संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २९६

त्रेतायुगसन्तानः - अध्यायः २९६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके यत्र भगवान् समुवाह च मण्डपे ।
कन्यकास्तत्र वै तीर्थमुद्वाहसंज्ञकं सदा ॥१॥
वरणायां तथा कोटितीर्थं मोक्षप्रदं शुभम् ।
कोट्यर्बुदाऽब्जरूपेण भगवांस्ता गृहीतवान् ॥२॥
तदा शिवपुरं तीर्थं पार्वतीपत्तनं तथा ।
मण्डपाख्यं यज्ञतीर्थं सारभूतलमुच्यते ॥३॥
पंचम्यां त्रिप्रहरान्ते विदायं शंकरो ददौ ।
कृष्णपक्षसमस्तेभ्यो बहुद्रव्याणि सन्ददौ ॥४॥
कृष्णस्य पूजनं चक्रे पितुश्चापि क्षमापनम् ।
महीमानादिवर्गाणां न्यूनसेवाक्षमापनम् ॥५॥
अर्थयामास सगलत्कण्ठो वै शिवराट् स्वयम् ।
शिवछत्रोऽपि राजाऽसौ क्षमां तदाऽऽर्थयन्मुहुः ॥६॥
भोज्यपानादिकं श्रेष्ठं प्रपक्वान्नं घृताक्तकम् ।
पाथेयं प्रददौ चापि रक्षकप्रापकार्थकम् ॥७॥
यौतकं च न्यधात् सर्वं श्रेष्ठे विमानके हरः ।
वैमानिकं ददौ चापि गणं विमानवाहकम् ॥८॥
अथ वाद्यान्यवाद्यन्त विदायसूचकानि तु ।
यन्त्रशब्दा अजायन्त गीतिशब्दाः शुभास्तदा ॥९॥
शिवेश्वरो मिमेलाऽपि गोपालं कृष्णकं हृदा ।
क्षमापनीयः सेवायां न्यूनत्वेहमुवाच ह ॥१०॥
आगन्तव्यं निजं मत्वा गृहं मां च कुटुम्बकम् ।
पुत्री च भवदीयेति मत्वा रक्ष्या हि मानद ॥११॥
कुशलं लेखनीयं च प्राप्य कुंकुमवापिकाम् ।
तद्भातृभ्यो लक्ष्मिणश्च कुटुम्बिजनतस्तथा ॥१२॥
भाववद्भ्यस्तथा भ्रातृपुत्रेभ्यः सकलो हरिः ।
देवमयसमस्तेभ्यः क्षमामयाचतेश्वरः ॥१३॥
अक्षरान्मुक्तवृन्दाश्च वासुदेवात्तथा क्षमाम् ।
प्रद्युम्नादनिरुद्धाच्च भून्मश्चापि विराजकात् ॥१४॥
अवतारसमस्तेभ्यो नारायणान्नरात्तथा ।
विष्णोश्चापि महाविष्णोर्ब्रह्मणः शंकरात्तथा ॥१५॥
अर्यम्णश्च सनत्कुमारादिभ्यश्च सतस्तथा ।
मुनिसाधुदेवदेवीर्नारीभ्योऽयाचत क्षमाम् ॥१६॥
नृपविप्रलोकपालदिक्पालदेवधिष्ण्यगात् ।
मानवेभ्यो बालकृष्णसम्बन्धिस्त्रीभ्य इत्यपि ॥१७॥
क्षमामयाचताऽथाऽपि योग्यं विदायकं ददौ ।
नागलोकगतेभ्यश्च भूसंस्थसर्वदेहिनः ॥१८॥
सौराष्ट्रीयनरनारीभ्योऽयाचतेश्वरः क्षमाम् ।
विदायं जलपानं च मिष्टमिष्टं सुमस्रजः ॥१९॥
ददावेभ्यः शिवस्वामी मिमेल वक्षसा च तान् ।
पूज्याऽऽर्याभ्याः क्षमामयाचत हस्ताञ्जलिर्हरः ॥२०॥
शिवा च पार्वती देवी सर्वा मातॄस्तदा द्रुतम् ।
कंभरां श्रीं नमस्कृत्य क्षमां ताभ्योऽभ्ययाचत ॥२१॥
अन्या आर्याः समर्च्यैव नत्वा दीनस्वभाविनी ।
क्षमामयाचताऽभ्यो वाग्दोषात्मिकां च सेवने ॥२२॥
वस्तुदाने रक्षणे च मानने स्वागते तथा ।
भोजने स्वापने पाने न्यूने क्षमामयाचत ॥२३॥
मम पुत्री तव पुत्री मातस्तां त्वं प्ररक्षय ।
वृत्तान्तं च क्वचित् हृद्यं सम्प्रेषय सुवत्सले ॥२४॥
वधूटीभ्यः क्षमामयाचत रक्षत नैजिकीम् ।
लक्ष्मीं चेति समुवाच विदायं तूचितं ददौ ॥२५॥
पुष्पहारान् ददौ चापि जलपानादिकं ददौ ।
शिवछत्रोऽपि च तदा क्षमां वरमयाचत ॥२६॥
शिवेश्वरोऽपि च तदा क्षमां वरमयाचत ।
शैवछत्री नृपी क्षमां कम्भराया अयाचत ॥२७॥
कान्ताः सर्वा मातापितॄन् नेमिरे चाश्रुलेक्षणाः ।
जयाद्याश्चन्द्रपालाद्यास्तेऽपि क्षमामयाचिरे ॥२८॥॥
ज्येष्ठाऽशोका स्वसा लक्ष्म्याः ननान्दृतस्तदा द्रुतम् ।
सन्तोषाया वरस्वसृतः क्षमामप्ययाचत ॥२९॥
भातृजायाः क्षमामयाचिरे स्त्रियोऽपरास्तदा ।
एवं परस्परं नार्यः क्षेमं च कुशलं नराः ॥३०॥
पृष्ट्वा दत्वा विदायं च पुष्पहारान् ददुर्मिथः ।
कन्यापक्षा महीमाना श्रीकृष्णाद्यास्ततः परम् ॥३१॥
संकर्षणस्तथा रुद्रः शंकरः शेष इत्यपि ।
महाकालो यमश्चापि यक्षेशो भूतभैरवाः ॥३२॥
स्कन्दो गणेशो नन्दी च वीरभद्रादयस्तथा ।
कोटिकोट्यधिकाः सर्वे तथा चण्ड्यादिशक्तयः ॥३३॥
बालकृष्णात् कांभरेयात्तथा गोपालकृष्णतः ।
वासुदेवाद्व्यासदेवात् कपिलाच्च नरायणात् ॥३४॥
विष्णोर्धर्माद् विराजाच्च क्षमां तदा ययाचिरे ।
कुशलं च सुखं क्षेमं स्नेहभावं ययाचिरे ॥३५॥
राधा लक्ष्मीः सती दुर्गा सरस्वती नरायणी ।
कमला ऋषिपत्न्यश्च देव्यश्च गणिकास्तथा ॥३६॥
गणाश्च सेवकाश्चापि कंभरामातरं तदा ।
महालक्ष्मीं तथा लक्ष्मीं सावित्रीं वैष्णवीं तथा ॥३७॥
सूर्यं चन्द्रं वसून् साध्यान् संज्ञां च रोहिणीं तथा ।
नत्वाऽऽभ्योऽयाचन् क्षमां तु देवीर्देव्यः सुखं च शम् ॥३८॥
विदायं प्रददुश्चापि पुष्पहाराऽक्षतादिकम् ।
एवं सर्वे महीमानाः सृष्टित्रयनिवासिनः ॥३९॥
नरा नार्यो मिलित्वैव क्षमां मिथो ययाचिरे ।
श्रीहरये च कान्ताभ्यश्चाशीर्वादान् ददुस्तदा ॥४०॥
सज्जा बभूवुः सर्वे वै स्वस्वपक्षा नराः स्त्रियः ।
कृष्णः कान्ताश्चोपविष्टुं यदा विमानमाययुः ॥४१॥
मातापितृपदे न्यस्य मस्तकानि च कन्यकाः ।
क्षणं तु रोदनं चक्रुस्तदा स्नेहवियोगजम् ॥४२॥
जानक्याद्या मातरश्च कन्याः कृत्वा स्ववक्षसि ।
मुमुचुश्चाश्रूणि चैव सिषिचुर्नेत्रजैर्जलैः ॥४३॥
जीवामश्च कथं पुत्र्यो वो विना प्राणदुर्लभाः ।
नो गृहाच्छ्रीबालकृष्णगृहं याथ हि वत्सिकाः! ॥४४॥
इत्युक्त्वा पुत्रिका नैजा न्यषादयन् विमानके ।
पितरोऽपि तदा धैर्यं ददुर्न्यषादयन् सुताः ॥४५॥
मुमोचाऽप्यश्रूणि स्वामी बालकृष्णोऽपि मायया ।
विमानं चारोहयामास श्रीगोपालकृष्णकः ॥४६॥
पुत्रं कान्ताः कुटुम्बं च तदा शिवादयः खलु ।
विशिष्टं यौतकं चाप्यर्पयामासुः समुत्सुकाः ॥४७॥
गजाँश्च तुरगान् दासीः किंकराँश्च सुवर्णकम् ।
रत्नान्यमूल्यभूषाश्च पात्राणि सुरभीस्तथा ॥४८॥
अम्बराण्यासनोपकरणान्यपि शुभानि च ।
सज्जाः सर्वे निजपक्षाः पुष्पहारादिपूजिताः ॥४९॥
आरुरुहुर्विमानानि नैकोऽप्यत्राऽवशिष्यते ।
तत्र भेरीनिनादश्च गतेरश्रूयतोत्तमः ॥५०॥
वादित्राणां निनादैर्मिश्रितो व्यङ्गुलनादनैः ।
जयारावैर्वर्धितश्चाऽव्याप्नोत् समन्ततस्तदा ॥५१॥
द्रुतं सर्वाण्यपि विमानानि कामगमानि वै ।
व्योम्ना ययुः सुखं पश्चिमां दिशं वै सहस्रकम् ॥५२॥
आगन्तव्यरवास्तत्राऽजायन्त शिवयोगिनाम् ।
शिवस्वामी तदा कृष्णनरायणात् परेश्वरात् ॥५३॥
अप्रार्थयद् द्रुतं नैजामन्तिमां जन्ममोक्षिकाम् ।
कदा नाथ कृपासिन्धो चास्मान् सम्मोक्षयिष्यसे ।
जातिस्मरोऽस्मि देवेश लक्ष्मीर्लब्धा त्वया तव ॥५४॥
श्रीबालकृष्ण उवाच -
वर्षोत्तरं मोक्षयिष्ये स्मर मां हृदयेऽन्वहम् ।
आमन्त्रयामि सर्वाश्चाऽऽगन्तव्यं मे जनुर्दिने ॥५५॥
कुंकुमवापिकाक्षेत्रे चोर्जकृष्णाष्टमीदिने ।
ततो मनोरथं शंभो पारयिष्ये तवाऽर्थितम् ॥५६॥
इत्युक्त्वा भगवान्नैजं विमानं चैरयत्तदा ।
शिवेश्वरश्चाऽऽप्रयागं नैजविमानकेन वै ॥५७॥
काशीराजस्तथा कृष्णः संकर्षणादयोऽपि च ।
प्रहितुं प्रययुश्चापि पीत्वा त्रिवेणिकाजलम् ॥५८॥
न्यवर्तन्त ततः सर्वे प्रावर्तन्त पुरोऽम्बरे ।
इन्द्रप्रस्थवनं व्योम्नो दृष्ट्वा वीक्ष्य सरस्वतीम् ॥५९॥
आनर्त्तं चाययुः क्षेत्रं कुंकुमवापिकाऽक्षरम् ।
सायं प्रापुश्चाऽश्वपट्टसरस्तीरं विशालकम् ॥६०॥
तदा वाद्यान्यवाद्यन्त जयशब्दाश्च खेऽभवन् ।
भूतले जनताशब्दा जयबोधास्तदाऽभवन् ॥६१॥
शावदीना महाकाली क्षेत्रपा मुमुदे तथा ।
वारिनरः क्षेत्रपालो मुमुदे च जगर्ज च ॥६२॥
जयनादान् प्रचक्रुश्च देवास्तीर्थानि पादपाः ।
मण्डपाख्यस्तथा मुक्तो भूमिपाश्च समागताः ॥६३॥
प्रजा जयनिनादाँश्च प्रचक्रुश्चातिहर्षिताः ।
यात्रिका जयनादाँश्च चक्रुस्तदा प्रवीक्ष्य खम् ॥६४॥
दर्शनार्थं प्रजाः सर्वा दुद्रुवुरम्बरदृशः ।
हरिं प्रसस्मरुश्चापि हरिणीः सस्मरुस्तथा ॥६५॥
अवतेरुर्विमानानि सहस्रं व्योममार्गतः ।
यथावकाशं भूमौ तु हरेर्विमानमित्यपि ॥६६॥
पश्चिमे शोभने भागेऽवाततार सुशोभनम् ।
श्रीमद्गोपालकृष्णश्चाऽवतीर्य सर्वसंगतः ॥६७॥
प्रविश्य स्वपुरीं रम्यां कारयामास मंगलम् ।
वाद्यानि वादयामास द्रुतं मनोहराणि वै ॥६८॥
कम्भरा चामरीदेव्यस्तथाऽन्या योषितस्तदा ।
लक्ष्मीं तस्याः सखीः सर्वा विलोक्य सत्वरं तदा ॥६९॥
अक्षरब्रह्मणा तत्र स्वस्मान्नवं विनिर्मितम् ।
कोट्यर्बुदाब्जकन्यानां कान्तानां भिन्नवेशनम् ॥७०॥
ब्रह्मप्रियापत्तनं च प्रभुं श्रीकृष्णमीश्वरम् ।
चतुःकोटिचतुर्लक्षषट्पञ्चाशत्सहस्रकाः ॥७१॥
कान्ताः प्रवेशयामासुर्लक्ष्मीं चाभ्युदये क्षणे ।
मंगलं कारयामासुः प्रवेशविधिपूर्वकम् ॥७२॥
गणेशादेः पूजनं च मण्डपस्य प्रपूजनम् ।
गुरोश्च पूजनं यूपपूजनं देवतार्चनम् ॥७३॥
विप्राद्यैः कारयामासुर्जलपानं ददुस्ततः ।
महीमाना महामण्डपोत्तमे जग्मुरेव ह ॥७४॥
ततो गोपालकृष्णो वै भोजनानि निशागमे ।
कारयामास सर्वांश्च महीमानान् प्रजा अपि ॥७५॥
सर्वान् दासान् दासिकाश्च क्षेत्रपान् कर्मचारिणः ।
हरिणीर्बालकृष्णं च भोजयामास कंभरा ॥७६॥
चतुर्विधं भोजयित्वा मुक्तानीशान् सुरादिकान् ।
महीमानान्नरान्नारीर्मुनीन्नृपाँश्च बान्धवान् ॥७७॥
सृष्टित्रयनिवासाँश्च विप्रान् भट्टान् निजान् परान् ।
ताम्बूलादि प्रदायैव परिहारं चकार ह ॥७८॥
धनं च दापयामास विप्रेभ्यो दक्षिणास्तदा ।
सुरत्नानि विचित्राणि धनान्यपि बहूनि च ॥७९॥
मंगलं कारयामास गोपालः कृष्णरंजनम् ।
भुक्त्वा विश्रान्तिमापुश्च प्रस्वापं लेभिरे ततः ॥८०॥
युवत्यो बालकृष्णस्य प्रतिस्त्रीरूपयोगिनः ।
प्रतिगृहं प्रचक्रुश्च सेवनं नवहर्षिताः ॥८१॥
अविप्लुतमहासत्त्वमहावीर्यः परेश्वरः ।
परब्रह्मनिजानन्दं ददौ ताभ्यो ह्यसीमकम् ॥८२॥
महानन्दसमाधौ मूर्छिताः क्षणेन सदृशीम् ।
निशां बुबुधुः कामिन्यो कान्तकृतां युगायिताम् ॥८३॥
राधिके रासरात्रिर्मे तस्या अग्रे लवायते ।
परेशस्य तु सामर्थ्यं केनापि नैव पार्यते ॥८४॥
अथ श्रीशिवदेवाऽद्याः प्रयागात्प्रययुर्गृहम् ।
वर्णयन्तो गुणान् स्वेषां सम्बन्धिपारमेश्वरान् ॥८५॥
धन्यभाग्यान्यमन्यन्त कृष्णाद्या अपि माधवाः ।
पार्वतीपत्तनं गत्वा सर्वेऽपि बुभुजुस्ततः ॥८६॥
पानताम्बूलकं लब्ध्वा सुष्वुपुः सुखनिद्रया ।
षष्ठ्या प्रातर्विनिद्राश्चाभवन् मंगलवाद्यकैः ॥८७॥
कृतस्नानार्हणाः सर्वे दुग्धपानं व्ययधुस्ततः ।
भोजनानि प्रचक्रुश्च मिष्टान्नपायसानि च ॥८८॥
जलपानानि जगृहुस्ताम्बूलकानि वै तथा ।
मध्याह्ने च प्रलेभुस्ते विश्रान्तिं च ततः परम् ॥८९॥
सम्मिलित्वा नरा नार्यः सम्बन्धिनः सुहृज्जनाः ।
गोप्य ईशान्यश्च सत्यः साध्व्यो देव्यस्तथाऽऽर्षिकाः ॥९०॥
मानव्यश्च सुराण्यश्च गण्यश्च फणिकास्तथा ।
भूत्यश्चापि तथाऽन्याश्च गणाश्च पार्षदास्तथा ॥९१॥
गोपाश्च कुशलं क्षेमं न्यूनसेवाक्षमापनम् ।
परस्परं समभ्यर्थ्य शिवेश्वरश्च पार्वती ॥९२॥
क्षमां तु महीमानानां याचित्वाऽथ विदायकम् ।
ददतुश्च यथायोग्यं तथोचतुस्तदा खलु ॥९३॥
भवतां चागमैः सर्वविधिः सुशोभनोऽभवत् ।
सर्वेषामुपकार्योऽस्मि क्षन्तव्यो मेऽपराधकः ॥९४॥
गिरिजाऽपि सतीभ्यश्च क्षमामयाचताऽपि वै ।
पुनश्चागन्तव्यमत्राऽपि कृपा कार्या सदा मयि ॥९५॥
इत्युवाच ततो विदायकं धनादिकं ददौ ।
पुरुषान् वै शिवस्वामी पूजयामास हारकैः ॥९६॥
नारीवर्गान् हिमपुत्री तथाऽशोककुमारिका ।
पूजयामासतुश्चापि विदायं ददतुस्तथा ॥९७॥
भूषाम्बराणि पात्राणि साधनान्युत्तमान्यपि ।
ततश्चक्रे परिहारं महीमानाश्च वै ततः ॥९८॥
सज्जा भूत्वा विमानानि चारुरुहुः समस्तकाः ।
श्रुत्वा गमनवाद्यानां घोषान् व्योम्नि द्रुतं तदा ॥९९॥
गमयामास सहसा विमानानि समन्ततः ।
यथामार्गं ययुः सर्वे शिवराजस्ततः खलु ॥१००॥
आज्ञापयामास गणान् चक्रुस्ते परिहारकम् ।
शिवपुरं मण्डपं च पार्वत्यानगरं तथा ॥१०१॥
कैलासं सहसा तिरोऽभावयन्नतिवेगतः ।
शिवेश्वरः शिवछत्रः पारितोषिकमुत्तमम् ॥१०२॥
कर्मचारिभ्य एवापि ददतुश्च यथोचितम् ।
विश्रान्तिं चावायतुश्च स्मरन्तौ कृष्णमीश्वरम् ॥१०३॥
अनादिश्रीकृष्णनारायणं च भेजिरे सदा ।
राधिके लोकरीत्यैव लोकेशाश्चाचरन्त्यपि ॥१०४॥
पाथेयानि चोत्तमानि प्रार्पितानि दिनान्तरे ।
प्राघूणिकेभ्य एवैते प्रशंसन्तो ययुर्गृहान् ॥१०५॥
विदायं बहुमानं च गृहीत्वा यश उत्तमम् ।
शिवशक्तिप्रेरिताश्च ययुर्नैजालयानिति ॥१०६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रोद्वाहतीर्थं कोटितीर्थं यज्ञतीर्थं, महीमानानां विदायं, मिथः क्षमायाचना, वियोगे शोकः, विमानानां प्रगमनं, कुंकुमवापिक्षेत्रागमो दानं मंगलं गृहप्रवेशो भोजनानि नागरीणामानन्दविहारानिद्रादि चेतिनिरूपणनामा षण्णवत्यधिकद्विशततमोऽध्यायः ॥२९६॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP