संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २००

त्रेतायुगसन्तानः - अध्यायः २००

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधे हारितदेशेषु बह्वरण्याऽतिशीतिषु ।
स्वल्पप्रजाश्रितेष्वेषः कृष्णनारायणः प्रभुः ॥१॥
अपरानाविकापुर्यां समुद्रसन्निधौ निजम् ।
विमानमम्बरात्तूर्णं दिनमानार्कभूभृता ॥२॥
प्रदर्शितेन मार्गेण गरिमापृथिवीतले ।
हारितर्षिं स्थितं दृष्ट्वा समवातारयच्छनैः ॥३॥
अन्यान्यपि विमानानि चावतेरुस्तदाऽम्बरात् ।
राजा सैन्येन सहितः स्वागतं परमात्मनः ॥४॥
समाचरत्तथा राज्ञी हारितश्च प्रजाजनः ।
राजा श्रुतं हरिं श्रीमद्बालकृष्णं विमानगम् ॥५॥
अन्तिकं चाभिगत्वैव ददर्शाऽऽश्चर्यमाप्तवान् ।
अदृष्टपूर्वं श्रीकान्तं रमणीयसुविग्रहम् ॥६॥
प्रथमं दिव्यमालोक्य क्षणं तु स्थिरतां गतः ।
विमाने श्रीहरेर्मूर्तौ लीनः समाधिमानिव ॥'७॥
जात एव तथा राज्ञी कुमाराश्च कुमारिकाः ।
सर्वे दृष्ट्वा बालकृष्णं समाधिं चाभिपेदिरे ॥८॥
कोटिविद्युत्समं तेजो ददृशुः सर्वतोमुखम् ।
तत्रेश्वरान् विराडाद्यान् ददृशुश्च ततः परान् ॥९॥
भूमाद्यानथ तत्पश्चाद् धाम गोलोकमुत्तमम् ।
लोकयामासुरुत्कृष्टं कोटिगोपगणाश्रितम् ॥१०॥
तत्र कृष्णं बालकृष्णं विलोक्य पुनरेव ते ।
अक्षराख्ये परे धाम्नि स्थितं श्रीपुरुषोत्तमम् ॥११॥
व्यलोकयन्मुक्तमध्ये ब्रह्मप्रियासमन्वितम् ।
सर्वेश्वरेश्वरं नारायणं मुक्तादिसेवितम् ॥१२॥
ततः समाधिर्नष्टश्च व्युत्थितास्ते विमानके ।
बालकृष्णं निजे राष्ट्रे ददृशुस्तेऽतिभावुकाः ॥१३॥
आश्चर्यं परमं प्राप्ता राजा राजकुटुम्बिनः ।
हारचन्दनगन्धाद्यैरपूजयन् विमानके ।
तावद्धरिर्बहिर्यातो विमानाद् भास्वराम्बरः ॥१४॥
सर्वलावण्यसौन्दर्यौज्ज्वल्यहास्यमनोहरः ।
प्रजा गौर्यश्च हारित्यो वर्धयामासुरच्युतम् ॥१५॥
लाजाक्षतादिभिः पुष्पैर्गीतैश्च नमनादिभिः ।
प्रजाजनाः प्रणेमुश्च श्रीपतिं कृष्णवल्लभम् ॥१६॥
राजा हरिं करेणैव करमादाय कानके ।
यन्त्रबाह्ये रथे न्यषादयत् स्रगादिशोभिते ॥१७॥
कुटुम्बं च नृपस्याऽपि रथेऽत्र निषसाद ह ।
राजा छत्रं दधारापि राज्ञी दध्रे च वायुदम् ॥१८॥
कुमार्यश्चामरे दध्रुः कुमारा वेत्रमावहन् ।
रथेष्वन्येषु पितरौ हरेः कुटुम्बमेव च ॥१९॥
निषाद्याऽन्यरथे शंभुं परेषु मुनिमण्डलम् ।
गुप्तिगन्त्रीषु च कृष्णकान्ता न्यषादयन्नृपः ॥२०॥
महता स्वागतेनैवं वाद्यध्वनिपुरःसरम् ।
तूपशब्दैर्नादिता च पुरीं प्रावेशयत् प्रभुम् ॥२१॥
महोत्साहः प्रजायां वै तदाऽभून्नूतनेक्षणात् ।
हृन्दि हरिः प्रजानां संप्रचकर्ष मुहुर्मुहुः ॥२२॥
यत्राऽङ्गे यस्य चक्षुर्वै तदा लग्नं त्वभूद्धरेः ।
तत्राऽऽसक्तं ध्रुवं चाऽभून्निर्निमेषं स्थिरं सुखात् ॥२३॥
केचिदस्यमुखपंकजमीक्ष्याऽऽपुर्हिसाधनमपास्य समाधिम् ।
तत्र चातिहृदयंगममीशं वीक्ष्य शान्तिमतिगां समवापुः ॥२४॥
काश्चिदस्य मदनाश्रितनेत्रं त्वायतान्तमतिकृष्टिभरं च ।
वीक्ष्य मोहितधियः स्थिरतां वै प्राप्य चक्रुरमृतोत्तमपानम् ॥२५॥
यास्तदोष्ठमुरुरक्तकबिम्वाभं विलोक्य समकर्षितचित्ताः ।
योषितः समभवन्समलब्धौ ताः सतृष्णहृदया अभवँश्च ॥२६॥
काश्चिदस्य पुरुसुन्दरगात्रेलुब्धवृत्तय इतीश्वरबोधाः ।
अर्पणं च परिचक्रुरमुष्मै मानसं तनुगतं च समस्तम् ॥२७॥
संविलोक्य पुरुभक्तिसेविकाः काश्चिदेष परमेश्वरोत्तमः ।
नो नयत्विति पराक्षरं निजं हारिताः समवकल्पयँस्तदा ॥२८॥
राधिकाकमलगारमासतीमाणिकीप्रभृतयो दिवानिशम् ।
यं भजन्ति बहुधा तु पद्मजाब्राह्मशक्तय इमा हि गौरिकाः ॥२९॥
तं भजाम इदमाधिसंयुतं संविहाय तु चलं कलेवरम् ।
शाश्वतं भवति चात्र वै सुखं न्वालयोऽस्य कुरुत प्रपूजनम् ॥३०॥
अत्र शीतभवने समुद्रगेऽनुग्रहेण भगवान् समागतः ।
कर्मणा च मनसा च कीर्तनैः सेवया कुरुत नैजमीश्वरम् ॥३१॥
कीदृशो नु परिधिः समन्ततश्चाननस्य भवतीह तैजसः ।
कोटिचन्द्रपरिकान्तिसंस्रवद्विग्रहोऽस्यहृदयंगमोऽस्ति यत् ॥३२॥
नैकमुक्तजनसेवितपादः कोटिदासपरिमर्दितगात्रः ।
प्राप्यते नु बहुपुण्यधनाढ्यैर्नाऽयमाप्त इति विस्मरणीयः ॥३३॥
मानवाश्च जनता इत आद्ये नेदृशं हृदि च कामितवन्तः ।
तादृशोऽयमिह चाप्त उमेशस्तं श्रयन्वतिसुखं परमेशम् ॥३४॥
मा त्यजन्तु मिलितं सुलभं च कान्तकान्तमुरुसद्गुणभाजम् ।
वर्धयन्तु हदयैः कुसुमैश्च पूजयन्तु निजसर्वसुदानैः ॥३५॥
इत्येवं राधिके! स्वामिबालकृष्णं विलोक्य ताः ।
हारिताः प्रमदाः सर्वा ऊचुः पपुः प्रभुं सुखैः ॥३६॥
राजा गोपुरके घण्टापथे प्राधानिकास्तथा ।
हट्टेषु हट्टपाश्चापि रथ्यामुखेषु योषितः ॥३७॥
वल्लभीषु कन्यकाश्च जनताः पार्श्वभूस्तटे ।
चत्वरेषु प्रजाः सर्वाः पुपूजुः परमेश्वरम् ॥३८॥
लाजाभिः सत्फलैः पुष्पैः कुंकुमैरक्षतैरपि ।
वस्त्रैश्चन्दनपंकाद्यैर्गन्धैरानर्चुरच्युतम् ॥३९॥
सामुद्ररत्नहाराँश्च ददौ ते परमेष्ठिने ।
अपरानाविकापुर्यां भ्रामयित्वा प्रजाजनाः ॥४०॥
पूजयित्वा गृहे नीत्वा स्वे स्वे कृतार्थतामगुः ।
हरिस्ततो निजावासे दिनमानार्कमन्दिरे ॥४१॥
आययौ हारितर्षिश्च नत्वाऽऽह परमेश्वरम् ।
भोजनानि सुमृष्टानि विद्यन्ते भुंक्ष्व तानि वै ॥४२॥
भोजयाऽन्यान् हरेकृष्ण पायसादीन् प्रतर्पय ।
ततो विमानमारुह्य गरिमाक्ष्मां विलोकितुम् ॥४३॥
गन्तव्यं दृष्टिमात्रेण पावयितुं समन्ततः ।
इत्युक्तो भगवान् शीघ्रं जग्रास पायसादिकम् ॥४४॥
महीमानान् समस्ताँश्च भोजयामास वै द्रुतम् ।
सर्वान् राजालये त्यक्त्वा शंकरेण नृपेण च ॥४५॥
ऋषिणा च समं कृष्णः परिमेयपुरःसरः ।
विमानं स्वं समारुह्याम्बरे जगाम चोत्तरे ॥४६॥
वाशृंगतनुभूभागं विलोक्यापि परीस्थलम् ।
फुद्रिक्तं विलयं देशं काञ्चनं चार्षुकं स्थलम् ॥४७॥
हायनं च स्थलं वीक्ष्य ह्यपरानाविकां ययौ ।
एवं विलोक्य भगवानवाततार चाम्बरात् ॥४८॥
राजसौधे विशश्राम राज्ञी पूजार्थमाययौ ।
पूजयित्वा हरिं तस्याः कन्याद्वयं हरिं तदा ॥४९॥
अपूजयत् सुखासक्ते कन्यके स्थिरनेत्रिके ।
हरिं दृष्ट्वा चकमाते वव्रातेऽर्पितमालया ॥५०॥
पाणी जग्राह भगवान् प्रत्यर्पितसुमालया ।
तदुत्सवं नृपश्चक्रे रात्रौ भोजनतः परम् ॥५१॥
गणेशं पूजयामास दूर्वालड्डूककुंकुमैः ।
नृत्यं त्वकारयद् राजा वाद्यान्यवादयत्तथा ॥५२॥
सिन्दूरैश्चार्चयामास गणेशविग्रहे शुभे ।
अगापयच्च पद्यानि कीर्तनानि तदुत्सवे ॥५३॥
हारिते कन्यके कृष्णं सिषेवाते सवोत्तरम् ।
निशा गता प्रभातेऽथ कृतस्नानसुपूजनः ॥५४॥
बालकृष्णोऽभवत् सज्जो दुग्धपानोत्तरं तदा ।
गन्तुं केनाटकदेशानमरीणां प्रदेशकान् ॥५५॥
पञ्चम्यां संगवे काले भाद्रे शुक्लेऽतिशोभने ।
राजा विदायं प्रददौ बहुरत्नादिकं तदा ॥५६॥
हरिर्हारितमुनयेऽर्पयामास धनादि तत् ।
राजा सैन्येन सहितो मानं तत्र ददौ बहु ॥५७॥
जयशब्दा यशःशब्दा गीतयश्चाभवँस्तदा ।
गौरीभिर्हारिताभिश्च कृता माधुर्यसंभृताः ॥५८॥
हरिर्हारं ददौ राज्ञे राज्ञ्यै पुत्रेभ्य इत्यपि ।
प्रजानतिं समागृह्य समारुरोह शोभनम् ॥५९॥
आसनं चान्यवर्गाश्चारुरुहुश्चासनानि हि ।
उपादिदेश राजानं प्रजाजनाश्च सद्धितम् ॥६०॥
उष्ट्रः पुरा तपश्चक्रे प्रजापतिः समाययौ ।
वरदानं तदा वव्रे ग्रीवाऽस्तु योजनाऽऽयता ॥६१॥
ब्रह्मा तथाऽस्त्वितिप्राहाऽरण्ये तूष्ट्रः सदा स्थितः ।
महालसो निषद्यैकस्थले चखाद पादपान् ॥६२॥
परितो योजनावर्ते रात्रौ स्वपिति सौख्यभाक् ।
मध्ये शृगालः सम्प्राप्तो ववल्गे तद्गले दृढम् ॥६३॥
ममारोष्ट्रो मध्यकण्ठे भेदनाल्लम्बकण्ठवान् ।
तथा लोके लम्बतृष्णो म्रियेत मायया हतः ॥६४॥
तस्मात् तृष्णां न कुर्वीत कुर्वीत भजनं हरेः ।
ममाश्रयं प्रकुर्वीत तारयेऽहं न संशयः ॥६५॥
सिंहस्याऽऽसीत्प्रधानो वै हंसः कश्चिद् वनान्तरे ।
दरिद्रो ब्राह्मणो नाम्ना सत्त्ववृत्तिर्ययौ वनम् ॥६६॥
हंसस्तं मिलितो मार्गे पप्रच्छ कुत्र गम्यते ।
स प्राह धनलाभार्थं यामि देशान्तरं न्वितः ॥६७॥
हंसः प्राह भवान् विप्रो मम पूज्योऽस्ति चानघ ।
दास्ये रत्नानि ते त्वत्र सिंहार्जितानि हस्तितः ॥६८॥
मारयित्वा गजान् कुंभस्थलमौक्तिकजातिकान् ।
इत्युक्त्वा सह नीत्वैनं विप्रं हंसो ह्यरण्यके ॥६९॥
ययौ यत्रास्ति सिंहः सः सिंहं प्राह स हंसकः ।
अतिथिर्ब्राह्मणश्चायं पूजनीयः समागतः ॥७०॥
हिंसाजन्यं महत्पापं नश्येदस्मै प्रदानतः ।
इत्युक्तः शार्दूलवर्यः प्रक्षाल्य चरणौ ततः ॥७१॥
विप्रपादामृतं पीत्वा पुपूज रत्नदानकैः ।
विप्रो गृहं प्रयात्येव हंसस्तदाह तं द्विजम् ॥७२॥
आयाहि मा पुनस्त्वत्र माम् ऋते दुःखमुद्भवेत् ।
इत्युक्त्वा प्रययौ हंसस्ततः कालान्तरे द्विजः ॥७३॥
पुनर्लोभेन संप्राप्तस्तद्वनं संस्मरन् हरिम् ।
हंसो मन्त्री तदा नाऽभूत् काको मन्त्री तदा ह्यभूत् ॥७४॥
द्विजं प्रवीक्ष्य काकस्तु सिंहं प्राह प्रखादय ।
सिंहः प्राह न चैवं स्याद् विप्रोऽयं पावनः सदा ॥७५॥
पादवारि पपौ धूलीं मस्तके स न्यधात्तदा ।
काकः प्राह पवित्रं वै पादवारि तु यस्य हि ॥७६॥
स तु पूर्णः पवित्रोऽस्ति भक्षितव्यः स सर्वशः ।
तेन पूता वयं स्यामः पापं नश्येत्तथाऽऽन्तरम् ॥७७॥
इत्युक्तः सिंहराजस्तु भक्षयामास तं द्विजम् ।
तस्माल्लोभं न कुर्वीत मृत्युर्लोभगृहे स्थितः ॥७८॥
लोभं (यक्त्वा हरिं स्मृत्वा सन्तोषेण हि वर्तयेत् ।
सुखी स स्यादत्र लोके धाम्नि परत्र मे सुखी ॥७९॥
सन्तुष्टस्य परं धाम निश्चितं भक्तिसञ्जुषः ।
एकदा सागरः प्राह सरितः किमु शाखिनः ॥८०॥
आयान्त्येव जलोह्या वै नायान्ति वैतसानि तु ।
नद्यः प्राहुर्द्रुमाश्चैते कूलस्था अपि सर्वदा ॥८१॥
अस्मदभ्युदये चापि न नमन्ति कदाचन ।
तान् वयं मूलतो हृत्वा नयामः सागरोदरे ॥८२॥
वैतसीनालिकाः पूरे पतितास्तु नमन्त्यपि ।
विगते पूरवेगे तु शनैर्यान्ति समुत्थितिम् ॥८३॥
न तान् वयं नयामो वै नमतो नालपत्रकान् ।
ये नमन्ति जनाः काले महान्तं वेगिनं तु ते ॥८४॥
नाप्नुवन्ति मूलनाशं स्थितिमन्तो भवन्ति ते ।
एवं कालं तथा मायां वेगकाले नमन्ति ये ॥८५॥
शनैरुत्थानमासाद्य जीवन्ति देहिनस्त्विह ।
ते न दुःखं प्रपश्यन्ति तद्वद् वृत्यं जनैरिह ॥८६॥
मामाश्रित्य शनैर्मायां त्यक्त्वा गन्तव्यमेव मे ।
धाम दिव्यं सुखावासं सुस्थिराश्रयमेव ह ॥८७॥
देशकालौ विचार्यैव वर्तितव्यं सुखार्थिना ।
अहं नारायणः स्वामी भजनीयः सदा प्रभुः ॥८८॥
तारयामि न सन्देहो भजन्तं मां पदागतम् ।
मूर्खः क्रोडोऽभवत्पृष्ठे शृगालं धर्तुमेव ह ॥८९॥
अधावद् बहुवेगेन शृगालोऽवसरे तदा ।
कूपमुत्प्लुत्य चाक्रामत् परतीरं गतोऽभवत् ॥९०॥
क्रोडः स्थूलवपुर्धावन् वेगतः कूपगोऽभवत् ।
अपतज्जलमध्ये च ममाराऽज्ञानसंहतः ॥९१॥
तस्मान्नैव क्वचिद्भाव्यं वेगेन कर्मणा जनैः ।
शनैस्तरेद्धि संसारं मदाश्रयेण मानवः ॥९२॥
शृगालाभं लोभवेगं नाश्रयेन्मानवस्त्विह ।
दोषात्मकं महाधूर्तं पातयन्तं तु गर्तके ॥९३॥
कामं क्रोधं मदं लोभं मानं त्यक्त्वा सुखी भवेत् ।
मामीशं साधुपुरुषं साध्वीं श्रित्वा सुखी भवेत् ॥९४॥
एवमुक्त्वा ददौ मन्त्रं हरिः राज्ञे कुटुम्बिने ।
प्रजाभ्यश्च ददौ मन्त्रं लोमशस्तु निदेशितः ॥९५॥
हारिताभ्यः प्रजाभ्यश्च मन्त्रं ददौ महेश्वरः ।
ततो जलं प्रपीत्वैव भगवान् चाम्बरेऽभवत् ॥९६॥
गजादिभिः पुष्पहारैः पूजितः परमेश्वरः ।
आशीर्वादान् मुहुर्दत्वा निजं विमानमास्थितः ॥९७॥
अन्ये सर्वेऽभवन् व्योम्नि विमानेषु स्थितास्तदा ।
वाद्यान्यतीव वेगेनाऽवाद्यन्त माननाय वै ॥९८॥
जयशब्दा यशःशब्दा यन्त्राणां ध्वनयस्तथा ।
अभवँस्तत्र देशे वै हरिः शीघ्रं विमानकम् ॥९९॥
प्रैरयद् व्योममार्गेण केनाटकभुवं प्रति ।
समुल्लंघ्य समुद्रं वै केनाटकप्रदेशकान् ॥१००॥
आययुश्च विमानानि मध्याह्ने वेगवन्ति वै ।
देशान् जले विकीर्णांश्च दृष्ट्वाऽविचारयद्धरिम् ॥१०१॥
यज्ञस्थानं प्रथमं वै गन्तव्यं यत्र वर्तते ।
लालायनो महर्षिश्च ततोऽन्यत्कार्यमेव ह ॥१०२॥
अथ लालायनश्चापि स्मृत्वा विमानमण्डलम् ।
तूर्णं स्वागतनादाँश्च राजसैन्यैरकारयत् ॥१०३॥
हरिश्चापि द्विफेनाब्धिं द्विफेनद्वीपमेव च ।
हड्डिकासनमुल्लंघ्य विनिपारसरो ययौ ॥१०४॥
यत्र वाद्यानि वाद्यन्ते स्वागतार्थं हरेस्तदा ।
असंख्यमानवा यत्र प्रतीक्षन्ते परेश्वरम् ॥१०५॥
राधिके हर्षनादाश्चाभवन् दिगन्तगामिनः ।
दूरदर्शादिभिर्लोका व्यपश्यन्नम्बरे तदा ॥१०६॥
तूपशब्दाः कर्कशाश्च वायुकम्पनकारिणः ।
तूर्यसंगीतघोषाश्चाऽभवन् सम्मानने हरेः ॥१०७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने दिनमानार्कनृपस्य गरिमाखण्डे हरेरपरानाविकापुर्यामवतरणं भ्रामणं पूजनं भोजनं विश्रमणं समन्ततो देशे विमानेन गमनं रात्रौ विश्रान्त्युत्तरं प्रातर्भोजनं प्रस्थानं केनाटकप्रदेशेषु विनिपारसरोवरं प्रत्यागमनं चेति निरूपणनामा द्विशततमोऽध्यायः ॥२००॥


References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP