संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ६९

त्रेतायुगसन्तानः - अध्यायः ६९

लक्ष्मीनारायणसंहिता


श्रीराधिकोवाच-
कथं कृष्ण! तव सेवा कर्तव्याऽऽराधना तथा ।
केनाऽर्चनेन ते कृष्ण प्रीतिः समुपजायते ॥१॥
कानि दानानि देयानि प्रीणनाय हरेस्तव ।
कानि पुण्यानि शस्तानि कृष्णतुष्टिकराणि च ॥२॥
श्रीकृष्ण उवाच-
सर्वदानानि शस्तानि श्रीकृष्णस्य प्रतुष्टये ।
भक्त्या समर्चनेनाऽयं श्रीकृष्णः परितुष्यति ॥३॥
यप्स्वेष्टं तत्प्रदेय वै कृष्णाय प्रीणनार्थकम् ।
पुण्यं तत्राऽर्पणं सर्व कृष्णतुष्टिकरं प्रिये ॥४॥
श्रद्दधानैर्भक्तिपरैः समुद्दिश्य श्रियः पतिम् ।
दीयन्ते यानि दानानि तानि यान्ति न वै क्षयम् ॥५॥
ता एव तिथयः श्रेष्ठा यत्र कृष्णो ह्यवाप्यते ।
यासु सतां कृता सेवा तद्न्यास्तिथयोऽधमाः ॥६॥
पूजितेषु च साधुषु पूजितः परमेश्वरः ।
यस्तान् द्वेष्टि स हीनात्मा हीनां योनिं प्रयाति च ॥७॥
सतोऽर्चयन् जनो भक्त्या नारी वा कृष्णतत्परा ।
मामकी सा तनुश्चास्ति ह्यहं वैष्णवदेहवान् ॥८॥
साधवो नाऽवमन्तव्या बुधो वाऽप्यबुधा अपि ।
सन्तो दिव्यास्तनवो मे ततस्तानर्चयेत् सदा ॥९॥
कर्मणा मनसा वाचाऽर्पणेन सेवयाऽपि वा ।
भोजनेनाऽर्चनेनापि सन्तोषणीयाः साधवः ॥१०॥
प्रातरुत्थाय मां स्मृत्वा स्नात्वा च शुभवस्तुभिः ।
मन्मूर्तेः पूजनं कुर्यात् सतां सेवा हि पूजनम् ॥११॥
आराधना तु मे भक्तिर्दास्यं श्रेष्ठं सदाऽधिकम् ।
ध्यानं मे मम साधूनां कर्तव्यं मोक्षहेतवे ॥१२॥
पादसंवाहनं कार्यं साधूनां सर्वदा प्रिये ।
तदिन्द्रियेष्वहं त्वस्मि तत्तुष्टौ तोषणं मम ॥१३॥
रसगन्धयुतैः पुष्पैः पूजनीयास्त एव तु ।
चम्पकः कुन्द आम्रश्च धवलः खदिरस्तथा ॥१४॥
शतगोटस्तथाऽशोको बकुलः करवीरकः ।
तिलकश्च जपा जाती यूथिका पद्मिनी तथा ॥१५॥
कमली स्थलपद्मा च तुलसी कौमुदी तथा ।
सूर्यमुखी चम्मिलिका पारिजातः सुकेसरः ॥१६॥
केतको हारशृंगारः कदम्बो देवदारुकः ।
सर्जतरुः कल्पवल्ली चैतत्पुष्पाणि राधिके ॥१७॥
पूजायां मे प्रदेयानि वर्जयित्वा तु केतकीम् ।
बिल्वपत्रं शमीपत्रं भृंगपत्रं च तौलसम् ॥१८॥
तमालमालतीपत्रं प्रशस्तं मम पूजने ।
वीरुधां सुप्रवालैश्च दर्भैः समर्चयेच्च माम् ॥१९॥
प्रवालैर्बीसतन्त्वाद्यैर्दुर्वाङ्कुरैः समर्चयेत् ।
कुड्मलैश्चन्दनैः कुंकुमोशीरकेसरैस्तथा ॥२०॥
सुगन्धकाष्ठधूपैश्च पृणोम्यहं सदा प्रिये ।
हविषा संस्कृता ये च यवगोधूमशालयः ॥२१॥
तिलमुद्गादयो माषा व्रीहयश्च प्रिया मम ।
गोदानानि पवित्राणि भूमिप्रदानकानि च ॥२२॥
वस्त्रान्नस्वर्णदानानि प्रीतये मम राधिके ।
माघे तिलाश्चेन्धनानि देयानि प्रियतां हरिः ॥२३॥
फाल्गुने व्रीहयो वस्त्रं मृगचर्मादि शस्यते ।
चैत्रे सुसूक्ष्मवस्त्राणि शयनान्यासनानि च ॥२४॥
वैशाखे गन्धयुक्तानि देयानि सुरभीणि च ।
उदकुम्भाढ्यधेनुश्च तालवृन्तः सुचन्दनः ॥२५॥
देयास्तेन भवेत्पुत्रो धनं भार्या सुता च गौः ।
शृणुयाच्च कथा नित्यं भक्त्या संपूजयेद्धरिम् ॥२६॥
तस्याऽश्वमेधयज्ञस्य दक्षिणासहितस्य च ।
सुवर्णभूमिदानस्यऽश्वगोनागरथस्य च ॥२७॥
दानस्य पुण्यमग्र्यं वै जायेत नात्र संशयः ।
नारी नरः पादमेकं कथां यः शृणुयात् हरेः ॥२८॥
स शुचिः पुण्यवान् लोके सर्वतीर्थाश्रितो हि सः ।
गंगायां नैमिषारण्ये पुष्करे मानसे तथा ॥२९॥
नारायणेऽश्वपट्टे च कोकामुखे प्रयागके ।
माघे यत्पुण्यमग्र्यं च तत् कथाश्रवणाद् भवेत् ॥३०॥
राजसूयफलं यच्च स्वर्गे यच्च महत् फलम् ।
भूमिलोके फलं यत्तत् कथायाः श्रवणाद् भवेत् ॥३१॥
सौत्रामणेः फलं यच्च मिष्टान्नदानजं च यत् ।
सूर्यचन्द्रग्रहे रत्नप्रदानस्य च यत्फलम् ॥३२॥
दुर्भिक्षे रक्षणाद् यच्च फलं ज्ञातेर्जनस्य च ।
देवाग्निसाधुविप्राणां पालने रक्षणे च यत् ॥३३॥
पित्रोः श्वशुरयोः सेवाधर्मे भ्रातुश्च यत्फलम् ।
ज्येष्ठेऽपत्यौ गवि सेवाजन्यं यच्च फलं भवेत्। ॥३४॥
तत्फलं राधिके मेऽत्र कथायाः श्रवणे भवेत् ।
उपानद्युगलं छत्रं लवणामलकादिकम् ॥३५॥
ज्येष्ठे जलं प्रशीतं च सूक्ष्माम्बरं च तक्रकम् ।
दधि चोपानहौ छत्रं देयं मे प्रीतये प्रिये ॥३६॥
आषाढे व्यजनं दुग्धं शर्करा चाम्बराणि च ।
देयानि राधिके यानं वाहनानि हरेर्गृहे ॥३७॥
श्रावणे सर्वदानानि दद्यान्मत्प्रीतये प्रिये ।
अन्नवस्त्रोपकरणरसादीनि समन्ततः ॥३८॥
भाद्रे दद्यात्पायसानि लवणं सगुडौदनम् ।
नवकणाँस्तथा मे प्रीतये च मधुसर्पिषी ॥३९॥
आश्विने नवधान्यानि वृषं चाश्वं सुवर्णकम् ।
ताम्रपात्राणि वस्त्राणि दीपादीनि समर्पयेत्। ॥४०॥
कार्तिके स्वर्णरजते मणिमुक्ताफलादिकम् ।
दीपान् नवान्नमिष्टान्नं दद्याद्वै प्रीतये मम ॥४१॥
मार्गशीर्षे वाहनानि खरोष्ट्राऽश्वतरान् ददेत् ।
नागानजाविकान् गन्त्रीं शकटान् प्रीतये मम ॥४२॥
पौषे देयं प्रभक्त्या च गृहप्रावरणादिकम् ।
प्रासादनगरादीनि चान्नं षड्रससंयुतम् ॥४३॥
दासीदासमलंकारान् दद्याद्वै मम तुष्टये ।
यद्यदिष्टतमं किञ्चित् यच्छक्यं च गृहे शुचि ॥४४॥
पुरुषोत्तमतुष्ट्यर्थं देयं तत् सार्वकामिकम् ।
यः कारयेत् श्रीकृष्णस्य मन्दिरं सोऽक्षरं व्रजेत् ॥४५॥
ददेत्पुष्पफलाढ्याँश्चारामान् यः सोऽक्षरं व्रजेत् ।
पूर्वजानि पश्चिमानि कुलान्यष्टोतराणि सः ॥४६॥
तारयेदात्मना सार्धं विष्णोर्मन्दिरकारकः ।
इमाश्च पितरो देवा गाथा गायन्ति साधवः ॥४७॥
अपि नः स्वकुले कश्चित् कृष्णभक्तो भविष्यति ।
हरेर्मन्दिरकर्ता यः सुखं दास्यति नो हि सः ॥४८॥
अपि नः सन्तता स्याद् वै कृष्णालयविलेपकः ।
मन्दिरे मार्जनकर्ता भक्तो येनोद्धृता वयम् ॥४९॥
अपि नः सन्ततौ जातो ध्वजं श्रीकृष्णमन्दिरे ।
दास्यति च प्रदीपं सुधूपं पुष्पानुलेपनम् ॥५०॥
अपि नः स कुले भूयादेकादृश्यां करिष्यति ।
उद्यापनं मम पूजामुपवासं च दानकम् ॥५१॥
महापातकयुक्तोऽपि कृष्णावसथचित्रकृत् ।
विमुक्तपापो भवति धन्यं जन्माऽस्य योऽस्ति मे ॥५२॥
धन्यो राजा मनुः पूर्वो यो लोके मानवान् वृषान् ।
प्रवर्तयामास नित्यं विष्णुभक्तिपरान् परान् ॥५३॥
कुंकुमवापिकाक्षेत्रे देवालयानकारयत् ।
विभूतिभिः श्रीकृष्णस्य नारायणस्य चालयान् ॥५४॥
चित्रयामास शुचिभिः पञ्चवर्णैः सुचित्रकैः ।
दीपपात्राणि सततं कृष्णनारायणालये ॥५५॥
सौवर्णानि च पात्राणि घृतपात्राणि वै ददौ ।
नानावर्णा वैजयन्तीर्माला हारान् ददौ मुदा ॥५६॥
स्रजश्च कण्ठिका दिव्या महारंजनरञ्जिताः ।
मञ्जिष्ठा नवरंगीयाः श्वेतपाटलिकाश्रिताः ॥५७॥
आरामान् विविधान् रम्यान् पुष्पाढ्यान् फलशालिनः ।
लतापल्लवसंख्याप्तान् देवदारुभिरावृतान् ॥५८॥
ह्रदान् मनोहरान् दिव्यासनकुंजविराजितान् ।
कारयामास परितो मन्दिराय ददौ च तान् ॥५९॥
मञ्चानलंकृताँस्तेषु कुशलैः समधिष्ठितान् ।
गन्धर्वविद्यारागज्ञैः रत्नजडितकासनान् ॥६०॥
कारयामास सुभगान् दिव्यान् देवालयोपमान् ।
येषु नित्यं प्रपूज्यन्ते यतयो ब्रह्मचारिणः ॥६१॥
श्रोत्रिया विप्रवर्याश्च ऋषयः साधवोऽमलाः ।
सत्यः साध्व्यः सांख्ययोगिन्यश्च ब्रह्मपराः स्त्रियः ॥६२॥
इत्थं तेनैव मनुना कृता कृष्णनरायणे ।
भक्तिश्च भार्यया सार्धं ययावन्ते हरेः पदम् ॥६३॥
एवं राजा ज्यामघोऽपि कृतवान् मनुवद् भुवि ।
परेशस्य परां भक्तिं ययौ ब्रह्मपदं परम् ॥६४॥
तस्माद्वै राधिके त्वं च कुरु देवालयं मम ।
मामर्चयस्व यत्नेन साधून् साध्वीर्मदाश्रिताः ॥६५॥
सदाचारान् कथावक्तॄन् लोककल्याणकारकान् ।
मम भक्तिप्रदान् सम्यक्संप्रपूजय राधिके ॥६६॥
वासोभिर्भूषणैः रत्नैर्गोभिर्भूकनकादिभिः ।
भोजनैर्जलपानाद्यैरंगसंवाहनादिभिः ॥६७॥
विभवे सति देवस्य प्रीणनं कुरु सर्वथा ।
इत्युक्ता राधिका चापि कृष्णदेवालयं परम् ॥६८॥
कारयामास गोलोके मन्दिरं चन्द्रशोभनम् ।
अनादिश्रीकृष्णनारायणस्य प्रतिमां शुभाम् ॥६९॥
सम्प्रतिष्ठाप्य च राधा चकार सेवनादिकम् ।
सम्मार्जनं लेपनं च शृंगारं भोजनादिकम् ॥७०॥
शर्करादिप्रदानं च दीपं धूपं प्रदक्षिणम् ।
नीराजनं चोत्सवं च चकार राधिका स्वयम् ॥७१॥
आयताक्षी पात्रसम्मार्जनं कृष्णालयेऽकरोत् ।
गीतं च कीर्तनं चापि स्वयं राधा ह्यवाकरोत् ॥७२॥
एवं राधाऽकरोद् भक्तिं पत्युर्वाक्येन सर्वदा ।
पत्युर्वाक्यं वृद्धवाक्यं सती चेत् प्रकरोति वै ॥७३॥
दुरुक्तं वा समुक्तं वा स्निग्धं तद् घृतवद् भवेत् ।
आपद्भुजंगदष्टस्य मन्त्रहीनस्य सर्वथा ॥७४॥
वृद्धवाक्यैषधान्येव कुर्वन्ति विषशून्यताम् ।
वृद्धवाक्यामृतं पीत्वा तदुक्तान्यनुमन्य च ॥७५॥
या तृप्तिर्जायते पुंसां सोमपाने न वै तथा ।
येषां वृद्धा न शास्तारस्ते जीवन्तोऽपि वै मृताः ॥७६॥
शोच्यास्त एव नष्टाश्च भविष्यन्ति पदे पदे ।
आपद्ग्राहगृहीतानां वृद्धा यत्र न मार्गदाः ॥७७॥
न वा मोचयितारश्च तेषां शान्तिर्न विद्यते ।
आपत्समुद्रमग्नानां मज्जतां व्यसनोर्मिषु ॥७८॥
वृद्धवाक्यैर्विना तेषामुद्धारो न कथंचन ।
तस्माद् यो वृद्धवाक्यानि शृणुयाद् विदधाति वा ॥७९॥
स सद्यः सिद्धिमाप्नोति वृद्धाशीर्भिः पुनः पुनः ।
राधिके येन तुष्टः स्यां तथा कार्यं त्वया सदा ॥८०॥
अहं ध्यायामि मे मूलस्वरूपं पुरुषोत्तमम् ।
मां ध्यायन्ति कपिलाद्याः कपिलं मानवाः परे ॥८१॥
वासुदेवादयो व्यूहा ध्यायन्ति पुरुषोत्तमम् ।
वासुदेवं विकुण्ठस्थो ध्यायत्यपि नरायणः ॥८२॥
नारायणं ध्यायति श्रीविष्णुर्विष्णुं प्रजाजनः ।
एवं प्रवर्तितं ध्यानं गुरोः परम्परागतम् ॥८३॥
गुरौ विष्णुर्वर्तते च विष्णौ भूमा विराजते ।
भूम्नि बृहद् बृहत्येव परब्रह्म विराजते ॥८४॥
एवं स्वात्मविचारेण ध्यायेत् कृष्णनरायणम् ।
सेवेत तं परेशानं वन्देताऽऽराधयेदपि ॥८५॥
सर्वं समर्पयेदस्मै परात्मनेऽन्तरात्मने ।
मायिकात्माऽन्तरात्मानो योगेन स्यात् परात्मवान् ॥८६॥
मायायां स्थितजीवस्य दीर्घकालेन तद्गुणाः ।
मायाकृता भवन्त्यस्य कामक्रोधादयो मलाः ॥८७॥
जन्मजन्मान्तराऽऽयातास्तैर्मलिनोऽयमुच्यते ।
स्वभावो मायया व्याप्तो बहुजन्मगतेष्वपि ॥८८॥
अन्ववर्तत आत्मानं सतां योगेन जीर्यति ।
परमेशाश्रयेणापि जीर्यत्येव ततः प्रभोः ॥८९॥
कृपया मोक्षमार्गस्य भक्त्यात्मकस्य चार्जनम् ।
तेन याति परब्रह्म ज्यामघस्तु ययौ यथा ॥९०॥
पठनाच्छ्रवणाच्चास्य स्मरणाच्छ्रावणादपि ।
स्वर्गमोक्षौ भवेतां वै राधिके नात्र संशयः ॥९१॥
यथा राधा तथा नारी कृष्णसौभाग्यमाप्नुयात् ।
यथा च गरुडस्तद्वन्नरो दास्यमवाप्नुयात् ॥९२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोः सेवाऽर्चनदानपूजादिफलमाहात्म्यादिनिरूपणनामा नवाधिकषष्टितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP