त्रेतायुगसन्तानः - अध्यायः १५
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु वै राधिके तासां कथां परमपावनीम् ।
श्रीकृष्णस्वामिसंयोगाद् रमात्वप्राप्तयोषिताम् ॥१॥
अनादिश्रीकृष्णनारायणेन लोमशाय ताः ।
तदाश्रमे निवासार्थं रक्षार्थं प्रसमर्पिताः ॥२॥
प्राप्तदिव्यस्वरूपास्ताः प्राप्ताऽऽनवकुमारताः ।
अप्यप्राप्तज्ञानदीपा अत एव कथानके ॥३॥
व्याख्याने वा रसवर्ज्या अनाविष्कृतबुद्धयः ।
मौनीभावेन वर्तन्ते मुग्धा इव हि संसदि ॥४॥
आत्मज्ञानं न जानन्ति न जानन्ति वृषं तपः ।
अज्ञाता मोक्षधर्मेषु ता आसन् छन्नदीपवत् ॥९॥
किन्तु मुमुक्षाभावाढ्या ज्ञानोदयपरायणाः ।
पप्रच्छुः राधिके सर्वा लोमशं ज्ञानभास्करम् ॥६॥
कीटान् भ्रमरी भ्रमरीव करोति नैजदंशतः ।
ज्ञानी ज्ञानप्रदस्त्वन्धान् चक्षुष्मतः करोति च ॥७॥
ज्ञानं देहि गुरोऽस्मभ्यं मोक्षदं चाप्मशान्तिदम् ।
नारीरूपं सदा ज्ञानवर्जितं वासनाऽऽश्रयम् ॥८॥
दोषाश्रयं -भवत्येव मोक्षस्तस्मान्न जायते ।
यथा मोक्षो भवेन्नश्च दोषनाशो यथा भवेत् ॥९॥
यथा कृष्णः प्रसन्नः स्यात्तथा वै सरलान् वृषान् ।
कर्तव्यार्थभृतानस्मान् प्रशाधि चाऽबलाजनान् ॥१०॥
इत्यर्थितो लोमशस्तु ज्येष्ठे चैकादशीदिने ।
उपादिदेश सर्वाभ्यो व्रतधर्मान् शुभप्रदान् ॥११॥
एकादशीव्रतं पुत्र्यः! सर्वपापहरं परम् ।
निर्जलं च निराहारं कृतं सजागरं तथा ॥१२॥
सश्रीकृष्णार्चनश्राद्धं सकृष्णाराधनान्वितम् ।
ससत्संगेन्द्रियदमं पापहं मोक्षदं हि तत् ॥१३॥
कृष्णप्रसन्नतादं च भुक्तिमुक्तिप्रदं तथा ।
प्रातः पूजां व्रते त्वद्य बालकृष्णस्य वै हरेः ॥१४॥
गत्वा कुरुत पुष्पाद्यैः फलैर्जलैश्च चन्दनैः ।
आत्मार्पणैः प्रदक्षिणैर्हृद्भवैः सुमनोहरैः ॥१५॥
भोज्यदानैः पानदानैर्दोलाऽऽन्दोलनकैरपि ।
नृत्यगीतैर्हावभावै रञ्जनैः सेवनैर्मुहुः ॥१६॥
इन्द्रियाणां निग्रहैश्च मौनैर्विषयवर्जितम् ।
व्रतं कुरुत कृष्णस्य प्रसन्नतार्थमेव वै ॥१७॥
इत्युक्तास्तानूत्नकन्या व्रतं तु निर्जलोद्भवम् ।
ज्येष्ठशुक्लैकादश्याः संचक्रुः सजागरान्वितम् ॥१८॥
बालकृष्णः प्रसन्नश्च तास्तु वैकुण्ठदर्शनम् ।
कारयामास च नैजं दर्शनं सुचतुर्भुजम् ॥१९॥
नैकपार्षदलक्ष्म्यादिविभूतिसेवितं ददौ ।
ताश्चात्मानं कृतकृत्यं मेनिरे श्रीहरिप्रियाः ॥२०॥
रात्रौ जागरणं चक्रुः प्रातश्चक्रुर्हि पारणाम् ।
आसीनं लोमशं ताश्च पप्रच्छुर्धर्मसंग्रहम् ॥२१॥
किं सेव्यं सर्वदा पापनाशकं पुण्यदायकम् ।
मोक्षदं स्वर्गदं चापि याम्यकष्टनिवारकम् ॥२२॥
लोमशस्तास्तदा प्राह सेव्या गावस्तथाविधाः ।
सर्वदेवमया गावो देव्यश्चामृतवार्धयः ॥२३॥
तारिकास्तीर्थरूपाश्च पवित्राः पुष्टिदायिकाः ।
तासां सेवा प्रकर्तव्या सर्वलाभप्रदा सदा ॥२४॥
सकृत् गव्यप्रदत्तेन प्रीयन्ते देवतादयः ।
दध्ना हि त्रिदशाः सर्वे क्षीरेण च महेश्वरः ॥२५॥
घृतेन पावको नित्यं पायसेन पितामहः ।
गां दत्वा गोपयः पीत्वा प्रीतो मेध्यः पुमान् भवेत् ॥२६॥
पञ्चगव्यं परं मेध्यं वाजिमेधफलप्रदम् ।
मरुतो धेनुदन्तेषु जिह्वायां च सरस्वती ॥२७॥
खुरमध्ये च गान्धर्वाः खुराग्रेषु तु पन्नगाः ।
सर्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने ॥२८॥
ककुदे सर्वक्षत्राणि लाङ्गूले धर्म आश्रितः ।
अपाने सर्वतीर्थानि प्रस्रावे जाह्नवी नदी ॥२९॥
स्तनेषु सागराः रोमकूपेषु तु महर्षयः ।
लक्ष्मीरास्ते गोमये गोः रोमेषु सर्वशक्तयः ॥३०॥
धैर्यं धृतिश्च शान्तिश्च पुष्टिर्वृद्धिस्तथा स्मृतिः ।
मेधा लज्जां वपुः कीर्तिर्विद्या मतिश्च सन्ततिः ॥३१॥
धर्मपत्न्यो भक्तिमूर्ती गोषु तिष्ठन्ति सर्वदा ।
परेतमनुगच्छन्ति दत्ता गावः सुपात्रके ॥३२॥
यत्र गावस्तत्र लक्ष्मीर्धर्मो ज्ञानं च देवताः ।
अमरा अपि गोभिश्च प्रदत्ताभिर्विनिर्मिताः ॥३३॥
तस्मात् पुत्र्यः कामधेनूः प्रपूजयत चाश्रमे
अयं धर्मो महानत्र वने प्रोक्तो मया शुभः ॥३४॥
श्रुत्वैवं ता नूत्नकन्या गोसेवां विदधुः शुभाम् ।
अथाऽन्यमपि पप्रच्छुर्धर्मभृतं शुभावहम् ॥३५॥
गोसेवासदृशी काचिदन्यसेवाऽस्ति वा न वा ।
यया भुक्तिश्च मुक्तिश्च नारीणां शुभदा भवेत् ॥३६॥
लोमशस्तु तदा प्राह पत्युः सेवाऽस्ति तादृशी ।
स्वामिशुश्रूषया स्वर्गं मोक्षः सुखं हि लभ्यते ॥३७॥
पत्युः पादोदकं पीत्वा ब्रह्मलोके महीयते ।
पतिरेव परब्रह्म पतिर्दानं व्रतं क्रतुः ॥३८॥
पत्याज्ञा परमो धर्मस्तेन मुक्तिर्हि योषिताम् ।
सर्वदेवाश्च विधयः पत्युवाक्ये वसन्ति हि ॥३९॥
यासां तुष्टः पतिर्देवस्तासां तुष्टः परेश्वरः ।
प्रसुप्ते या प्रस्वपिति जागर्ति जाग्रति ध्रुवम् ॥४०॥
भुङ्क्ते तु भोजिते पुत्र्यः! सा मृत्युं जयति ध्रुवम् ।
मौने मौना भवेद् या तु स्थिते स्थिता तु या स्वयम् ॥४१॥
सा मृत्युं जयते पुत्र्यो! नान्यन्मृत्युजयावहम् ।
एकदृष्टिरेकचित्ता भर्तृर्वचनकारिणी ॥४२॥
तस्या बिभ्यति याम्याश्च सा साध्वी पूज्यते सुरैः ।
भर्त्रा चाभिहिता प्रेम्णा न प्रत्याख्यायिनी भवेत् ॥४३॥
नान्यं वै दैवतं याति पत्युरन्यं पतिप्रिया ।
सा न मृत्युमुखं याति लक्ष्मीतुल्या पतिव्रता ॥४४॥
एष माता पिता बन्धुरेष मे दैवतं परम् ।
एवं शुश्रूषयते या सा मृत्युं जयति ध्रुवम् ॥४५॥
भर्तारं ध्यायमाना च भर्तारमनुवर्तना ।
भर्तारं चिन्तयमाना न याम्यं पश्यति क्वचित् ॥४६॥
स्नाने तथाऽऽसने याने केशप्रसाधनादिषु ।
नान्यं या मनसा पश्येत् सा यमं नैव पश्यति ॥४७॥
देवता अर्चयन्तं वा भुञ्जानं सुखशायिनम् ।
त्यजति स्वामिनं या न मृत्युं कालं जयेत्तु सा ॥४८॥
भानौ चानुदिते या स्त्री गृहं मार्जयते सदा ।
स्वामिसेवापरा स्याच्च यमलोकं न पश्यति ॥४९॥
शौचाचारसमायुक्ता भर्तुर्मुखाग्रदर्शना ।
वर्तते च हि ते भर्तुर्मृत्युद्वारं न पश्यति ॥५०॥
पतिव्रताः सत्यवाक्या अजिता स्वामिसेविकाः ।
हिंसाहीना न वै यान्ति याम्यलोकं कदाचन ॥५१॥
ब्रह्मचर्यपराः कन्या विधवा धर्मसंभृताः ।
हरेर्भक्ताः सतां दास्यो न यान्ति यमपत्तनम् ॥५२॥
ज्ञानाश्रयास्तथा विद्यां परां प्राप्ताः समाहिताः ।
स्वाम्यर्थे प्राणदात्र्यश्च न यान्ति यमपत्तनम् ॥५३॥
दात्र्यः शुश्रूषिका मातापित्रोः पत्युश्च सद्गुरोः ।
तिलगोस्वर्णदात्र्यश्च न यान्ति यमपतनम् ॥५४॥
चातुर्मास्यव्रतकर्त्र्यो गुरुचित्तानुपालिकाः ।
नित्यकथाश्रवणाश्च न गच्छन्ति यमालयम् ॥५५॥
तपसा प्राप्यते स्वर्गं यशश्चायुःसुखादिकम् ।
ज्ञानविज्ञानमारोग्यं रूपसौभाग्यसम्पदः ॥५६॥
प्राप्यन्ते तपसा भोगा भक्त्या विष्णोः परं पदम् ।
पयोभक्ष्या दिवं यान्ति धनदा द्रविणाढ्यताम् ॥९७॥
गुरुशुश्रूषया भुक्तिं मुक्तिं ध्यानात् प्रयान्ति च ।
श्राद्धेन सन्ततिं यान्ति स्वर्गः पर्णाशिनां भवेत् ॥५८॥
फलमूलाशिनां राज्यं मोक्षो गोसेविनां भवेत् ।
रसानां सम्प्रदानेन सौभाग्यमनुजायते ॥५९॥
अन्नपानीयदानेन तृप्तिर्भवति शाश्वती ।
सौगन्धिकप्रदानेन कामभोगैः प्रतृप्यते ॥६०॥
फलैस्तु लभते पुत्रं पुष्पैः सौभाग्यमुत्तमम् ।
अभयस्य प्रदानेन सर्वान् कामानवाप्नुयात् ॥६१॥
अभयस्य प्रदाता योऽभयं ददाति देहिने ।
पात्रेण देहिना भाव्यं तदोद्धारो भवेद् द्वयोः ॥६२॥
अनादिश्रीकृष्णनारायणस्वामिप्रसंगतः ।
सतां च सेवया याति क्षयं त्वशुभमित्यतः ॥६३॥
मोक्षदा चात्मफलदा शुभा बुद्धिः प्रवर्तते ।
क्लेशक्षयं पापहरं शुभं कर्माऽपि जायते ॥६४॥
स्वर्गः शुभफलप्राप्तिर्निरयः पापसंभवः ।
अर्जयेत्तु सदा श्रेष्ठं फलदं नाऽशुभं क्वचित् ॥६५॥
अहिंसा सर्वभूतानां तृष्णाक्रोधविवर्जिता ।
अपापकारिणी सार्वभौमा तारयति ध्रुवम् ॥६६॥
अनाशा या सदा तिष्ठेदिष्टार्थेषु न लोलुपा ।
सवैराग्या हरौ लग्ना नारी तरति सागरम् ॥६७॥
श्रद्दधानाऽनसूया च गुरुशुश्रूषणे रता ।
अक्षुद्रशीला धर्माढ्या नारी तरति सागरम् ॥६८॥
प्रशस्तानि च या कुर्यादप्रशस्तानि वर्जयेत् ।
मंगले वर्तमाना च मुच्यते सर्वपापतः ॥६९॥
स्थावरं जंगमं तीर्थं सेवते शुद्धमानसा ।
साधुं च सेवते नित्यं सा याति परमां गतिम् ॥७०॥
श्रीनूत्नकुमारिका ऊचुः-
अल्पोपायकरं चैव सुखोपायं च सर्वशः ।
कर्मणामशुभानां च विविधोत्पत्तिजन्मनाम् ॥७१॥
यत् समर्थ स्फोटयितुं तन्नो ब्रूहि तपोधन ।
श्रीलोमश उवाच-
मोक्षप्रदे हरौ प्राप्ते प्राप्ते साधुजने गुरौ ॥७२॥
सेवां कुर्यात्तु या तस्या विशुद्धेनाऽऽन्तरात्मना ।
सा सेवा सरलोपायो ह्यसत्कर्मप्रणाशनः ॥७३॥
दृष्ट्वा साधून्नमस्येद् या सा पापेभ्यः प्रमुच्यते ।
मनसा कर्मणा वाचा यत् किञ्चित् कलुषं कृतम् ॥७४॥
कृष्णकान्ताय चार्पय्य शुद्धा मोक्षगता भवेत् ।
सूर्ये कृष्णं चन्द्रमसि कृष्णं गोषु जनार्दनम् ॥७५॥
गुरौ कृष्णं प्रपश्येद् या सा प्रमुच्येत बन्धनात् ।
साधुं पतिं गुरुं देवं गां पितरौ सतीं द्विजम् ॥७६॥
दृष्ट्वा प्रणमेद् ध्यायेच्च या च कुर्यात् प्रदक्षिणम् ।
द्रागेव दुष्कृतान् हित्वा मुच्यते सा प्रबन्धनात् ॥७७॥
गावः पवित्रा मंगल्या देवानामपि देवताः ।
या ताः प्रसेवते भक्त्या सा पापेभ्यः प्रमुच्यते ॥७८॥
सौम्ये मुहूर्ते संयुक्ते पञ्चगव्यं तु या पिबेत् ।
यावज्जीवकृतात्पापात् तत्क्षणादेव मुच्यते ॥७९॥
लांगूलेनोद्धृतं तोयं मूर्ध्ना गृह्णाति या सती ।
सर्वतीर्थफलं प्राप्य सा पापेभ्यः प्रमुच्यते ॥८०॥
धेनुस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य या सती ।
शिरसा प्रतिगृह्णाति सा पापेभ्यः प्रमुच्यते ॥८१॥
साधुं संसेव्य विधिवद् भोजयित्वा प्रपूजयेत् ।
तस्यास्तु किल्बिषं सर्वं तत्क्षणादेव नश्यति ॥८२॥
प्राचीनाग्रान् कुशान् कृत्वा स्थापयित्वा वृषं पुरः ।
तत्पुच्छजलसंस्नाता शुद्धा भवति सर्वथा ॥८३॥
दक्षिणावर्त्तशंखस्थजलेनाऽऽप्लाव्य शुद्ध्यति ।
कृष्णतिलाऽन्वितजलैः स्नात्वा शुद्ध्यति तत्क्षणात् ॥८४॥
अच्छिद्रपद्मपत्रेण सर्वरत्नोदकेन च ।
साधुपादोदकेनाऽपि स्नात्वा पापैः प्रमुच्यते ॥८५॥
कार्तिके बोधिनीं कृत्वा कृत्वा च द्वादशीं तथा ।
जन्मकोटिकृतपापान्याशु नाशयति व्रती ॥८६॥
अनादिश्रीकृष्णनारायण लक्ष्मीपते प्रभो ।
माणिक्येश्वर हंसेश कीर्तनात् तल्लयं व्रजेत् ॥८७॥
जन्मान्तरसहस्रेषु समाराध्य परेश्वरम् ।
वैष्णवीत्वं लभेत् काचित् सर्वपापक्षये सति ॥८८॥
भवतीभिः कृष्णनारायणाऽनुग्रहणेन तत् ।
दुर्लभं वैष्णवीत्वं वै लब्धं कृपालभं सुताः! ॥८९॥
वैष्णव्यो हि महाभागाः पुनन्ति सकलं जगत् ।
संस्मृतः कीर्तितो वाऽपि दृष्टः स्पृष्टोऽपि वा सुताः! ॥९०॥
पुनाति भगवान् द्राक् च सहस्रजन्मपावनः ।
एतज्ज्ञात्वा भवतीभिः पूजनीयो विशेषतः ॥९१॥
अनादिश्रीकृष्णनारायणो बालस्वरूपवान् ।
इत्युक्त्वाऽऽचमनं दत्वा दत्वाऽऽत्मज्ञानमुज्ज्वलम् ॥९२॥
लोमशो विररामाऽपि ता अपि नूत्नकन्यकाः ।
त्यक्त्वा धर्ममधर्मं च शाश्वतीं धियमास्थिताः ॥९३॥
जगृहुर्नियमाँस्ताँस्तान् भयहीनाननिन्दितान् ।
प्रीत्या परमया युक्ताः कृष्णेमाऽन्वचिन्तयन् ॥९४॥
लोमशोऽपि सदा सायं कृष्णनारायणस्य ह ।
कथास्ताः श्रावयामास पातिव्रत्यादिभक्तिदाः ॥९५॥
लक्ष्मीनारायणसंहितां च सर्वां समन्ततः ।
श्रावयामास ताः सर्वाश्चातुर्मास्ये व्रतस्थिताः ॥९६॥
नूत्नकन्या लक्षकन्यास्तथाऽन्या अपि सर्वदा ।
अनादिश्रीकृष्णनारायणं जेपुः समादरात् ॥९७॥
जाग्रति चापि निद्रायां सुषुप्तावपि ता हरिम् ।
पतिं श्रीस्वामिनं हृत्सु धारयामासुरुत्सुकाः ॥९८॥
कम्भरानन्दनं बालकृष्णं हृद्भिः प्रवव्रिरे ।
भेजुस्तं चात्मनि चात्मान्तरात्मानं प्रियं प्रभुम् ॥९९॥
एवं ता राधिके दिव्या जातास्तामसजा अपि ।
परमेश्वरयोगेन किमाश्चर्यं वदामि ते ॥१००॥
कृपामात्रधृतजन्मा कृष्णोऽनुग्रहवानयम् ।
पापिपापानि चोग्राणि नाशयित्वाऽकरोन्निजान् ॥१०१॥
नरान्नारीः पशून् वृक्षान् वल्लीदैत्यादिकाँस्तथा ।
पाठकान् श्रोतृवर्गांश्च नैजान् करोति वै तथा ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नूत्नकन्यकानां लोमशदर्शितैकादशीव्रतपातिव्रत्यगोगुर्वादिसेवनमाहात्म्यनिरूपणनामा पञ्चदशोऽध्यायः ॥१५॥
N/A
References : N/A
Last Updated : April 29, 2021
TOP