त्रेतायुगसन्तानः - अध्यायः ३
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु राधे प्रवक्ष्यामि कथा दिव्या मनोहराः ।
अनादिश्रीकृष्णनारायणस्याऽऽनन्दसंभृताः ॥१॥
सृष्ट्वा श्रीभगवान् कृष्णनारायणपरेश्वरः ।
ईशलोकानगणितान् वैराजाँश्चापि कोटिशः ॥२॥
भूम्नश्च कोटिशः सदाशिवाँश्चापि च कोटिशः ।
ब्रह्माण्डानां तु संख्या वै विद्यते नैव नैव च ॥३॥
देवान् दैत्यान् राक्षसाँश्च मुनीन् ऋषीन् सतः सतीः ।
सूर्यचन्द्रान् ग्रहान्नागान्नगान्नदीः सरीसृपान् ॥४॥
स्थावरान् जंगमाँश्चापि लोकान् लोकप्ररक्षकान् ।
धामानि धामपालाँश्च धामेश्वराँश्च धामिनः ॥५॥
ब्रह्माण्डानामीश्वराँश्च रक्षकान् वासभूमिकाः ।
सर्वं सृष्ट्वा परब्रह्मान्तर्यामी तत्र यद्यपि ॥६॥
वर्तते सर्वथा देवस्तथापि दृष्ट्यगोचरः ।
यावन्नैव विभात्येषां तावच्छान्तिर्न जायते ॥७।
एवमेव विचार्यैवाऽनादिकृष्णनरायणम् ।
प्रार्थयामासुरेवैतेऽवतारा ईश्वराः सुराः ॥८।
स्वस्वधामसु लोकेषु नैजेष्वपि च भूमिषु ।
प्रत्यक्षदर्शनार्थाय तदा श्रीपुरुषोत्तमः ॥९॥
परे धाम्नि स्थितश्चापि प्रार्थितोऽक्षरधामिभिः ।
अक्षराधिपतिर्भूत्वा द्विबाहुश्चाक्षराधिपः ॥१०।
अक्षराख्ये महासिंहासने द्वितीयरूपवान् ।
वर्तते त्वक्षरे धाम्नि चाक्षरेण प्रपूजितः ॥११॥
अक्षरे वर्तमानानां मुक्तानां भावनानुगः ।
तत्कृतार्चनभोज्यादि गृह्णाति त्वक्षराधिपः ॥१२॥
दिव्यरूपः स भगवान् राजतेऽक्षरधामनि ।
नैजद्वितीयरूपेणाऽक्षरवासिप्रकाम्यया ॥१३॥
भक्तानन्दप्रदानार्थं मुक्तानुग्रहकाम्यया ।
अक्षरेषु च मुक्तेषु राजते पुरुषोत्तमः ॥१४॥
अथ राधे मया त्वत्राऽर्थितः स भगवान् प्रभुः ।
गोलोके राजते कृष्णनारायणो मदिच्छया ॥१५॥
मया प्रपूज्यते नित्यमनादिश्रीनरायणः ।
मम देवगृहे राधे पश्य मूर्ति सनातनीम् ॥१६॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इतिजापं करोम्येव स्मरामि पुरुषोत्तमम् ॥१७॥
मदर्थे च त्वदर्थे च गोप्यर्थे पुरुषोत्तमः ।
गोपार्थं मम धामार्थं तृतीयरूपधारकः ॥१८॥
अनादिश्रीकृष्णनारायणस्त्वत्र हि वर्तते ।
गोलोकवासिभक्तानां पूजासंग्रहणाय सः ॥१९॥
दर्शनस्य प्रदानार्थं विराजते परेश्वरः ।
एष श्रीभगवान् साक्षाच्चतुर्थरूपधारकः ॥२ ०॥
वैकुण्ठे राजते लक्ष्मीनारायणसमर्चितः ।
नारायणेन पूजार्थं प्रार्थितः पुरुषोत्तमः ॥२१॥
तद्धामवासी भवति सहानन्दप्रदायकः ।
मत्स्यधाम्नि तथा कूर्मधाम्नि वाराहधाम्नि च ॥२२॥
कपिलस्यापि धाम्न्येषो राजते पूजितः स्वयम् ।
हरेरव्याकृते धाम्नि वासुदेवस्य धामनि ॥२३॥
संकर्षणगृहे प्रद्युम्नस्य गृहे विराजते ।
अनिरुद्धगृहे चापि महापुरुषपत्तने ॥२४॥
महाकालालये मायाधाम्नि सदाशिवालये ।
विष्णोः समालये स्वामी महाविष्णोस्तथाऽऽलये ॥२५॥
विराजते च प्रकृतिपूरुषस्य गृहेऽपि च ।
प्रधानपुरुषाऽऽगारे भूम्नो धाम्न्यपि राजते ॥२६॥
महाविष्णोस्तथा धाम्नि वैराजधाम्नि राजते ।
तैस्तैः सम्प्रार्थितश्चायं परेश्वरनरायणः ॥२७॥
पूजितो वन्दितस्तैश्च सेवितो हरिरस्ति सः ।
ब्रह्मविष्णुमहेशानां लोकेषु भवनेषु च ॥२८॥
जलोपर्यपि वैकुण्ठे राजते श्रीहरिः स्वयम् ।
प्रार्थितः स तु भगवान् ऋषिभिः पितृभिस्तथा ॥२९॥
द्विभुजो राजते तेषां लोकेष्वपि गृहेष्वपि ।
सुरैश्चेन्द्रादिभिश्चापि मुहुः सम्प्रार्थितः प्रभुः ॥३०॥
पृथोर्धाम्नि तथा दत्तात्रेयधाम्न्यपि राजते ।
हंसधाम्नि नृसिंहस्य धाम्नि ऋषभधामनि ॥३१॥
वामनस्यालये पर्शुरामधाम्नि विराजते ।
यज्ञधाम्नि रामधाम्नि सनत्कुमारधामनि ॥३२॥
हयग्रीवाश्रमे नारदस्य लोके विराजते ।
राजराजस्य च राजधान्यां संराजते प्रभुः ॥३३॥
व्यासधाम्नि बुद्धधाम्नि चेशधाम्नि विराजते ।
वारुणे पत्तने वासे कौबेरे चेन्द्रधामनि ॥३४॥
यमधाम्नि च नैर्ऋते लोकेऽनिलस्य धामनि ।
वह्निलोके सूर्यवासे चान्द्रलोके विराजते ॥३५॥
ध्रुवधाम्नि तथा शुक्रालये च मंगलालये ।
बुधालये बृहस्पतेराश्रये शनिमण्डले ॥३६॥
ग्रहैस्त्वाराधितस्तत्र नक्षत्रैरर्थितस्तथा ।
ताराभिर्वन्दितः कृष्णनारायणो विराजते ॥३७॥
मेरौ द्विपेषु सर्वेषु सामुद्रद्वीपकेषु च ॥
अलोकेषु च लोकेष्वन्तरीक्षे व्योमवासिषु ॥३८॥
नगवासिष्वपि कृष्णनारायणो विराजते ।
तीथेंषु तोयपूर्णेषु पार्थिवेषु गृहेष्वपि ॥३९॥
चैत्येष्वायतनेष्वीशः स्थानिभिस्त्वर्थितो मुहुः ।
आहूतः पूजनार्थं दर्शनार्थं सदा गृहे ॥४०॥
वासं करोति भगवान् कृष्णनारायणो हरिः ।
तत्तत्स्थानालयवासपत्तनस्थलभूमिषु ॥४१॥
मूर्तिरूपो महाराजो द्विभुजश्चातिसुन्दरः ।
किशोरभावमाश्रित्य प्रोद्भिन्नयौवनोऽपि च ॥४२॥
यथाभक्तास्तथा भूत्वाऽऽनन्दप्रदो विराजते ।
राजानं च लोकेषु तथा स्वर्गादिधामसु ॥४३॥
वसूनामाश्रमेष्वेवाऽऽदित्यानां मण्डलेष्वपि ।
रुद्राणामाश्रमेष्वेवाऽश्विनीकुमारधामनि ॥४४॥
धन्वन्तरेर्गृहे चाब्धौ क्षीरसागरकेऽपि च ।
श्वेतद्वीपे बदर्यां च माहेन्द्रे रैवते गिरौ ॥४५॥
द्विभुजः स सदाऽऽस्ते श्रीभगवान् पुरुषोत्तमः ।
दिव्यक्षेत्रेष्वरण्येषु वनेषूपवनेष्वपि ॥४६॥
भक्तैः सम्प्रार्थितः सोऽयमवतीर्य विराजते ।
पाताले सुतले लोके नागेष्वप्यसुरेष्वपि ॥४७॥
अतले वितले चास्ते तलातले रसातले ।
महातलेऽपि तत्रत्यैः प्रार्थ्यमानो विराजते ॥४८।
भुवर्लोके हरिकृष्णो भूतप्रेतपिशाचकैः ।
यक्षराक्षसकूष्माण्डविनायकैः समर्थितः ॥४९।
तथाऽन्यैर्वल्लिकाद्यैश्च द्रुमैः स्तम्बैस्तृणादिभिः ।
प्रार्थितः परमात्माऽयं राजते तद्गृहे हरिः ॥५०।
शेषगृहे कमठस्य गृहे दानवदैत्ययोः ।
गृहयोः राजते स्वामिकृष्णनारायणोऽर्चितः ॥५१॥
भक्तानां भवने राधे! भक्तानां हृदयेषु च ।
अनादिश्रीकृष्णनारायणस्वामी विराजते ॥५२॥
मुक्तानीनां भवनेषु दासीनां भवनेष्वपि ।
ईशनीनां च राज्येषु देवीनां भवनेषु च ॥५३॥
पतिव्रतानां सौधेषु साध्वीनां चाश्रामेषु च ।
आलयेषु गृहिणां च गह्वरा सुंदरीष्वपि ॥५४॥
योगिनां च सतामाश्रमेषु गृहेषु राजते ।
कुमारीणां हृदयेषु योगिनीनां गृहेष्वपि ॥५५॥
मातॄणां च निवासेषु सखीनां मण्डपेष्वपि ।
शयनेषु प्रियाणां च कान्तः स्वामी विराजते ॥५६॥
तत्तल्लोकीयवसतिप्रार्थितो भगवान् हरिः ।
अनादिश्रीकृष्णनारायणस्तेषां समीहया ॥५७॥
तेषामिष्टप्रपूर्त्यर्थं द्विभुजः परमेश्वरः ।
यथा भक्ताभिलषितरूपशीलगुणाश्रयः ॥५८॥
दिव्यरूपधरो देवो राजते श्रीमहाप्रभुः ।
सर्वैरुपास्यते सोऽयं सर्वैराराध्यते च सः ॥५९॥
सर्वैः संस्मर्यते प्रातः सर्वैः सम्पूज्यते सदा ।
सर्वैः समर्थ्यते तस्मिन् सर्वं नैजं यदर्थितम् ॥६०॥
सर्वे तस्मात् समिच्छन्ति ऋद्धिविभूतिसम्पदः ।
तं विना नान्यसंयत्तं चेष्टं भवति कस्यचित् ॥६१॥
स्मृतः स एव विषमे समे समुपतिष्ठति ।
सृष्टौ सृष्टौ समुत्पन्ना ईशाः सुराश्च मानवाः ॥६२॥
प्रार्थयन्ति स्म रक्षार्थं ब्रह्माण्डानां महापदि॥
तेषामापद्विनाशार्थं तदा तत्राऽभिजायते ॥६३॥
कदाचित् कृपया लोके भक्ताधीनः प्रजायते ।
कृपा तु कारणं मुख्यं जीवानां स्वस्य योगदः ॥६४॥
कृपया याति भात्येव साक्षाद् भवति देहिनाम् ।
एवं कृत्वा कृपा सर्वब्रह्माण्डेषु पुमुत्तमः ॥६५॥
सृष्ट्यारंभे समायाति ब्रह्माण्डस्थितसदृशः ।
क्वचिद्देवे क्वचित्त्वार्षे मानवे च कुले क्वचित् ॥६६॥
क्वचित् पाशवसञ्चारे कामरूपधरः क्वचित् ।
स्थले जले दिवि चैत्येऽरण्ये गृहे नभस्तले ॥६७॥
भवने च रणे वापि यथेष्टं सः प्रजायते ।
वासं करोति कार्यार्थं भक्तानां भावना यथा ॥६८॥
राधे यत्र यमुनाऽस्ति यत्र गंगा प्रवर्तते ।
यत्र रैवतशैलश्च नरनारायणाश्रमः ॥६९॥
यत्र खण्डत्रयं चास्ते गोलके खण्डिते पुरा ।
तत्राऽयं कृपया स्वामी कृष्णनारायणो हरिः ॥७०॥
कुंकुमवापिकाक्षेत्रे चाश्वपट्टसरोवरे ।
आद्ये युगे जनिं लेभे गोपालकंभरागृहे ॥७१॥
अहं यत्र समुत्पन्नो वसुदेवगृहे तथा ।
त्वं च यत्र समुत्पन्ना वृषभानुकलागृहे ॥७२॥
शतसाहस्रक्रोशात्मा गोलकः खण्डगोलकः ।
पावितः श्रीकृष्णनारायणेनाऽनादिना हि सः ॥७३॥
मास्यूर्जे चाद्यपक्षे च कृष्णाष्टमीदिने प्रभुः ।
प्रास्तत्र समुत्पन्नः कंभराशयने हरिः ॥७४॥
सर्वरक्षणकार्यार्थं सर्वसौभाग्यसिद्धये ।
यावन्मांगल्यदानार्थं पावनार्थं च देहिनाम् ॥७५॥
यदेयेष हरिस्तत्र कृपया गन्तुमीश्वरः ।
आनर्तं पार्षदं स्वस्य प्रेषयामास भूतले ॥७६॥
मह्यं चाज्ञापयामास मणेर्दानार्थमेव सः ।
मयाऽर्पितो मणिस्तस्मायानर्ताय महात्मने ॥७७॥
तेन दिव्यः कृतो लोकः सौराष्ट्रः पश्चिमे भुवः ।
पत्नीव्रतो द्विजस्तत्र कृष्णोऽहं प्रेषितस्तदा ॥७८॥
महालक्ष्मीः प्रेषिता च महाविष्णुश्च वै तथा ।
त्वं च राधा महालक्ष्मीरूपिणी संबभूविथ ॥७९॥
पतिव्रता महाभागा बहुवर्षतपस्विनी ।
अहं पत्नीव्रतश्चापि गोपालकृष्णसंज्ञकः ॥८०॥
जातस्तत्र दिव्यविप्रो वेदशास्त्रप्रवर्तकः ।
मया गर्भः प्रदत्तस्ते कम्भरायै तदा प्रिये ॥८१॥
दिव्यं तद्गर्भदानं वै वायुपूरणमात्रकम् ।
दृश्यमात्रं गर्भवासं दधार कम्भरा तदा ॥८२॥
संकल्पमात्रजा सृष्टिस्तस्मिन् युगे बभूव ह ।
का कथा गर्भवासस्य रीतिवद् वर्णनं मम ॥८३॥
हरिः संकल्पितस्तत्र त्वाजगाम स सुन्दरि ।
निवासमाचरत् पितृहृदि मातृप्रकुक्षिके ॥८४॥
दर्शनं प्राददाद् बालो यथा जन्म समालभेत् ।
शय्या समुज्ज्वला तत्र जाता दिशः समुज्ज्वलाः ॥८५॥
अवताराः समागत्य यत्प्रमुख्याः प्रवर्षणम् ।
पुष्पाणां चन्दनानां च लाजानां चक्रुरादरात् ॥८६॥
धामधामनिवासिन्यः सख्यस्तत्र तदाऽऽगताः ।
गीतीश्चक्रुर्मिष्टकण्ठैर्गीयमानाः प्रमीलिताः ॥८७॥
वर्धयामासुरीशेशं पूर्णं ब्रह्मपतिं प्रभुम् ।
देव्यश्च कन्यकाः सृष्टेः सर्वशस्तत्र चागताः ॥८८॥
दृष्ट्वा मुखं हरेस्ताश्च प्रसन्नहृदया मुहुः ।
ददुश्चाशिष एवाऽस्मै कृष्णनारायणाय ताः ॥८९॥
ईश्वरा लोकपालाश्च मुक्ताः सुरेश्वराः सुराः ।
ब्रह्मसरसस्तथा चाप्सरसः सर्वा आययुः ॥९०॥
नमस्कृत्य प्रभुं कान्तं नर्तनं चक्रुरादरात् ।
गान्धर्व्यो देवगान्धर्व्यश्चारण्यः किन्नरीगणाः ॥९१॥
विद्याधर्यः समायाता गोप्यो मुक्तान्य इत्यपि ।
वाद्यानि वादयामासुर्जहृषुर्वीक्ष्य तं प्रभुम् ॥९२॥
भूवासिन्यः समायाता मानव्यः कृतमंगलाः ।
दृष्ट्वा युयुजुः सौम्याभिर्वाग्भिस्तं पुरुषोत्तमम् ॥९३॥
नागिन्यश्चान्यदेव्यश्च तिर्यङ्मानवयोनिजाः ।
अन्या दिव्या अदिव्याश्च तृणादिस्थाः समागताः ॥९४॥
वीक्ष्य कान्तं परं कान्तं बालरूपं महाप्रभुम् ।
आनन्दं लेभिरे सर्वा वर्धयामासुरक्षतैः ॥९५॥
पृथ्व्यां तदुत्सवस्तत्र सर्वत्राऽभून्महोज्ज्वलः ।
ख्यातः सर्वत्र भुवने ब्रह्माण्डेऽन्यासु सृष्टिषु ॥९६॥
अनन्तमस्तका लक्षमस्तकाः कोटिमस्तकाः ।
शतायुतसहस्रादिमस्तकाः परमेष्ठिनः ॥९७॥
विष्णवश्च तथा रुद्रास्तत्पत्न्यश्चापि कोटिशः ।
वीक्षणार्थं चाययुर्वै प्रभोः कुंकुमवापिकाम् ॥९८॥
कृत्वा ते दर्शनं प्राप्य चाशिषः सुखमाव्रजन् ।
अनादिश्रीकृष्णनारायणः श्रीभगवाँस्तदा ॥९९॥
परमाक्षरधामस्थं दर्शयामास वै जनान् ।
दिव्यरूपं परधामस्थितं द्विभुजमुत्तमम् ॥१००॥
कोटिकृष्णस्वरूपं च कोटिनारायणात्मकम् ।
कोटिवैराजरूपं च महाविष्णुसहस्रकम् ॥१०१॥
अनन्तशक्तिसामर्थ्यगुणजुष्टं मनोहरम् ।
द्विभुजं च किशोरं च दर्शयामास चेश्वरान् ॥१०२॥
राधे! चैवं दिव्यरूपं प्रदर्श्य बालरूपताम् ।
पुनश्च दर्शयामास पुपूजुस्तं महेश्वराः ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीपुरुषोत्तमनारायणस्य सर्वसृष्टिषु समूर्ततया वर्तमानता सौराष्ट्रे कुंकुमवापिकाक्षेत्रे कृपया प्राकट्यं चेत्यादिनिरूपणानामा तृतीयोऽध्यायः ॥३॥
N/A
References : N/A
Last Updated : April 02, 2021
TOP