त्रेतायुगसन्तानः - अध्यायः २०९
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके प्रातः कृतस्नानविधिः प्रभुः ।
पूजां कर्तुं निषसादाऽऽसने सौवर्णशोभने ॥१॥
यज्ञनारायणं तत्र पूजयामास वस्तुभिः ।
षोडशादिभिरुत्कृष्टैस्तावत्तत्र समाययौ ॥१॥
लोमशर्षिः पूजनार्थं पुपूज परमेश्वरम् ।
ब्रह्मप्रियाश्च राजानः समाययुस्तथाऽऽर्चयन् ॥३॥
तावद् वाद्यान्यवाद्यन्त यज्ञकार्यमहोत्सवे ।
गमनार्थं च राजानः प्रजा महर्षयस्तथा ॥४॥
ब्रह्माद्या ईश्वराः सर्वे यज्ञभूमिं द्रुतं ययुः ।
संभारान् भूभृतोऽपीष्टान् चक्रुरेकत्रितान् मखे ॥५॥
दुग्धं समिधः काष्ठादि कणाः फलानि शालयः ।
सर्वं चोपस्थितं तत्र कृतं देवादिभिः क्षणात् ॥६॥
आचार्यो देवताः सर्वे ऋत्विजो जापकास्तथा ।
कर्मठा यजमानाश्च सहायाश्चोपतस्थिरे ॥७॥
स्वस्तिवाचोऽभवँस्तत्र ब्राह्मणानां शुभप्रदाः ।
पुण्याहवाचनं चापि वेदघोषास्तदाऽभवन् ॥८॥
यथास्थानस्थितेष्वेव सर्वेषु याज्ञिकेषु च ।
देहशुद्धिर्दशस्नानं गुरुपादाभिवन्दनम् ॥९॥
संकल्पो दिग्रक्षणं च कलशाराधनं तथा ।
गणेशपूजनं चापि मातृकापूजनं तथा ॥१०॥
नान्दीश्राद्धं तथार्घं च मधुपर्कं ततोऽभवत्॥
अभिषेको वर्धिनीपूजनं वास्तुप्रपूजनम् ॥११॥
मण्डपार्चनमेवाऽथ सर्वतोभद्रपूजनम् ।
देवतापूजनं यन्त्रदेवानामर्हणं तथा ॥१२॥
अग्नेरुत्तारणं पीठदेवानां पूजनं ततः ।
कुण्डपूजा देवपूजा ततोऽग्निपूजनं शुभम् ॥१३॥
ग्रहाणां योगिनीनां च पूजनं क्षेत्रपाऽर्चनम् ।
मुक्तानामवताराणामीश्वराणां प्रपूजनम् ॥१४॥
ईश्वरीणां ब्रह्मयोषित्पूजनं ब्रह्मचारिणाम् ।
सांख्ययोगिन्यर्हणं च सतीनां पूजनं सताम् ॥१५॥
पितॄणां च ऋषीणां च दिक्पालानां प्रपूजनम् ।
लोकपालार्हणं चापि स्वर्गस्थानां प्रपूजनम् ॥१६॥
त्रयस्त्रिंशत्सुराणां च पञ्चदेवार्हणं तथा ।
भुवर्लोकनिवासानां पूजनं रक्षसां तथा ॥१७॥
भूतप्रेतपिशाचानां मानवानां समर्हणम् ।
चतुःखनिस्थजीवानां पूजनं दासवर्गिणाम् ॥१८॥
जडानां चेतनानां च तीर्थानां पूजनादिकम् ।
रसप्रदानां सर्वेषां स्थावराणां प्रपूजनम् ॥१९॥
जन्तूनां चापि तत्त्वानामतलादिनिवासिनाम् ।
पूजनं श्रीमहाविष्णोर्विष्णोश्च पूजनं तथा ॥२०॥
शंखघण्टार्हणं प्राणपूजनं च निवेदनम् ।
हवनं बहुमिष्टान्नैराज्यैर्घृतादिभिस्तथा ॥२१॥
नीराजनं च वै बलिदानं पुष्पाञ्जलिस्तथा ।
दक्षिणा च नमस्कारः स्तुतिश्चाशीःप्रदानकम् ॥२२॥
परिहारो भोजनानि क्रमात् सर्वं मखे ह्यभूत् ।
कोटिशो लक्षशो देवा तृप्तिं प्राप्ता महामखे ॥२३॥
अष्टम्यामेव मध्याह्ने तथा सर्वं विधानकम् ।
कृत्वा श्रीमद्बालकृष्णो बुभुजे सकुटुम्बकः ॥२४॥
जग्राह ताम्बूलकं च क्षणं विश्रान्तिमाप ह ।
तावत्तत्र नृपश्चायात् प्रार्थनार्थं समुत्सुकः ॥२५॥
चारुलाषर्षिसहितो रायवाकक्षको नृपः ।
निजराष्ट्रं जलस्थं वै द्वीपं विषतुरीयकम् ॥२६॥
तूर्यपदां पुरीं चापि पावयितुं तदाऽऽर्थयत् ।
हरिः प्राह तथाऽस्त्वेवं शीघ्रं सज्जोभवत्तदा ॥२७॥
अनादिश्रीकृष्णनारायणः श्रीकम्भरासुतः ।
पितरौ भ्रातरश्चापि सन्तुष्टा भगिनी तथा ॥२८॥
अमृता भ्रातृजाया च ब्रह्मप्रियाश्च वै सती ।
शंकरो लोमशश्चापि चारुलाषऋषिस्तथा ॥२९॥
रायवाकक्षको राजा विमानयोस्तदा द्रुतम् ।
आरुरुहुर्ययुः सर्वे परिमेयपदानुगाः ॥३०॥
समुद्रखाडिकां समुल्लंघ्य द्वीपमुपाययुः ।
विषतुरीयसंज्ञं ते राजा चाग्रे गतोऽभवत् ॥३१॥
तुर्यपदानगर्यां स हर्यर्थं स्वागतं व्यधात् ।
राज्ञ्या सैन्येन सहितो राजा सम्मानमाचरत् ॥३२॥
विमानं निकटे राजसौधस्योद्यानमण्डले ।
उत्तार्य श्रीहरिस्तस्माद् विमानाद्बहिराययौ ॥३३॥
राजा पुष्पादिभिः पूजां चक्रे श्रीमाधवस्य ह ।
कुंकुमाद्यैस्तथाऽमर्यः पुपूजुः परमेश्वरम् ॥३४॥
जयशब्दा वाद्यशब्दास्तदाऽभवन् समन्ततः ।
वर्धयामासुरीशेशं पुष्पलाजाऽक्षतादिभिः ॥३५॥
प्रजाश्च वर्धयामासुर्हर्षनादैः परेश्वरम् ।
ततो राजा हरिं स्वल्पे विमाने चाध्यरोहयत् ॥३६॥
कुटुम्बं च विमानेषु तथैव चाध्यरोहयत् ।
नगर्या प्रतिभवनं विमानैरभिगम्य च ॥३७॥
पावनानि जनानां वै गृहाणि प्रचकार ह ।
पूजां महोपचाराँश्च धनं द्रव्यं सुरत्नकम् ॥३८॥
प्राप्य कृत्वा पावनानि गृहाणि पुनरेव ह ।
भ्रमित्वा नगरीं दिव्यां दत्वा नैजं च दर्शनम् ॥३९॥
आजगाम नृपावासं दिव्यं सौधं हरिस्ततः ।
विशश्राम क्षणं दुग्धं पपौ सर्वे ततः पपुः ॥४०॥
राजा राज्ञी कुमाराश्च कन्यकात्रयमित्यपि ।
पुपूजुः श्रीकृष्णनारायणश्रीकृष्णवल्लभम् ॥४१॥
उपदाभिर्विविधाभिश्चन्दनाक्षतकुंकुमैः ।
अन्यहारैर्महारत्नैस्ततो नीराजनं व्यधुः ॥४२॥
कन्यात्रयं हरौ मुग्धं वरमाला ददुर्गले ।
हरिर्जग्राह हस्ताँश्च तासां राज्ञीमतेन वै ॥४३॥
कन्या जाताः कृतकृत्याः प्राप्य कान्तं सुरूपिणम् ।
राजा मुमोद बहुधा राज्ञी चाति मुमोद ह ॥४४॥
हरिस्तेभ्यो ददौ सम्यगुपदेशं सुखप्रदम् ।
राजसौधे महासिंहासने निषद्य चोत्सवे ॥४५॥
सदा भक्तिर्हरेः कार्याऽक्षरेशस्य ममाश्रिता ।
सतां सेवा सदा कार्या पुण्यदा मोक्षदा शुभा ॥४६॥
रक्षणं सर्वभूतानां कर्तव्यं दययाऽन्वहम् ।
यस्मिन्नर्थे हितं यत् स्यात्तद् ग्राह्यं नेतरत् क्वचित् ॥४७॥
आत्मसंयमनं बुद्ध्या ग्राह्यबुद्ध्या तु वर्तनम् ।
परामर्शेन मोक्षश्च प्राप्तव्यो देहिना त्विह ॥४८॥
अनुयुञ्जीत कृत्यानि धर्मज्ञानमयानि च ।
आगमैरुपदिष्टानि गुरूदितानि यानि च ॥४९॥
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् ।
धर्ममेवाभिरक्षेद्वै निजार्थं साधयेत् कृती ॥५०॥
शास्त्रं धर्मो ब्राह्मणस्य दण्डः क्षत्रस्य वै वृषः ।
कृष्टिर्वैश्यस्य धर्मोऽस्ति सेवकस्य च सेवनम् ॥५१॥
सत्यं धर्मो हि सर्वस्य धर्माढ्या देवताः स्मृताः ।
मानवा देवतुल्यास्ते सर्वेषां प्राणरूपिणः ॥५२॥
शास्त्रं शासनकर्तृ स्याद् भर्तृप्रत्ययलक्षणम् ।
ब्रह्मणा लोकरक्षार्थं मन्निदेशात् पुरा कृतम् ॥५१३॥
व्यवहारसुखार्थं च भर्तृप्रत्ययलक्षणः ।
दण्डो विनिर्मितश्चापि क्षात्रधर्मात्मकः शुभः ॥५४॥
व्यवहारोऽपरश्चाप्युद्यमरूपो विनिर्मितः ।
बिभर्ति जनताः सर्वा नीतिलब्धान्ननाणकैः ॥५५॥
आयोत्पादनरूपः स भर्तृप्रत्ययलक्षणः ।
तृतीयः पुरुषश्चापि निर्मितः सुखसाधनः ॥५६॥
आज्ञाऽऽदेशात्मकश्चान्यः पुरुषोऽपि विनिर्मितः ।
सर्वेषां दीनवर्णानां भर्तृप्रत्ययलक्षणः ॥५७॥
आदेशे संस्थिताश्चाप्नुवन्ति भरणसाधनम् ।
लोकानामेव सर्वेषां ससुराऽसुररक्षसाम् ॥५८॥
समनुष्योरगवतां स्थावराणां तथैव च ।
चतुर्धाऽयं व्यवहारो भर्तृप्रत्ययलक्षणः ॥५९॥
सुखसम्पत्प्रवाहार्थं कृतोऽस्ति पूर्वतो मया ।
धर्मयुक्तो मम भक्त्या युतो यो मत्परायणः ॥६०॥
भूत्वा वर्तेत सततं तद्भर्ताऽहं भवामि वै ।
कर्मणां च स्वभावानां पुण्यानां व्यवसायिनाम् ॥६१॥
प्रयत्नानामहं भर्ता भर्तॄणां चापि भर्तृकः ।
शास्ता नियामकश्चाहं लोकयात्राकरोऽप्यहम् ॥६२॥
एवं ज्ञात्वा च मां लोका भजेरन् वै तरन्ति ते ।
धर्ममूलः सदैवार्थस्तथाऽर्थफलनं रतिः ॥६३॥
धर्मार्थकामनाः सर्वा मनोमूलोत्थितास्त्विह ।
प्रवृत्तिरूपिणः सर्वे धर्माद्या भवयोगिनः ॥६४॥
समूलेभ्यश्च वै तेभ्यो निवृत्तिर्मोक्ष उच्यते ।
धर्माच्छरीरयोगश्च शारीरोऽर्थः सहायकृत् ॥६५॥
कामः फलं महाबन्धः सर्वे त्वेते रजस्वलाः ।
तान् विहाय विशेषांश्चाऽरजस्को भक्तिमान् मयि ॥६६॥
वर्तते योगयुक्तात्मा ब्रह्मभूयाय कल्पते ।
धर्मो न चेन्मम प्राप्तिप्रदोऽर्थोऽपि न चेत्तथा ॥६७॥
कामो न चेन्मम प्राप्तिप्रदस्तेऽनर्थका मताः ।
अर्थाननर्थरूपाँस्तान् युञ्जीत मयि वा त्यजेत् ॥६८॥
अन्यथा विषये बुद्धिर्यास्यत्येव विहारिणः ।
मोक्षार्थे संहृता बुद्धिर्विनाशं वै व्रजेत्ततः ॥६९॥
बुद्धिनाशो महान्मोहस्तामसोऽपि विवर्धते ।
तस्मान्नास्तिकता स्याच्च दुराचारस्ततो भवेत् ॥७०॥
दुराचारात्प्रजा नष्टा भवत्येव हि सांकरी ।
साधवो न गृहं यान्ति दुराचारगतस्य वै ॥७१॥
पापान्यस्य तु वर्धन्ते दुःखं जीवितमृच्छति ।
जीवतोऽपि निरयोऽयं चासुखं जीवनं यतः ॥७२॥
तस्मात्तद्दोषनाशार्थं सुखार्थं सत्त्वभावतः ।
ब्रह्मनिष्ठान् प्रसेवेत भक्तियुक्तान् हरेर्जनान् ॥७३॥
जपेन्नाम सदा मेऽत्राऽर्पयेत् सर्वं तथा मयि ।
धर्मं चार्थं च कामं च मोक्षाय कल्पते हि सः ॥७४॥
साधून् प्रसादयेन्नित्यं कर्मणा मनसा गिरा ।
तवाऽस्मीति वदेन्नित्यं प्रणमेत् सेवनं चरेत् ॥७५॥
सतामाशीर्वचोभिश्च प्रसादेन च सेवया ।
समागमेन योगेन पावनो जायते जनः ॥७६॥
अपापोऽयं सतां संगः सर्वदोषनिकृन्तनः ।
पापान्यपि च कृच्छ्राणि शमयेन्नात्र संशयः ॥७७॥
गुरवः साधवो लोके श्रेष्ठा मोक्षप्रदा मम ।
सुवर्णं सर्वथा श्रेष्ठं सर्वांशे साधवस्तथा ॥७८॥
आपादकेशपर्यन्ताः पावनाः कृष्णमूर्तयः ।
यथाकथञ्चित्प्राप्तास्ते दास्यन्ति मम योजनम् ॥७९॥
कारयिष्यन्ति मे भक्तिं यापयिष्यन्ति धाम मे ।
तस्मात् सेव्या मम भक्तिमन्त्रयुक्ता हि साधवः ॥८०॥
गुरवस्ते परं धर्मं महाभागवतं मम ।
ब्रूयुस्तं ये त्वाचरयेयुस्ते यास्यन्ति पराऽक्षरम् ॥८१॥
गुरूणां तु प्रसादाद्वै परं श्रेय अवाप्नुयुः ।
सर्वधर्मोत्तमं शीलं शीलधर्मा हि साधवः ॥८२॥
शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।
नहि किञ्चिदसाध्यं वै लोके शीलवतां भवेत् ॥८३॥
एतत्पृथिव्याममृतं शीलं सर्वोत्तमोत्तमम् ।
एतावच्छ्रेय एवास्ति शीलं यत्र प्रतिष्ठितम् ॥८४॥
साधूनां चावताराणां सतीनां परिशीलनम् ।
सेवा शीलं परं प्रोक्तं ब्रह्मशीलं व्रतं परम् ॥८५॥
यथावद् गुरुवृत्त्या वै समं नान्यद्धि विद्यते ।
पूर्वकल्पेऽभवद्राजा प्रह्लादः शीलवान् सदा ॥८६॥
साधुशीलनमेवाऽस्य व्रतं श्रेष्ठं तदाऽभवत् ।
तमेनं तु समागत्य वृहस्पतिः पुरा शुभम् ॥८७॥
प्रह्लादाय ददौ ज्ञानं भक्तिरूपं सनातनम् ।
प्रस्थिते तु गुरौ राजा दक्षिणार्थं तदाऽवदत् ॥८८॥
बृहस्पतिर्ययाचे वै दक्षिणां शीलरूपिणीम् ।
प्रह्लादश्च ददौ शीलं यावत् तावच्च देहतः ॥८९॥
शीलं दिव्यं विनिर्यातं श्रीश्चापि निर्ययौ सह ।
प्रह्लादश्चाभवत्तत्र निस्तेजो धर्मवर्जितः ॥९०॥
शीलहीनः श्रियाहीनः पप्रच्छ पुरुषं च तम् ।
कस्त्वं कस्मात् प्रयास्येवं वद मे तु यथायथम् ॥९१॥
शीलं प्राह व्रतं चास्मि दाने दत्तः प्रयाम्यहम् ।
मयि याते च धर्मोऽयं पुरुषोऽपि प्रयाति च ॥९२॥
धर्मवंश्या इमे चान्ये प्रयान्ति पश्य पार्थिव ।
मयि याते धर्मपत्नी भक्तिर्याति तथा रमा ॥९३॥
लक्ष्मीः श्रीर्भूः समग्राश्च प्रयान्त्येव हरिप्रियाः ।
तच्छ्रुत्वा भयमापन्नः प्रह्लादः शीलवर्जनात् ॥९४॥
यत्र नास्ति सतां सेवा शीलं चेन्द्रियनिग्रहः ।
अद्रोहः सर्वभूतानां तत्र नारायणो न च ॥९५॥
यत्र नारायणो नाऽस्मि यत्र नास्ति रमा मम ।
तत्र मोक्षो न वै चास्ते तस्माद् भवन्तु शीलिनः ॥९६॥
सतां मे च समर्हां वै सेवां कुर्वन्तु नित्यदा ।
सर्वभूतानुग्रहं च शीलं समासतो हि तत् ॥९७॥
सम्पदं भुञ्जते शीलाः शाश्वतीं मदनुग्रहात् ।
अशीलाश्चेदाप्नुवन्ति भुञ्जते न चिरं हि ते ॥९८॥
यज्ञदानादिकार्यार्थं दत्ता समत्तु निर्गुणा ।
एतद्देशीयलोका वै भवन्तु यज्ञवृत्तयः ॥९९॥
सुखिनो दानशीलाश्च तथा शीलवृषान्विताः ।
इत्युक्त्वा विररामैव भगवान् राधिके ततः ॥१००॥
प्रजाभिः पूजितः कृष्णो राज्ञा राज्ञ्या समर्हितः ।
मन्त्रान् ददौ प्रजाभ्यश्च दुग्धपानं चकार ह ॥१०१॥
राजसौधे चरणौ स्वौ दत्वा कृत्वा च पावनम् ।
सायं स्वागतमानेन वाद्यघोषादिभिर्हरिः ॥१०२॥
विमानं स्वं समारुह्य सर्वसार्थसमन्वितः ।
द्विनस्कं पार्श्वराज्यं च मिल्विलं द्वीपमित्यपि ॥१०३॥
विलासद्वीपमेवापि बुलन्दद्वीपमित्यपि ।
विमानेन तदा गत्वा विहृत्य गगने तदा ॥१०४॥
विलोक्य श्रीहरिस्तूर्णं रात्रौ वैहायसा द्रुतम् ।
अष्टम्यामाययौ यज्ञभूमिं निजालये शुभम् ॥१०५॥
स्नानं सन्ध्यां चकाराऽपि भोजनं जगृहे हरिः ।
तथाऽन्ये भोजनं चक्रुर्द्रव्यं यज्ञे हरिर्ददौ ॥१०६॥
विशश्राम सुखं रात्रौ कन्यात्रयेण सेवितः ।
योगनिद्रावशः कृष्णः प्रातर्बुबोध मंगलैः ॥१०७॥
गीतिभिर्वेदघोषैश्च तूर्यस्वनैश्च कीर्तनैः ।
सूतमागधबन्द्याद्यैर्बोधितः परमेश्वरः ॥१०८॥
राधिके स्वस्वरूपं स दध्यौ क्षणं परात्परम् ।
अक्षरातीतरूपं यत् पूर्णब्रह्मपरात्मकम् ॥१०९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने भाद्रशुक्लाऽष्टम्यां यज्ञे सर्वकर्मणामन्तिमाहुतिपर्यन्तानां करणं भोजनं ततो रायवाकक्षकनृपार्थितो हरिस्तद्राज्यं विषतुरीयद्वीपं द्विनस्कं मिल्विलां च गत्वा पावयित्वोपदिश्य रात्रौ् पुनर्मखभूमिमाजगाम विशश्रामेत्यादिनिरूपणनामा नवाधिकद्विशततमोऽध्यायः ॥२०९॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP