणामासीत्तत्राश्वशूण्ढिनः ।
उद्याद्याः पशवो राज्ञस्तृणानि चरितुं ययुः ॥६६॥
उद्यानवृक्षः पशुभिर्भक्षिता नाशिता अपि ।
राजा सूर्योदये भूत्वा विनिद्रोऽश्वसरो ययौ ॥६७॥
स्नानं दानं विधिं कृत्वा स्वनिवेशमुपाययौ ।
तावन्नित्यं प्रपूजां स यस्याः करोति भूपतिः ॥६८॥
श्रीनृसिंहप्रतिमायाः सा तत्रऽदृश्यतां गता ।
राजा शुशोच मनसाऽपराद्धं त्वत्र वै मया ॥६९॥
नान्यथा प्रतिमालोपो भवेदेवं न संशयः ।
स तु तुष्टाव नृहरिं हृदयेन विदूयता ॥७०॥
कथं नाथ कृपापारावार रुष्टोऽद्य वै मयि ।
न जाने त्वपराद्धं किं मयाऽत्र यद्गतो भवान् ॥७१॥
मरिष्याम्यदनं त्यक्त्वा ग्रहीष्ये न जलं फलम् ।
अपराद्धुर्भवेदेव प्रायश्चित्तमिदं मम ॥७२॥
एवं प्रवदिते तेन व्योमवाणी ह्यजायत ।
अत्र राजन् फलपुष्पोद्यानं पूर्वदिशि ध्रुवम् ।७३॥
कृष्णवल्लभकृष्णस्य विद्यते परमात्मनः ।
तन्नाशस्त्वत्पश्वाद्यैर्वै क्रियते पश्य मा चिरम् ॥७४॥
निवारय द्रुतं ताँश्च महोद्यानं प्रकारय ।
अपराद्धं त्वया त्वेतच्छृणु चान्यत्त्वया कृतम् ॥७५॥
अत्र पूजा त्वया श्रीमद्बालकृष्णस्य नो कृता ।
अहं यस्याऽवतारोऽस्मि स मेऽवतारकारणम् ॥७६॥
तमपूज्य मम पूजा यदि स्यात् तेऽपराधनम् ।
ततोऽहं विलयं प्राप्तः पूर्वं तं त्वं प्रपूजय ॥७७॥
ततो मां सम्पूजयाऽत्र तेन तुष्टो भवामि ते ।
मम मूर्ति स्थापयाऽत्र त्वश्वपट्टसरस्तटे ॥७८॥
मन्दिरे शोभने तत्र निवत्स्ये कृष्णसन्निधौ ।
उद्यानस्य प्ररक्ष्यार्थं वन्यरक्षार्थमित्यपि ॥७९॥
ततोऽहं वै त्वया सार्धमागमिष्यामि नाऽन्यथा ।
इत्युक्तो राधिके राजा व्योमवाणीं प्रपूज्य च ॥८०॥
तूर्णं सैन्यान्तिकं गत्वा वारयामास तान् पशून् ।
वीक्ष्य भग्नं समुद्यानं परं शोकं जगाम सः ॥८१॥
वृत्तान्तं सैन्यपालेभ्यो विनिवेद्य ततो द्रुतम् ।
आज्ञाप्योद्यानरक्षार्थं नवोद्यानाभिक्लृप्तये ॥८२॥
शीघ्रं प्रासादनिर्मित्यै तथाऽऽज्ञां सम्प्रदाय च ।
पूजासामग्रिकायुक्तो बालकृष्णालयं ययौ ॥८३॥
रोलमायान्तमावीक्ष्य हसन् जगाद सत्पतिः ।
रोल! राजन्! कदा त्वस्मिन् क्षेत्रे प्राप्तो भवान् वद ॥८४॥
कश्चिन्निरामयं तेऽस्ति तव सैन्यस्य वै पुनः ।
कच्चित् सुखिनः पशवो मानवा यात्रिकास्तव ॥८५॥
भोजनं मद्गृहे त्वद्य गृहाण त्वं नरेश्वर ।
इत्युक्तो रोलराजः सः विमुच्याऽश्रूणि चाह तम् ॥८६॥
नारायण कृपासिन्धोऽपराद्धं ते मयाऽत्र वै ।
उद्यानो नाशितः सैन्यपशुभिस्तत्क्षमां कुरु ॥८७॥
कारयिष्यामि चोद्यानं कारयिष्यामि मन्दिरम् ।
नृसिंहस्य तव मूर्तेः स्थापनं सर्वदा त्विह ॥८८॥
क्षेत्रोद्यानस्य रक्षार्थं यास्यामि च स्वराष्ट्रकम् ।
तव पूजां विना कृष्ण नृसिंहो मे लयं गतः ॥८९॥
तमिमं मेऽपराद्धं प्रक्षमस्व पुरुषोत्तम ।
इत्युक्त्वा राधिके श्रीमद्बालकृष्णं समार्चयत् ॥९०॥
राजवेषाम्बरभूषागन्धमालाऽक्षतादिभिः ।
दण्डवत् प्रचकाराऽथ नैवेद्यं पिण्डकान् ददौ ॥९१॥
ताम्बूलकं ददौ चापि प्रसादं जगृहे हरेः ।
क्षमितं चेति हरिणा प्रोक्तो निजालयं ययौ ॥९२॥
तावन्नृसिंहभगवान् मूर्तिरूपो निजासने ।
प्रकटीभूय नृपतेः पूजां जग्राह भावतः ॥९३॥
राजाऽपि कारयामास मन्दिरं सुदृढं नवम् ।
नृसिंहं स्थापयामास मन्दिरे वृत्तिकां ददौ ॥९४॥
उद्यानं रोपयित्वा च नियुज्य रक्षकं ततः ।
ययौ चोत्कलदेशं स राधिके कृष्णभक्तिमान् ॥९५॥
एवं नृसिंहतीर्थं तत् सरोवरजलेऽभवत् ।
रोलतीर्थं सुरम्यं तन्मन्दिरं नृहरेस्तथा ॥९६॥
सर्वं तीर्थमयं चाऽभूद् बालकृष्णप्रतापतः ।
तत्र स्नानप्रकर्तारो भुक्तिं मुक्तिं शुभां गतिम् ॥९७॥
यास्यन्त्येव हि दातारो फलानां शाखिरोपिणः ।
पुष्पस्तबकरोपाश्च महोद्यानविधायिनः ॥९८॥
प्रयास्यन्ति हि ते सर्वे ब्रह्मधामाऽक्षरं घ्रुवम् ।
वृक्षमूले जलसेकप्रकर्तारोऽपि मानवाः ॥९९॥
स्वर्गं प्राप्य चिरं भुक्त्वा यास्यन्ति त्वक्षरं मम ।
पठनाच्छ्रवणाच्चास्योद्यानरोपफलं भवेत् ॥१००॥
अश्वपट्टसरःक्षेत्रे यत्र क्वापि क्षितौ तटे ।
वृक्षवल्लीरोपिणो ये ते यास्यन्ति परां गतिम् ॥१०१॥
अवंशा वंशमाप्स्यन्ति निर्धना धनिनस्तथा ।
अरसा रसपूर्णाश्च भविष्यन्ति द्रुपालनात् ॥१०२॥
धनधान्यसमृद्धाश्च फलमिष्टान्नभोजिनः ।
भविष्यन्ति वृक्षरोपादश्वपट्टसरोन्तिके ॥१०३॥
राधिके वृक्षपातारो भवन्त्येते मम प्रियाः ।
वनेषु वल्लवीव्राते फले पुष्पे वसाम्यहम् ॥१०४॥
वृक्षरक्षकलोकानां गृहे लक्ष्मीसमन्वितः ।
वसाम्यहं न सन्देहस्तन्नाशेऽपसरामि हि ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कार्तिकैकादशीव्रतेन पुण्डरीकनृपतेर्हंसरूपहरिं प्राप्तस्य मोक्षः, अश्वपट्टसरसि हंसतीर्थम्, चोलराज्ञाऽपि नृसिंहयोगेनाऽश्वपट्टसरस्तीरे नृसिंहस्थापनं नृसिंहतीर्थं चेत्यादिनिरूपणनामा नवत्रिंशदधिकद्विशततमोऽध्यायः ॥२३९॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP