त्रेतायुगसन्तानः - अध्यायः १७८
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके देवि प्राणप्रिये सुरूपिणि ।
जरस्थलीं ययौ कृष्णनारायणो विमानतः ॥१॥
पृथुराजकुटुम्बं च सहाऽभूत् हरिणा तदा ।
विमानस्थं स्वागतार्थं चाऽवारोहयदच्युतम् ॥२॥
वाद्यघोषैर्जयनादैर्यन्त्रस्फोटनघोषणैः ।
भेरीडंककविगलैः कृतध्वानैर्निनादयन् ॥३॥
राजा गृह्णन् हारपूजां समीपस्थोऽभवद् भुवि ।
पृथातीरे महोद्याने राजसौधविराजिते ॥४॥
विशाले भूतले व्योम्नो ह्यवारोहयदीश्वरः ।
ददौ हारान् स्वयं राजा श्रीशाय परमात्मने ॥५॥
राज्ञो कृपी ददौ हारान् कंभरायै श्रियै तदा ।
तस्याः कुमारिका हारान् दद्रुर्ब्रह्मप्रियागले ॥६॥
विंशतिसंख्यकाः सर्वाः पुपूजुश्चापरा अपि ।
कुमाराः शतसंख्याश्च पुपूजुश्च ऋषींस्तथा ॥७॥
स्वागतं कुशलं पृष्ट्वा राजा न्यषादयद्धरिम् ।
दिव्ये सिंहासने राजसभास्थे जनतान्वितः ॥८॥
हरिश्च जनताः सर्वाः पप्रच्छ कुशलं शुभम् ।
चतुर्दश्यां तदा सायं नगरेऽभ्रामयद्धरिम् ॥९॥
ततो नदीतटे गत्वा सन्ध्यां रात्रौ समाचरत्॥
श्रीहरिः ऋषिभिः सार्धं ततो भोजनमाचरत् ॥१०॥
रात्रौ विश्रान्तिमासाद्य प्रातर्बुबोध सत्वरम् ।
नित्यपूजादिकं कृत्वा सभायां राजपूजितः ॥११॥
उपदेशं ददौ कृष्णनारायणः स्वयं प्रभुः ।
राजन् वर्षासु चाभ्राणि जायन्ते यान्ति लीनताम् ॥१२॥
तथा सर्वाणि भूतानि जायन्ते च विशन्ति च ।
अद्य वा श्वः परश्वो वा ततोऽग्रे वा वियोजनम् ॥१३॥
संघातानां मिलितानां भविष्यति न संशयः ।
गर्भे देहा विपच्यन्ते बहिः पुष्टिं प्रयान्ति च ॥१४॥
जरायां खलु जातायां हसन्त्येव विछित्तये ।
अस्थिरं मानसं यद्वच्चञ्चलं च प्रतारकम् ॥१५॥
तथा वर्ष्माऽपि बोद्धव्यं विशेषो नात्र विद्यते ।
कदा क्वैतद् वियुक्तं च भविष्यतीति मानवः ॥१६॥
निर्णेतुं नैव शक्नोति रक्षितं चापि यास्यति ।
राज्यं कुलं कुटुम्बं च ज्ञातिः प्रजाश्च सेवकाः ॥१७॥
पूर्वकर्मानुसारेण स्त्रियोऽपत्यानि सन्ति च ।
भगवत्प्राप्तिरेतेषां बहुपुण्यैः प्रजायते ॥१८॥
तव पुण्यस्य नान्तोऽस्ति कुटुम्बस्यापि .ते नृप ।
येनाऽद्य त्वद्गृहे वासो महर्षीणां मया सह ॥१९॥
प्रजानां ते महद्भाग्यं यासां वै दर्शनं मम ।
राष्ट्रं पुण्यं तव चाद्य जातं तीर्थस्वरूपकम् ॥२०॥
इत्येवं श्रीहरिं तत्रोपदिशन्तं नृपः स्वयम् ।
पप्रच्छ श्रीहरिं नत्वा निजपूर्वभवादिकम् ॥२१॥
कोऽहमासं पुरा कृष्ण क इमे मम बान्धवाः ।
कुटुम्बं च मम सर्वं प्रजा मे वद माधव ॥२२॥
इतिपृष्टो हरिः प्राह शृणु राजन् कथां तव ।
पुरा कल्पे भवानासीन्मुनिश्चारण्यकाऽभिधः ॥२३॥
वन्यफलादनो वृक्षस्तम्बे वासकरः सदा ।
महामार्गाष्टकं यत्र युज्यते स्वाश्रमान्तिके ॥२४॥
मानवा मार्गकैर्यान्ति चायान्ति च तवाश्रमे ।
विश्रम्य च क्षणं भुक्त्वा त्वद्दत्तानि फलानि तु ॥२५॥
पीत्वा जलं च नत्वा त्वां प्रयान्ति च यथेष्टकम् ।
तेषां सेवा त्वया तत्र फलैर्जलैर्विधीयते ॥२६॥
बृस्यादिभिश्चाश्रयस्य प्रदानेन चिरं मुहुः ।
निजसेवां भवाँस्तैश्चाऽकारयन्नैव सर्वथा ॥२७॥
यतस्त्वं ज्ञानवानासीः ऋणं कार्यं न सर्वथा ।
दातव्यमेव सर्वेभ्यो ग्राह्यं नैव रजोऽपि तु ॥२८॥
प्रतिग्रहे तथाऽऽदाने तेषामृणं प्रजायते ।
मानुष्येण तु देहेन ऋणं कार्यं न वै क्वचित् ॥२९॥
ऋणकर्ता पुनर्जन्म समेति नात्र संशयः ।
सेवया जायते मोक्षः सेवया स्वर्गमाप्यते ॥३०॥
सेवाभिश्चाशिषः प्राप्य भवन्ति चिरजीविनः ।
दत्तं सर्वं पुरा पश्चादाप्यते नियमाद् ध्रुवम् ॥३१॥
तस्माद् देयं यथाशक्ति दातव्यं श्रद्धया मुहुः ।
पुंसे नार्यै प्राणिने वा यस्मै कस्मैचिदात्मने ॥३२॥
एवं मत्वा त्वया दत्तं बह्वात्मानः प्रसादिताः ।
तवाश्रमे तदा पञ्चविंशतिः ऋषयोऽभवन् ॥३३॥
त्वया तुल्याः सेवकास्ते सर्वसेवापरायणाः ।
एवं भवद्भिः सर्वैश्चाऽनाथा नार्यो नरादयः ॥३४॥
सेविता आश्रयं दत्वा बालाश्च वनवासिनः ।
युष्माकमाश्रमे सौख्यं दृष्ट्वा सेवां विलोक्य च ॥३५॥
दरिद्राश्च तथाऽनाथास्तत्र न्यूषुर्निरन्तरम् ।
षड्विंशतिभूसुराणामाज्ञायां तु स्थिताः सदा ॥३६॥
सेवन्तेऽभ्यागतान् सर्वान् पुण्यं चाप्यर्जयन्ति हि ।
सकामाः सर्व एवै ते सेवकाः सेवयन्ति वै ॥३७॥
ऋषीणामाश्रिताश्चाश्रमस्था जाताः कुटुम्बवत् ।
मण्डलं तन्मनुष्याणां सहस्रोत्तरतां गतम् ॥३८॥
षड्विंशत्याश्रितं तद्वै वर्तते सेवकादिवत् ।
तैश्च विज्ञानवार्तायां परलोकगतौ किल ॥३९॥
प्रार्थिताश्च भवन्तोऽग्रेसरा विप्रा दयालवः ।
अस्मान् विहाय गन्तव्यं नैव युष्माभिरव्ययम् ॥४०॥
स्वर्गं मोक्षं च वा विप्रा नीत्वा गन्तव्यमेव नः ।
आश्रितेषु तथास्त्विति दयया चार्पितं वचः ॥४१॥
दयैषा बन्धनरूपा वरिवर्ति भवत्कृते ।
साधुभिस्तु दया कार्या जीवदुःखहरा शुभा ॥४२॥
न तु कार्या तथा यत्र स्वस्यापि बन्धनं भवेत् ।
भवद्भिस्तु कृता स्वेषां बन्धदा यत्र ते खलु ॥४३॥
तत्र स्थातव्यरूपा वै पुण्यशेवधिभिः पुरा ।
परोपकारपुण्येन भवन्तो विंशतिश्च षट् ॥४४॥
तथा पारे सहस्रं चाश्रिते यन्मण्डलं च तत् ।
नैत्यके तु लये चाकस्मिके सायं समागते ॥४५॥
सर्वे देहान् विहायैव स्वर्गलोकमितो गताः ।
ततो महर्लोकमेव गत्वा निशां तु वैधसीम् ॥४६॥
क्षपयित्वा पुनः सृष्टौ स्वर्गमाश्रित्य देवताः ।
चतुर्दश तु मनवस्तथा द्वादश सूर्यकाः ॥४७॥
जाताः कल्पे गते तत्र स्वर्गवासाः सुखाश्रयाः ।
आश्रिताः सर्व एवैते ये यस्य सेवकाः पुरा ॥४८॥
अभवँस्ते तथा तेषां कुटुम्बं समजायत ।
गतः कल्पः सुसम्पूर्णः सेवापुण्यैः पुरार्जितैः ॥४९॥
स्वर्गे भुक्तो देवसृष्टौ तदाऽहं भगवान् स्वयम् ।
अनादिश्रीकृष्णनारायणः श्रीकृष्णवल्लभः ॥५०॥
राजराजस्वरूपेण भवतां सर्वसन्धिषु ।
पट्टाभिषेकदाताऽहं चाभुवं तत्र तत्र च ॥५१॥
सूर्याणां च मनूनां च शासकोऽहं तदा खलु ।
अर्थितश्च भवद्भिर्वै मोक्षार्थं सेवया तदा ॥५२॥
मया विचार्य पुण्यं वै ह्येकजन्मोत्तरं ततः ।
मोक्षोस्तु भवतां चेति तथास्त्विति वचोऽर्पितम् ॥५३॥
नाऽभुक्तं क्षीयते कर्म कोटिकल्पे गतेऽपि तु ।
स्वर्गभोगावशिष्टं च भोक्तव्यं भूतले भवेत् ॥५४॥
कर्मभोगात्मभूमौ तद् भोगार्थं चागतं हि वः ।
कल्पे क्षीणे पुनः सृष्टौ शुभभोगार्थमेव ह ॥५५॥
भवन्तोऽत्र कुटुम्बैर्वै सह जाता भवन्ति च ।
भवानारण्यकश्चासीत् तृतीयश्च मनुस्ततः ॥५६॥
आद्यश्चोरलकेतुश्च द्वितीयः क्रथको मनुः ।
उष्ट्रालराजा चतुर्थोऽभून्मनुस्तत्र कल्पके ॥५७॥
हंकारोऽयं पञ्चमोऽभूत् षष्ठस्तु जयकाष्ठलः ।
तीराणः सप्तमश्चासीत् अल्वीनरस्तथाऽष्टमः ॥५८॥
जिनवर्द्धिर्नवमोऽभूद् दशमस्त्वल्पकेतुकः ।
एकादशो जयकृष्णो द्वादशो यज्ञशानकः ॥५९॥
त्रयोदशश्चेन्दुरायो गणकस्तु चतुर्दशः ।
एते वै मनवश्चासन् भवन्तोऽत्रक्षितीश्वराः ॥६०॥
अथाऽऽसन् द्वादश सूर्या मुद्राण्डः प्रथमोऽभवत् ।
लीनोर्णोऽर्को द्वितीयोऽभूद् वृहच्छरस्तृतीयकः ॥६१॥
बललीनश्चतुर्थश्च पञ्चमो वरसिंहकः ।
रायगामलकः षष्ठः सप्तमः फेनतन्तुकः ॥६२॥
स्तोकहोमश्चाष्टमार्को नवमः काष्ठयानकः ।
दशमः कोलको राजा एकादशोंऽगराजकः ॥६३॥
शाकुन्तराजाऽप्यभवत् द्वादशोऽर्कस्तदा पुरा ।
एवं सूर्या राजराजेश्वरस्य मम मूर्तयः ॥६४॥
ममावेशेन चासन् वै भवन्तो विंशतिश्च षट् ।
राजानोऽत्र समुद्भूता मनवोऽर्काः शुभाश्रयाः ॥६५॥
राजराजेश्वरयोगस्तदासीद् भवतां ततः ।
स्वर्गे वामनयोगश्च पुनरासीत् परे दिने ॥६६॥
अनादिश्रीकृष्णनारायणस्याऽत्र क्षितौ मम ।
महापुण्यप्रतापेन योगो जातोऽस्ति वः पुनः ॥६७॥
अनाथा ये तु ते सर्वे नार्यो नराश्च बालकाः ।
बालिकाः सेवकाः स्वर्गे तदासन् वः कुटुम्बिनः ॥६८॥
अत्र भूमौ तु ते जाताः कुटुम्बिनोऽपि वः पुनः ।
यज्ञे मया समस्तेभ्यो लाभो दत्तो हि गोचरः ॥६९॥
पृष्टं यद् भवता तस्मात् कथितं प्राग्भवं हि वः ।
जानाम्यहं च तत्सर्व भवद्भिर्विस्मृतं हि तत् ॥७०॥
भवद्भिस्तु वने वन्यैर्या सेवा देहिनां कृता ।
तत्पुण्यैर्मनुराज्यानि भुक्त्वा राज्यानि वै रवेः ॥७१॥
अद्यात्र शेषभोगार्थं जाता राजान एव ह ।
मम योगेन पुण्येन पुरातनेन चापि वै ॥७२॥
संस्काराणां बलैश्चापि गांगेयाश्च महर्षयः ।
कृपास्थलाद्या देशेऽत्र स्थिता युष्माभिरर्जिताः ॥७३॥
सेविताः सर्वथा प्रेम्णाऽऽशीर्वादाश्चार्जितास्तथा ।
तेनाऽहं पुनरेवाऽत्र सर्वं स्मृत्वा पुरातनम् ॥७४॥
वृकायनं नीलकर्णं यज्ञार्थं समप्रेषयम् ।
प्रबोधार्थं च मोक्षार्थं लोमशादीन्मुनींस्तथा ॥७५॥
अहं स्वयं चागतोऽस्मि स्मृत्वा भक्तांश्च वस्तथा ।
इमाः प्रजाश्च याः सर्वाः पुराऽऽसन् भवतां पुरः ॥७६॥
शम्यजना अतिथयो यैर्जग्धानि फलानि च ।
ताः प्रजा वः प्रदेशेषु पुण्या भक्ता भवन्ति हि ॥७७॥
तेषां भाग्यं परं मन्ये भगवद्योजनं यतः ।
नाल्पपुण्येन लभ्येत भगवान् भूतभावनः ॥७८॥
नाल्पपुण्येन लभ्यन्ते साधवो ब्रह्मवेदिनः ।
नाल्पपुण्येन लभ्यन्ते बान्धवा भक्तितत्पराः ॥७९॥
नाल्पपुण्येन लभ्येत कुटुम्बं सेवक हरेः ।
सती नारी सेविका च पुत्रा भक्ता निदेशगाः ॥८०॥
पुत्र्यो भक्तियुताः कृष्णनारायणपरात्मनि ।
मृत्या धर्मयुताः सत्यव्रताः सन्तोषकारिणः ॥८१॥
कर्मचाराः पुष्टिदाश्च धर्मकार्ये सहायदाः ।
दुःखे भागग्रहाश्चापि न मिलन्त्यल्पपुण्यतः ॥८२॥
सांसारिकं सुखं पुण्यैर्लभ्यतेऽनन्तकालिकम् ।
परब्रह्मसुखं सेवाधर्मेण लभ्यते हरेः ॥८३॥
असंख्यं चाप्यनन्तं च न च ग्रस्तं कदाचन ।
न ह्रस्तं न परिणतं तत्सुखं दुःखवर्जितम् ॥८४॥
मानुषस्य तु साफल्यं राजन् ब्रह्मसमर्पणम् ।
युष्माभी राजभिस्तत्तु कृतं यज्ञमहोत्सवे ॥८५॥
कृतकृत्या भवन्तोऽत्र जाता ममाश्रयादिह ।
प्रसन्नोऽस्मि पूजितोऽस्मि सर्वभावैर्महामखे ॥८६॥
गृहे निवेशितोऽस्म्यद्य गृहं ते पावनं सदा ।
भज मां प्रेमभावेन प्रकारय सुमन्दिरम् ॥८७॥
प्रतिष्ठापय मां तत्र द्विभुजं परमेश्वरम् ।
यथादृष्टं यथालब्धं सुरूपं माणिकीयुतम् ॥८८॥
लक्ष्मीयुतं दिव्यभावं प्रसेवय च सर्वदा ।
सहाऽर्धपञ्चषष्ठ्यंगुलोच्छ्रयं च गजासने ॥८९॥
तथा श्रीपद्माभ्यांयुक्तं रमायुक्तं महासने ।
प्रतिष्ठापय मां नित्यं प्रपूजय सुखं लभ ॥९०॥
इत्यादिश्याऽर्हणां प्राप्य भोजयित्वा जनानथ ।
स्वयं भुक्त्वा बहून् कृत्वा निजमन्त्राधिसंश्रितान् ॥९१॥
प्राप्य विश्रान्तिमल्पां च मध्याह्ने राजमण्डलैः ।
प्रधानाद्यैः प्रहरान्ते पूजितः श्रीहरिस्ततः ॥९२॥
इयेष बहुधा राज्ञाऽर्थितश्चोष्ट्रालकेन ह ।
युगशावेन मुनिना चार्थितः परमेश्वरः ॥९३॥
उष्ट्रालं तन्महद्राज्यं गन्तुं मध्याह्नकोत्तरम् ।
तावद्वै पृथुराजस्य कन्यकाः विंशतिस्तदा ॥९४॥
मातृभिः सह संगत्य पूजनार्थमुपाययुः ।
वरमालाऽक्षतपुष्पसुगन्धिपात्रहस्तकाः ॥९५॥
स्वयंवरस्वरूपेण हरेः कण्ठे तु राधिके ।
विंशत्या चार्पिता माला वैवाहिका हि तत्क्षणे ॥९६॥
कुमारदानविधिना जगृहुश्च हरेः करम् ।
प्रेम्णा सर्वा हरिं निभालयामासुः समुत्सुकाः ॥९७॥
पितरं ताः प्रणम्यैव मातॄश्च वृद्धमण्डलम् ।
आशिषः सर्वथाऽऽसाद्य ब्रह्मप्रियास्तदाऽभवन् ॥९८॥
उत्सवः सत्वरं सर्वैः कृतो मालादिकार्पणैः ।
विमानानि तदाऽऽसँश्च प्रस्थानसम्पराणि तु ॥९९॥
कन्यकाविंशतिः कृष्णनारायणेन वै सह ।
गन्तुकामा विमाने श्रीहरेः प्रियासु सर्वथा ॥१००॥
सम्मील्य प्रस्थिताश्चान्ये सर्वे विमानमास्थिताः ।
कुटुम्बं च हरेः सर्व महर्षयस्तथाऽपरे ॥१०१॥
तदा वाद्यान्यवाद्यन्त मंगलश्रवणानि वै ।
गीतिकाश्चाप्यगायन्त कीर्तनं च व्यजायत ॥१०२॥
आरार्त्रिकेन विधिना पुष्पाञ्जल्यादिभिस्तथा ।
वर्धितः श्रीहरिस्तूर्णं तत्स्थलाच्चाम्बरेऽभवत् ॥१०३॥
जयशब्दैर्यन्त्रघोषैर्हर्षनादैः सह प्रभोः ।
विमानं चाऽन्ययानानि व्योम्न्यग्रेऽसंचरन् सुखात् ॥१०४॥
प्रजाश्चाऽऽगम्यमेवात्र पुनर्वै कृपया प्रभो ।
इत्याहुर्बहुधा वाक्यैरतोषयन् परेश्वरम् ॥१०५॥
क्षणमात्राद् राधिके वै विमानान्यम्बरात्तदा ।
युगशावेन निर्दिष्टमार्गेणोष्ट्रालराष्ट्रकम् ॥१०६॥
आययुर्दिनपानद्यास्तटे वियानिकां पुरीम् ।
ददर्श राधिके व्योम्ना राष्ट्रं सुशोभितं हरिः ॥१०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पृथुराजधानीं जरस्थलीं गत्वा स्वागतमासाद्य हरिरूपादिदेश, षड्विंशतिनृपाणां प्राक्कल्पे ऋषित्वं मनुत्वं सूर्यत्वं
चेत्याह, ततो विश्रम्य पूर्णिमायाम् उष्ट्रालराष्ट्रमुपागमदित्यादिनिरूपणनामाऽष्टसप्तत्यधिकशततमोऽध्यायः ॥१७८॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP