संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २५८

त्रेतायुगसन्तानः - अध्यायः २५८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके लोमशश्चाश्वपाटलं च ततः परम् ।
कुशलायाः प्रतिवादं प्राह यथाऽभिसंभवम् ॥१॥
श्रीलोमश उवाच--
अश्वपाटल! कुशला योगपारं गता सती ।
तत्त्वज्ञानानलदग्धकषायोवाच तच्छ्रृणु ॥२॥
कुशलोवाच--
शृण्वानर्त! भवानास्ते तुलाद्वयकृतास्पदः ।
गार्हस्थ्यं रक्ष्यसे वाक्यैर्योगित्वं च वितन्यसे ॥३॥
कुशलायाश्चाऽकौशल्यं बोधयसे प्रदूषणैः ।
कल्मषं चेदृशं राजन् मुक्ते चास्ते कथं त्वयि ॥४॥
आप्तं वाक्यं प्रमाणं वै योग्यतादिसमन्वितम् ।
शक्त्योपबृंहितं जातिसारूप्यादिसभाजितम् ॥५॥
जल्पादिदोषशून्यं च भ्रान्तिक्षेत्रान्न चोद्गतम् ।
लक्षणाश्लेषभावाद्यैः स्पष्टं स्पष्टार्थसंभृतम् ॥६॥
वाक्यं तादृक्प्रमाणं मे चानर्तैकमनाः शृणु ।
यथा पिष्टं च पाषाणो मेघश्च धूम्रमण्डलम् ॥७॥
संश्लिष्टानि तथाऽऽनर्त! संश्लिष्टाः प्राणधारिणः ।
शब्दः स्पर्शो रसो गन्धो रूपं खवाऽऽब्भूवह्नयः ॥८॥
संश्लिष्टाः पिष्टवद् राजन् शिलावत्ते तथाऽऽत्मनि ।
विलीयन्ते मेघवच्च विशीर्यन्ते च धूम्रवत् ॥९॥
न स्वत्वं ते विजानन्ति कथं परप्रवेदनम् ।
मनस्तैः सह संयुक्तं तदा बाह्येऽनुयन्ति च ॥१०॥
चोद्भूतत्वं च तत्रापि महत्त्वं बाह्ययोगिता ।
आत्मनो योगिता चापि ग्राह्ये भवन्ति हेतवः ॥११॥
एवं सर्वत्र बाह्यानां ग्रहणे हेतवः खलु ।
मनः संकल्प्य मद्भावं ततो बुद्धिर्विनिश्चयम् ॥१२॥
करोत्येवाभिमानेन मतं चात्मनि दर्पणे ।
निक्षिपति तदात्माऽयं ममेदमिति मन्यते ॥१३॥
वासना जायते तैश्च दृष्टमुक्तैः स्मृतिप्रदा ।
अविद्या च तमो वापि सौषुप्ताऽज्ञानमुत्तरम् ॥१४॥
भ्रमात्मकं च वा तत्र स्मरणं जायते मुहुः ।
ततः सुखासुखे लाभालाभौ प्रियाऽप्रियेऽपि च ॥१५॥
तत्र कालो भवेद्धेतुः प्रकृतिश्च प्रपूरिका ।
अदृष्टं यादृशं तादृक् फलं सम्पद्यते ततः ॥१६॥
चतुर्विंशतिसंघातश्चैव वेदनकारणम् ।
अव्यक्तां न विजानाति जानाति व्यक्तरूपिणीम् ॥१७॥
स्थूलदर्शी स एवोक्तो ममाहंमिश्रितः स च ।
अव्यक्तां यो विजानाति स त्वात्मानं प्रपश्यति ॥१८॥
अध्यात्मचिन्तकः सोऽयं परं पारं प्रयास्यति ।
व्यक्ताः कलाः प्राकृता याः सर्वे वयं नराः स्त्रियः ॥१९॥
बिन्दुगर्भासनाः पूर्वे शुक्रशोणितपिण्डिकाः ।
कललां दशरात्रेण बुद्बुद्ं पेशिका ततः ॥२०॥
ततश्चांगानि जायन्ते नखरोमान्तकानि च ।
नवमे मासि बालश्च स्त्री वा पुर्मोंश्च वेतरत्। ॥२१॥
लिंगाधीनानि नामानि ततः कुमारतादिकम् ।
सुकुमारावयवानां नाम कुमारसंज्ञकम् ॥२२॥
अबुद्धस्येव तस्यैव बालिशस्य तु बालता ।
युवभावेन कामेन युनक्तीति युवा मतः ॥२३॥
तिष्ठंस्तिष्ठन् प्रयात्येव वीरो भूत्वा स्थवीरकः ।
एवं क्षणेक्षणेऽन्येषां कलानां च विवर्तनात् ॥२४॥
नामरूपादिभेदश्च सूक्ष्मोऽयं न विभाव्यते ।
नात्ययो न प्रभवश्चैतेषां संलक्ष्यते नृप ॥२५॥
दीपार्चिवद् धावतोऽस्य सर्वलोकस्य सर्वदा ।
कः कोऽयं वा कुतश्चेति किमर्थं कस्य केन वा ॥२६॥
कुतो नो वा कथं कस्य केन वा नेति कः किमु ।
इत्येते खलु सम्बन्धा भूतानां स्वांगकैरपि ॥२७॥
नैवं परस्परं शक्त्या ज्ञातुं गत्वरशालिनाम् ।
आदित्यात् किरणान्येव समिद्भ्यो वह्नयो यथा ॥२८॥
जायन्ते क्षणिका ये वै शक्यन्ते नैव निश्चितुम् ।
तथा सर्वे प्राकृता वै जन्तवः संहतात्मनः ॥२९॥
संघातरूपा जायन्ते म्रियन्ते च क्षणे क्षणे ।
आत्मा नित्यः शाश्वतोऽस्ति स्वस्थोऽसंघात एव सः ॥३०॥
स चेद् योगं समापन्नो विवेकी मुक्तवत्स्थितः ।
पश्यत्येव च संघातं गत्वरं शाश्वतं निजम् ॥३१॥
आत्मन्येवात्मनाऽऽत्मानं यदि त्वं स्वं प्रपश्यसि ।
अनात्मानं पृथग्भावं क्षणिकं चेत् प्रपश्यसि ॥३२॥
एवमेवाऽऽत्मनाऽऽत्मानं परात्मानं समस्तगम् ।
युक्तयोगाभिलाभेन शाश्वतं चेत् प्रपश्यसि ॥३३॥
तथैवात्मनि चान्यस्मिन् समतां चेद् व्यवस्यसि ।
अथ मां काऽसि कस्येति किमर्थमनुपृच्छसि ॥३४॥
इदं मे स्यादिदं नेति द्वन्द्वैर्मुक्तस्य ते नृप ।
काऽसि कस्मात् किमर्थं वा वचनैः किं प्रयोजनम् ॥३५॥
तथाप्यनभिसन्धाय पृथग्भावं च गत्वरम् ।
ऐक्यं देहेन सन्धाय प्रश्ने का त्वयि मुक्तता ॥३६॥
राज्ये शत्रौ च मित्रे च मध्यस्थे चाजये जये ।
ममाहंवेदिनि क्षत्रे त्वयि का नाम मुक्तता ॥३७॥
धर्मार्थकामनासक्ते फलसंगानुयायिनी ।
राजभावेन गर्विष्ठे का नाम त्वयि मुक्तता ॥३८॥
नरे नार्यां सुरूपे च कुरूपे भेदलोकिनि ।
देहभावेन संव्याप्ते का नाम त्वयि मुक्तता ॥३९॥
देहधर्मान् पुरस्कृत्य संगदोषाभिधायिनी ।
प्राकृतं भावमापन्ने का नाम त्वयि मुक्तता ॥४०॥
योगेन वर्तमानेऽपि चायोगेन विडम्बिने ।
प्राकृतं स्पर्शमापन्ने का नाम त्वयि मुक्तता ॥४१॥
ज्ञानस्य शेवधिस्त्वं वै भाषसे मां स्त्रियं कृतिम् ।
मत्वा वीक्ष्य च राजेन्द्र का नाम त्वयि मुक्तता ॥४२॥
प्राकृते प्राकृतो भावश्चेतने चेतनो हि सः ।
यस्य नास्ति समं चक्षुः का तस्मिन् मुक्तता त्वयि ॥४३॥
कुशलोऽयं चेतनोऽस्ति संघाते परिवर्तिते ।
राजन् विद्धि च मां दिव्यं चेतनं संगवर्जितम् ॥४४॥
का कस्य च कुतः केन किमर्थं देहसंगतम् ।
तद्भिन्नोऽहं भवाम्येष पश्यात्मानं नरीस्थितम् ॥४५॥
द्रष्टुं चेच्छक्यसे नैवं संघाताऽऽवृत्तिमान् भवान् ।
तदयुक्तस्य ते मोक्षेऽभिमतिर्निष्फला नृप! ॥४६॥
साधुभिः सन्निवार्या सा ह्यपथ्यभोजिनस्तव ।
यज्ज्ञात्वा वर्तने नास्ति ज्ञाने नास्ति ततस्तरम् ॥४७॥
व्यवहारे सुतरां नास्तीति किं योगजं फलम् ।
वृथा श्रमो वृथा मानं वृथा वाग्दूषणं तथा ॥४८॥
वृथा सत्संगयत्नश्च यदि देहं प्रपश्यसि ।
आत्मा नारी नरो नापि नपुंसको न चास्ति च ॥४९॥
त्वं तथाऽऽस्से च चेद् राजन् चेक्षसे न कथं परे ।
प्राकृतानि प्रसंवीक्ष्य पृथक्कृत्वाऽऽत्मतत्त्वतः ॥५०॥
सर्वत्राऽऽत्मानमापश्येत् किमन्यन्मुक्तलक्षणम् ।
संगस्थानानि सर्वाणि पश्येत् परात्मनि प्रभौ ॥५१॥
आत्मक्रीड आत्मरतिर्मुक्तस्यैव हि लक्षणम् ।
मोक्षे स्थितस्य संगाढ्यस्थानान्यपि च मे शृणु ॥५२॥
राज्याद् राष्ट्रस्य सामान्याद् राजधानी हि बन्धनम् ।
ततोऽपि राजसौधश्च सामान्यं बन्धनं हि तत्। ॥५३॥
ततोऽपि स्वगृहं तत्र शय्या स्वीया हि बन्धनम् ।
साऽपि चाऽर्धा स्त्रीसहिता विना स्त्रियं न बन्धनम् ॥५४॥
त्र्यपि कामक्रियामात्रं बन्धनं न ततः परम् ।
तत्रापि वासना चेत् स्याद् बन्धनं संगमूलकम् ॥५५॥
धातुलाभे कारणं च भोजनं चौषधादिकम् ।
बन्धनं वै ततो राज्ञः सेवकादि च बन्धनम् ॥५६॥
एवं स्त्र्यादिप्रसंगेन फलेनापीह युज्यते ।
भोजनाच्छादनवस्त्राभूषणेषु च बन्धनम् ॥५७॥
निग्रहानुग्रहौ चापि राज्ञो भवतो बन्धने ।
पारतन्त्र्यं सदा राज्ञः स्वल्पकार्येऽपि मानतः ॥५८॥
भृत्यवश्यत्वमेवापि युद्धसन्धिषु सर्वथा ।
स्त्रीषु क्रीडाविहारेषु मन्त्रे चामात्यमण्डले ॥५९॥
परोक्ताद्यनुगामित्वं कुतो राज्ञः स्वतन्त्रता ।
मन्त्रिवशे स्थितश्चास्ते नेष्टं चाप्यवशश्चरेत् ॥६०॥
निद्रां काले न लभते व्यापृतः स्वार्थिभिर्जनैः ।
शयनेऽपि क्वचित् सुप्तश्चोत्थाप्यतेऽरिदूतकैः ॥६१॥
दासीभिश्च क्वचिन्नित्यं चाज्ञायां क्रियते वशः ।
उत्तिष्ठ स्नाहि संगृह्ण पिब प्राश ब्रवीहि च ॥६२॥
शृणु चागच्छ च पश्य विरमस्व रमस्व च ।
इत्येवं परतन्त्रोऽयं राजा संगवशः सदा ॥६३॥
याचकाश्च समायान्ति दातुं नोत्सहतेऽपि च ।
दाने कोषक्षये चिन्ता वैरं चादानके भवेत् ॥६४॥
रक्षणे सततं चिन्ता चिन्तासंगी नृपः सदा ।
राजा सर्वान् शंकते वै मृत्युभयेन नोदितः ॥६५॥
परस्परं भयवन्तो भवन्ति नृपतज्जनाः ।
सर्वः स्वे स्वे गृहे राजा सर्वः स्वे स्वे गृहे गृही ॥६६॥
निग्रहानुग्रहवन्तः सर्वे तुल्या गृहे गृहे ।
पुत्रा दारा गृहं चात्मा कोशो मित्राणि संचयाः ॥६७॥
सर्वेषां तुल्यभावास्ते संगदा बन्धनानि वै ।
हतो देशश्च ग्रामश्च दग्धो वाहो हतो मम ॥६८॥
धनं नष्टं च सस्यानि दग्धानि च हिमाग्निना ।
पक्षिभिर्भक्षितं क्षेत्रं चौरैर्हृताश्च धेनवः ॥६९॥
रोगैर्हतं भोजनं मे स्वतन्त्रता हताऽरिभिः ।
वाग्बाणाद्यैर्धर्षितोऽहं चोप्थापितो नृपासनात् ॥७०॥
इत्येवं संगभावैश्च मिथ्याज्ञानैर्हि तप्यते ।
नियन्तृजन्यदुःखैश्च मानसै रागरोषजैः ॥७१॥
रोगाऽवमानजन्यैश्च दुःखैर्वै परितप्यते ।
अमुक्तसंगः सततं प्रसह्य दुःखभोगवान् ॥७२॥
तदल्पसुखमत्यर्थं बहुदुःखमसारवत् ।
तप्तांगारासनं राज्यं कोऽभिपद्येत योगवित् ॥७३॥
ममेदं नगरं राज्यं मन्यसे धनमुत्तमम् ।
कस्त्वं कस्य धनं राज्यं नगरं वद चात्मवित् ॥७४॥
पाञ्चभौतिकदेहोऽयं तव वह्नौ प्रवेक्ष्यति ।
ममापि च तथा तत्र तुल्यता न विशेषता ॥७५॥
देहस्य संगधर्मस्याऽसंगो नास्ति कुतश्चन ।
आधाराधेयभावस्य प्राकृतस्य क्षयार्थिनः ॥७६॥
चेतनस्य त्वसंगस्य नास्ति संगः कुतश्चन ।
आधाराधेयशून्यस्याऽप्राकृतस्य सदा सतः ॥७७॥
वद राजन् समर्थाऽहं ज्ञाने वक्तुं सहस्रधा ।
स्त्रीदेहे नाभिषंगो मे कुतस्तव परिग्रहे ॥७८॥
न स्त्रीं मत्वा संगभावं व्यक्तं वक्तुं त्वमर्हसि ।
ननु नाम त्वया मोक्षः कृत्स्नः पत्नीव्रताच्छ्रतः ॥७९॥
असंगश्चाप्यपाशस्त्वं कथं सक्तोऽसि राज्यके ।
श्रुतं ते निष्फलं सर्वं देहभावेन संजुषः ॥८०॥
श्रुतं वा निर्गतं कर्णात् शाठ्यमात्रेण वर्तसे ।
यद्वा नैव धृतं वा पाचितं नैव त्वयाऽऽत्मना ॥८१॥
येन त्वं तिष्ठसे संगे लौकिके दैहिकेऽधुना ।
बद्धस्त्वं दृश्यसे चात्मन् प्राकृतो भिक्षुको यथा ॥८२॥
मयाऽऽत्मना प्रवेशश्च कृतस्त्वय्यात्मनि प्रभौ ।
किं तवाऽपकृतं तत्र नित्यमुक्तस्य मे वद ॥८३॥
साधूनां शून्यवासित्वं नियमोऽस्ति सदा नृप ।
शून्ये प्रवेशमासाद्य मया किं तेऽत्र दूषितम् ॥८४॥
न बाहुभ्यां न चोरुभ्यां नांगैः स्पृशामि सर्वथा ।
मा वक्तत्यं सभायां वै त्वया मया शुभाशुभम् ॥८५॥
स्त्रीपुंसोः समवायाख्यं सदसद्वा कृतं मिथः ।
साधवो गुरवश्चैते त्वं च राजा गुरूत्तमः ॥८६॥
योगिषु योगिवादा वै न वक्तव्याः कदाचन ।
पद्मपत्रे जलं तिष्ठदसंगं तिष्ठते यथा ॥८७॥
तथा त्वयि निवत्स्यामि निःसंगेन निजात्मना ।
योगिवृत्त्या निवत्स्यामि चात्मलाभाधिसिद्धये ॥८८॥
यत्र वै साधवो धीरा यतयो योगपारगाः ।
परमेशपदारूढाः समूर्ता निवसन्ति वै ॥८९॥
तत्र वासं योगवृत्त्या क आत्मा नाऽभिवाञ्च्छति ।
यदि त्वयि मम वासे स्पर्शं जानासि चेन्नृप ॥९०॥
ज्ञानं कृतमबीजं ते सर्वं वै वाग्विभूषणम् ।
स गार्हस्थ्याच्च्युतस्त्वं वै मुक्तिस्थितिं न विन्दसि ॥९१॥
उभयोरन्तरालस्थो भवसीह विडम्बकः ।
नहि मुक्तस्य मुक्तेन ज्ञस्य ज्ञेन समागमे ॥९२॥
जायते धर्मसांकर्यं सधर्मयोर्हि योजनम् ।
सत्त्वेन सत्त्वयोगश्चात्मना योगस्तथात्मनः ॥९३॥
योगिना योगिनो योगस्तत्र संकरता न वै ।
ब्रह्मज्ञस्त्वं तथा राजन् ब्रह्मज्ञाऽहं सवर्णिका ॥९४॥
आवयोर्मेलने नैव वर्णसंकरता मता ।
ब्रह्मपुत्रीदेहवाँश्च ब्रह्मा वै सोमनाथके ॥९५॥
सोमनाथप्रतिष्ठार्थं चाहूतः शशिना पुरा ।
तदा यज्ञे समुत्पन्ना मानसी कुशला क्रिया ॥९६॥
सतीरूपाऽहमेवास्मि क्रियाख्या कुशलाभिधा ।
क्रतुर्यज्ञस्तस्य पत्नी देहभावेन चेदृशी ॥९७॥
आत्मभावेन साध्वी च योगपारंगताऽस्मि च ।
तस्माद् राजन् भवाम्यत्र चात्मा नास्मि नरी विधा ॥९८॥
नात्राऽस्ति संकरः कश्चित् समभावागमे पुनः ।
मोक्षे ते भावितां बुद्धिं श्रुत्वा च कुशलैषिणी ॥९९॥
कुशला तव मोक्षस्य जिज्ञासार्थमिहाऽऽगता ।
सौराष्ट्रेऽत्राऽक्षरे क्षेत्रे चाश्वपट्टसरोवरे ॥१००॥
कृतस्थाना कुंकुमाख्यवाप्यास्तीरे वसामि च ।
एकरात्रिं शरीरे ते स्थित्वा यास्यामि मत्स्थलीम् ॥१०१॥
नाऽहं लुब्धे चिरं राजन् तिष्ठामि ब्रह्मयोगिनी ।
आतिथ्येनाऽऽत्मभावेन मानिता ज्ञानभोजनैः ॥१०२॥
अप्राप्य तुल्ययोगस्थं श्वो गमिष्यामि मत्स्थलीम् ।
यत्र तुल्यगतिश्चास्ते लोमशो योगवित्तमः ॥१०३॥
स्वीयप्रकाशो भगवानात्मवित्तम इत्यपि ।
तत्रैकीभूय कुशला ब्रह्मानन्दं वहामि वै ॥१०४॥
राजन् धृतं मया रूपं कियद्योगबलां सभाम् ।
वीक्षितुं वीक्षितं सर्वं यत्राऽग्र्यो देहदर्शनः ॥१०५॥
इमे स्तब्धा हि मुनयो देहदर्शनयोगिनः ।
किमहं ते प्रवक्ष्यामि मा स्तब्धो भव भूपते ॥१०६॥
नैवं चात्मबलं राजन् वर्धते देहदर्शिनाम् ।
नात्मलाभो भवेच्चापि सदृशानां विहारिणाम् ॥१०७॥
न गार्हस्थ्याद् भवेन्मुक्तिश्चात्मरूपो न यावता ।
वर्तते मुक्तसंगो वै तावत्संसारलग्नता ॥१०८॥
आनर्त! मा रुषं धेहि तथ्यं भक्षय पाचय ।
योगेश्वरतासिद्ध्यर्थं चाश्वपट्टसरो व्रज ॥१०९॥
स्वीयप्रकाशं योगीन्द्रं लोमशं योगिसद्गुरुम् ।
सन्तुष्टां योगिनीं देवीं संभजस्वाऽच्युतो भव ॥११०॥
श्रीलोमश उवाच-
इत्येवं वदमानां तां त्वानर्तो भूपतिस्तदा ।
नेमे वासार्हहृदयं ददौ तत्र समाधिना ॥१११॥
संवादं चात्मनोस्तत्र चाप्रातश्चक्रतुर्ह्युभौ ।
ऋषयो ज्ञातभावाश्च स्वस्वस्थानं ययुस्ततः ॥११२॥
अश्वपाटल! चानर्तो ज्ञात्वा नैजां हि निम्नताम् ।
कुशलातः परां काष्ठां विवेद सहयोगिनः ॥११३॥
ततस्तया समं प्रायादश्वपट्टसरोवरम् ।
यत्र पूर्णं योगबलं ह्यवाप्य लोमशान्मुनेः ॥११४॥
स्वस्य प्रकाशादात्मीयं बोधं प्राप्य महोत्तमम् ।
सन्तुष्टायोगिनीतश्च ब्राह्मीं स्थितिं प्रशिक्ष्य च ॥११५॥
आनर्तः प्रययौ नैजं चमत्कारपुरं प्रति ।
तस्माद् राजन् गृहस्थानां त्यागित्वं समपेक्षते ॥११६॥
यद्वा त्यागवतां योगान्मोक्षो हस्तगतो भवेत् ।
साधूनां संगमात् कृष्णनारायणो मिलेद् ध्रुवम् ॥११७॥
अपूर्णस्यापि पूर्णत्वं सर्वयत्ने समाप्यते ।
असन्न्यस्ता गृहस्था वै सन्न्यस्ता गुरुयोगतः ॥११८॥
प्रजायन्त कुशलाया योगेनाऽऽनर्तको यथा ।
तादृशानां सतां योगाद् गृहस्थाः परमां गतिम् ॥११९॥
प्रयान्त्येव न सन्देहो मायालुब्धा अपि ध्रुवम् ।
इत्युक्त्वा राधिके श्रीमान् लोमशो मौनमावहत् ॥१२०॥
अश्वपाटलराजाऽपि श्रुत्वा तृप्तिं जगाम ह ।
तत्तीर्थं कुशलातीर्थं चानर्ततीर्थमित्यपि ॥१२१॥
योगितीर्थं चाश्वपट्टसरोजले प्रविद्यते ।
यत्स्नानाद् यद्वारिपानादात्मदर्शनमृच्छति ॥१२२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायाम् आनर्तराजेन सह ब्रह्मपुत्रीकुशलासाध्व्या विवादो गार्हस्थ्येऽपि त्यागात् साधुसमागमाद्वा मुक्ति-
रित्यादिनिरूपणनामाऽष्टपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५८॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP