संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १९९

त्रेतायुगसन्तानः - अध्यायः १९९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके श्रीमद्बालकृष्णो हरिः स्वयम् ।
लेपराष्ट्रनृपं सैन्यसहितं भुव्यलोकयत् ॥१॥
स्वागतार्थं स्थितं नैजे महोद्यानेऽतिविस्तृते ।
राजदर्शितमार्गेण भगवान् कृष्णवल्लभः ॥२॥
विमानमम्बरात् पृथ्व्यां मुरमाषापुरीतटे ।
विशाले रम्यभागे चावातारयत् सुशोभिते ॥३॥
अन्यान्यपि विमानानि चावतेरुः समीपतः ।
तदा वाद्यान्यवाद्यन्त जयनादास्तथाऽभवन् ॥४॥
गौरीणां गीतिकाश्चासन् प्रजानां हर्षघोषणाः ।
विमानाच्च हरिः शीघ्रं बहिस्तत्र समाययौ ॥५॥
राज्ञा च प्रजया राज्ञ्या महर्षिणाऽर्चितः प्रभुः ।
हारैः सुशेखरैः पुष्पैश्चन्दनैरक्षतादिभिः ॥६
अन्येऽपि पूजितास्तत्र महीमानाः प्रजाजनैः ।
नरयाने हरिं राजा निषाद्याऽन्यान् गजादिषु ॥७॥
मुरमाषानगर्यां चाऽभ्रामयद् बहुमानतः ।
राजवंशः प्रधानाश्च श्रेष्ठिनः पण्डिता अपि ॥८॥
नरा नार्यो गोपुरादौ राजमार्गे सुसंगमे ।
चत्वरादौ च शालासु पूजयामासुरादरात् ॥९॥
बह्वीभिस्तूपदाभिश्च स्वर्णरत्नविभूषणैः ।
अनेकदिव्यभूषाभिः कम्बलैश्च धनैस्तथा ॥१०॥
स्थले स्थले प्रचक्रुस्ते नीराजनं समर्हणम् ।
गौर्यः पुष्पादिभिः कृष्णं वर्धयामासुरीश्वरम् ॥११॥
एवं भ्रमित्वा नगरीं राजसौधं स आययौ ।
सभां कृत्वा जनानाह भगवान् हितकारकः ॥१२॥
सच्चिदानन्दरूपो वै परमेशः सनातनः ।
पूजनीयो भजनीयो मानवैर्मोक्षकांक्षिभिः ॥१३॥
सत्यं व्रतं परं साधु न सत्याद् विद्यते परम् ।
हानिदं सत्यमेवापि वक्तव्यं न कदाचन ॥१४॥
अहिंसार्थाय भूतानां धर्मप्रवचनं कृतम् ।
धारणाद् धर्म इत्याहुर्धर्मेण विधृताः प्रजाः ॥१५॥
यः स्याद्धारणसंयुक्तः स धर्म इतिनिश्चयः ।
यः स्यादहिंसासंयुक्तः स धर्म इतिनिश्चयः ॥१६॥
हिंसायां सत्यवचनेऽनृतं धर्म इतिस्थितिः ।
अनृतेऽपि च हिंसायां धर्म इतिस्थितिः ॥१७॥
सत्येऽनृते वा हिंसायां मौनं धर्म इतिस्थितिः ।
जीवरक्षा सत्यशिष्टा सत्यं ब्रह्म यतो मतम् ॥१८॥
चौरेभ्यो न धनं वाच्यं सत्यं तत्र न भूषणम् ।
तेभ्यः सत्यं न चाख्येयं स धर्म इतिनिश्चयः ॥१९॥
अकूजनेन चेन्मोक्षो नाऽवकूजेत् कथंचन ।
अवश्यं कूजितव्ये वा स्वल्पं चानृतमिश्रितम् ॥२०॥
धर्म एव भवेत्तत्र श्रेयस्करं तदाऽनृतम् ।
शपथोऽपि प्रवक्तव्यो यदि चौरैः प्रमुच्यते ॥२१॥
प्राणात्यये विवाहे चानृतं सत्यं तदुच्यते ।
अर्थस्य रक्षणार्थाय परस्य प्राणधारणे ॥२२॥
अनृतं सत्यमेवाऽस्ति धर्मतत्त्वं निगूढकम् ।
साधुभ्यो नाऽनृतं वाच्यं तारकास्ते हि देहिनाम् ॥२३॥
तेष्वनृतं सदा पापं सत्यपूतं ततो वदेत् ।
सत्यं ब्रह्मस्वरूपं वै व्रतं श्रेष्ठतमं मतम् ॥२४॥
कर्मणा मनसा वाचा सत्यं धर्मं समाचरेत् ।
सत्यव्रतस्य दुःखानि नोपयान्ति कदाचन ॥२५॥
संयतात्मा वितृष्णश्च दुःखदुर्गं तरत्यपि ।
दंभाचारविहीनश्च विषयाणां विनिग्रही ॥२६॥
अहिंसको नातिवादी दुःखदुर्गे तरत्यपि ।
दाता याचकताहीनोऽतिथिसंपूजकस्तथा ॥२७॥
अनसूयोऽतिसेवाकृत् मातापित्रोर्गुरोः सताम् ।
पापहीनो न्यायवृत्तिर्दुःखदुर्गं तरत्यपि ॥२८॥
सत्यव्रतोऽन्यकष्टस्य निवारकः शुचिः स्थिरः ।
कुहकेन विहीनश्च दुःखदुर्गं तरत्यपि ॥२९॥
तापसो ब्रह्मवर्चस्कः शान्तः सत्त्वातिवर्तनः ।
त्रासशून्योऽभयदश्च दुःखदुर्गं तरत्यपि ॥३०॥
समदृष्टिश्च सर्वत्र परश्रीवर्धकस्तथा ।
ग्राम्यार्थविनिवृत्तश्च दुःखदुर्गं तरत्यपि ॥३१॥
सर्वदेवनमोयुक्तः सदा कृष्णकथाश्रवः ।
श्रद्धधानः शान्तचित्तो दुःखदुर्गं तरत्यपि ॥३२॥
अमानी मानदो मान्यो देवर्षिपितृपूजकः ।
अक्रोधः क्रोधशमनो दुःखदुर्गं तरत्यपि ॥३३॥
जितजिह्वो जितशिश्नो जितनारायणोऽपि च ।
जिततृष्णो जितवृत्तिर्दुःखदुर्गं तरत्यपि ॥३४॥
यत्राऽहं पद्मरक्ताक्षः पीतवासा जनार्दनः ।
सुहृद् भ्राता च मित्रं च सम्बन्धी च सुखप्रदः ॥३५॥
काम्भरेयो बालकृष्णो गोपालबालकोऽच्युतः ।
स्थितोऽस्मि हितकृद् यत्र भक्तस्य हृदि सन्निधौ ॥३६॥
ब्रह्मप्रियाप्रियः कान्तः श्रीपतिर्यत्र चास्मि तम् ।
मां हरिर्यश्चाश्रयति दुःखदुर्गं तरत्यसौ ॥३७॥
सत्योऽहं सत्यधर्मोऽहं दुःखानां नाशकोऽप्यहम् ।
मां विदित्वाऽऽश्रयन्तश्च दुःखदुर्गं तरन्त्यपि ॥३८॥
तस्माद् भजत मां नित्यं मामेवाप्स्यथ धाम्नि मे ।
इत्युक्त्वा प्रददौ मन्त्रं भगवान् शरणार्थिने ॥३९॥
राज्ञे चापि प्रजाभ्यश्च ततो राजाऽर्चयद्धरिम् ।
राज्ञी कन्यायुता कृष्णं राधे प्रापूजयत्तदा ॥४०॥
कन्यैका कृष्णकान्तं तं करे जग्राह भावतः ।
विवाहविधिना प्राप्य कृतकृत्या बभूव ह ॥४१॥
सभां विसर्जयित्वैव स राजा महीमानकान् ।
भोजयामास विविधान्नानि रस्य फलानि च ॥४२॥
उत्सवं सुभगं चक्रे राजा भाद्रस्य चार्जुने ।
तृतीयाया निशायां च विशश्रमुस्ततः परम् ॥४१॥
सर्वे प्रातः कृतस्नानाश्चक्रुः पायसभोजनम् ।
तावद् गांगेयपुत्र्यश्चाययुस्त्वर्थयितुं हरेः ॥४४॥
नारायणं नमस्कृत्य कन्यास्ता वरदानकम् ।
वव्रिरे बालकृष्णाद्वै तीर्थीकर्तुं सरिद्वराः ॥४५॥
स्नाहि नारायण कृष्णवल्लभश्रीपते जले ।
सर्वा वयं भविष्यामस्तीर्थात्मिकास्तवाप्लवात् ॥४६॥
हरिस्तथास्त्विति प्राह धृत्वा रूपाण्यनेकशः ।
कृपया प्रययौ शीघ्रं स्नातुं नदीषु वै तथा ॥४७॥
सरस्सु च समुद्रेषु ययावनेकरूपधृक् ।
तथैकरूपतः कृष्णो राजते राजसन्निधौ ॥४८॥
कोलकाख्यो महाराजो दिव्यदृष्ट्या प्रदत्तया ।
सर्वं पश्यति तत्रैव मुरमाषास्थितोऽपि सन् ॥४९॥
हरिः सस्नौ नीपरायां निस्तारायां तथा तदा ।
पृथायां दिनपायां सेविकायां स्नानमाचरत् ॥५०॥
त्रिवरायां राहुणायां सेनायां स्नानमाचरत् ।
इन्दिरायां गवादकवितायां स्नानमाचरत् ॥५१॥
गवादयानानद्यां त्रिगिरायां स्नानमाचरत् ।
दूरानद्यां गुरूणायां मित्रायां स्नानमाचरत् ॥५२॥
सेनायां लववारायां द्विलीनायां तथाऽप्लवम् ।
सुकौतुक्यां स्थायिनद्यां चाल्पापायां तथाऽकरोत् ॥५३॥
औदर्यां विष्णुतुल्यायां प्रपीठायां समाप्लवम् ।
नियमानाजले दूनानद्यां च पायुपश्यके ॥५४॥
सरस्यपि लेण्डुगे योनिगे स्नानं समाचरत् ।
त्रिनयायां च हीनायां पंचोरायां समाप्लवम् ॥५५॥
कामायां चापि वोल्गायां दोनायां स्नानमाचरत् ।
आजवाब्धौ श्वेतवार्धौ कृष्णाब्धौ काश्यपेयके ॥५६॥
बालत्रिकेऽब्धौ भगवान् सस्नौ वै युगपत्तदा ।
चत्वारिंशद्रूपधर्ता भगवान् भूतभावनः ॥५७॥
विधाय तीर्थरूपास्ताः कन्यकाश्च सरांसि च ।
उपकन्याश्च वै तत्राद्यात्मिकाः संविधाय च ॥५८॥
शीघ्रं तिरोऽभवत् कृष्णः कोलकालयमाययौ ।
कोलकस्तु तदा कृष्णमाहात्म्यं संबुबोध ह ॥५९॥
अवतारावतार्येव परमात्मा परात्परः ।
सोऽयं नारायणः साक्षाज्जामाता मेऽभवत् प्रभुः ॥६०॥
कृतकृत्योऽहमेवाऽस्मि वसाऽत्र भगवन् सदा ।
ममाऽऽवासे तव योग्ये कृपां कुरु जनार्दन ॥६१॥
इत्येवं चार्थयत्तावन्मध्याह्नः समजायत ।
यवक्रीतादयः सर्वे गांगेयाश्च महर्षयः ॥६२॥
आययुर्दर्शनार्थं वै हरिणा संस्मृतास्तदा ।
निषेदुस्ते प्रणम्यैव बालकृष्णस्य सन्निधौ ॥६३॥
लोमशाद्यास्तथा वृकायनाश्च नीलकर्णकः ।
ईशानोऽन्ये गणाश्चापि पार्षदाः संस्मृतास्तदा ॥६४॥
आययुः सन्निधौ सर्वे कोलराजस्य मन्दिरे ।
हरिः प्राह कृतं कार्यं केतुमालस्य सर्वतः ॥६५॥
देशाः सम्पाविताः सर्वे राजानो भक्तिमाश्रिताः ।
प्रजा भक्ताः प्रजाताश्च तीर्थान्यपि कृतानि च ॥६६॥
ऋषयश्चापि सन्तुष्टा जाता दानादिभिस्तथा ।
ब्रह्मप्रियास्तथा गौर्यः सुखमय्यो मया कृताः ॥६७॥
पर्वताः पाविताश्चात्र सर्वं पूर्णं ततोऽभवत् ।
अधुना तत्र गन्तव्यं यत्रर्षिमण्डलं वदेत् ॥६८॥
भवन्तो मे प्रमाणं वै साधवश्च महर्षयः ।
इत्युक्त्वा बालकृष्णश्च ऋषिवाक्यं प्रतीक्षते ॥६९॥
तावद् व्योम्नः सकाशाद्वै पुष्पवृष्टिर्ववर्ष वै ।
जयशब्दैः सह साधुः सच्चिदानन्दसंज्ञकः ॥७०॥
लालायनो महर्षिर्यः पूर्वं चोत्तरतो ह्यगात् ।
पोषपूर्णातिथौ पश्चात् तुषितोऽपि सुरो ह्यगात् ॥७१॥
तावुभौ सुविमानस्थौ त्वागतौ कोलकालये ।
बालकृष्णं भजमानौ जयशब्दान् प्रचक्रतुः ॥७२॥
तीर्थीकुर्वन् केतुमालं जयत्वक्षरधामपः ।
हरेकृष्ण बालकृष्णस्वामिश्रीकृष्णवल्लभ ॥७३॥
काम्भरेय ब्रह्मशक्तिस्वामिन्गोपालनन्दन ।
वर्धयाऽत्र चिरं तिष्ठ देशान् संकुरु पावनान् ॥७४॥
इत्येवं व्याहरन्तौ तौ विमानं भास्करोपमम् ।
अवतारयतां राजालयोद्याने शनैः शनैः ॥७५॥
निर्गतौ तौ विमानाच्च मुनी सात्त्वतपुंगवौ ।
पुष्पमालान्वितौ भक्तिभरौ कृष्णेऽतिमानसौ ॥७६॥
नेमतुः श्रीबालकृष्णं समागत्य समीपतः ।
दण्डवत् पुष्पहाराद्यैरानर्चतुः परेश्वरम् ॥७७॥
साश्रुनेत्रौ गलत्कर्णौ जातपुलकिताङ्गकौ ।
हर्याज्ञयाऽऽसनयोश्च निषेदतुः समीपतः ॥७८॥
हरिरुत्थाय चरणौ ददौ वक्षसि वै तयोः ।
न्यधाद्धस्तौ मस्तके च बाहुभ्यां परिषस्वजे ॥७९॥
पप्रच्छ कुशलं ताभ्यां भक्तिकार्यप्रसारणम् ।
ऊचतुस्तौ कृपया ते योगक्षेमौ प्रवर्ततः ॥८०॥
केनाटाश्चामरीदेशा भवतः कृपया प्रभो ।
मुमुक्षुवासिताः सन्ति प्रतीक्षन्ते तवागमम् ॥८१॥
आगत्य तत्र कर्तव्यो विष्णुक्रतुर्हि पावनः ।
ताः प्रजाः पावयितव्या अमरीकप्रदेशजाः ॥८२॥
राजानश्च प्रजाश्चापि महर्षयश्च तद्गताः ।
आगमं ते प्रतीक्षन्ते कृतार्थीकुरु तत्प्रजाः ॥८३॥
इत्यर्थितो हरिः श्रीमल्लोमशं शंकरं तथा ।
महर्षीन् परिपप्रच्छ किं कर्तव्यं वदन्तु माम् ॥८४॥
सर्वे प्राहुर्यथा लालायनः प्रार्थयते प्रभो ।
तथा कर्तव्यमेवाऽत्र तारको हि भवान् यतः ॥८५॥
यवक्रीतो नीलकर्णो वृकायनश्च लोमशः ।
गांगेयाश्च वयं सर्वे शंकराद्या यथादिशः ॥८६॥
तथा कुर्मो न सन्देहो लोकतारणहेतवे ।
एवं प्रत्युत्तरे प्राप्ते भगवान् नरनाट्यधृक् ॥८७॥
तथास्त्विति प्राह लालायनं तुषितदैवतम् ।
हारितर्षिर्नामतश्च प्राह तत्र तदा हरिम् ॥८८॥
गच्छाम्यहं हरे पूर्वं मम शिष्यप्रदेशकान् ।
गरिमाख्यान् हारिताँश्च माध्यस्थान् कुरु पावनान् ॥८९॥
इत्युक्त्वाऽऽज्ञां शिरो धृत्वा ययौ विमानतः पुरः ।
गरिमाख्यप्रदेशाँश्च स्वागतार्थमसञ्जयत् ॥९०॥
अपरानाविकापुर्या दिनमानार्कभूपतिः ।
हारितर्षिप्रशिष्यश्च स्वागतार्थं हरेः शुभैः ॥९१।
मंगलैर्विविधैः कल्पैः शृंगारं समसज्जयत् ।
अथात्र कोलको राजा परमेशं मुनीन् सतीः ॥९२॥
महीमानान् परमान्नैस्तृप्तयामास भोजनैः ।
पूजयामास बहुधा समर्पणैश्च सर्वथा ॥९३॥
अर्थयामास रात्र्यैक्यं स्थातुं निजालये प्रभुम् ।
हरिस्तथाऽस्त्विति प्राह राजा रात्रौ महोत्सवम् ॥९४॥
कारयामास सुभगं नृत्यमल्लप्रदर्शनैः ।
निशानिद्रोत्तरं प्रातर्हरिः कृताह्निको द्रुतम् ॥९५॥
गन्तुं सज्जोऽभवत्तूर्णं राजा मानाऽर्हणां व्यधात् ।
सैन्येन मानितश्चापि प्रजाभिर्मानितश्च सः ॥९६॥
विमानं चारुरोहाऽन्ये चारुरुहुर्निजान्यपि ।
यशःकीर्त्यादि शृण्वन् श्रीकृष्णनारायणः प्रभुः ॥९७॥
गांगैयैर्नैजिकैश्चापि व्योममार्गेण सत्त्वरम् ।
समुद्रं तु समुल्लंघ्य गरिमापृथिवीं ययौ ॥९८॥
हारिताँस्तान्प्रदेशाँश्च व्यलोकयत्तदाम्बरात् ।
स्वागतार्थं हारितर्षिदिनमानार्कभूपती ॥९९॥
यत्रास्तां तावपरानाविकापुर्यां पुरःस्थितौ ।
तौ विलोक्य ध्वजचिह्नैरम्बरे स्थैर्यमाप्तवान् ॥१००॥
सैन्यकृतं स्वागतं संविलोक्य भगवान् हरिः ।
राधिके बालकृष्णः स मुमुदे त्वन्तरीक्षगः ॥१०१॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कोलकनृपस्य मुरमाषानगर्यां श्रीहरेस्तृतीयायां भ्रमणं पूजनमुपदेशनं भोजनं गांगेयकन्यादिकृतप्रार्थनया तज्जलेषु बहुरूपाणि धृत्वा युगपत् स्नानेन तीर्थीकरणता रात्रौ विश्रान्तिर्भाद्रशुक्लचतुर्थ्यां दिनमानार्कनृपखण्डं प्रति गमनमित्यादिनिरूपणनामा नवनवत्यधिकशततमोऽध्यायः ॥१९९॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP