त्रेतायुगसन्तानः - अध्यायः २१३
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
राधिके यज्ञभूमौ वै कुण्डे त्वग्निर्महानलः ।
अचुम्बत व्योम हृष्टश्चाशीर्वादान् ददौ तदा ॥१॥
भूमिश्चेयं शान्तिवृत्तिः श्रेष्ठस्मृद्धिमयी सदा ।
नीतिसौख्यप्रपूराश्च प्रजाः सन्तु सदा त्विह ॥२॥
अमर्यः सुखभाग्याश्च स्मृद्धाः सन्तु सदा त्विह ।
राजानो न्यायमार्गस्था महास्मृद्धा भवन्तु वै ॥३॥
कन्यकाः सुखवत्यश्च कुमाराः स्मृद्धिसंयुताः ।
प्रजा दीर्घजीववत्यो भवन्तु रोगवर्जिताः ॥४॥
सस्यस्मृद्धिः सदा चास्तु स्वर्णरूप्यादिभूरिला ।
बुद्धिमन्तो जनाः सन्तु स्त्रियः सौभाग्यसंभृताः ॥५॥
पशवो बहुदुग्धाश्च पादपा रससंभृताः ।
रसाला पृथिवी चास्तु देवतुल्याः कुटुम्बिनः ॥६॥
साम्राज्यं श्रेष्ठसत्ताकं चास्तु स्मृद्धं धनादिभिः ।
दिव्यो भवतु देशोऽयं खण्डाः सन्तु समृद्धयः ॥७॥
पात्राणि सन्तु मनुजा देवर्षिगुरुपूजकाः ।
यज्ञा भवन्तु लोकेऽत्र स्वर्णं चास्तु समुन्नतम् ॥८॥
इत्येवं वह्निना दत्ता आशीर्वादा हि चाध्वरे ।
अश्रूयन्त जनैः सर्वैः प्रसन्नहृदयैस्तदा ॥९॥
एवमाशीर्वचनानि दत्वा वह्निस्तिरोऽभवत् ।
यज्ञभस्मप्रसादं च जगृहुर्देहिनस्तदा ॥१०॥
यज्ञे परिहृते चाज्ञा भोजनानां तदाऽभवत् ।
दीयन्ते मिष्टभोज्यानि तदा सर्वविधानि हि ॥११॥
भुंजते देहिनः पंक्तिबद्धा ईशसुरादिकाः ।
मानवाश्चान्यजातीयास्तदा मिष्टान्नमध्वरे ॥१२॥
दीयतां दीयतां चेति भुज्यतां भुज्यतामिति ।
गृह्यतां गृह्यतां चेति वदन्ति परिवेषकाः ॥१३॥
असंख्यान्नं तथा द्रव्यमसंख्यं दीयते तदा ।
अम्बराणि ह्यसंख्यानि पात्राणि विविधानि च ॥१४॥
अन्नान्यपि विविधानि दीयन्ते तत्र चाध्वरे ।
एकादश्यां महादानान्यादीयन्ते समन्ततः ॥१५॥
राजभिश्च प्रजाभिश्च स्वर्णप्रधानकानि वै ।
राधिके ये महीमानास्तेऽपि ददति सर्वशः ॥१६॥
ग्राहकाश्च गृहीत्वैव ददत्यपरयाचिने ।
कोटिशो देहिनस्तत्र भुञ्जते हव्यमुत्तमम् ॥१७॥
एवं समुत्सवे जातेऽवभृथार्थं प्रभुर्जनान् ।
मुनीन् प्रजाजनानाह नदीसरःसमागमे ॥१८॥
स्नातुं गन्तव्यमेवाऽद्य सज्जा भवन्तु वै द्रुतम् ।
पटहो वै महाँस्तत्र ताडितो घोषणाकृते ॥१९॥
अवभृथार्थं चायान्तु भगवाँस्तत्र याति वै ।
यानि कानि च पापानि जन्तुद्रोहोद्भवानि च ॥२०॥
कर्मकाण्डस्य वैगुण्ये समुत्थानि च यान्यपि ।
कणशालिसमिद्धोमे यानि वा दुरितानि च ॥२१॥
तेषां विनाशनार्थं वाऽवभथं शस्यते सदा ।
अवभृथेऽवतारैश्चेश्वरैर्देवैश्च मानवैः ॥२२॥
स्नातव्यं वरुणं सम्पूज्यैवाऽऽपूज्य च वारि च ।
आमलकीफलैश्चापि भस्मना च घृतेन च ॥२३॥
तीर्थमृदा तिलैश्चापि स्नातव्यं वारिभिस्तदा ।
इत्येवं पटहेनापि बोधिता मानवादयः ॥२४॥
ईश्वरा देवताश्चापि नारायणा नरेश्वराः ।
देव्यः सत्यो भगवत्यः सांख्ययोगिन्य इत्यपि ॥२५॥
वाद्यघोषैर्गीतिभिश्चाययुस्त्वभृथाय वै ।
शेषकाष्ठवनानद्या विनिपारसरोवरे ॥२६॥
संगमे पावने सस्नुर्विधिना मखिनस्तदा ।
यत्र यत्र तटे ये ये त्वभवँस्तत्र तत्र ते ॥२७॥
सस्नुः सम्पूज्य वरुणं तीर्थानि च जलानि च ।
भगवान् श्रीबालकृष्णो ब्रह्मप्रियाश्च योषितः ॥२८॥
सस्नुर्देवास्तथा देव्यस्तीर्थोत्तमं ह्यभूज्जलम् ।
नारायणाऽवताराश्च तथा राधारमादयः ॥२९॥
सस्नुस्तत्र तु तीर्थानि पावनान्यपि शुद्धये ।
एवं चाऽवभृथे जाते त्वाययुर्वै गृहान्निजान् ॥३०॥
ततः सभा महत्यासीत् पारितोषिकलब्धये ।
सर्वेभ्यः कर्मचारिभ्यस्तूपदाः स्वर्णनिर्मिताः ॥३१॥
भूषा द्रव्याणि रत्नानि दीयन्ते माधवेन वै ।
हाराः स्वर्णमयाश्चापि श्रेष्ठाम्बराणि चापि तु ॥३२॥
सुवर्णचन्द्रका रत्ननद्धाः कार्यप्रसूचकाः ।
गुणावेदनरेखाश्च मखचिह्नसमन्वितः ॥३३॥
रूप्यचन्द्रास्तथा चौर्णकम्बलाऽम्बरशाटिकाः ।
तन्तिकाः कुण्डले चापि रशनांऽगुलिमुद्रिकाः ॥३४॥
ऊर्मिकाः कटकाश्चापि मौक्तिकानां स्रजः शुभाः ।
स्वर्णपात्राणि रम्याणि स्थालिकाः कलशास्तथा ॥३५॥
छत्राणि चामरे चापि व्यजनानि विमानकम् ।
सिंहासनानि रम्याणि पट्टिका च चतुष्पदी ॥३६॥
स्वर्णमणिमहाहारा मालाश्च हीरकैः कृताः ।
पारितोषिकरूपेण ददौ श्रीकृष्णवल्लभः ॥३७॥
क्षत्रियेभ्यश्चायुधानि विप्रेभ्यो याजनानि च ।
अन्येभ्यस्तु यथापेक्षं ददौ वै पारितोषिकम् ॥३८॥
मूर्तयः स्वर्णमय्यो याः प्राणैः सुप्रतियोजिताः ।
पूजनार्थं ददौ स्वामिकृष्णनारायणार्यकः ॥३९॥
आचार्यादेशमालम्ब्य भूभृद्भ्यस्तत्र चाध्वरे ।
एवं समाप्य सर्वं वै क्षणं विश्रान्तिमाप ह ॥४०॥
तावत्तत्र समागत्य रायलम्बारभूपतिः ।
रूपर्तुमहर्षिश्चापि प्रार्थयामासतुर्द्रुतम् ॥४१॥
किमुवक्रान् प्रदेशान् नौ किमुवक्रां पुरीं तथा ।
प्रपुनीहि महाराजैकादश्यामद्य शोभनाम् ॥४२॥
हरिस्त्वथाऽस्विति प्राहाऽऽसहत् सज्जो विमानकम् ।
कुटुम्बेन हरेणापि लोमशेन समन्वितः ॥४३॥
राजा तूर्णं ययौ पूर्वं स्वागतार्थं विमानगः ।
हरिः सायं ययौ शीघ्रं किमुवक्रां पुरीं शुभाम् ॥४४॥
राजदर्शितमार्गेणाऽवातारयद् विमानकम् ।
उद्याने निजसौधस्य स्वागतं चाचरन् नृपः ॥४५॥
वाद्यानि बहुरम्याणि तदाऽवाद्यन्त सर्वतः ।
प्रजा द्रष्टुं समायाता वर्धयामासुरच्युतम् ॥४६॥
विमानाच्छ्रीहरिस्तत्रोद्याने बहिरुपाययौ ।
लाजाक्षतादिभिः पुष्पैश्चन्दनैः परमेश्वरम् ॥४७॥
वर्धयामासुरत्यर्थं प्रजाद्या नरयोषितः ।
राजा सौधे हरिं नत्वा पुपूज बहुरत्नकैः ॥४८॥
राज्ञी पूजां चकाराऽथ कन्यका भूभृतस्तु षट् ।
वव्रिरे भगवन्तं तं वरमालाप्रदानकैः ॥४९॥
कृतकृत्यास्तु ता जाता राजा मुमोद चाप्यति ।
राज्ञी मुमोद बहुधा ददावुपायनानि च ॥५०॥
यौतकं प्रददौ राज्ञी नीराजनं ततोऽकरोत् ।
भोजयामास द्ग्धादि पायसं शार्ङ्गिणे तदा ॥५१॥
अथ सैन्येन सहितं त्वाचार्यं कृष्णवल्लभम् ।
नगर्यां भ्रामयामास राजमार्गेण भूपतिः ॥५२॥
प्रधानाः श्रेष्ठिनश्चान्ये वर्धयामासुरीश्वरम् ।
पुपूजुश्च प्रजाः सर्वा वक्रिण्यः कन्यकास्तथा ॥५३॥
हारैः फलैर्धनैश्चापि कम्बलैरम्बरादिभिः ।
विभूषाभिः समानर्चुः सर्वं धनं हरिस्तदा ॥५४॥
रूपर्तुऋषये प्रादाद् यौतकं नीतवान् सह ।
राजसौधं समागत्य निशि विश्रान्तिमाप च ॥५५॥
कन्याषट्क्प्रसेवां च गृह्णन् बुबोध वै प्रगे ।
कृताह्निकः पयः पीत्वा गन्तुं सज्जोऽभवद्धरिः ॥५६॥
सूर्योदये समायाच्च सैन्यसम्मानितो द्रुतम् ।
प्राप्य पूजां यज्ञपृथ्व्यां नैजालये ह्यवातरत् ॥५७॥
एवं वै राधिके कृत्वा किमुवक्रां पुरीं शुभाम् ।
पावनीं द्वादशीप्रातर्यज्ञस्थलीं व्यलोकयत् ॥५८॥
महीमानान्सार्वभौमानाकारयत् सभास्थले ।
मुक्ता धामान्यवतारा नारायणास्तथेश्वराः ॥५९॥.
ऋषयः पितरो देवा दैत्याश्च मानवास्तथा ।
खगा जलगाः पातालावासाः सर्वे समाययुः ॥६०॥
स्थावरा जंगमाश्चापि जडाश्च चेतनास्तथा ।
दासा भृत्याः स्वामिनश्च स्वामिन्यश्च सभां ययुः ॥६१॥
ईश्वराण्यस्तथा नारायण्यः सत्यः सुरप्रियाः ।
सर्वप्रियाश्चाययुश्चाप्सरसो मातृकास्तथा ॥६२॥
यतिन्यो ब्रह्मसरसो ब्रह्मचारिण्य इत्यपि ।
सांख्ययोगिन्य एवापि सृष्टयश्चागताः सभाम् ॥६३॥
हरिः प्रसन्नो भगवान् कल्पद्रुधेनुवल्लिकाः ।
कल्पमणीन् सेवकाँश्च पार्षदान् सेविकास्तथा ॥६४॥
पर्षद्याकारयामासाऽऽययुस्ते ताः सभां तदा ।
सिंहासनेषु दिव्येषु भ्राजमानेषु सूर्यवत् ॥६५॥
आसीनेषु समस्तेषु कृष्णनारायणोऽब्रवीत् ।
आगतेभ्योऽवतारेभ्यः सर्वेभ्यश्चाह माधवः ॥६६॥
सम्माननं धन्यभावं कुर्वेऽहं भवतामिह ।
धामान्यपि विहायैव यज्ञार्थं यदुपागताः ॥६७॥
ईश्वराणामीश्वरीणां सम्मानं धन्यभावनाम् ।
कुर्वेऽहं दूरतश्चापि यज्ञार्थं यदुपागताः ॥६८॥
ऋषीणां च मुनीनां च पितॄणां योषितां तथा ।
सम्मानं धन्यवादं च कुर्वे यन्मखमागताः ॥६९॥
देवानां काश्यपीनां च प्रजानां मनुजन्मनाम् ।
सम्मानं धन्यवादं च कुर्वे यन्मखमागताः ॥७०॥
वृक्षादीनां तृणादीनां वल्लीनां विरुधां तथा ।
सन्मानं धन्यवाद्ं च कुर्वे यन्मखमागताः ॥७१॥
तीर्थानां दैवतत्वानां जडानां च चितामपि ।
सम्मानं धन्यवादं च कुर्वे यन्मखमागताः ॥७२॥
पातालतलवासानां जलस्थलनिवासिनाम् ।
वह्निवायुनिवासानां तीर्थानां भूभृतां तथा ॥७३॥
लोकानां च दिशां पालकानां च कर्मचारिणाम् ।
पार्षदानां गणानां च गणेशानां च योगिनाम् ॥७४॥
सन्मानं धन्यवादं च कुर्वे यन्मखमागताः ।
यज्ञार्थं कृतयत्नानां सेवकानां समन्ततः ॥७५॥
सेविकानां समस्तानां क्षेत्रपानां समन्ततः ।
दासीनां दासवर्गाणां रक्षकाणां समन्ततः ॥७६॥
सर्वाधिकारमाप्तानां रसशालाकृतां तथा ।
द्रव्यशालारक्षकाणां संकल्पवस्तुसंजुषाम् ॥७७॥
दातॄणां च नृपाणां च नृपीणां ब्रह्मयोषिताम् ।
विप्राणां वेदमन्त्राणां हव्यानां मखपात्रिणाम् ॥७८॥
तत्त्वानां जडग्रन्थीनां चैत्यानां विश्वकर्मणाम् ।
सम्मानं धन्यवादं च कुर्वे यन्मखमागताः ॥७९॥
विदायं प्राञ्जलिं चात्मप्रसादत्वं शुभाशिषः ।
मन्मूर्तिं स्वर्णरूप्यादि सुधामृतानि सन्ददे ॥८०॥
मुकुटानि कटकानि सुचन्द्रकाणि सन्ददे ।
भूषाम्बराणि पात्राणि चाम्बराण्यपि सन्ददे ॥८१॥
छत्राणि दिव्ययानानि शाट्यादीनि च सन्ददे ।
शिरस्त्राणानि रम्याणि कौशेयानि च सन्ददे ॥८२॥
हस्त्यश्वरथरत्नानि हीरकानपि सन्ददे ।
शृंगाराणि विचित्राणि कञ्चुकादीनि सन्ददे ॥८३॥
अक्षयान्यपि पात्राणि कल्पवृक्षादिकान् ददे ।
कल्पवल्लीः कल्पधेनूः कल्पमणीन् ददे च वः ॥८४॥
दिव्यज्ञानं महैश्वर्यं दिव्यतेजो ददे च वः ।
दिव्यर्द्धिं शाश्वतीं शान्तिं भक्तिं सेवां ददे च वः ॥८५॥
दिव्यसिद्धीर्महालाभं ममाऽमृतं ददे च वः ।
इत्युक्त्वा भगवान् कृष्णवल्लभाचार्य इष्टकृत् ॥८६॥
ददौ दिव्याक्षरस्वर्णकृतकिरीटकुण्डले ।
अवतारेभ्य एवाद्ये ईश्वरेभ्यस्ततः परम् ॥८७॥
लोकपालेभ्य एवापि राजभ्यश्च ततः परम् ।
एवं सर्वेभ्य एवापि यथायोग्यं त्वपेक्षितम् ॥८८॥
नरनारीसमेतेभ्यो ददौ वै पारितोषिकम् ।
प्रातश्चैवं दानकर्म समाचरद्धरिस्ततः ॥८९॥
दासभृत्यादिदेहिभ्यो धनानि व्यतरत्प्रभुः ।
स्वर्णहारान् रत्नहारान् ददौ योग्यान् पुनः पुनः ॥९०॥
नारीभ्यो नारिकायोग्या ददौ भूषाः सुवर्णजाः ।
अन्नपात्रेभ्य एवापि ददावन्नानि सर्वशः ॥९१॥
वस्त्रपात्रेभ्य एवापि ददौ वस्त्राणि सर्वशः ।
बहुभ्यो गृहदानानि ददौ नारायणः प्रभुः ॥१२॥
राजद्वाराऽदापयच्च भवनानि द्विजातये ।
एवं सर्वं दानकर्म त्वपारयत्प्रभुः स्वयम् ॥९३॥
भोजनं तु ततश्चैवाऽकारयत् सार्वभौमिकम् ।
पारणात्म शुभं मिष्टं पायसान्नमभोजयत् ॥९४॥
रसान्नं मधुपर्कान्नं मिष्टान्नं चाप्यभोजयत् ।
सुधान्नं चामृतान्नं च पीयूषान्नमभोजयत् ॥९५॥
पुण्यान्नं भावनान्नं च फलान्नं चाप्यभोजयत् ।
कणान्नं चापि मुन्यन्नं पत्रान्नं चाप्यभोजयत् ॥९६॥
भाजान्नं चांकुरान्नं च सस्यान्नं चाप्यभोजयत् ।
जलीयान्नं पावनान्नं चानलान्नमभोजयत् ॥९७॥
तैजसान्नं च धामान्नं सात्त्विकान्नमभोजयत् ।
शुद्धसत्त्वान्नकं लीलाविभूत्यन्नमबोधयत् ॥९८॥
ऋत्वन्नं चाप्यऋत्वन्नं देहजान्नमभोजयत् ।
कल्पान्नं चापि सिद्धयन्नं सिद्धान्नं चाप्यभोजयत् ॥९९॥
भावनान्नं च तृप्त्यन्नं सन्तोषान्नमभोजयत् ।
आनन्दान्नं महासौख्यान्नकं सर्वानभोजयत् ॥१००॥
तक्रं च शर्करां दुग्धं सूपं तथौदनादिकम् ।
पूरिकां पोलिकां चापि व्यंजनान्नान्यभोजयत् ॥१०१॥
मिष्टान्नानि क्वथिकाश्च चटनीः पर्पटादिकान् ।
सेविकाश्च तथाऽपूपान् संयावं चाप्यभोजयत् ॥१०२॥
चणकाँश्च फुल्लवटीर्भर्जिताश्चाप्यभोजयत् ।
मेशुभाँश्च सुखदाँश्च मोहस्थालानभोजयत् ॥१०३॥
चक्रपारान् स्थिरकाँश्च ग्रन्थकानप्यभोजयत् ।
राजिकाराद्धमेवाऽपि त्वारनालान्यभोजयत् ॥१०४॥
दधिघृतं नवनीतं गूडं मधु ह्यभोजयत् ।
अम्ब्लवान शरत्पिबं चाम्ररसानभोजयत् ॥१०५॥
फलानि त्वार्द्रशुष्काणि बीजान्यपि ह्यभोजयत् ।
मुखवासान् गन्धिकणान् ताम्बूलकान्यभोजयत् ॥१०६॥
ब्रह्महृदस्य सलिलं सर्वेभ्योऽपाययत् प्रभुः ।
एवं प्रभोजयित्वैव स्वयं तु बुभुजे हरिः ॥१०७॥
कुटुम्बेन तु सहितो ब्रह्मप्रियासमन्वितः ।
राधारमासतीलक्ष्मीप्रभापारवतीयुतः ॥१०८॥
माणिकीदुःखहालक्ष्मीमंजुलाऽमृतिकायुतः ।
सगुणाशारदाहंसादुर्गासरस्वतीयुतः ॥१०९॥
पितरौ बुभुजाते च लोमशाद्या गुरूत्तमाः ।
बुभुजिरे च सर्वे वै देहिनो महीमानकाः ॥११०॥
गांगेयाश्चामरेयाश्च महर्षयश्च कन्यकाः ।
नदा नद्यश्च तीर्थानि बुभुजिरेऽतिकण्ठतः ॥१११॥
मध्याह्ने श्रीहरिस्तत्र राजभ्योऽभोजयत्त्वति ।
मध्याह्नोत्तरवेलायां मखस्य महीमानकान् ॥११रे॥
गन्तुमाज्ञापयामास स्वस्वलोकान्निजालयान् ।
ऋते ब्रह्मप्रियाः सर्वाः ऋते लोमशकादिकान् ॥११३॥
ऋते नैजं कुटुम्बं चेशानं सतीं गणेश्वरम् ।
ऋते चामरिकर्षींश्च ऋते च तुषितं तथा ॥११४॥
ऋते च सच्चिदानन्दं श्रीकृष्णं त्वां च राधिकाम् ।
ऋते नारायणं लक्ष्मीम् ऋतेऽश्वसरसो जनान् ॥११५॥
इत्येवं सर्वथा चाज्ञां लब्ध्वा लब्ध्वा च राधिके ।
प्रतस्थिरे विमानैः स्वैः सायं शून्यमिवाऽभवत् ॥११६॥
रचनानां मण्डपानां संहारं विश्वकर्मिणः ।
सदासा वै निशायां ते चक्रुः स्थली प्रगेऽभवत् ॥११७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वह्नेराशीर्वादो भोजनानि, अवभृथं पारितोषिकाणि, सायं हरेः रायलम्बारनृपराष्ट्रगमनं, किमुवक्रापुर्यां भ्रमणं
पूजनं भोजनं रात्रौ विश्रमणं प्रातर्यज्ञभूमिमागमनं, महीमानसभाकरणं सम्मानधन्यवादोपदापारितोषिकादिदानं, भोजनानि विदायं चेत्यादिनिरूपणनामा त्रयोदशाधिक-
द्विशततमोऽध्यायः ॥२१३॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP