त्रेतायुगसन्तानः - अध्यायः १४६
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके चैवं नान्दीश्राद्धोत्तरं तु यत् ।
भक्ताय भगवानाहाऽऽचार्यादिवरणं यथा ॥१॥
ओमेतस्यां प्रतिष्ठायां कर्तव्यायां तु कर्मसु ।
आचार्यत्वेन विप्रं त्वा वृणे गन्धाऽक्षतादिभिः ॥२॥
पुष्पताम्बूलमुद्राभिर्वासोभिश्चास्मि ओं वृतः ।
तं प्रपूज्य ततो ब्रह्मवरणं संविधापयेत् ॥३॥
ओमेतस्यां प्रतिष्ठायां कर्तव्यायां तु कर्मसु ।
कृताऽकृतेक्षात्मसु ब्रह्मस्थाने त्वामहमावृणे ॥४॥
गन्धपुष्पाक्षतताम्बूलकमुद्राऽम्बरादिभिः ।
ब्रह्मत्वेन वृतोऽस्मीति ब्रह्माऽस्मि वै क्रतौ तव ॥५॥
तं प्रपूज्य ऋत्विजोऽष्टौ चतुरो वृणुयाच्च वा ।
अस्य देवस्य च प्रतिष्ठायां वेदविदोऽत्र च ॥६॥
अमुकान् वो वृणे ऋत्विक्त्वेन गन्धादिभिस्त्विह ।
ओं वृत्ताः स्म इति तान् संपूज्य गन्धाक्षतादिभिः ॥७॥
अष्टौ वा चतुरो द्वारपालान् संवृणुयान्मखी ।
एकैकवेदिनौ द्वौ द्वौ जापकौ वृणुयान्मखी ॥८॥
भवन्ति ऋत्विजश्चैवं पञ्चविशंतिसंख्यकाः ।
यद्वाऽशक्तौ वृणुयाद्वै तथा होत्रष्टकं पुनः ॥९॥
जापकान् चतुरो द्वारपालचतुष्टयं गुरुम् ।
एवं वै ऋत्विजः सप्तदशाप्यपि भवन्ति हि ॥१०॥
यद्वा होतॄँश्च चतुरो जापकाँश्चतुरस्तथा ।
चतुरो द्वारपालाँश्च गुरुं चेति त्रयोदश ॥११॥
यद्वाऽऽचार्यं तथा ब्रह्माणमेव वृणुयान्मखी ।
द्वाभ्यां सर्वं यज्ञकर्म निवर्तते न संशयः ॥१२॥
राजा तु शतसाहस्रान् वृणुयाच्च यथाबलम् ।
ततोऽर्चयेच्च विधिना गुर्वादीन् वरणक्रमात् ॥१३॥
मधुपर्केणाऽर्चयेद्वै मिष्टेन पायसादिना ।
भघुपर्को बहुविधो मिष्टाम्ब्लपायसादिजः ॥१४॥
अथ विप्रान् प्रार्थयेच्च मखी प्राञ्जलिरुत्थितः ।
ब्राह्मणाः सन्तु मे शान्ताः सर्वपापनिवारकाः ॥१५॥
दानयज्ञजपहोमैर्याजकास्तृप्तिदायकाः ।
पितॄणां च सुराणां च वेदमूर्तय एव ते ॥१६॥
रक्षन्तु जापका मां च ऋद्धिं वृद्धिं ददत्वपि ।
यागनिष्पत्तये विप्रा वृताः कुर्वन्तु शान्तिकम् ॥१७॥
पौष्टिकं च प्रकुर्वन्तु नियमे संस्थिताः द्विजाः ।
एवं विप्रान् सुसम्प्रार्थ्याऽऽचार्यं संप्रार्थयेन्मखी ॥१८॥
मन्त्रमूर्तिर्भवानास्ते कुरु धर्मोन्नतिं मम ।
त्वत्प्रसादेन यज्ञोऽयं निर्विघ्नो वै समाप्यताम् ॥१९॥
एवं सम्प्रार्थ्य च ततः ससुत्थाय मखी स्वयम् ।
गृहीत्वा योग्यसम्भारान् कृत्वाऽग्रतः सुवासिनीः ॥२०॥
विप्रांस्तथाऽग्रतः कृत्वा तूर्यघोषे प्रवर्तिते ।
पूर्णकुंभसमायुक्तो यजमानो हि मण्डपम् ॥२१॥
कृत्वा प्रदक्षिणं प्राप्य पश्चिमद्वारमेव तु ।
पाणिभ्यां चार्घपात्रं वै समादाय स्थितो भवेत् ॥२२॥
सार्घो द्वारे पृथिवीं च ध्यात्वा कूर्मोपरिस्थिताम् ।
शुक्लां पद्मशंखचक्रशूलयुक्तचतुर्भुजाम् ॥२३॥
सवत्सां गोरूपधरां चागच्छ वसुधे त्विह ।
गृहाण फलपुष्पाणि पूजां गृहाण मत्कृताम् ॥२४॥
यज्ञार्थं भगवत्पत्नीं त्वां वृणोमीह वैष्णवीम् ।
सौभाग्यं देहि पुत्राँश्च धनंरूपं प्रदेहि च ॥२५॥
गृहाणार्घ्यं च मे देवि सुसौभाग्यं प्रयच्छ मे ।
इत्यष्टांगं महार्घ्यं च दत्वा नत्वा ततो मखी ॥२६॥
पश्चिमद्वारमार्गेण प्रविशेद् यजमानकः ।
होमद्रव्यप्रवेशस्तु पूर्वद्वारेण वै मतः ॥२७॥
दानद्रव्यप्रवेशस्तु दक्षद्वारेण वै मतः ।
दानार्थान् दक्षिणार्थांश्च प्रतिष्ठार्थान् सुपावनान् ॥२८॥
संभारानुत्तरद्वारेणैव प्रवेशयेन्मखी ।
आचार्यस्तु ततो वामे हस्ते वै गौरसर्षपान् ॥२९॥
लाजायुक्तान् गृहीत्वा च कुर्याद्वै दिक्प्ररक्षणम् ।
ओं रक्षोहणं वलगं चोत्किरामि समन्ततः ॥३०॥
अनिष्टानुत्खन सर्वान् वलग त्वां किरामि च ।
रक्षोहणो वलगाः प्रोक्षयामि वैष्णवान् बलान् ॥३१॥
तृणाम्युपदधाम्यत्रोपर्यूहामि समन्ततः ।
रक्षोभागो निरस्तोऽस्ति रक्षोबाधो न वै भवेत् ॥३२॥
रक्षोहा विश्वचर्षणिरभियोनिमयोहते ।
द्रोणेसधः स्थलं पुष्टं समासदत् विनिर्भयम् ॥३३॥
भूमिभूता विघ्नरूपा असर्पन्त्वितः स्थलात् ।
अपक्रमन्तु भूतानि पिशाचाः सर्वतो दिशः ॥३४॥
यज्ञकर्मविरोध्यत्र भूतं स्थितं स्थलेऽत्र वै ।
स्थानं विहाय चान्यत्र प्रयान्त्वस्तु च शान्तिदम् ॥३५॥
प्रेताद्याश्चापगच्छन्तु स्वीकरोमि भुवं त्विमाम् ।
करोमि शान्तिकं चात्र किरामीशानतः क्रमात् ॥३६॥
आयान्त्वत्र सुरा यातुधानाद्या अपयान्तु च ।
देवयजनं क्षेत्रं त्वं रक्ष विष्णोऽन्तरे स्थित ॥३७॥
इति रक्षां विधायैव पञ्चगव्येन सत्कुशैः ।
प्रोक्षयेन्मण्डपभूमिं यज्ञसंभारकांस्तथा ॥३८॥
हिरण्यवर्णाः शुचयः पाविका लोकपाविकाः ।
अग्निं या दधिरे गर्भे ता आपः पावयन्तु नः ॥३९॥
वारुण्यो मधुस्राविण्यः शंस्य अपो भवन्ति याः ।
यत्स्पृष्टं भक्ष्यमेव स्याद् देवानां ताः पुनन्तु नः ॥४०॥
अन्तरीक्षे पृथिव्यां च शुक्रं यदुद्भवं रसम् ।
पुष्टिदं सर्वदेवानां ता आपो नः पुनन्त्विह ॥४१॥
शिवेन चक्षुषा पश्यतापो मां स्पृशताऽपि च ।
शिवया तनुवा मां च बलतेजोन्वितं तथा ॥४२॥
पुनातु यज्ञसंभारान् पवमानो जलान्वितः ।
पुनन्तु मनवो देवाः पुनन्तु विश्वआयवः ॥४३॥
अग्ने सलिल शक्त्या ते इदं ब्रह्म पुनीमहे ।
वैश्चानरो रश्मिभिर्मां वातः प्राणेन वर्चसा ॥४४॥
द्यावापृथिवी पयसा सविता किरणैरिहा ।
पुनन्तु मां च संभारानिदं ब्रह्म पुनीमहे ॥४५॥
पावमान्या पवित्रं यत् तदश्नन्त्येव देवताः ।
पावमान्या तु संभाराः संमताः सद्रसैः सदा ॥४६॥
तस्मै रसवती दुहे सर्वमश्नन्ति देवताः ।
ऋषिभिः संभृतरसं क्षीरं सर्पिर्मधूत्तमम् ॥४७॥
ब्राह्मणेष्वमृतं हितं निहितं तच्च वस्तुषु ।
पवमान्या पवित्रेण देवाश्चाश्नन्ति भावतः ॥४८॥
इन्द्रः सोमो वरुणश्च यमो राजा पूनन्त्विदम् ।
ब्रह्मजातं वस्तुजातं पूतं ब्रह्म पुनीमहे ॥४९॥
इत्येवं चाभिषिच्यैव आपोहिष्ठामयो भुवः ।
ता न ऊर्जे दधातन महेरणाय चक्षसे ॥५०॥
यो वः श्रेष्ठतमो मिष्टो रसस्तद्भाजनं वयम् ।
आपस्तद्भाजनं सर्वम् आपो जनयथा रसम् ॥५१॥
इत्येवं सर्वसंभारान् प्रोक्ष्य कृताञ्जलिर्मखी ।
तिष्ठेद् विप्रो वदेत् स्वस्तिमश्विनौ कुरुतं तव ॥५२॥
अदितिस्ते स्वस्तिमेव पूषा स्वस्तिं दधातु ते ।
द्यौः क्षितिस्ते स्वस्तिमेव चिनुतः स्वस्तिमर्यमा ॥५३॥
वायुः स्वस्तिं गुरुः स्वस्तिं वह्निः स्वस्तिं करोतु ते ।
देव्यः स्वस्तिं तथा देवाः स्वस्तिं कुर्वन्तु ते सदा ॥५४॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥५५॥
इत्येवं स्वस्मिमाधत्य मण्डपस्याऽर्चनं तथा ।
कुर्याद्वै वास्तुपूजां चोपविश्य वास्तुसन्निधौ ॥५६॥
मण्डपनैर्ऋत्यकोणे प्राङ्मुखो यजमानकः ।
उपविश्याऽऽचम्य प्राणानायम्य च समाहितः ॥५७॥
देशकालौ प्रसंकीर्त्य वास्तुपूजां चरेन्मखी ।
वास्तोश्चतुर्षु कोणेषु चतुःशंकून् प्ररोपयेत् ॥५८॥
ओं विशन्तु भूभागे नागाश्च लोकप्रपालकाः ।
मण्डपेऽत्राऽवतिष्ठन्तु बलायुष्यप्रदाः सदा ॥५९॥
बलिदानं माषभक्तदध्योदनेन चार्पये ।
शंकवः प्रतिगृह्णन्तु भवत्पार्श्वे समर्पितम् ॥६०॥
रुद्रेभ्यश्चापि सर्पेभ्यो बलिं ददामि शोभनम् ।
गृह्णन्त्वीशानभागस्था ये चान्ये तत्समाश्रिताः ॥६१॥
ओम् अग्निभ्योऽथ सर्पेभ्यो ये चान्ये तत्समाश्रिताः ।
आग्नेय्यां वो बलिं गृह्णन्त्वोदनं प्रददामि यत् ॥६२॥
नैर्ऋत्याधिपतिश्चैव नैर्ऋत्यां राक्षसाश्च ये ।
बलिं तेभ्यः प्रयच्छामि गृह्णन्तु मन्त्रितं बलिम् ॥६३॥
वायव्याधिपतिश्चैव वायव्यां ये च राक्षसाः ।
बलिं ददामि गृह्णन्त्वोदनं पुण्यं समर्पितम् ॥६४॥
वास्तुपीठे कुंकुमाद्यैः स्वर्णशलाकया तथा ।
रत्नेन रजतेनापि फलेन कुसुमेन वा ॥६५॥
नवरेखाः प्रकर्तव्यास्तत्र लक्ष्म्यै नमश्च ओम् ।
यशोवत्यै नमश्चेति ओं कान्तायै नमस्तथा ॥६६॥
सुप्रियायै नमश्चेति विमलायै नमश्च ओम् ।
ओं श्रियै नम ओं सुभगायै नमश्च ओमिति ॥६७॥
ओं सुमत्यै नम ओम् इडायै नमश्च ओमिति ।
एवं वै स्थापयित्वैव कृत्वा रेखाः पुनर्नव ॥६८॥
ओं धान्यायै नमस्तत्र ओं प्राणायै नमस्तथा ।
विशालायै नमश्चापि ओं स्थिरायै नमस्तथा ॥६९॥
ओं भद्रायै नमश्चेति ओं जयायै नमस्तथा ।
ओं निशायै नमश्चेति विरजायै नमश्च ओम् ॥७०॥
विभवायै नमश्चेति स्थापयित्वा प्रपूजयेत् ।
ऐशाने च पदे देवमीशानं शिखिनं हरम् ॥७१॥
ध्यात्वा चाऽऽवाहयाम्यत्र शंभवाय नमो नमः ।
भवाय शंभवे शिवतराय च नमो नमः ॥७२॥
ओं भूर्भुवः स्वः शिखिन्निहाऽऽगच्छ तिष्ठ च ते नमः ।
तद्दक्षिणे च पर्जन्यं ध्यात्वा चावाहयाम्यहम् ॥७३॥
अभिवर्षतु पर्जन्यः पर्जन्याय नमो नमः ।
ओं भूर्भुवः स्वः पर्जन्य इहागच्छ च तिष्ठ च ॥७४॥
ततो दक्षे जयन्तं च ध्यात्वा चावाहयाम्यहम् ।
जयन्त वर्मणा छन्न चामृतेन समाप्लुता ॥७५॥
उरसा बलमापन्न त्वां मृन्दन्तु सुरा इह ।
ओं भूर्भुवः स्वः जयन्त इहागच्छ च तिष्ठ च ॥७६॥
जयन्ताय नमस्तेऽस्तु जयं तनोतु सर्वथा ।
ततो दक्षे महेन्द्रं च ध्यात्वा चावाहयाम्यहम् ॥७७॥
ओम् आयात्विन्द्रो वसत्वत्र स्तुतः शूरश्च वर्धनः ।
ओं भूर्भुवः स्वः महेन्द्र इहागच्छ च तिष्ठ च ॥७८॥
महेन्द्राय नमो वज्रधराय द्युप्रभाविणे ।
ततो दक्षे सूर्यदेवं ध्यात्वा चावाहयाम्यहम् ॥७९॥
सवित्रे ब्रह्मरूपाय तेजःकोशाय ते नमः ।
ओं भूर्भुवः स्वः सूर्य त्वमिहागच्छ च तिष्ठ च ॥८०॥
ततश्च दक्षिणे सत्यं ध्यात्वा चावाहयाम्यहम् ।
सत्येन दीक्षा फलति सश्रद्धा दक्षिणात्मिका ॥८१॥
तत्सर्वं सत्यकाधारं सत्याय ते नमो नमः ।
ओं भूर्भुवः स्वश्च सत्य इहागच्छ तिष्ठ च ॥८२॥
ततो दक्षे भृशं ध्यात्वा चावाहयामि भावतः ।
आत्वा हार्षमन्तरभ्रुर्ध्रुवस्तिष्ठाऽविचाचलिः ॥८३॥
विशस्त्वां सर्वे वाञ्च्छन्तु मा त्वद्राष्ट्रधिद्भ्रशत् ।
ओं भूर्भुवः स्वः भृश इहागच्छ तिष्ठ च ते नमः ॥८४॥
ततो दक्षे महाकाशं ध्यात्वा चावाहयामि च ।
स्वरा नादा ध्वनयश्च सुनृता माध्व्य एव च ॥८५॥
त्वयि सन्ति महाकाश तुभ्यं दिव्याय वै नमः ।
औ भूर्भुवः स्वः आकाश इहागच्छ च तिष्ठ च ॥८६॥
ततो दक्षे कोणभागेऽनलमावाहयामि च ।
वायुसखं तथा वायुं ध्यात्वा चावाहयामि च ॥८७॥
अग्ने सप्तसहस्रात्यजिव्ह तुभ्यं नमो नमः ।
वायो सहस्ररथवन् वह्निमित्र च ते नमः ॥८८॥
ओं भूर्भुवः स्वश्च वह्ने वायो चागच्छ तिष्ठ च ।
ततः पश्चे पूषणं च ध्यात्वा चावाहयामि च ॥८९॥
पूषन् तव व्रते वयं न रिष्येम कदाचन ।
ओं भूर्भुवः स्वश्च पूषन्निहागच्छ च तिष्ठ च ॥९ ०॥
पूष्णे नमस्तव स्तोतारो वयं स्मः सुखं कुरु ।
ततः पश्चे त वितथं ध्यात्वा चावाहयामि च ॥९१॥
वितथ त्वं सूर्यमहस्तुभ्यं नमः पुनः पुनः ।
ओं भूर्भुवः स्वः वितथ इहागच्छ च तिष्ठ च ॥९२॥
ततः पश्चे गृहक्षतं ध्यात्वा चावाहयामि च ।
ओम् अक्षन्नमीमदंतह्यवप्रिया अधूषत ॥९३॥
ओं भूर्भुवः स्वः गृहक्षत नमश्चागच्छ तिष्ठ च ।
ततः पश्चे यमं ध्यात्वा चावाहयामि ते नमः ॥९ ४॥
ते यमाय पितृमते स्वधा धर्माय ते नमः ।
ओं भूर्भुवः स्वः यमश्चेहागच्छ च तिष्ठ च. ॥९५॥
ततः पश्चिमे गन्धर्वं ध्यात्वा चावाहयामि च ।
गन्धर्व त्वां विश्वावसुः परिदधातु भूतये ॥९६॥
ओं भूर्भुवः स्वः गन्धर्व नमश्चागच्छ तिष्ठ च ।
तत्पश्चे भृंगराजं च ध्यात्वा चावाहयामि च ॥९७॥
भृंगराजाय च नमः सूरिणे च सरोमते ।
ओं भूर्भुवः स्वः भृंगराज इहागच्छ च तिष्ठ च ॥९८॥
ततः पश्चे मृगं ध्यात्वा चावाहयामि ते नमः ।
विशत्रुं कुरु मृगराट् दुर्गेऽपि सहदो भव ॥९९॥
ओं भूर्भुवः स्वः मृगाऽत्र समागच्छ च तिष्ठ च ।
तत्पश्चे नैर्ऋतकोणे पितॄनावाहयामि च ॥१००॥
पितृभ्यश्च नमः सर्वपितॄन् समभिधीमहि ।
ओं भूर्भुवः स्वः पितर इहागच्छत तिष्ठत ॥१०१॥
तदुत्तरे द्वारपं नन्दिनं चावाहयामि च ।
बहुरक्षाधर नन्दिन् नमस्तेऽस्तु प्ररक्षय ॥१०२॥
ओं भूर्भुवः स्वः नन्दिँस्त्वमिहागच्छ च तिष्ठ च ।
तदुत्तरे सुग्रीवकं ध्यात्वा चावाहयामि च ॥१०३॥
सुग्रीवाय नमो रुद्रोपाश्रिताय गणाय ते ।
ओं भूर्भुवः स्वः सुग्रीव इहागच्छ च तिष्ठ च ॥१०४॥
तदुत्तरे पुष्पदन्तं ध्यात्वा चावाहयामि च ।
शंभुसामविधात्रे ते पुष्पदन्ताय वै नमः ॥१०५॥
ओं भूर्भुवः स्वः पुष्पदन्त इहागच्छ च तिष्ठ च ।
तदुत्तरे च वरुणं ध्यात्वा चावाहयामि च ॥१०६॥
रसेशाय नमो मिष्टहव्यवासाय द्युमते ।
ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ॥१०७॥
तदुत्तरेऽसुरं ध्यात्वा चावाहयामि ते नमः ।
ओं भूर्भुवः स्वश्च असुर इहागच्छ च तिष्ठ च ॥१०८॥
तदुत्तरे शेषमावाहयामि ते नमो नमः ।
ओं भूर्भुवः स्वः शेषाख्य इहागच्छ च तिष्ठ च ॥१०९॥
तदुत्तरे च वै पापं ध्यायाम्यावाहयामि च ।
ओ भूर्भुवः स्वः पाप ते नमश्चागच्छ तिष्ठ च ॥११०॥
तदुत्तरे वायुकोणे रोगमावाहयामि च ।
ओं भूर्भुवः स्वः रोग ते नमश्चागच्छ तिष्ठ च ॥१११॥
पापरोगौ प्रजानां मा स्यातां नमाम्युभावपि ।
तत्पूर्वे नागनामानं चाहिर्बुध्न्यं नमामि च ॥११२॥
आवाहयामि चागच्छ तिष्ठाऽत्र भूर्भुवः स्वश्च ।
तत्पूर्वे मुख्यनामानं ध्यात्वा चावाहयामि च ॥११३॥
ओं भूर्भुवः स्वः मुख्याऽत्राऽऽगच्छ तिष्ठ च ते नमः ।
तत्पूर्वे च नमो भल्लाटाय चावाहयामि तम् ॥११४॥
ओं भूर्भुवः स्वः भल्लाट इहागच्छ च तिष्ठ च ।
तत्पूर्वे तु कुबेराय नम आवाहयामि तम् ॥११५॥
सोमाय ओं भूर्भुवः स्व आगच्छ तिष्ठ ते नमः ।
तत्पूर्वे तु च शैलाय नम आवाहयामि तम् ॥११६॥
सर्पाय ओं भूर्भुवः स्व आगच्छ तिष्ठ ते नमः ।
तत्पूर्वेऽदितये नम आगच्छेह च तिष्ठ च ॥११७॥
ओं भूर्भुवः स्व अदिते मयि कल्पप्रदा भव ।
तत्पूर्वे च दितिं ध्यात्वा चावाहयामि ते नमः ॥११८॥
ओं भूर्भुवः स्वः दितेऽत्र समागच्छ च तिष्ठ च ।
वास्तोः कण्ठे अपो ध्यात्वा चावाहयामि वै नमः ॥११९॥
आपो हिष्ठामयो भुवस्तानऽऊर्जेदधातन ।
ओं भूर्भुवः स्वः आपो वै इहागच्छत तिष्ठत ॥१२०॥
स्कन्धे ध्यात्वा चाऽऽपवत्सं चावाहयामि ते नमः ।
ओं भूर्भुवः स्वः आपवत्स इहागच्छ च तिष्ठ च ॥१२१॥
दक्षे पार्श्वे चार्यमाणं नमाम्यावाहयामि च ।
ओं भूर्भुवः स्वः अर्यमन् इहागच्छ च तिष्ठ च ॥१२२॥
ततो दक्षे करे सावित्रकमावाहयामि च ।
ओं भूर्भुवः स्वः सावित्रागच्छ तिष्ठ च ते नमः ॥१२३॥
सावित्रपार्श्वके सवितारमावाहयामि च ।
कफोणिकायाः सान्निध्ये नमामि संस्मरामि च ॥१२४॥
ओं विश्वानि देवसवितर्दुरितानि परासुव ।
ओं भूर्भुवः स्वः सवितोश्चेहागच्छ च तिष्ठ च ॥१२५॥
तत्पश्चे दक्षसक्थिन विवस्वन्तं संस्मरामि च ।
आवाहयामि च नमस्ते विवस्वन् सुधां कुरु ॥१२६॥
दम्पती चाश्नुतश्चात्रागच्छ तिष्ठ च ते नमः ।
ओं भूर्भुवः स्वः विवस्वन्तं देवं संप्रधीमहि ॥१२७॥
तत्पश्चे मेढ्रदेशे च इन्द्रमावाहयामि च ।
वसुदो भव चागच्छ नमस्ते तिष्ठ स्वःपते ॥१२८॥
ओं भूर्भुवः स्व इन्द्राय विबुधेशाय ते नमः ।
तदधो गुदभागे च जयन्तं प्रस्मरामि च ॥१२९॥
आवाहयामि औं भूर्भुवः स्व एहि च तिष्ठ च ।
जयन्ताय नम अषाढाय नमो जयाय ते ॥१३०॥
तदुत्तरे वामसक्थ्नि मित्रमावाहयामि च ।
ओं भूर्भुवः स्वः मित्र त्वमागच्छ तिष्ठ ते नमः ॥१३१॥
तदुत्तरे वामकरे राजयक्ष्माणमेव च ।
आवाहयामि ते नमो यक्ष्मणा विप्रकर्षकृत् ॥१३२॥
ओं भूर्भुवः स्वः राजयक्ष्मन्निहागच्छ च तिष्ठ च ।
कफोणीसन्निधौ हस्ते वामे रुद्रं स्मरामि च ॥१३३॥
आवाहयामि च रुद्र नमामि श्रेयसे भव ।
औं भूर्भुवः स्वः रुद्रात्र समागच्छ च तिष्ठ च ॥१३४॥
ततः पूर्वे वामपार्श्वे पृथ्वीधर स्मरामि च ।
आवाहयामि पृथिवीधृक् श्रेयसे नमामि च ॥१३५॥
ओं भूर्भुवः स्वः पृथिवीधरागच्छ च तिष्ठ च ।
वास्तूदरे च ब्रह्माणं स्मराम्यावाहयामि च ॥१३६॥
ब्रह्मरूप नमस्तेऽस्तु सतो योनिं प्रदेहि नः ।
औं भूर्भुवः स्वः ब्रह्मँस्त्वमागच्छात्र च तिष्ठ च ॥१३७॥
ईशाने कोणके बाह्ये चरकीं च स्मरामि च ।
आवाहयामि चरकीं नमामि पाशनाशिनीम् ॥१३८॥
ओं भूर्भुवः स्वः चरकि चेहागच्छ च तिष्ठ च ।
अग्नौ कोणे बहिर्विदारिकामावाहयामि च ॥१३९॥
मृत्युनाशकरि विदारिके नमामि योगिनि ।
ओं भूर्भुवः स्वः विदारिके चागच्छ तिष्ठ च ॥१४०॥
रक्षःकोणे पूतनां चावाहयामि नमामि च ।
बन्धहन्त्रि पूतने त्वं निर्ऋतिदुरितापहे ॥१४१॥
ओं भूर्भुवः स्वः पूतने चागच्छ तिष्ठ चात्र च ।
वायुकोणे पापिनीं चावाहयामि नमामि च ॥१४२॥
ओं भूर्भुवः स्वः पापे त्वं चेहागच्छात्र तिष्ठ च ।
पूर्वे स्कन्दं नमाम्यावाहयामि संस्मरामि च ॥१४३॥
बाणेभ्यो रक्ष सेनानि शर्म यच्छतु दुष्टहन् ।
ओं भूर्भुवः स्वः स्कन्दाऽत्र समागच्छ च तिष्ठ च ॥१४४॥
दक्षेऽर्यमाणं च नौम्यावाहयामि स्मरामि च ।
ओं भूर्भुवः स्वः अर्यमन् समागच्छ च तिष्ठ च ॥१४५॥
पश्चिमे जृंभकं नौम्यावाहयामि स्मरामि च ।
हिंकृते प्रोथते शयानाय स्वाहा च वल्गते ॥१४६॥
स्वपते जाग्रते स्वाहा जृंभमाणाय कूजते ।
ओं भूर्भुवः स्वः जृम्भक समागच्छ च तिष्ठ च ॥१४७॥
उत्तरे पिलिपिच्छं नौम्यावाहयामि चिन्तये ।
पिलिप्पिलाक्यै पिशांगिन्यै स्वाहा ते नमोऽस्त्विह ॥१४८॥
ओं भूर्भुवः स्वः पिलिपिच्छ समागच्छ च तिष्ठ च ।
पूर्वे चेन्द्रं स्मराम्यावाहयामि च नमामि च ॥१४९॥
ओं भूर्भुवः स्वः इन्द्र चागच्छ चेह च तिष्ठ च ।
अग्नावग्निं स्मराम्यावाहयामि च नमामि च ॥१५०॥
ओं भूर्भुवः स्वः अग्ने चागच्छ चेह तिष्ठ च ।
याम्ये यमं स्मराम्यावाहयामि च नमामि च ॥१५१॥
ओं भूर्भुवः स्वः यम चागच्छ चेह च तिष्ठ च ।
नैर्ऋते निर्ऋतिं स्मराम्यावाहयामि नौमि च ॥१५२॥
ओं भूर्भुवः स्वः निर्ऋत चागच्छात्र च तिष्ठ च ।
पश्चिमे वरुणं स्मराम्यावाहयामि नौमि च ॥१५३॥
ओं भूर्भुवः स्वः वरुण चागच्छात्र च तिष्ठ च ।
स्मरामि वायुं वायव्ये नौमि चावाहयामि च ॥१५४॥
ओं भूर्भुवः स्वः वायो चागच्छात्र च तिष्ठ च ।
कुबेरमुत्तरे स्मराम्यावाहयामि नौमि च ॥१५५॥
ओं भूर्भुवः स्वः कुबेर इहागच्छ च तिष्ठ च ।
ईशान्यामीशानदेवमावाहयामि नौमि च ॥१५६॥
ओं भूर्भुवः स्वः ईशान इहागच्छ च तिष्ठ च ।
ईशानपूर्वमध्ये वै ब्रह्माणं प्रस्मरामि च ॥१५७॥
आवाहयामि नौम्येनं देवा अवन्तु सर्वतः ।
ओ भूर्भुवः स्वः ब्रह्माऽत्र समागच्छात्र तिष्ठ च ॥१५८॥
वरुणनिर्ऋतिमध्येऽनन्तं स्मरामि नौमि च ।
आवाहयाम्यनन्तं च विषरक्षाकरं हरिम् ॥१५९॥
ओं भूर्भुवः स्व अनन्त इहागच्छ च तिष्ठ च ।
इत्यावाह्य वास्तुपीठदेवान् प्रणम्य राधिके ॥१६०॥
कुर्याद् देवप्रतिष्ठां वै सांगोपांगां क्रतौ ततः ।
बुहस्पतिस्तनोत्वेनं विश्वेदेवाः प्रतिष्ठत ॥१६१॥
इत्येव श्रीकृष्णनारायणश्चाह तु दैवतम् ।
तदेव तु मया तेऽत्र वास्तुध्यानं प्रकीर्तितम् ॥१६२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे आचार्यऋत्विगादिवरणं संभारप्रोक्षणं स्वस्तिवाचो मण्डपपूजा वास्तुपीठदेवावाहननमनादि चेतिनिरूपणनामा षट्चत्वारिंशदधिकशततमोऽध्यायः ॥१४६॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP