त्रेतायुगसन्तानः - अध्यायः २४२
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु राधे कथां त्वन्यां पावनीं परमाऽद्भुताम् ।
आक्षरे परमे क्षेत्रे जातां चातिपुरातनीम् ॥१॥
पंकिलो नाम ब्रह्मर्षिः पञ्चकल्पायुराभवत् ।
तस्य माताऽभवत् साध्वी दासी महर्षिसेविका ॥२॥
कुमारी व्यचरच्चार्षे मण्डले मृतपितृका ।
आबाल्यादप्यनाथा चाऽबान्धवा मृतमातृका ॥३॥
ब्राह्मणी ब्रह्मवेत्री च महर्षिलब्धबोधिका ।
आत्मनिष्ठापरा योगेश्वरी समाधिसद्धना ॥४॥
सांख्ययोगाश्रया चात्मजडविवेकशेवधिः ।
समदुःखसुखा वृद्धसेवाधर्मपरायणा ॥५॥
मनसा वचसा साध्वी कायेन च गुणैरपि ।
प्रयत्नेन च दानेन ऋषिसेवापरायणा ॥६॥
आसीदेवमहाज्ञानानलदग्धाशया सती ।
द्वन्द्वाऽभिन्ना सदा ध्यात्री श्रीमन्नारायणस्य च ॥७॥
एवंविधा सा प्रमदा युवती समजायत ।
रजोभावविहीना च कामसंकल्पवर्जिता ॥८॥
ब्रह्मचर्यपरा साध्वी ऋषिभिक्षाऽदना शुभा ।
यस्या वस्त्रं तु पवनेऽम्बरे शुष्कायते सदा ॥९॥
यस्य भिक्षाजोलिका चाम्बरे वायुं प्रलम्बते ।
एतादृशी चमत्कारसिद्धिरूपाऽभवद्धि सा ॥१०॥
अशृणोत् सा कथां दिव्यां महर्षिजनसंसदि ।
सत्याः कथा गणेशस्य पुत्रबोधां समाशृणोत् ॥११॥
ब्रह्मणो मानसा जाताः सनकाद्याश्च तत्कथाम् ।
अशृणोद्ञ्जनीपुत्रकथां दिव्यां च पावनीम् ॥१२॥
ततः सापि पुत्रवतीकथाः श्रुत्वाऽविचारयत् ।
ममापि मानसः पुत्रो भवत्वेको गुणालयः ॥१३॥
पुत्रवतीसभामध्ये मानपात्रं भवामि यत् ।
पुत्रफलं निजं स्याद्वै योषितामवलम्बनम् ॥१४॥
मया भागवतः पुत्रः प्राप्तव्यश्चेत्यचिन्तयत् ।
पूर्वकल्पे चतुर्थे सा त्रेतायां वामदेवतः ॥१५॥
ऋषेः संस्पर्शमात्रेण मानसं पुत्रमाप ह ।
अगर्भो जातमात्रः स बालो युवाऽतिरूपवान् ॥१६॥
ज्ञानविज्ञानसम्पन्नो ब्रह्मचिन्तापरायणः ।
व्योममार्गे चरन्नित्य चतुर्वार्ध्याप्लवक्रियः ॥१७॥
चतुर्धाममहातीर्थविध्युत्तराऽदनस्तथा ।
समर्थो मातृवज्जातः पितृवत् सिद्धिमाँस्तथा ॥१८॥
वामदेवीयसवनप्रणेता दिव्यशक्तिमान् ।
दाक्षीदेवीं मातरं च पितरं वामदेवकम् ॥१९॥
हृदये बाह्यतश्चापि नित्यं प्रपूज्य वै ततः ।
नित्यं वन्यफलाद्यर्थं वने याति समुत्सुकः ॥२०॥
समित्फलानि पुष्पाणि चाहृत्य गांगवारिषु ।
पंके निजासनं कृत्वा समाधौ याति वै निशि ॥२१॥
पंकिलस्तेन नाम्ना स दाक्षीदेव्या प्रकीर्त्यते ।
पंकिलो नाम विप्रर्षिः प्रसिद्धः समजायत ॥२२॥
एकदा पंकमध्ये स दिवसेऽपि निजासनम् ।
कृत्वा समाधिमापन्नः प्राणरोधेन निश्चलः ॥२३॥
तत्राऽऽयाताः पञ्च सत्यो यदृच्छया नदीतटे ।
साध्व्यो ब्रह्मपराः शीलव्रता नारायणीसमाः ॥२४॥
योगीन्द्राण्यो वामदेवशिष्याः सिद्धिसमाश्रयाः ।
आपस्तम्बी द्रुमस्तम्बी मरुत्स्तम्बी तृतीयका ॥२५॥
फेनस्तम्बी चतुर्थी च धूम्रस्तम्बी च पञ्चमी ।
गंगाजले तु ताः स्नात्वा तटे तस्थुः क्षणं हि ताः ॥२६॥
मध्याह्ने पंकिलं पंके दृष्टवत्यः कुमारकम् ।
उज्ज्वलं ब्रह्मनिष्ठं च सूर्यवर्चुलमेव तम् ॥२७॥
ध्यानमग्नं दिव्यरूपं योगिनं वामदेवजम् ।
भगिन्यस्ता द्रुतं पार्श्वे गत्वा नेमुश्च तं मुनिम् ॥२८॥
मुनिश्चापि समाधौ ता वीक्ष्य निजासनान्तिके ।
बहिः शीघ्रं समागत्याऽऽसनं ददौ ननाम च ॥२९॥
भगिन्यो ब्रह्मवेत्र्यः स्थाऽग्रजा वन्दे मुहुर्मुहुः ।
इत्युक्त्वा पादयोस्तासां दत्वा चक्षुश्च मस्तकम् ॥३०॥
पादधूलीर्भगिनीनां मस्तके स मुनिर्न्यधात् ।
स्वागतार्थं द्रुतं संकल्पयामासाऽऽसनानि च ॥३१॥
तावत्तत्र समायातान्यासनान्यजिनानि वै ।
पाद्यार्थं च प्रसस्मार जलं कमण्डलुभृतम् ॥३२॥
उपस्थितं च तत्ततः सस्मार मधुपर्ककम् ।
मिष्टं चेष्टं मधु मिश्फलानि शर्करादिकम् ॥३३॥
उपस्थितो मधुपर्को ददौ ताभ्यस्तु तं तदा ।
पूजाद्रव्याणि सर्वाणि चागतानि स्मृतेस्तदा ॥३४॥
पंकिलः पूजयामास भगिनीः सर्ववस्तुभिः ।
भोजनं प्रददौ रम्यं पक्वमिष्टकलात्मकम् ॥३५॥
सुधामिष्टं जलं चापि पानार्थं प्रददौ तदा ।
वल्कलानि सुरम्याणि शाट्यर्थं कञ्चुकीकृते ॥३६॥
तापसीनां सुयोग्यानि कंकणानि ददौ तथा ।
आशीर्वादाँस्तथा तासां ययाचेऽपि प्रसन्नताम् ॥३७॥
कृतातिथ्याश्च तास्तुष्टा भ्रात्रे ददुः शुभाशिषः ।
एका प्राह तदा भ्रातः! कल्पजीवी सुखी भव ॥३८॥
द्वितीयाऽपि तथा प्राह कल्पजीवी सुखी भव ।
तृतीयाऽपि चतुर्थी च पच्चम्यपि च वै तथा ॥३९॥
प्राहुः प्रसन्नहृदयाः कल्पजीवी सुखी भव ।
स्वसॄणां स शुभाशीर्भिः पञ्चकल्पप्रजीवनः ॥४०॥
पंकिलर्षिः समभवद् राधिके स्वसृपूजनात् ।
एवं स पञ्चकल्पायुर्धर्मज्ञानविरागवान् ॥४१॥
ब्रह्मभक्तिपरो लोके यथेष्टं वर्तते ऋषिः ।
क्वचिद् याति सत्यलोकं वैकुण्ठं बदरीं तथा ॥४२॥
श्वेतद्वीपं तथा स्वर्गं याम्यलोकं प्रयाति च ।
ऐन्द्रं लोकं सूर्यलोकं पितृलोकं प्रयाति च ॥४३॥
क्वचिन्मेरुं क्वचिल्लोकालोकाख्यभूधरं प्रति ।
क्वचित्सप्तर्षिलोकं च ध्रुवलोकं क्वचित् क्वचित् ॥४४॥
याति चान्द्रं शीतलोकं क्वचित्पातालमित्यपि ।
यथेष्टं पंकिलः सोऽयं विहरत्येव योगिराट् ॥४५॥
क्वचित्समाधावेवाऽयं वर्षायुतं प्रतिष्ठति ।
क्वचिद्भूमौ क्वचिद्वार्धौ वज्रतुल्यशरीरभृत् ॥४६॥
क्वचिद् वह्नौ क्वचिद् वायौ क्वचित्तिष्ठति चाम्बरे ।
ब्रह्मवद् ब्रह्मगतिकः स्वसृमातृप्रसेवनात् ॥४७॥
पितृबलाद् योगबलादव्याहतगतिर्ह्यभूत् ।
अनेककायरूपश्च लीनकायो भवत्यपि ॥४८॥
सूर्यवत्तु क्वचिद् भाति चाम्बरेऽपि भुवि क्वचित् ।
क्वचिद् देवस्वरूपश्च क्वचिन्मानवरूपवान् ॥४९॥
क्वचिच्छुकस्वरूपश्च क्वचिद् वृषभरूपवान् ।
क्वचिन्मृगस्वरूपश्च क्वचिद्धंसस्वरूपवान् ॥५०॥
क्वचित्पर्वततुल्यश्च क्वचित्कणस्वरूपवान् ।
एवं स्वतन्त्रविधिवान् ब्रह्मनिष्ठो हि पंकिलः ॥५१॥
वामदेवसमश्चास्ते समस्तैश्वर्यशेवधिः ।
स चास्मिन् तस्य वै कल्पे पञ्चमे प्रातरेव ह ॥५२॥
विचरन् व्योममार्गेण ददर्शाऽश्वसरोवरम् ।
विशालं निर्मलजलं शान्तवारि महोज्ज्वलम् ॥५३॥
चन्द्रवद्भासमानं च नैकपद्मसुशोभितम् ।
राजहंसै राजशुकैर्मेनाभिर्मिष्टशब्दितम् ॥५४॥
भव्यसेतुचतुःशोभं पातालाऽगाधवारिभत् ।
क्षीरसरस्वतीतीर्थं ब्रह्मपादोदकीमयम् ॥५५॥
फलपुष्पमहोद्यानैः समन्ततो विराजितम् ।
देवदेवं कृतावासं महर्षिगणसेवितम् ॥५६॥
ब्रह्मप्रियाभिः सततं स्नानाप्लवैः सुपावितम् ।
दिव्यसोपानघाटेश्च स्नानाऽवतरणैर्युतम् ॥५७॥
तापसानां सन्निवेशैर्वटाद्यैश्छायितं तटे ।
पानीयहारिकाभिश्च विश्वग् विराजितं महत् ॥५८॥
कुंकुमवापिकापुर्या पश्चिमेऽक्षरसन्निभम् ।
दक्षिणे तु महर्षीणामाश्रमैर्बहुपावनम् ॥५९॥
उत्तरे शिवतत्त्वानां क्षेत्रपाणां निवासनैः ।
दिव्यसौधैः शोभितं च पूर्वे साधुसतीश्रितम् ॥६०॥
योगिभिर्यतिभिश्चापि विरागैस्त्यागिभिस्तथा ।
न्यासिभिः सततं व्याप्तं ददर्शाऽश्वसरोवरम् ॥६१॥
ददर्श हेमकलशैर्मन्दिराणि महान्ति च ।
समन्ततः सुवर्णाढ्यान् देवालयान् ददर्श ह ॥६२॥
शुश्राव वाद्यनादाँश्च शंखशब्दान् स्तवाँस्तथा ।
गीतिका अप्सरसां च साधूनां स्तुतिवैभवान् ॥६३॥
श्रुत्वा वीक्ष्य समस्तं च व्यस्तं व्योम्ना यथाबलम् ।
अवातरत् ततो व्योम्नः पंकिलोऽश्वसरोवरे ॥६४॥
जलं पीत्वा तथा स्नात्वा परां शान्तिं जगाम ह ।
स्मरन्नारायणं श्रीमद्बालकृष्णं परेश्वरम् ॥६५॥
राधिके पंकिलः सोऽयं जले वासमरोचयत् ।
बहिः सर्वत्र लोकानां सम्मर्दशंकया खलु ॥६६॥
दिवा जले तले चास्ते रात्रौ सेतुं श्रयत्यपि ।
तापसानां निवासेषु यथेष्टं च भ्रमत्यपि ॥६७॥॥
महर्ष्याश्रमभागेषु सायं भ्रमति वा क्वचित् ।
प्रातर्नित्यं बालकृष्णं गत्वाऽऽलयेऽर्चयत्यपि ॥६८॥
क्वचित् स मनसा याति सोमनाथं सुपावनम् ।
क्वचित् स सहसा मूलद्वारिकां याति वर्ष्मणा ॥६९॥
क्वचित् कन्या स्वयं भूत्वा ब्रह्मप्रियासु तिष्ठति ।
क्वचित् कुमारको भूत्वा चास्ते गोपालबालकैः ॥७०॥
एवं स मुनिराड् राधे! ह्यश्वपट्टसरोवरे ।
नित्यं वासं प्राचरत् बालकृष्णाश्रये शुभे ॥७१॥
अथैकदा मुनिः श्रीमान् लोमशस्तं व्यलोकयत् ।
कन्यारूपं धृतवन्तं निजाश्रमे समागतम् ॥७२॥
प्राह का त्वं कुतश्चात्राऽऽयाताऽसि वद कन्यके ।
स चाह पंकिला त्वस्मि दाक्षीदेवीसुताऽस्मि हि ॥७३॥
कन्यकानां दर्शनार्थं त्वागताऽस्मि तवाऽऽश्रमे ।
वामदेवी भवाम्येव कालेऽन्यदा तु पंकिलः ॥७४॥
इत्युक्त्वा कन्यकारूपं विहाय पंकिलोऽभवत् ।
लोमशोऽपि विदित्वैनं प्राक्परिचितमेव तु ॥७५॥
मिमील हृदये कृत्वा सुसम्मानं व्यधात्तदा ।
प्राप्य मन्त्रं हरेः सोऽपि पंकिलो लोमशान्मुनेः ॥७६॥
'ओं नमः श्रीकृष्णनारायणायेति' जजाप ह ।
नत्वा ययौ जलगर्भे निवासं च जलेऽकरोत् ॥७७॥
अथ द्वितीयदिवसे लोमशस्तं समागतम् ।
प्राह वै पर्णकुट्यर्थं तत्राऽऽह पंकिलो मुनिः ॥७८॥
आसायं मे जीवनं वै कल्पोऽयं पञ्चमो मम ।
व्यत्येति ब्रह्मणोऽहश्च तत्र का पर्णशालिका ॥७९॥
तस्माज्जले निवत्स्येऽहं पंके निश्चिन्तने गृहे ।
इदानीं यावदेवात्र क्वापि लोकेऽपि वै मया ॥८०॥
पर्णशाला कृता नैव चान्ते कार्यापि नैव तु ।
स्वल्पकालेऽवशिष्टे चेत् करोमि पर्णशालिकाम् ॥८१॥
हसेयुर्माम् ऋषयस्ते चिरकल्पप्रजीविनः ।
इत्युक्त्वा नित्यमेवाऽयं जले वासमरोचयत् ॥८२॥
मानसं श्रीहरौ धृत्वा जले समाधिमाप्तवान् ।
समाधौ वसतस्तस्य युगकालो ह्यगाद् यदा ॥८३॥
तदा राजा बलिर्लोके बलवान् वामनेन वै ।
प्रकटीभूय यज्ञे सौराष्ट्रेऽर्थितो भुवं प्रति ॥८४॥
बलिः प्रददौ पृथिवीं वामनाय तु छत्रिणे ।
वामनः कपटी कृष्णो वर्धयामास वर्ष्म च ॥८५॥
पादांगुष्ठांगुलयश्च तस्याश्वसारसे जले ।
न्यपतँस्तत्प्रतापेन सरोभूमिरपूर्यत ॥८६॥
जलान्यपासरन् शीघ्रं पार्श्वपृथ्व्यां तदाऽभितः ।
वरुणस्तज्जलानां वै शमनं प्रचकार ह ॥८७॥
पंकिलो निर्गतः पंकाज्जलरिक्ते सरोवरे ।
वामनांगुष्ठसंलग्नो बभूव लिक्षिका यथा ॥८८॥
सोऽपि निर्गत्य सरसाऽङ्गुष्ठं तुष्टाव वै क्षणम् ।
तावत् त्रिलोकान् जित्वैव वामनो बालरूपधृक् ॥८९॥
अभवत् तं प्रवीक्ष्यैव पंकिलः प्रेमहर्षितः ।
पुनर्जलाढ्यसरसि यावदिच्छति मज्जनम् ॥९०॥
तावच्छ्रीवामनः प्राह कुरु मे मन्दिरं शुभम् ।
सेतौ च वामनं मां त्वं प्रतिष्ठापय संवस ॥९१॥
ममाज्ञया सेवको मे भूत्वा मे मन्दिरे वस ।
इत्याज्ञाप्य ययौ वस्त्रापथं श्रीवामनः प्रभुः ॥९२॥
पंकिलो योगसामर्थ्यैः रात्रौ चकार मन्दिरम् ।
तत्र श्रीवामनं देवं स्थापयामास शोभनम् ॥९३॥
पंकिलं स्थापयामास सेवायां वामनस्य हि ।
सेवार्थं पंकिलः शिष्यं प्रकल्प्य जालकीलकम् ॥९४॥
तत्राऽदृश्योऽभवन्नित्यं वामनस्यालये मुनिः ।
चिरञ्जीवो जालकीलायाऽऽर्पयत् कालपर्यये ॥९५॥
योगसिद्धीर्हि विविधा जालकीलोऽपि योगिराट् ।
अभवद् ब्रह्मकल्पायुर्जालेश्वरो द्विजो हि सः ॥९६॥
अश्वपट्टसरस्तीरे वासं सोऽपि सदा व्यधात्॥
एवं तद् राधिके तीर्थं जालेश्वरं च पांकिलम् ॥९७॥
वामनं तीर्थमेवापि चांगुष्ठतीर्थमित्यपि ।
कन्यकातीर्थमेवापि चाश्वपट्टसरोजले ॥९८॥
अभवन्मोक्षदं पापप्रणाशकं सुखप्रदम् ।
योगसिद्धिप्रदं स्मृद्धिप्रदं स्वर्गप्रदं तथा ॥९९॥
तत्र स्नानात्तथा दानाद् वामनस्याऽर्चनात्तथा ।
स्वर्गराज्यं पारमेष्ठ्यं भूराज्यं वा लभेज्जनः ॥१००॥
कांभरेयं बालकृष्णं स्मृत्वाऽनादिनरायणम् ।
यः स्नायाद् वामने तीर्थे ब्रह्मधामगतिं व्रजेत् ॥१०१॥
वामनं पंकिलं स्मृत्वा स्नानदानादिकं चरेत् ।
दाक्षीदेवीं तथा स्मृत्वा कन्यादानादिकं चरेत् ॥१०२॥
कन्यकाभ्यो भोजनं च दद्यात् सद्भ्योऽपि भोजनम् ।
साध्वीभ्यो भोजनं दद्याद् राजसूयफलं लभेत् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने दाक्षीदेवीवामदेवयोर्मानसपुत्रस्य पंकिलस्य ज्येष्ठपञ्चभगिनीसत्कारलभ्याऽऽशीर्वादैः पञ्चकल्पचिरजीवित्वं युगपर्यन्तमश्वपट्टसरोवरे समाधौ स्थित्युत्तरं वामनपादांगुष्ठांगुलिस्पर्शेन जाग्रता तेन वामनमन्दिरमाज्ञया कारितं वामनादितीर्थं चेत्यादिनिरूपणनामा द्वाचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४२॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP