त्रेतायुगसन्तानः - अध्यायः १७
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु राधे च ते दैत्या यदा गृहं न चाययुः ।
तत्पत्न्यो दैत्यसैन्यस्याऽन्वेषणार्थं समाययुः ॥१॥
अयुतं श्रावणे मासे वर्षान्विते स्थले तदा ।
कुंकुमवापिकाक्षेत्रे जलादिसंप्लुते शुभे ॥२॥
समागत्य हि दैत्यानां पत्न्यो व्योमप्रदेशतः ।
व्यपश्यन् रमणीयं चारण्यस्थं महदाश्रमम् ॥३॥
कोटिकन्याश्रयं चापि लोमशर्षिनिषेवितम् ।
केचिद् वैखानसास्तत्र केचिदासन्निरासनाः ॥४॥
यायावरास्तथा चान्ये वानप्रस्थास्तथाऽपरे ।
शालीनाश्च तथा केचित् कापोतीं वृत्तिमाश्रिताः ॥५॥
तथा चान्ये श्रिता वृत्तिं सर्वभूतदयां शुभाम् ।
शिलोच्छाश्च तथैवाऽन्ये काष्ठपात्रादनाः परे ॥६॥
अपाकपाचिनः केचित् पाकिनश्च क्वचित्पुनः ।
नानाविधिधराः केचिज्जितात्मानस्तु केचन ॥७॥
स्थानमौनव्रताः केचित्तथाऽन्ये जलशायिनः ।
तथोर्ध्वशायिनश्चान्ये तथाऽन्ये मृगचारिणः ॥८॥
पञ्चाग्नयस्तथा केचित् केचित् पर्णफलाशिनः ।
अब्भक्षा वायुभक्षाश्च तथाऽन्ये शाकभक्षिणः ॥९॥
अतोऽन्येऽप्यतितीव्रां वै तपश्चर्यां प्रपेदिरे ।
यत्रारण्ये साधवश्च साध्व्यो वसन्ति कोटिशः ॥१०॥
यत्राऽऽश्रमे हरेः पत्न्यः कोटिकन्या वसन्ति च ।
यत्र मोक्षप्रदा त्वास्ते दिव्या कुंकुमवापिका ॥११॥
यत्र दिव्यं त्वश्वपट्टसरोवरं प्रवर्तते ।
स देशो दिव्यतासम्पादको यत्र हरेर्महान् ॥१२॥
प्रासादो विद्यते रम्यो गोलोकादधिकोज्ज्वलः ।
यत्र श्रीकम्भरालक्ष्मीर्यत्र गोपालकृष्णकः ॥१३॥
राजन्ते श्रीबालकृष्णान्विताः समन्ततः प्रजाः ।
तादृशः स महादिव्यो नन्दनोपवनद्युतिः ॥१४॥
प्रदेशो वीक्षितस्ताभिर्दैत्याभिर्व्योममार्गतः ।
वज्रस्फटिकपाषाणः प्रवालांकुरशर्करः ॥१५॥
नीलाऽमलमृत्तिकाढ्यो जलनिर्झरशोभितः ।
विचित्रकुसुमोपेतैर्लतामञ्जरीधारिभिः ॥१६॥
रेजे यः प्रांशुभिर्वृक्षैरुल्लिखद्भिरिवाऽम्बरम् ।
स्थल्यस्तत्राऽधिकं रेजुर्नानाधातुपरिस्रवैः ॥१७॥
विचित्रकुसुमोपेताश्चित्रिता इव सर्वतः ।
तासु केतकिखण्डाश्च कुन्दषण्डाश्च पुष्पिताः ॥१८॥
उन्मीलिता इवाऽऽभान्ति धातकीवनराजिभिः ।
भिन्नेन्द्रनीलविमलैर्धौतैः प्रस्रवणाम्बुभिः ॥१९॥
चित्रैः कुसुमसंछन्नैर्धातुप्रस्तरविस्तरैः ।
क्रीडद्भिर्देवमिथुनैर्नृत्यद्भिश्चाप्सरोगणैः ॥२०॥
कूजद्भिः शिखिभिर्मत्तैः शोभितो देश उज्ज्वलः ।
कल्हारकुसुमोपेतो हंससारससेवितः ॥२१॥
प्रसन्नसलिलाकीर्णः सरोभिः फुल्लपंकजैः ।
सिंहयूथानुकीणाभिर्जुष्टाभिर्मृगपक्षिभिः ॥२२॥
सेविताभिर्मुनिगणैः स्थालीभिरुपशोभितः ।
किन्नरोद्गीतललितः परपुष्टानिनादितः ॥२३॥
विद्याधरशताकीर्णो देवगन्धर्वसेवितः ।
धारापातैश्च मेघानां विस्फुल्लिंगैः सहस्रशः ॥२४॥
प्रकाशितो मुहुर्मृदुरम्यहरितशाद्वलः ।
सर्वर्तुकवनोद्यानः पुष्पाकरसुशोभितः ॥२५॥
यज्ञकिम्पुरुषावासो गुह्यकानामथाश्रयः ।
मुक्तानां पार्षदानां वैष्णवानां वासशोभनः ॥२६॥
वरदो यत्र भगवान् कृष्णनारायणः प्रभुः ।
सर्वामरगुरुर्देवो नित्यं सन्निहितो हरिः ॥२७॥
भक्तानुकम्पी स श्रीमान् चाध्यास्ते पार्षदैः सह ।
विमानयायिनः सर्वे यं देवं परमेश्वरम् ॥२८॥
आयान्ति सेवितुं देवा वरेण्यमजमच्युतम् ।
अन्ये देवनिकायाश्च सेवितुं प्रपतन्ति यम् ॥२९॥
तदधिष्ठानरूपोऽयं देशः स्त्रीभिर्विलोकितः ।
दैत्याभिर्वीक्षितो देशः श्रावणेऽतिमनोहरः ॥३०॥
वृक्षशाखासु कन्याभिश्चान्दोलितो हरिः पतिः ।
प्रतिद्रुलम्बिदोलायां वीक्षितः परमेश्वरः ॥३१॥
आश्चर्यं ता गता दृष्ट्वा पतिनाशकरं हरिम् ।
चुक्रुधुश्चाति तं कृष्णं हन्तुं पेतुर्द्रुमे द्रुमे ॥३२॥
यद्यद्द्रुमस्य शाखायां प्रेंखा कृष्णस्य लम्बते ।
स स वृक्षोऽभवद् देवो वृक्षरूपी प्रसेवकः ॥३३॥
स स वृक्षोऽभवत् द्राक् च शस्त्रधृक् देवपूरुषः ।
रक्षितुं तं भगवन्तं हन्तुं ता दैत्ययोषितः ॥३४॥
आकाशे एव राक्षस्यो युद्धं देवैर्व्यधुस्तदा ।
भिन्दीपालैस्तोमरैश्च मूशलैरस्थिहेतिभिः ॥३५॥
वृक्षशाखाभिरुग्राभिर्वंशैः प्रस्तरकण्टकैः ।
पाषाणैर्यष्टिभिश्चापि केशाकेशि ततः पुनः ॥३६॥
देवा वृक्षा राक्षसीभिर्युयुधुर्न च जीवतः ।
न जघ्नुर्मर्मभागेषु कोमलांगेषु नैव च ॥३७॥
स्त्रीजातिं न विहन्याद्वै मत्वैवं प्राणतो न ताः ।
नाशयामासुरुग्रास्तास्ततः कन्याभिरेव च ॥३८॥
स्मृतः कृष्णप्रभुर्ज्ञात्वा नारीर्युद्धप्रमर्दिनीः ।
द्रागेव भगवाँस्तत्र द्वेधा भूत्वा समागतः ॥३९॥
काललक्ष्मीरूपधरः सर्वशस्त्रान्वितः प्रभुः ।
सहस्रभुजवान् हस्तिस्थितो व्योम्ना समाययौ ॥४०॥
श्वेतो हस्तिः पक्षयुक्तो जगर्ज त्वम्बरे यदा ।
प्रतिध्वन्या स्फुटकर्णा राक्षस्यो विह्वलास्तदा ॥४१॥
मूर्छामवापुराकाशे निपेतुर्वनभूतले ।
अन्यास्तु दुद्रुवुर्हस्तिनं तु नाशयितुं हरिः ॥४२॥
काललक्ष्मीस्वरूपस्ता जघान जीवतस्तदा ।
म्रियमाणा द्विधा छिन्ना भिन्नाः पेतुर्मृताः स्त्रियः ॥४३॥
तासामात्मा काललक्ष्म्या लयं यातो मुहुर्मुहुः ।
किशोरश्चापररूपः कृष्णनारायणस्तदा ॥४४॥
कन्यकामध्यवर्ती च विरेजे लोमशाश्रमे ।
काश्चिद् दैत्ययूथपत्न्यो हस्तिना शुण्ढया हताः ॥४५॥
अन्याः शस्त्रैर्हता लक्ष्म्या निःशेषा नष्टतां गताः ।
मृतास्ता दिव्यतां प्राप्ता यथा देव्यो विरेजिरे ॥४६॥
मुभुहुः श्रीकृष्णानारायणं दृष्ट्वा किशोरकम् ।
अर्थयामासुरत्यर्थं परमेश्वरमीश्वरम् ॥४७॥
कान्तो भव सदाऽस्माकं ह्यनाथानां प्ररक्षकः ।
मृता दैत्यगुणैर्हीना जातास्तव प्रतापतः ॥४८॥
कन्यकासु च नो वासं देहि लोमशसन्निधौ ।
सेवां कर्तुं समीहा नः सदा तेऽस्ति कृपाकर ॥४९॥
तथाऽस्त्विति हरिः प्राहाऽयुतदिव्यास्तु कन्यकाः ।
ऊनद्वादशवार्षिक्योऽभवन् कृष्णप्रतापतः ॥५०॥
रूपानुरूपावयवा प्रिया राधारमासमाः ।
ताभ्यो ददौ लोमशश्च मन्त्रं श्रीवैष्णवोत्तमम् ॥५१॥
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
तौलसीं मालिकां कण्ठे ललाटे तिलकं शुभम् ॥५२॥
पीतशाटीर्ददौ हस्ते मालिकां जपसाधनीम् ।
ज्ञानं विद्यां ददौ ताभ्यो वासं ददौ निजाश्रमे ॥५३॥
ताश्च सर्वा बालकृष्णचरणौ दुग्धधारया ।
प्रक्षाल्य च पपुस्तस्य प्रसादान्नं फलादिकम् ॥५४॥
भक्षयामासुरत्याप्तप्रेम्णा दास्येन तास्तदा ।
लोमशश्च ततस्ताभ्यः सर्वाभ्यः शरणागतिम् ॥५५॥
बोधयामास वै षोढा सर्वसमर्पणात्मिकाम् ।
कन्याः! शृणुत सर्वा वै कृष्णार्थकृतनिश्चयाः ॥५६॥
नारीदेहः परार्थोऽस्ति परः श्रीपुरुषोत्तमः ।
तदर्थं सर्वथा भाव्यं नारीभिः पतिभक्तिभिः ॥५७॥
पतिरेव परब्रह्म तारको मोक्षदायकः ।
शतजन्मकृतपुण्यात् कन्या भवति धार्मिकी ॥५८॥
सहस्रजन्मपुण्यैस्तु भवेत् कृष्णार्पिता तु सा ।
लक्षजन्मार्जितपुण्यैः कृष्णपत्नी भवेत् सती ॥५९॥
यूयं सर्वाः कृष्णपत्न्यः कृपया स्थ न संशयः ।
कस्मात् कुतश्च तावद्वै पुण्यमुपार्जितं भवेत् ॥६०॥
हरेर्योगात्पुण्यवार्धिः शेवधिरिव वर्धते ।
कामात् क्रोधाच्च संयोगाल्लोभान्मोहादपि प्रभौ ॥६१॥
तल्लीनास्तदधीनाश्चेत् सर्वं पुण्यमुपार्जितम् ।
एवं यूयं चाद्य जाता लक्ष्मीहस्तगताः स्त्रियः ॥६२॥
वैरेणापि हरेर्योगात् पुण्यं प्राप्ता हि शाश्वतम् ।
अनादिश्रीकृष्णनारायणस्याऽनुग्रहान्मम ॥६३॥
आश्रमे परितो माया नैवाऽऽविशति काचन ।
मायापरोऽयं देशोऽस्ति लोमशस्य ममाश्रयः ॥६४॥
कामक्रोधादिदोषास्तु दोषिणां प्रज्वलन्ति वै ।
ये ममाश्रमभागस्योपरि व्योम्नि प्रयान्ति तु ॥६५॥
उपरितोऽपि गच्छन्ति तेषां नश्यन्ति वै हृदः ।
दोषा रागादयश्चापि पशूनामपि पक्षिणाम् ॥६६॥
देवानां दानवानां च दैत्यानां चापि योषिताम् ।
संसारिणां च संसारो मिथ्याविद्वासनात्मकः ॥६७॥
आमूलतो लयं याति ममाश्रमनिषेवणात् ।
अत्राश्रमे कृतवासा दिव्या भवन्ति देहिनः ॥६८॥
शान्तिस्तेषां सदा दास्ये श्रीकृष्णस्य प्रतापतः ।
यूयं सर्वा हरिं कृष्णं भजथाऽत्र तदाश्रिताः ॥६९॥
हरेः प्राप्तिं विना नान्यद् वाञ्च्छनीयं विशिष्यते ।
तस्य भक्तिं हि कुरुत ध्यानं चरत तस्य वै ॥७०॥
सेवां लभध्वं तस्यैव नित्यं नित्यमतन्द्रिताः ।
गतं पापं गतो भावो दैत्यता वृद्धता गता ॥७१॥
गता भीर्मरणं चापि गतं युष्माकमार्त्तिदम् ।
सर्वं लब्धं च लब्धव्यं प्राप्तव्यं प्राप्तमित्यपि ॥७२॥
कृतं कृत्यं च यावद्वै नाऽतोऽन्यदवशिष्यते ।
सेवध्वं षड्विधं दास्यं हृदि कृत्वा तु कन्यकाः ॥७३॥
विश्वासो माधवे कार्यो यथाऽपत्यस्य मातरि ।
वरदानं वरणं च तस्मिन् कार्यं त्वमेव मे ॥७४॥
सन्न्यासः सर्वथा तस्मिन् कृष्णे देहस्य देहिनाम् ।
कार्पण्यं चापि कैंकर्यं भृत्यवत् परमात्मनि ॥७५॥
सदा स्थैर्यं सुखे दुःखे पातिव्रत्यं न चेतरत् ।
मम कान्तस्याऽनुकूल्यं तदिच्छेच्छा तु मामकी ॥७६॥
प्रातिकूल्यं न मे तस्य तदनिष्टं तु नेष्यते ।
इत्येवं स्वामिसौख्ये स्वसौख्यं मन्येत मानिनी ॥७७॥
स्वामिदुःखे तु याऽशान्ता दुःखिनी भवति ध्रुवम् ।
स्वात्मवद् वर्तते तस्मिन् कान्ते देवे परात्मनि ॥७८॥
सर्वं तस्मै प्रदातव्यं शरणं या समिच्छति ।
स एवाऽत्र पिता पाता स एव जननी जनुः ॥७९॥
कृष्ण एव महान् बन्धुर्भ्राता स्वसा हरिः स्वयम् ।
कृष्ण एव कनिष्ठोऽपि चानुजो दुहिताऽपि सः ॥८०॥
कृष्ण एव पतिः पत्नी स्नुषा वधूर्हरिर्मम ।
कृष्ण एव श्वशुरश्च श्वश्रूर्ननान्दा चात्मजा ॥८१॥
पुत्रः पुत्री सखी मित्रं कृष्ण एव सदा मम ।
कृष्णनारायणो भ्राता राजा भत्यश्च किंकरः ॥८२॥
सेवकश्च गुरुः कृष्णः शिक्षकश्च पुरोहितः ।
दर्शकः सार्थ एवाऽयं गृहं गृहपतिः प्रभुः ॥८३॥
आश्रयः फलदश्चापि मम श्रेष्ठों स माधवः ।
मम क्षेत्रं वाटिका च मम द्रव्यं हरिः स्वयम् ॥८४॥
सम्बन्धी मे केशवः स बालः स बालिका मम ।
मम हृद्यो महीमानः प्राघूणिको मम प्रभुः ॥८५॥
सपत्नी मे सदा कृष्णः सपत्नो मायिके मम ।
मयि द्रष्टा मयि श्रोता मयि स्प्रष्टा जनार्दनः ॥८६॥
घ्राता रसयिता कृष्णो मयि मन्ता हरिः स वै ।
गन्ता मयि ग्रहिता स वक्ताऽऽनन्दयिता मयि ॥८७॥
विसर्जयिता कृष्णः स बोद्धा चिन्तयिता मयि ।
निर्णेता सः प्रापयिता वेत्ता विद्वान् स वै मयि ॥८८॥
तर्पयिता मोदयिता रत्ना मयि हरिः स च ।
गोप्ता चाकर्षयिता च गर्भे कुक्षौ स मे हृदि ॥८९॥
प्राणयिता जीवयिताऽन्तरात्मा मे पुमुत्तमः ।
साक्षी चेता पतिः कृष्णः सर्वाऽहं तन्मयी वधूः ॥९०॥
तस्य सर्वं मयि चाहं तस्मिन् श्रीपरमात्मनि ।
इत्येवं पुत्रिका! यूयं भवताऽस्मिन्निवेदिताः ॥९१॥
यन्मिष्टं यच्च मे हृद्यं यन्माधुर्यं यच्छीतलम् ।
तत्सर्वं मे बालकृष्णश्चैवं भवत दासिकाः ॥९२॥
गोपायन्ति यथा गोप्यं प्रभुर्गोप्यतमो हरिः ।
कान्तः सोऽयं गोपनीयः कर्तव्यं नाऽवशिष्यते ॥९३॥
कान्तार्थं गोपनं सर्वं कान्ताग्रे नैव गोपनम् ।
कान्तवद् भाव्यते कृष्णस्ततः कान्तायते हि सः ॥९४॥
कान्तायते यथा कान्ता कान्तं प्रत्यभिकामुकी ।
कृष्णः कृष्णायते कृष्णां कृष्णं प्रत्यभिकामुकीम् ॥९५॥
अनादिश्रीकृष्णनारायणो युष्मासु वर्तते ।
अभिन्नस्तिष्ठति द्रव्यं शाश्वतं चाव्ययं हि सः ॥९६॥
स एव मिलितश्चाऽत्र गोपालकृष्णमन्दिरे ।
कम्भराश्रीनन्दनः स प्राप्तो युष्मद्व्रतं हि सः ॥९७॥
भोजने शयने स्नाने ध्याने याने समासने ।
विहारे रमणे पाने विश्रामे च प्रवर्तने ॥९८॥
विकृतौ सुकृतौ सौम्ये जुषध्वं तं विषादने ।
निवर्तने च निद्रायां जुषध्वं तं प्रियं पतिम् ॥९९॥
एवं क्रियाकलापं स्वं समर्पयत तत्र वै ।
एतावच्छास्त्रविस्तारश्चैतावत्त्वनुशासनम् ॥१००॥
ओं शान्तिरस्तुविरतिर्भवतीनां नरायणे ।
सर्वकामलयश्चाऽस्तु भवतीनां परात्मनि ॥१०१॥
इत्युपादिश्य मुनिराट् मायाक्षालनसद्बलः ।
कन्याभ्यः स च संवासान् ददौ पर्णालयेषु वै ॥१०२॥
स्वयं ध्याने निमग्नोऽभूत् कन्याभिर्भोजिताश्च ताः ।
पूजिता वन्दिताः स्वागतादिभिश्चाऽभियोजिताः ॥१०३॥
ततस्ता अपि नित्यं वै शुश्रुवुः परमाः कथाः ।
लक्ष्मीनारायणसंहितायाः प्रातः सायं दिने दिने ॥१०४॥
प्रातर्नित्यं पूजयन्ति स्म श्रीकृष्णं पतिं प्रियम् ।
जन्मनः सफलत्वं च कुर्वन्त्येव दिवानिशम् ॥१०५॥
इत्येवं राधिके! तेऽत्र कथितां दिव्यताप्रदाम् ।
पत्यर्थं प्राणदात्रीणां कथां कृष्णनिवेदिनीम् ॥१०६॥
यासु नास्ति सदाचारो यासु नास्ति च सेवनम् ।
भक्तिराराधना यासु नास्ति कृष्णस्य भावनम् ॥१०७॥
तासां तुष्टो हरिश्चायं त्वनुग्रहपरायणः ।
कृपासाध्यो महाराजो ववर्ष सीमतोऽतिगः ॥१०८॥
कर्तुमकर्तुमन्यथाकर्तुं शक्तः परात्परः ।
दैत्यजातीन् देवजातीन् ब्रह्मजातीन् करोति वै ॥१०९॥
पापात्पापतमश्चापि पठनाच्छ्रवणादपि ।
देववन्मुक्तवत् कृष्णपत्नीवत् संप्रजायते ॥११०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कंकतालदैत्यपत्नीनां युद्धे कुंकुमवापिकाक्षेत्रे कृष्णकान्तात्वं लोमशकृतबालकृष्णात्मनिवेदितोपदेशश्चेत्यादिनिरूपणनामा सप्तदशोऽध्यायः ॥१७॥
N/A
References : N/A
Last Updated : April 29, 2021
TOP