त्रेतायुगसन्तानः - अध्यायः ८१
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके राजा यथा तुष्टाव माधवम् ।
बलेश्वरोऽतिभावेन श्रीपतिं परमेश्वरम् ॥१॥
त्वं देवदेवोऽसि सदा परात्मँ
स्त्वं चाक्षरे धाम्नि परे स्थितोऽसि ।
त्वं वै परब्रह्म परेश्वरोऽसि
मुक्तैकवन्द्योऽक्षरवन्द्य एव ॥२॥
सर्वाऽवतारै इतिपूजनीयश्चाराधनीयोऽसि यतोऽवतारी ।
सर्वैरपीशैरभिवन्दनीयो व्यूहैः समाराधनतत्परैश्च ॥३॥
विष्णुस्वरूपैरपि पूजनीयो महेशवेधःप्रभृतिप्रथैश्च ।
सुरैस्तथा पितृभिरर्चनीयो दिशां प्रपालैर्मनुजैश्च सिद्धैः ॥४॥
दैत्यैस्तथा दानवपुंगवैश्चाऽसुरैश्च रक्षोभिरभिष्टुतश्च ।
नागैश्चरैश्चाचरप्राणिभिश्च ध्येयोऽसिगुप्तोऽसिहृदिस्थितश्चा। ५॥
त्वं वामनोऽभूर्नरसिंहकोऽभूर्नारायणोऽभूर्वृषपुत्रकोऽभूः ।
त्वं विष्णुरूपोऽपि च हंसरूपस्त्वं मत्स्यरूपः कमठस्तथाऽभूः ॥६॥
त्वं क्रोडरूपः कपिलस्वरूपस्त्वं दत्तरूपः परशुध्रकोऽभूः ।
त्वं यज्ञरूपो रमणस्वरूपः कुमाररूपोऽश्वमुखस्वरूपः ॥७॥
देवर्षिरूपोऽपिनृपस्वरूपो व्यासस्वरूपोऽपि च राधिकेशः ।
ज्ञानस्वरूपश्च हरिस्वरूपः स्वामिस्वरूपोऽसि पतिस्वरूपः ॥८॥
प्रच्छन्नरूपोऽसि बटुस्वरूपो
गार्हस्थ्यरूपोऽसि वनस्थरूपः ।
साधुस्वरूपोऽसि सतीस्वरूपो
विप्रस्वरूपोऽसि च बाहुजोऽसि ॥९॥
त्वं वैश्यरूपोऽसिचसेवकोऽसि पतिव्रताधर्मसुरूपकोऽसि ।
त्वं भक्तरक्षाकरवत्सलोऽसि त्वं मोहिनीरूपधरोऽसि नाथ ॥१०॥
त्वं कोटिरूपोऽसि गुणाश्रयोऽसि
दिव्याभिराशीर्भिरभिप्रतोऽसि ।
त्वं दिव्यदेहोऽसि परीक्षकोऽसि
ह्युद्धारकर्ताऽसि च नः प्रपाहि ॥११॥
त्वं याचकस्त्वं सुतभक्षकश्च
त्वं रक्षको जीवद ईक्ष्यतेऽत्र ।
त्वं भोग्यभोक्ता च विहारकर्ता
त्व लेपशून्यो भगवानिहाऽसि ॥१२॥
कथंकृतं किंकृतमत्र कृष्णनारायणेन द्युमता त्वया वै ।
मयाऽर्पितं तत्सफलं त्वयीह मयि प्रसन्नो भव विश्वमूर्ते ॥१३॥
धन्या सती शीलवती प्रिया ते
तिस्रोऽपि धन्याश्च कुमारिकास्ते ।
धन्यः कुमारस्तव पौण्ड्रकश्च
धन्यो बलेशस्तव किंकरोऽहम् ॥१४॥
धन्यं स्वरूपं वनवासिनस्ते
धन्या रतिर्व्योमगतस्य ते च ।
धन्यं सुतोरौ तव भोजनं च
धन्यः कुमारस्तव भोज्यरूपः ॥१५॥
धन्यो गुरुस्तारकयोगिवर्यो
धन्या च भीमातटभूमिकेयम् ।
धन्या क्रिया ३दिव्यतमा त्वदीया
धन्यं च धैर्ये तव सेवकानाम् ॥१६॥
समर्पणं धन्यतमं सुतस्य
व्रतं च धन्यं कुमुदस्य मासः ।
अनादिलक्ष्मीपतिकृष्णनारा-
यणोऽसि धन्योऽत्र च कम्भराजः ॥१७॥
गोपालबालोऽसि च बालकृष्णः प्रभापतिः पारवतीपतिश्च ।
राधापतिर्माणिकिकापतिश्च श्रियः पतिर्भूपतिरीश्वरेशः ॥१८॥
हंसापतिर्मञ्जुपतिः सुरेशो
मायापतिर्वै सगुणापतिश्च ।
रूपं तवेदं बहुकोटिसूर्यैः
समं निरीक्ष्य सुखतो न यद्वै ॥१९॥
कोट्यर्कभास्वद्बहुमुक्तयुक्तं तथाऽवतारैर्बहुभिः समेतम् ।
ईशेश्वरैः पितृसुरादिभिश्च दैत्यैश्च नागैः परिवारितं च ॥२०॥
लक्ष्म्या श्रिया राधिकया युतं च युतं तथा चक्रपविष्णुना च।
तथा महालक्ष्मिकया युतं च तथा महाविष्णुसुपूजितं च ॥२१॥
नेत्रे न मे वीक्षितुमीश्वरेऽत्र ततोऽपतेजः कुरु दर्शनार्हम् ।
प्रसीद जीवेश तव स्वरूपं बालस्वरूपं सुभगं विधेहि ॥२२॥
नमो नमस्ते भवतारणाय नमोऽस्तु ते ब्रह्मपरायणाय ।
श्रीबालकृष्णाय नरायणाय भूयोऽपिभूयोऽपि नमो नमस्ते ॥२३॥
अनन्तरूपाय विसंख्यवक्त्रे ह्यसंख्यनेत्राय नमो नमस्ते ।
असंख्यनाम्ने परमेश्वराय कोट्यब्जकन्यापतये नमोऽस्तु ॥२४॥
सर्वं कृतं तेऽर्पितमेव कृष्ण यथाप्रसन्नोऽसि कुरु तथा त्वम् ।
प्राप्तं मयाऽऽप्तव्यममुत्र चात्र वरार्थकं शिष्यत एवनाऽद्य ॥२५॥
इत्येवं राधिके स्तुत्वा विरराम नृपः क्षणम् ।
अनादिश्रीकृष्णनारायणः प्राह भुवः पतिम् ॥२६॥
अयं यो दृश्यते राजन् महाविष्णुः स्वयं भवान् ।
महालक्ष्मीश्च या त्वास्ते सेयं शीलवती तव ॥२७॥
श्रीरियं तव भीमाऽस्ति लक्ष्मीः कृष्णाऽस्ति ते सुता ।
राधिका तुंगभद्रा ते पुत्रीत्रयं निबोध वै ॥२८॥
अयं विष्णुस्तव पुत्रः पौंड्रकः स्वयमेव ह ।
तारकोऽयं गुरुस्तेऽस्मि राजन् मोक्षप्रदः प्रभुः ॥२९॥
दिव्यैर्नेत्रैः प्रदत्तैश्च यूयं पश्यत मामिह ।
सर्वरूपैः समायुक्तं नैजरूपाणि यान्यपि ॥३०॥
ममावताररूपाणि प्रपश्यत ततो हृदि ।
पुत्रोऽयं तव राजेन्द्र न मृतो मायया मम ॥३१॥
दर्शितं च परीक्षार्थं सर्वार्पणविधौ तव ।
व्रतेऽत्र कार्तिके नेति वक्तव्यं नाऽर्थिने क्वचित् ॥३२॥
गृहाण राजन् पुत्रं त्वं यथारूपं यथाऽसुकम् ।
भार्या भुक्ता मया नैव परीक्षार्थं प्रदर्शितम् ॥३३॥
कन्या नग्नाः कृता नैव परीक्षार्थं तु तत्कृतम् ।
प्रसन्नोऽस्मि च सञ्जातः प्रसन्नतम इत्यपि ॥३४॥
यूयं ममाऽवताराः स्थ ज्ञानं तद्वै भविष्यति ।
सर्वदा चाद्यतः सर्वे भवताऽत्र सुदेवताः ॥३५॥
उद्धारार्थं मया लोके कलांशांशादिभिस्त्विह ।
अवताराः संधृता वः कुटुम्बरूपिणो भुवि ॥३६॥
रूपद्वयं कुरुताऽत्र मत्प्रतापेन षट् प्रषट् ।
षड्रूऽपाण्यत्र तिष्ठन्तु प्रषड्रूऽपाणि मत्समम् ॥३७॥
आयान्तु कुंकुमवापीक्षेत्रे तिष्ठन्तु तत्र च ।
अश्वपट्टसरस्तीर्थे तिष्ठन्तु कन्यकाः शुभाः ॥३८॥
इत्युक्त्वा दिव्यरूपं स्वं तिरोऽभावयदीशपः ।
बालकृष्णस्वरूपोऽभूद् दर्शनीयो विशेषतः ॥३९॥
लावण्यपरिपूर्णश्च सर्वसौन्दर्यभाजनः ।
आकर्षकश्च नेत्राणां दृष्टेः स्थैर्यस्य भूमिका ॥४०॥
चम्पकाभः कानकाभो वह्निशुद्धांऽशुकाऽन्वितः ।
सद्रत्नाऽञ्चितभूषश्च कोटिकन्दर्पसुन्दरः ॥४१॥
नवीनबलपूराढ्यो धातुपूर्णाऽङ्गसुदृढः ।
सर्वांगशोभनश्चित्ताकर्षकश्च मनोहरः ॥४२॥
सौम्यहास्यलसत्कान्तिः प्रेमधाराप्रदायकः ।
स्नेहशेवधिसम्प्राप्यः करुणावरुणालयः ॥४३॥
एवं बालस्वरूपोऽभूत् पद्मकिञ्जल्ककोमलः ।
पुण्डरीकायतनेत्रद्वयेनाऽऽकर्षयन् मुहुः ॥४४॥
जगाद वरदानार्थं सर्वं कुटुम्बमेव तत् ।
राजाऽभूत् पूर्णकामश्च कुटुम्बं तुष्टमेव च ॥४५॥
साक्षात् प्राप्तिः प्रभोर्जाता कोऽन्यो वरोऽत्र शिष्यते ।
विचार्येत्थं तु ते प्राहुर्यथेष्टं नो नियोजय ॥४६॥
हरिर्हसँस्तदा प्राह तिस्रः कन्या निजाश्रिताः ।
श्रीश्च कन्या तु या भीमानाम्नी भीमाऽऽपगाऽस्तु सा ॥४७॥
मम तीर्थस्वरूपाऽत्र भीमायां वासमेत्विह ।
लक्ष्मीर्या कन्यका कृष्णानाम्नी कृष्णाऽऽपगाऽस्तु सा ॥४८॥
मम तीर्थस्वरूपाऽत्र कृष्णायां वासमेत्विह ।
राधा तु कन्यका तुंगभद्राख्या सरिदस्तु सा ॥४९॥
मम तीर्थस्वरूपाऽत्र तुंगभद्रास्वरूपिणी ।
एवं कन्यात्रयं तत्र नदीष्वेवाऽभवत् स्थितम् ॥५०॥
लोकोद्धारविधानार्थं कृपया व्यदधत्तथा ।
प्रभुः स्वयं तीर्थकर्ता स्वयं ताभिः सहाऽवसत् ॥५१॥
भीमातटे हरिस्तत्र भीमाकृष्णो विराजते ।
कृष्णातटे हरिः कृष्णा निवासाख्यो विराजते ॥५२॥
तुंगभद्रातटे तुंगभद्रानाथो विराजते ।
एवं तीर्थत्रयं रम्यं कृतवान् भगवान् स्वयम् ॥५३॥
ततः प्राह च राजानं त्वं तु महाबलेश्वरः ।
महाविष्णुस्वरूपो वै शंकरेण समं सदा ॥५४॥
वस राजन् तीर्थरूपो मम तीर्थफलप्रदः ।
महालक्ष्म्या सहितस्त्वं शीलवत्या तु योषिता ॥५५॥
एवं तीर्थं महालक्ष्मीयुतं महाबलेश्वरम् ।
कृतं कृष्णेन वासं वै दत्वा ताभ्यां तदा शुभम् ॥५६॥
राजा राज्ञीं स्थितवन्तौ महाबलेश्वरे सदा ।
अथ विष्णुं पुण्डकं तु सुतं प्राह हरिः स्वयम् ॥५७॥
त्वं सदा दिव्यरूपेण पुण्ड्रके नगरं कुरु ।
विश्वस्थलस्वरूपश्च सदा पुण्ड्रपुरे वस ॥५८॥
आश्रितानां जनानां च मुक्तिदो भव सर्वदा ।
एवं विष्णुं पुण्ड्रपुरे स्थातुमाज्ञाप्य तत्परम् ॥५९॥
तत्तत्तीर्थानि संस्थाप्य तेषु तेषु प्रविश्य च ।
विशेषतः स्वयं कृष्णनारायणोऽखिलेश्वरः ॥६०॥
प्रषड्रूपाणि दिव्यानि यानि धृतानि चाज्ञया ।
नीत्वा दिव्ये विमाने स्वे ततस्तं तारकं गुरुम् ॥६१॥
आहूय तारकं पुण्यं दिव्याश्रमं समार्पयत्॥
त्वया सतारके पुण्ये स्थातव्यं तीर्थरूपिणि ॥६२॥
मम मन्त्रः प्रदातव्यः शरणागतदेहिने ।
इत्युक्त्वा स्थापयामास तारके तारकायनम् ॥६३॥
द्वितीयं चापि तद्रूपं नीत्वा दिव्ये विमानके ।
दत्वाऽऽशिषोऽपि सर्वेभ्यः प्रसन्नो भगवान् हरिः ॥६४॥
कृत्वा तीर्थानि सप्तैव मूर्धन्यानि भुवस्तले ।
स्नात्वा तीर्थेषु तत्रापि तत्तत्स्थलेषु माधवः ॥६५॥
तीर्थोत्तमोत्तमान्येव व्यधात् त्रैलोक्यनायकः ।
दिव्यानि तानि रूपाणि सप्तसंख्यानि वै यदा ॥६६॥
विमाने श्रीहरिर्दिव्ये दधार च तदा सुराः ।
ब्रह्मविष्णुमहेशाद्याः ऋषयः पितरस्तथा ॥६७॥
साध्याः सिद्धा वसवश्च ईश्वरा मानवोत्तमाः ।
आययुस्तत्र सहसा जयशब्दान् व्यधुर्मुहुः ॥६८॥
हर्षनादान् प्रचक्रुश्च वर्धयामासुरक्षतैः ।
पुष्पवृष्टिं प्रचक्रुश्च सिषिचुश्चान्दनं जलम् ॥६९॥
लाजाभिर्वर्धयामासुर्हर्षयामासुरीडनैः ।
प्रणेमुर्मानयामासुः सत्कारं चक्रुरात्मभिः ॥७०॥
अर्पितैर्विविधैर्द्रव्यैर्धन्यवादान् ददुस्तथा ।
प्राहुः श्रीपरमात्मानं नाथ! भक्तस्य ते क्वचित् ॥७१॥
नाऽदेयं विद्यते तेऽत्र निदर्शनं बलेश्वरः ।
नैतादृशी परीक्षा तु कर्तव्याऽन्यत्र कुत्रचित् ॥७२॥
अपक्वानां व्रतहन्त्री भवेत् क्वचिद्धि मायया ।
अमायिकस्य ते कृष्ण! परीक्षणं ह्यमायिकम् ॥७३॥
मायालुब्धेन दुर्धर्षं मायाहीनेन पार्यते ।
इत्युक्त्वा पुष्पहाराद्यैः पूजयित्वा परेश्वरम् ॥७४॥
सप्त ताँस्तु महामुक्तान् समभ्यर्च्य पुनस्ततः ।
अदृश्यतां ययुर्देवाः सर्वेऽन्ये देवसार्थकाः ॥७५॥
अनादिश्रीकृष्णनारायणो विमानमम्बरे ।
प्रेरयामास तच्छीघ्रं चाययावाश्वसारसम् ॥७६॥
कुंकुमवापिकाक्षेत्रे लोमशाश्रमसन्निधौ ।
कोटिसूर्याभतेजोवत् मूर्त्यष्टकसमुज्ज्वलम् ॥७७॥
अवाततार च सायं भ्रमित्वा दशयोजनम् ।
कदम्बानां वनमध्ये उद्याने सुमनोहरे ॥७८॥
अवतेरुश्च ते पृथ्व्यां नरा नार्यस्तदाऽभितः ।
दर्शनार्थं दुद्रुवुश्च ददृशुः परमेश्वरम् ॥७९॥
सप्तदिव्यमहाभागवतभक्तसमन्वितम् ।
विमानं चाऽदृश्यभावं प्राप्तं क्षणाज्जना अपि ॥८०॥
जयशब्दाँस्तदा चक्रुः प्रणेमुश्चाष्टकं शुभम् ।
हरिर्निनाय चाऽऽवासे मातरं पितरं प्रति ॥८१॥
दर्शयित्वा ततः श्रीमल्लोमशं प्रणिनाय च ।
अश्वपट्टसरः पश्चात्तीर्थानि प्रणिनाय च ॥८२॥
कुदम्बाय ददौ सौधं सदावासाय चोत्तमम् ।
कुंकुमवापिकाक्षेत्रे तारकायाऽऽश्रमं ददौ ॥८३॥
सत्कारं भोजनं पानमुपस्कारं च वस्तु च ।
अपेक्षितं ददौ सर्वं दिव्यं श्रीपुरुषोत्तमः ॥८४॥
हरिः प्राह च राजानं व्रतं ते कार्तिकस्य वै ।
सर्वं सम्पूर्णतां प्राप्तं मम योगेन सर्वथा ॥८५॥
यशो दानं चान्नसत्रं जलं वस्त्रं धनादिकम् ।
जपो होमोऽतिथेः सेवा मासं फलाशनादिकम् ॥८६॥
सर्वं मम कृपालेशात् तव सम्पूर्णतां गतम् ।
कर्तव्यं नास्ति ते राजन्नवशिष्टं तथेतरत् ॥८७॥
अत्र सेवापरो भूत्वा मय्यर्पणं समाचर ।
कार्तिकानां च कोटीनां व्रतं ते पूर्णतां गतम् ॥८८॥
एवमुक्तवते तस्मै श्रीकृष्णाय परात्मने ।
राज्ञा कन्यात्रयं तत्राऽर्पितं कान्ताय शार्ङ्गिणे ॥८९॥
आश्रमे लोमशमुनेः प्रेषयामास कन्यकाः ।
श्रीहरिस्तारकं बलेश्वरं शीलवतीं सतीम् ॥९०॥
पुण्ड्रकं च सुतं यत्र कारयामास चाप्लवम् ।
अश्वपट्टसरस्येव तानि तीर्थानि चाऽभवन् ॥९१॥
तत्तन्नाम्ना प्रसिद्धानि दिव्यानि तारकाणि वै ।
ततः स्वयं विशश्राम निजालयेऽतिकोमले ॥९२॥
रात्रौ निद्रां चकाराऽथ प्रातश्चोर्जाष्टमीप्रगे ।
श्रीहरेर्जन्मदिवसे पूजां चकार तारकः ॥९३॥
महाबलेश्वरश्चापि कन्यात्रयं च कन्यकाः ।
ऋषयो मुनयः सिद्धा मानवा देवतादयः ॥९४॥
ईश्वरा देविका सर्वाः पुपूजुः परमेश्वरम् ।
दशमे वत्सरारम्भदिवसे मण्डपे हरिः ॥९५॥
निषसाद महादिव्ये गजासने परः पुमान् ।
ईशपाला लोकपाला राज्यपालाः समाययुः ॥९६॥
पुपूजुश्चातिप्रेम्णैव लोमशोऽर्चनमाचरत् ।
आरार्त्रिकं चकाराथोपदा ददुः सुरादयः ॥९७॥
भोजयामास च पिता माता सत्कारमाचरत् ।
देवदेवीकुटुम्बानां बहुमानधनादिभिः ॥९८॥
ततश्चक्रे परिहारं सायं चक्रे महोत्सवम् ।
नर्तनं गायनं विद्याधर्योऽन्याः कुशलस्त्रियः ॥९९॥
ताभ्यो ददौ पारितोषिकादिकं च पिता स्वयम् ।
हरिस्त्वाशीर्वादसौख्यं ददौ सुभोजनादिकम् ॥१००॥
एवमुत्सवमुत्कृष्टं निर्वर्त्य दशवार्षिकम् ।
भोजयामास विप्राद्यान् कुंकुमवापिकास्थितान् ॥१०१॥
ददौ दानानि रत्नानां गवां चार्थिप्रतुष्टये ।
एवं महोत्सवं कृत्वा ययुर्देवादयो दिवम् ॥१०२॥
अन्ये लोकान्निजान् सर्वे ययुर्गोपालकृष्णकः ।
विशश्राम सुखं कृष्णनारायणोऽपि मन्दिरे ॥१०३॥
लोमशः कन्यकायुक्तः पूजां प्राप्याऽऽश्रमं ययौ ।
महीमाना ययुर्नैजं देशं शंसन्त उत्सवम् ॥१०४॥
अथ स्वामिकृष्णनारायणसेवार्थमुत्सुको ।
हेमन्तभगवन्तौ द्वौ दिव्यौ श्रीहरिपार्षदौ ॥१०५॥
सेवायां दासवन्नित्यं स्थितौ सर्वात्मना प्रभोः ।
राजोपचारकैः सिषेवाते कृष्णनरायणम् ॥१०६॥
पठनाच्छ्रवणाद् राधेऽनादिकृष्णस्य चेष्टितम् ।
भुक्तिर्मुक्तिर्भवेद् ध्रोव्या प्रभाकान्तप्रतापतः ॥१०७॥
इति श्रीलस्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बलेश्वरराज्ञः सकुटुम्बस्य श्रीहरिस्तुतिः, द्वेधा दिव्यदेहादिप्राप्तिश्चेत्यादिनिरूपणनामैकाशीतितमोऽध्यायः ॥८१॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP