संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १९

त्रेतायुगसन्तानः - अध्यायः १९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
अथाऽस्य वत्सरे याते द्वितीये वत्सरे शुभे ।
प्रारब्धे कार्तिककृष्णाष्टम्यां जन्मोत्सवं पिता ॥१॥
प्रचकार तदा गुरोर्लोमशस्याऽपि पूजनम् ।
ब्राह्मणान् भोजयामास ददौ दानानि भूरिशः ॥२॥
सर्व तद् राधिके तुभ्यं कथयामि समासतः ।
अनादिश्रीकृष्णनारायणपुमुत्तमस्य वै ॥३॥
सप्तम्यां प्रातरुत्थाय श्रीमद्रोपालकृष्णकः ।
स्मृत्वा कृष्णं हरिं राधे! स्नात्वा प्रपूज्य केशवम् ॥४॥
पत्रिकां लेखयामास वार्षिकाद्यमहोत्सवे ।
वर्षं मे नन्दनस्यौर्जकृष्णाष्टमीप्रगे शुभम् ॥५॥
पूर्ण प्रजायते चाथ द्वितीयवत्सरक्षणे ।
शुभे दिने च तत्रैव महोत्सवे मुदावहे ॥६॥
क्रियमाणे मयाऽऽगत्य भवद्भिरुपबृंहिते ।
स्वात्माऽयमिति मत्वैव शोभावृद्धिर्विधीयताम् ॥७॥
अनादिश्रीकृष्णनारायणश्चाशीर्निधिः स्वयम् ।
नीयन्तां चापि दीयन्तां यथास्नेहं शुभाशिषः ॥८॥
मत्वा गृहं स्वकीयं चाऽऽगन्तव्यं प्रार्थयामि वः ।
कुटुम्बभृत्यसुजनसुहृत्सम्बन्धिसंहितान् ॥९॥
देवर्षिपितृवृद्धानां सतां ब्रह्मानुशीलिनाम् ।
पतिव्रतानां साध्वीनां देवीनां ब्रह्मयोषिताम् ॥१०॥
विप्रधर्मवतां भक्तसत्संगकारिणां तथा ।
शुभाशीर्भिः शिशुः श्यामो घनश्यामो हरिर्भवेत् ॥११॥
कुंकुमवापिकातीर्थे चाश्वपट्टसरस्तटे ।
सौराष्ट्रे भूतले सर्वैरागन्तव्यं मम गृहम ॥१२॥
भद्रा यस्योत्तरे चास्ति पूर्वं शत्रुजिता नदी ।
दक्षिणे वर्तते व्याघ्रारण्यं च पश्चिमे गिरिः ॥१३॥
मध्ये सरोवरं दिव्यं दशक्रोधादिवर्तुलम् ।
मध्ये द्वीपो महानस्ति प्रासादो लोमशाश्रमः ॥१४॥
तत्र गोपालकृष्णस्य ममालयो विराजते ।
आगन्तव्यं महाभागैर्द्वितीयवार्षिकोत्सवे ॥१५॥
अनादिश्रीकृष्णनारायणस्य परमात्मनः ।
धन्योऽहं कृतकृत्योऽहं भविष्याम्यागमात्तु वः ॥१६॥
वैकुण्ठेन समेयं भूर्भविष्यत्यागमात्तु वः ।
पुत्रस्य जन्मसाफल्यं भविष्यत्यागमाच्च वः ॥१७॥
वारं वारं प्रणम्याऽऽमन्त्रयाम्यागमनाय वः ।
चतुर्दशस्तरस्थानां समाजोऽत्र भविष्यति ॥१८॥
परस्परप्रसंगेन लाभोऽलभ्यो भविष्यति ।
सेविष्ये च यथाशक्ति महीमानान् समाहितः ॥१९॥
कृपणोऽयमिति मत्वाऽनुग्राह्यो दास एव यत् ।
कम्भराश्रीस्तथा चानुग्राह्या नारीभिरागमात् ॥२०॥
सर्वमानसयुक्तांश्च तत्त्वानि चार्थयाम्यपि ।
द्रव्यगुणक्रियाजातिसंसर्गानर्थयाम्यपि ॥२१॥
चेतनाचेतनान् सर्वानामन्त्रयामि भावतः ।
मम पुत्रो भवत्पुत्रो वर्धनीयः शुभाशिषा ॥२२॥
अनागमे तु चिन्ता मे सर्वदाऽनागमात्मिका ।
उत्थिता स्याच्च सा माभूत् कृपा मा खण्डिता भवेत् ॥२३॥
शाश्वतिकता संरक्ष्या शाश्वतिकमहोत्सवे ।
इत्यभ्यर्थ्य विरमेऽतिप्रतिक्षन् ऋतयाचनाम् ॥२४॥
इत्येवं राधिके! पित्रा प्रभोः कुंकुमपत्रिका ।
लिखिता भावगर्भा च प्रेषिता वै दिगन्तरे ॥२५॥
कृष्णायुधानि सर्वाणि ययुर्नीत्वा दिवं प्रति ।
ईशलोकान् गुणा ययुर्धामान्यैश्वर्यमण्डलम् ॥२६॥
पातालादौ भूषणानि ययुर्नीत्वा च पत्रिकाः ।
राधिके! मूर्तिमन्तस्ते कृष्णदूता यथा ययुः॥२७॥
आमन्त्रिताश्च ते यातुं प्रयाणे चक्रिरे मुदा ।
स्वस्वलोकस्यवस्तूनि श्रेष्ठप्रेष्ठानि सर्वथा ॥२८॥
दिव्यान्युपदायोग्यानि सौवर्णराजतानि च ।
तान्तवानि रासनानि विमानादौ दधुश्च ते ॥२९॥
आनन्दं मेनिरे कृष्णनारायणमहोत्सवम् ।
इष्टं भाग्यं समायातं मत्वा बभूवुरुत्सुकाः ॥३०॥
कुंकुमवापिकाक्षेत्रे गोपालकृष्णलोमशौ ।
सप्तम्यामेव सामग्रीसमवायं प्रचक्रतुः ॥३१॥
घृतकुल्या दधिकुल्या गुडकुल्याश्च शर्कराः ।
मधूनि च विचित्राणि मिष्टान्नान्यपि सर्वेशः॥३२॥
पेयानि मुखचूर्णानि कारयामासतुर्मुदा ।
कान्दिविकाश्च देवानां तया लक्ष्म्यादियोषितः ॥३॥
कन्यकाश्च हरेर्भक्ताश्चक्रुर्माहानसीयकम् ।
पाथेयं जाठरार्प्यं च यत्किञ्चिद्भिन्नजातिकम्॥३४॥
सर्वं व्यञ्जनसाहाय्यं चारनालादिबृंहितम् ।
लेह्यं चोष्यं भोज्यमिष्टं भक्ष्यं भर्जितमित्यपि ॥३५॥
क्वाथितं पाचितं प्रतापितं चार्द्रीकृतं तथा ।
पेपितं कूर्चितं दग्धं सारीकृतं प्रपेचेतम्॥३६॥
छूंकारितं वाष्पितं च मिश्रितं मथितं तया ।
यद्यद् योग्यं च तत्सर्वं चक्रुर्वै निशि सर्वथा ॥३७॥
दर्वी चुल्ली कटाही च स्थाली कुंभी महानसी ।
चिपिटी गर्गरी भ्राष्ट्री चागमिनी च वर्धिनी ॥३८॥
मूशली वल्लरीत्याद्या देव्यः पाकसहायदाः ।
कुशलिन्यो रमादीनां कैंकर्यं चक्रुरादरात ॥३९॥
द्वादश राशयश्चापि तदा सर्वप्रदेशतः ।
नियोजिताः समानेतुं वस्तून्यानिन्युरादरात् ॥४०॥
राशीनां यत्र संचारा यत्र यत्र वसन्ति च ।
तत्तद्वस्तूनि चादाय समाययुस्तदोत्सुकाः ॥४१॥
मेषी राशिर्निवसति धान्यरत्नाकरादिषु ।
नवशाद्वलसंछन्नवसुधायां न सर्वशः ॥४२॥
नित्यं चरति फुल्लेषु सरसां पुलिनेषु च ।
अजाविकधनादौ च सस्येषु विविधेषु च ॥४३॥
सा च नैजनिवासेभ्यो धान्यानि रसवन्ति च ।
रत्नानि मीक्तिकादीनि हीरकांश्च मणींस्तथा ॥४४॥
पादत्राणे शिरस्त्राणं वर्म चौर्णं समुज्ज्वलम् ।
हस्तत्राणं कटित्राणं कम्बलिकाश्च कम्बलान् ॥४५॥
वसून् वमुमतीगर्भात् शाकपत्राणि सर्वतः ।
फुल्लपुष्पाणि हाराँश्च पक्वाऽऽमकणिकाँस्तथा ॥४६॥
फलकन्दान् मुखचूर्णानानिनाय सुपुष्कलान् ।
दिव्या च मेषदेवी साऽर्पयामास तु शार्ङ्गिणे ॥४७॥
अथ राशिर्वृषीनाम्नी चरते गोकुलादिषु ।
निवासो वर्तते तस्याः कृषीवलधरादिषु ॥४८॥
शंकरस्य गृहे चापि धर्मदेवीस्वरूपिणी ।
गोलोके वर्तते चापि सापि दिव्या तदुत्सवे ॥४९॥
आनिनाय च गोलोकात् कामधेनूः सहस्रशः ।
धान्यान्यक्षतगोधूमादीनि दुग्धाज्यकानि च ॥५०॥
भूरीणि नवनीतानि दधितक्राणि सर्वशः ।
यानवाहनशिबिका भोग्यवस्तूनि यानि च ॥५१॥
आनिनाय च कैलासादसंख्यरत्नकानि च ।
ददौ श्रीहरये तत्रोत्सवार्थे वस्तुपुष्कलम् ॥५.॥
मिथुनीनामिका राशिर्गीतनर्तनशिल्पिषु ।
वर्तते चापि दम्पत्योः शय्यासनपरिग्रहे ॥५३॥
वीणावाद्यादिषु चापि क्रीडायां च रतौ तथा ।
अध्वादौ च विहारोऽस्या वर्तते गृहमेधिषु ॥५४॥
राशि गुरौ महालोके महाजने च सर्वथा ।
सापि दिव्या दिव्यवस्तून्यानिनायोपदात्मिकाः ॥५५॥
गीतिकानृत्यशिल्पादिकलाश्चतुःप्रषष्टिकाः ।
कन्यकाः सा समानीयोत्सवे श्रीहरये ददौ ॥५६॥
दुग्धफेननिभाः शय्याश्चासनानि द्युमन्ति च ।
गृहसाहाय्यसामग्रीः सर्वाश्चानाय्य वै ददौ ॥५७॥
वीणावाद्यानि सर्वाणि राजभोग्यसुवैभवान् ।
गुरुयोग्यान् देवयोग्यानानाय्य वैभवान् ददौ ॥५८॥
मर्त्ययोग्याँस्तथा सर्वदेहियोग्याँश्च वैभवान् ।
निजाश्रमस्थलेभ्यश्चानाय्य श्रीहरये ददौ ॥५९॥
कर्किनाम्नी च या राशिः कृकलासी हि देवता ।
सलिलस्था च केदारवापिपुलिनवासिनी ॥६०॥
विविक्ताऽवनिसंस्था चाऽऽनिनाय जलमौक्तिकान् ।
कमलानि विचित्राणि रसांश्च विविधाँस्तथा ॥६१॥
नूत्नकेदारसस्यानां सुपक्वाः शिम्बिकास्तथा ।
आनिनाय ददौ कृष्णनारायणाय चोत्सवे ॥६२॥
सिंही तु पर्वतारण्यदुर्गकन्दरभूमिषु ।
वसति व्याधपल्लीषु गह्वरेषु गुहासु च ॥६३॥
सा च नैजावासभूमेरानिनाय सुचामरौ ।
कस्तूरीधातुसौगन्ध्यं कर्पूरचन्दनानि च ॥६४॥
कौशेयकानि वस्त्राणि गजमौक्तिककानि च ।
और्णकम्बलवस्त्राणि मृदुनि शीतहानि च ॥६५॥
मृगचर्माणि रम्याणि सिंहचर्माणि वै तथा ।
व्याघ्रहस्तिप्रचर्माणि करिदन्ताँश्च हीरकान् ॥६६॥
स्वर्गरसान् कुप्यरसान् खानेयकान् रसाँस्तथा ।
गूटिकाश्चौषधीन् दिव्यस्तम्बानक्षयकृल्लताः ॥६७॥
दिव्यगन्धान् दिव्यफलान्यपि कल्पद्रुमाँस्तथा ।
दिव्यप्रदीपपत्राण्यानिनाय हरये ददौ ॥६८॥
अथ वै कन्यकाराशिः सर्वसौभाग्यसुन्दरी ।
सर्वमंगलमांगल्या स्वर्णचम्पकसूज्ज्वला॥६९॥
कल्पकन्यास्वरूपा च भावनाफलदा सदा ।
व्रीहिप्रदीपककरा वसति दम्पतीशये॥७०॥
ताम्बूलदा गनधरससारदाऽऽनन्ददायिनी ।
नड्वलेषु चामरेषु पुण्येषु कलिकादिषु ॥७१॥
नगरेषु च देवानां गृहेषु वसति तथा ।
स्वर्गे सत्ये मर्त्यलोके पातालादौ हरेर्गृहे ॥७२॥
सर्वत्र वसति कन्या चानिनाय शुभद्रवान् ।
कुंकुमाऽक्षतसौभाग्यविभूषा रत्नझुल्लरीः ॥७३॥
कंचुकान् चन्द्रसन्नद्धान् टोपीं चान्द्रीं च शारदीम् ।
हिरण्यगर्भोपस्कारान् पात्राणि कटकाँस्तथा॥७४॥
असंख्यानन्तपात्राणि कानकानि महोत्सवे ।
कलशान् गर्गरीर्हाण्डान् वटिकाः स्थालिकास्तथा ॥७५॥
हारान् विचित्रान् प्रमणीन् सूर्यकान्तान् मनोहरान् ।
चन्द्रकान्तान् वह्निकान्तान् देवकान्तान् निनाय सा ॥७६॥
चामरान् रत्नदण्डाँश्च छत्राणि कानकानि च ।
वेत्रान् यष्टीन् वेल्लणादीन् वर्धनीः कण्डनीस्तथा ॥७७॥
ताम्बूलानि विचित्राणि गुच्छान् चाम्पककैसरान् ।
कादम्बकाँश्च कौन्दाँश्च कल्पयष्टींश्च कानकीः ॥७८॥
मिष्टान्नस्थालिका दीर्घा नैसर्गिकप्रदीपकान् ।
गन्धान् रसान् गन्धसारान् निनाय हरये ददौ ॥७९॥
तुलाराशिश्च वै दिव्या तुलानाम्नी तु सुन्दरी ।
बीथ्याऽऽपणक्रयशालानगराध्वगृहादिषु ॥८०॥
धनाढ्यव्यापृतिस्थाने वसति चरते तथा ।
साऽपि दिव्या कृष्णकान्तकृते निनाय चोत्सवे ॥८१॥
अन्नानां वेषवाराणां पौष्कल्यं ह्रासवर्जितम् ।
तुलां दिव्यां ददौ यत्र धृतं त्वक्षयमेव हि ॥८२॥
धनानि स्वर्णरौप्याणि मुद्राः पाशान् ददौ तु सा ।
कुबेरभवनान्नीत्वा बह्वीः स्मृद्धीर्ददौ तदा ॥८३॥
वृश्चिकी या च वै तीव्रा राशिः श्वभ्रे च भूस्तरे ।
वल्मीके गोमये दीर्णे स्थले भूगर्भके तथा ॥८४॥
पाषाणादौ च वसति चरति द्रुत्वगादिषु ।
गृहभित्तौ वने क्षेत्रेऽरण्ये कच्चरके त्रुटौ ॥८५॥
दिव्यकन्या च सा कृष्णकृते निनाय शैलजान् ।
शिलारसान् द्रुमरसान् भूमिकन्दाँश्च मूलकान् ॥८६॥
रणजन्यान् भूमिजन्यान् रसान् लावणसंज्ञितान् ।
कट्वम्ब्लमधुराँश्चापि विषहाँश्च रसान् ददौ ॥८७॥
धनूराशिर्दिव्यकन्या तुरंगरूपधारिणी ।
धनुर्युक्ता शरतूणा शूराऽस्त्रशस्त्रविद्वरा ॥८८॥
गजे रथे तुरगे च याने विमानके क्षितौ ।
शकटे शिबिकायां च तिष्ठति चरते तथा ॥८९॥
तत्तत्स्थलानि यानानि गजवाजिरथादिकान् ।
व्योमयानानि दिव्यानि व्योमोद्यानयुतानि च ॥९०॥
हंसतुरगहस्त्यादिशोभितानि नवानि वै ।
विमानानि ददौ कृष्णनारायणाय चोत्सवे ॥९१॥
मकरीनामतो राशिर्मृगास्या दिव्यकन्यका ।
नदीषु वसति वार्धौ महासरोवरादिषु ॥९२॥
खातेषु देवपरिखादिषु सञ्चरते तथा ।
तत्तत्स्थानप्रजातानि रत्नानि हरये ददौ ॥९३॥
कुंभिकाराशिरित्याख्या पुरुषस्कन्धवासिनी ।
रिक्तकुंभात्मिका कन्यारूपा शौण्डिकसद्मसु ॥९४॥
द्यूतगृहेषु शालासु वसति चरते तथा ।
सा च ददौ कोटिकुंभान् सौवर्णान् हरये तदा ॥९५॥
मीनराशिर्युगलं सप्रेम तीर्थाब्धिसञ्चरम् ।
वसति पुण्यतीर्थेषु देवब्राह्मणसद्मसु ॥९६॥
मीनी कन्यात्मिका दिव्या चागत्य हरये ददौ ।
पूजापात्राणि सर्वाणि पूजाद्रव्योत्तमानि च ॥९७॥
उपचारान् षोडश संप्रददौ हरये मुदा ।
एवं राशिर्द्वादशात्मा दिव्यकन्यागणस्तदा। ॥९८॥
सत्यपातालपर्यन्तान् सारान् श्रीहरये ददौ ।
विश्वकर्माऽऽहूत एवाऽऽगतो मण्डपमद्भुतम् ॥९९॥
चकार शतभौमं च क्षेत्रगर्भं दिगन्तगम् ।
व्योमवाटं यानवाटं समुद्यानसुशोभितम् ॥१००॥
धर्मसभा चेन्द्रसभा सभा चापि बृहस्पतेः ।
शुक्रसभा ब्रह्मसभा सभा विष्णोः शिवस्य च ॥१०१॥
यत्र वै मण्डपे तत्र समावेशगतास्तदा ।
सिंहासनानि दिव्यानि केतवः कानकास्तथा ॥१०२॥
कलशाः स्वर्णनिर्माणाः शतैकसंख्यया स्थिताः ।
सहस्रैकशिखराढ्यो नैसर्गिकदिवाकरः ॥१०३॥
नैसर्गिकशशिभ्राजत्तेजःपुञ्जविराजितः ।
विद्युद्दीपार्बुदशोभः कोटितारकराजितः ॥१०४॥
वापीकूपतडागादिगृहसाधनमण्डितः ।
भोश्रयपानप्रमृद्यादिदिव्यद्रव्यविराजितः ॥१०५॥
दिव्यमण्डनमालाद्यैर्दिव्यमाणिक्यभित्तिकः ।
दिव्यमौक्तिकमण्याद्यैर्हारकाद्यैः सुबृंहितः ॥१०६॥
नैकगोपुरवाटैश्च सहस्रध्रुवशाश्वतः ।
मध्येवेदीमहादिव्यानलनैसर्गिकाज्यवान् ॥१०७॥
लक्षलक्षातिलक्षाणां स्तम्भानां राजिराजितः ।
सर्वदेवर्षिमुनिभिर्जगतां पालकैः शुभैः ॥१०८॥
स्तम्भोपरिकृतस्थानो दिव्यकीरमयूरकः ।
दिव्यश्रवणवीक्षादिदिव्यभोज्यगृहादिभिः ॥१०९॥
दिव्यारामविहारादिदिव्यभोज्यगृहादिभिः ॥
दिव्याप्लवनभागैश्च वरांगणैर्विराजितः ॥११०॥
व्योमगः कामगः कोट्यर्बुदकन्याभिशोभितः ।
दिव्यप्रदर्शनव्याप्तो दिव्यमल्लरणांगणः ॥१११॥
दिव्यगान्धर्वविद्यश्च दिव्यनाटकरञ्जितः ।
दैवीवाद्यकृतालापस्वरमिष्टाद्यमण्डितः ॥११२॥
गजसिंहादिप्रतिमः सर्वदेवविराजितः ।
ब्रह्माण्डे चैश्वरे लोके धाम्नि नास्ति च यत् खलु ॥११३॥
तत्तत्र नास्ति वै विश्वकर्मनिर्मितमण्डपे ।
जीवसृष्टौ चेशसृष्टौ ब्रह्मसृष्टौ परे स्थले ॥११४॥
यत् किञ्चिद् विद्यते ख्यातं तदत्र मण्डपे कृतम् ।
विश्वकर्माऽकरोच्छैल्प्यं ब्रह्माऽकरोद् विधानकम् ॥११९॥
वासुदेवोऽकरोद् वस्तुरूपाणि ख्यातिमन्ति च ।
अक्षरं ब्रह्म रूपाणां व्यक्ततामकरोत्तदा ॥११६॥
राधिके त्वं महामाया न्यूनतामहरः स्वयम् ।
लक्ष्मीः पूर्णत्वमातिष्ठज्जया जयमकारयत् ॥११७॥
इत्येवं सप्तमीसायं मण्डपः शोभनोऽभवत् ।
रात्रिर्न दृश्यते तत्र शाश्वते धाम्नि चागते ॥११८॥
निद्रा कुंकुमवाप्याश्च क्षेत्रात् क्रोशगतं गता ।
आनन्दिनी महाब्राह्मी शक्तिः सौराष्ट्रके स्थिता ॥११९॥
सूर्यस्योदयनं पूर्वं बिम्बदर्शनमात्रकम् ।
रात्र्यागमो दिगन्तानां कार्ष्ण्यमात्राभिवेदितः ॥१२०॥
विगमश्च दिगन्तानां प्रभाधावल्यनिश्चितः ।
बालखिल्यागमेनैव सूर्योदयस्तु तर्कितः ॥१२१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कार्तिककृष्णाष्टम्यां बालकृष्णस्य प्रभोर्द्वितीयवर्षारम्भोत्सवे सर्वलोकेष्वामन्त्रणपत्रिकाप्रेषणं राशिकृतवस्तूपस्थापनं महामण्डपनिर्माणं चेत्यादिनिरूपणनामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : April 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP